Darpadalana · अध्याय 2
धनेन दर्पः किमयं नराणां लक्ष्मीकटाक्षाञ्चलचञ्चलेन
यत्कंधराबद्धमपि प्रयाति नैकं पदं कालगतस्य पश्चात् ॥
सुरक्षितं तिष्ठति निर्निमित्तम् अरक्षितं तिष्ठति दैवयोगात्
स्थितं कदर्यस्य च चोपयुक्तम् उन्मत्तनृत्तोपममेव वित्तम् ॥
कर्मोक्तिनर्मनिर्माणैः प्रातः प्रातः प्रधावताम्
धनं धनं प्रलपतां निधनं विस्मृतं नृणाम् ॥
विच्छाययोर्निर्व्यययोः कष्टक्लिष्टकलत्रयोः
विशेषः क्लेशदोषस्य कः कदर्यदरिद्रयोः ॥
ये धनादानसंनद्धा नेक्षन्ते निधनावधिम्
निन्दन्तो लुब्धतां तेषाम् अन्ते ऽन्ये भुञ्जते धनम् ॥
उक्तं परस्यामिषताम् अनुक्तं यात्यदृश्यताम्
हृदये शल्यतां धत्ते निधने धनिनां धनम् ॥
धनेन जीवितेनेव कण्ठस्थेन निरीक्षते
पर्यन्ते ऽप्यप्रकाशेन बन्धूनां मुखमातुरः ॥
यदर्जितं परिक्लेशैर् अर्जितं यन्न भुज्यते
विभज्यते यदन्ते ऽन्यः कस्यचिन्मास्तु तद्धनम् ॥
विद्या विवादाय धनं मदाय प्रज्ञाप्रकर्षः परवञ्चनाय
अत्युन्नतिर्लोकपराभवाय येषां प्रकाशस्तिमिरं हि तेषाम् ॥
अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरैर् गतच्छायः कायश्चिरविरसरूक्षाशनतया
अनिद्रा मन्दो ऽग्निर्नृपसलिलचौरानलभयात् कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ॥
श्रावस्त्यां सार्थवाहो ऽभूद् अर्थनाथ इवापरः
नन्दो नाम निरानन्दः कीर्तनेनार्थिनामपि ॥
स कदर्यः सदा सर्व जनस्योद्वेगदुःसहः
मूर्धशायी निधानानां कालव्याल इवाभवत् ॥
कृत्वा समस्तं दिवसं धनानां निधानकुम्भीगणनाविधानम्
स लाजपेयापलमानशीलम् अश्नाति रात्रावुदरं सशूलम् (?) ॥
निर्व्यञ्जनं निर्लवणं विनष्टम् अमृष्टपाकं विनिविष्टकष्टम्
अदृष्टहासं व्ययसंनिरोधात् तस्याभवद्वेश्म सशोकमूकम् ॥
विच्छायं निःसुखानन्दं निर्दीपं जलवर्जितम्
तस्य कष्टं कदर्यस्य परलोकमभूद्गृहम् ॥
स भक्तसंचये नित्यम् अभक्तः संततामयैः
सुवर्णवान्विवर्णो ऽभूत् संपूर्णश्चिन्तया कृशः ॥
पुण्यप्राप्या मतिर्नाम धनर्द्धिरिव रूपिणी
भार्याभूत्तदयोग्यस्य तस्य दैवविपर्ययात् ॥
सदा प्रच्छाद्य सा भर्तुश् चकारातिथिसत्क्रियाम्
तेन व्ययविवादेषु शोषिता कलहाग्निना ॥
तस्यां तस्याभवत्सूनुः सगुणश्चन्दनाभिधः
पित्रा लोभान्धकारेण नीतः पद्म इवान्यताम् ॥
कदाचित्स्वगृहद्वारि दृष्ट्वा लब्धान्नमर्थिनम्
चकार कलहं नन्दः पत्न्या शोणितपातनम् ॥
सो ऽवदत्कोपदष्टौष्ठः श्वसन्भार्यामधोमुखीम्
तत्स्पर्सपापं स्तनयोः क्षालयन्तीमिवाश्रुभिः ॥
मम दास्यति को भिक्षां त्वत्पाणिक्षीणसंपदः
दारिद्र्यजननी यस्य स्थिता त्वं दुर्भगा गृहे ॥
स्त्रियो यत्र प्रगल्भन्ते भर्तुराच्छाद्य कर्तृताम्
गृहं भवत्यवश्यं तद् आस्पदं परमापदाम् ॥
गृहमेकं गृहस्थस्य गृहाणां शतमर्थिनः
भार्याभर्जितवित्तस्य नष्टा गृहपतेर्गतिः ॥
तृप्तिदं दर्शनेनापि जन्तोर्जीवितजीवितम्
द्रविणं येन रक्षन्ति स्वकायं भक्षयन्ति ते ॥
जीवन्नप्यक्रियो निःस्वः शवो ऽप्यर्थेन सक्रियः
दारिद्र्यं मरणं लोके धनमायुः शरीरिणाम् ॥
एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते
यत्स्कन्धबन्धे जीवद्भिः शवः शिबिकयोह्यते ॥
प्रयच्छसि किमर्थिभ्यस् त्वमन्नं क्लेशसंचितम्
दीयते यत्किल प्राप्त्यै तत्प्राप्तं किं न रक्ष्यते ॥
पुत्रदारादिसंबन्धः पुंसां धननिबन्धनः
क्षीणात्पुत्राः पलायन्ते दारा गच्छन्ति चान्यतः ॥
पण्डिताः कवयः शूराः कलावन्तस्तपस्विनः
वैद्यस्येव सवित्तस्य वीक्षन्ते मुखमातुराः ॥
इति तस्य वचः श्रुत्वा कृपणस्यार्थनिष्कृपम्
सा तमूचे समुचितं सत्त्वस्याभिजनस्य च ॥
सन्तः कुर्वन्ति यत्नेन धर्मस्यार्थे धनार्जनम्
धर्माचारविनीनानां द्रविणं मलसंचयः ॥
यत्करोत्यरुचिं क्लेशं तृष्णं मोहं प्रजागरम्
न तद्धनं कदर्याणां हृदयव्याधिरेव तत् ॥
वर्धते यो धनव्याधिः सुखभोगवियोगकृत्
तस्याशु शमनं पथं राजवैद्यचिकित्सया ॥
लोभान्नाभूद्गृहे यस्य कदाचित्कश्चिदुत्सवः
नृत्यन्ति पटहैस्तस्य निधने धनभागिनः ॥
कणाचामतुषाङ्गारान् यत्नेन परिरक्षसि
मूषकापहृतं कोषे रत्नराशिं न पश्यसि ॥
धनेन दर्पः को नाम यत्क्षणेन विनश्यति
रक्ष्यमाणं व्ययेनैव भक्ष्यमाणमुपप्लवैः ॥
विचार्यमाणस्तत्त्वेन दैवाधीनतया नृणाम्
न कस्यांचिदवस्थायां धनलोभः प्रशस्यते ॥
कलौ काले खले मित्रे पुत्रे दुर्व्यसनान्विते
तस्करेषु प्रवृद्धेषु लुब्धे राज्ञि धनेन किम् ॥
ऋणिकैः कलहैर्नित्यम् अच्छिन्नगुणनागतेः
दानद्विषो ऽनपत्यस्य मन्दाग्नेश्च धनेन किम् ॥
सहसासादितार्थस्य राजद्रोहादिपातकैः
भयादव्ययशीलस्य शल्येनेव धनेन किम् ॥
घोरप्रतिग्रहग्राम ग्रस्तोदग्रगुणौजसः
तद्विभागानभिज्ञस्य धूर्ताप्तस्य धनेन किम् ॥
रात्रिसेवावसन्नस्य शीतवातातपस्थितेः
प्रभुदृष्टिप्रहृष्टस्य कष्टार्हस्य धनेन किम् ॥
प्रभूतलाभलोभेन प्रयुक्तार्थस्य सर्वतः
भूर्जदृष्टेन तुष्टस्य नष्टबुद्धेर्धनेन किम् ॥
मलशीलस्य वणिज स्थूत्कृतस्य जुगुप्सया
लशुनस्याशुचेः पाक गन्धेनेव धनेन किम् ॥
काङ्क्षितेनाप्यलब्धेन भोगार्हे नवयौवने
जराजीर्णशरीरस्य भारेणेव धनेन किम् ॥
प्रव्रज्यात्यक्तगेहस्य जनगौरवपूजया
धनसंघटितार्थस्य बन्धेनेव धनेन किम् ॥
शिशोरङ्कुशशून्यस्य पातितस्यापथे विटैः
क्षणक्षयोपयोगेन स्वप्नेनेव धनेन किम् ॥
भार्यया स्वैरचारिण्या ग्रामस्थस्य नियोगिनः
प्रसभं भुज्यमानेन पापाप्तेन धनेन किम् ॥
शिष्यसंपादिताशेष भोगवस्त्रादिसंपदः
गुरोर्दम्भेन सिद्धस्य संचितेन धनेन किम् ॥
राजकोषनियुक्तस्य चौर्यचिह्नेन केवलम्
व्ययेन शङ्कनीयस्य वधेनेव धनेन किम् ॥
अज्ञातभाविचौरादि दोषैर्नित्यविनाशिना
हास्यैकहेतुना लोके गणकस्य धनेन किम् ॥
पिटकस्येव पूर्णस्य पीडनीयस्य भूभुजा
निष्पाकशाकभोज्यस्य ग्रामीणस्य धनेन किम् ॥
कलमाक्रान्तविश्वस्य मषीकृष्णस्य भोगिनः
आसन्नबन्धनस्यान्ते दिविरस्य धनेन किम् ॥
गृहिणीविग्रहोग्रस्य मुहुस्तृण उपेक्षया (?)
कोपोपवासनिःश्वास संतप्तस्य धनेन कि ॥
मलिनस्य कुवस्त्रस्य स्वल्पाशनपरस्य च
दारिद्र्याधिककष्टस्य कदर्यस्य धनेन किम् ॥
निर्धनाः सुखिनो दृष्टाः सधनाश्चातिदुःखिताः
सुखदुःखोदये जान्तोर् दैवाधीने धनेन किम् ॥
समानेषु व्यतीतेषु स्वजने शून्यचेतसः
विरसासारसंसार विरक्तस्य धनेन किम् ॥
यथावाप्तोपयुक्तार्थ निश्चिन्तस्य विपश्चितः
अत्यल्पपरितुष्टस्य संतुष्टस्य धनेन किम् ॥
बालस्तृणे च कनके च समानदृष्टिर् इष्टं न वेत्ति विषयेष्वविशेषबुद्धिः
वित्तेन कोषपरिपोषसहेन तस्मिन् काले विवेकविकलो वद किं करोति ॥
प्राणाधिकस्य सुहृदस्तरुणीजनस्य पुत्रस्य वा गुणनिधेः सहसा वियोगे
शोकेन शोचति यदा विवशः शरीरी रत्नाचलैरपि तदा वद किं करोति ॥
नार्थं शृणोति न पुनः स्थितिमीहते वा स्पर्शं न वेत्ति न रसं न तथाधिवासम्
वृद्धः प्रयाति पवनेन यदा जडत्वं भोगैर्धनेन च तदा वद किं करोति ॥
रोगार्दितः स्पृशति नैव दृशापि भोज्यं तीव्रव्यथः स्पृहयते मरणाय जन्तुः
सर्वौषधेषु विफलेषु यदा विरौति धान्यैर्धनेन च तदा वद किं करोति ॥
निद्राच्छेदसखेदबान्धवजनः सोद्वेगवैद्योज्झितः पाकक्वाथकदर्थितः परिजनैस्तन्द्रीभयात्क्षोभितः
भग्नस्वास्थ्यमनोरथः प्रियतमावष्टब्धपादद्वयः पर्यन्ते वपुषः करोति पुरुषः किं शल्यतुल्यैर्धनैः ॥
अलंकृतः काञ्चनकोटिमूल्यैर् महार्हरत्नैर्गजवाजिवाहैः
निमेषमात्रं लभते न जीवं कालेन काले शिखया गृहीतः ॥
निश्चेतनः काष्ठसमानकायस् त्यक्तः क्षणात्पुत्रकलत्रमित्रैः
भुभाशुभप्राक्तनकर्मभागी यत्नाप्तरत्नैर्वद किं करोति ॥
तस्मात्प्रभूतविभवोद्भवविभ्रमेण भूताभिभूत इव मा भव साभिमानः
एताः श्रियः प्रबललोभघनान्धकार विद्युल्लतापरिचिताः सहसैव यान्ति ॥
नष्टे लज्जितवित्तनाथविभवे साम्राज्यभोगे पुरा श्रूयन्ते नलरामपाण्डुतनयाः कष्टं प्रविष्टा वनम्
शक्रः श्रीविरहे विवेश नलिनीनालान्तरलं ह्रिया कस्यास्था विविधावधानविधिना निःसंनिधाने धने ॥
इत्युक्तो ऽप्यसकृत्पत्न्या स्वलोभान्न चचाल सः
स्वभावः सर्वभूतानां सहजः केन वार्यते ॥
ततः स काले लोभेन भिषग्भैषज्यवर्जितः
कोषे निधानकुम्भेषु लीनपृष्टो व्यपद्यत ॥
अदत्तभुक्तमुत्सृज्य धनं सुचिररक्षितम्
मूषका इव गच्छन्ति कदर्याः स्वक्षये क्षयम् ॥
तस्य यातस्य निरयं निनाय नृपतिर्धनम्
पर्यन्ते राजगामिन्यो लुब्धानां धनसंपदः ॥
तत्सूनोश्चन्दनस्याथ शेषार्थेनापि भूयसा
बभूव भूरिसंभार भोगव्ययमहोत्सवः ॥
मा कश्चिन्नाम नन्दस्य मन्दाग्नेरिह भाषताम्
भोगभङ्गभयेनेति प्रातस्तत्राबवीज्जनः ॥
धिग्धिग्धनं कुनिधनं नन्दस्येवात्मबाधनम्
दीयतां भुज्यतां सर्वम् इत्यूचुः पुरवासिनः ॥
ततः काले मते बाह्य कोष्ठद्वारान्तवासिनी
वृद्धान्धा सुषुवे पुत्रं चण्डाली खण्डिकाभिधा ॥
अन्धः कुब्जः कृशः खञ्जः कुष्ठी स्थूलगलग्रहः
समूह इव दुःखानां स तस्यास्तनयो ऽभवत् ॥
तदपुण्यैः परिक्षीणे मातुः क्षीरे स निश्चलः
कृपया बान्धवस्त्रीभिः शुनीक्षीरेण वर्धितः ॥
एतदेव विरुद्धानां वैचित्र्यं पूर्वकर्माणाम्
कृच्छ्रावसन्ना जीवन्तिं विपद्यन्ते यदीश्वराः ॥
व्रणैः स पूतिकलिल क्लाम्यत्कृमिकुलैर्वृतः
पक्वणे कुणपाकारस् तस्थौ क्लिन्नतृणास्तरे ॥
तस्मिन्नप्यतिवात्सल्यात् पुत्रास्थां जननी स्थिराम्
बबन्ध वासनालीनः स्नेहमोहो हि दुःसहः ॥
स वर्धमानः शनकैः स्मशानाङ्गारधूसरः
पक्वणोग्रपिशाचानाम् अप्युद्वेगकरो ऽभवत् ॥
यष्टीनिषण्णगमनः कुष्टक्लेदजुगुप्सितः
स जगाम पथा येन प्रययौ तेन नापरः ॥
अत्रान्तरे चन्दनस्य पितुः श्राद्धदिने महान्
बभूवार्थिसमूहान्न दाने कलकलस्वनः ॥
ततः कर्परमादाय स चण्डालशिशुः शनैः
आचामयाचकः कृच्छ्राद् द्वाराग्रभुवमाययौ ॥
तं दृष्ट्वा चन्दनः सौधाद् विप्राणां मार्गदूषणम्
निवार्यतामयं प्राप्तस् तूर्णमित्यवदत्क्रुधा ॥
प्रभुभ्रूभङ्गभीतेन लगुडेनाहतस्ततः
द्वारपालेन सावर्तः स कपोत इवाभवत् ॥
स निर्भिन्नललाटास्थि प्रक्षरत्क्षतजोक्षितः
क्षणं संमूर्च्छितः प्राप क्लेशभोगाय जीवितम् ॥
अदूरवर्तिनी श्रुत्वा चण्डाली तद्यथारवम्
उपसृत्य शुशोचार्ता स्पृशन्ती तस्य शोणितम् ॥
केन निष्करुणेनेदं दर्शितं बत पौरुषम्
प्रक्लिन्नकायविकले येनास्मिन्सुभटायितम् ॥
कायापापमयीं दुःख दशां दृष्ट्वास्य दुःसहाम्
वैराग्यावसरे केन क्रौर्यमेवंविधं कृतम् ॥
आर्तिमेवंविधामस्य हृदयक्लेदिनीमिमाम्
विलोक्य कुर्यात्कः पापं पापं हि पदमापदाम् ॥
यद्यनेन महत्पापं न कृतं पूर्वजन्मनि
तदुच्यतां स्फुरत्कष्टा दृष्टा कस्येदृशी दशा ॥
ये दृश्यन्ते विपत्क्लेश विशेषविषमव्यथाः
त एव गुरवः पाप वापस्य (?) करणे नृणाम् ॥
करुणार्हेषु शूराणाम् उपकारिषु वैरिणाम्
वञ्चकानामपापेषु पापसंख्यां करोति कः ॥
तारं रोदिषि किं पुत्र सहस्वाघातजां रुजम्
अशर्मकर्मनिर्माणं मर्मच्छेदि शरीरिणाम् ॥
इति तस्यां प्रलापिन्यां प्रेक्षवाप्ते जने जिनः
अनाथबन्धुः करुणा सिन्धुस्तेनाययौ पथा ॥
भवभ्रमासक्तपरिश्रमाणां रागादिदोषैरुपतापितानाम्
आश्वासनेनामृतसोदरेण लिम्पन्निव द्यां द्युतिचन्दनेन ॥
दृष्ट्वा तमापद्गतमुग्ररोग भग्नं निमग्नं व्यसने विविग्नम्
व्यलम्बतार्द्रः करुणारसेन तत्तापशान्त्यै भगवाञ्जिनेन्द्रः ॥
तत्संनिधानेन मुहूर्तमात्रं स निर्व्यथः स्वास्थ्यमिवाससाद
निहन्ति पापं कुशलं प्रसूते संदर्शनं सत्त्वहिताशयानाम् ॥
ज्ञात्वाथ चन्दनः प्राप्तं भगवन्तं तथागतम्
विकसत्कुसुमस्मेरं पूजामादाय निर्ययौ ॥
भगवानपि साश्चर्य प्रभावादुद्गतं भुवः
हैमं कमलमारुह्य तस्थौ पर्यङ्कलीलया ॥
प्रणतं चरणालीनं पूजाव्यग्रकरं पुरः
बभाषे भगवान्प्रीतो भिक्षुसंसदि चन्दनम् ॥
किमयं याचमानो ऽपि वराकस्ताडितः क्रुधा
कृतं न कृपणे कस्मात् करुणाकोमलं मनः ॥
दयार्द्राः सर्वसत्त्वेषु भवन्ति विमलाशयाः
एवंविधानां दुःखानां कारणं कलुषं मनः ॥
कृतक्रूरापकारेषु विद्वेषपरुषेष्वपि
भवन्ति सन्तः क्लेशोष्म शोषितेषु न कर्कशाः ॥
क्लिष्टः कष्टं कदर्यो ऽयं लोभेनापरजन्मनि
अप्रदानोद्यतेनाद्य कायक्लेशेन पीडितः ॥
एष नन्दस्तव पिता पूर्णार्थमलसंचयात्
आवृतः पापरोगेण चण्डालत्वमुपागतः ॥
जन्मान्तरे ऽप्यतो ऽन्यस्मिन् रोगयोगान्मुमूर्षणा
सुवर्णं दत्तमेतेन तेनायं सधनो ऽभवत् ॥
अन्त्यक्लेशदशायां यन् मुमूर्षुः संप्रयच्छति
तच्चाभोग्यं भवत्यस्य लोभादन्येषु जन्मसु (?) ॥
दत्त न वित्तं करुणानिमित्तं लोभप्रवृत्तं कृतमेव चित्तम्
यैः संचयोसाहरसैः प्रनृत्तं शोचन्ति ते पातकमात्मवृत्तम् ॥
इत्युक्त्वा भगवान्पुण्यां विदधे धर्मदेशनाम्
यया क्लेशप्रहाणार्हम् अर्हत्त्वं प्राप चन्दनः ॥
तस्मान्न दर्पः पुरुषेण कार्यः प्रवर्धमानेन धनोदयेन
अदानभोगोपहतं हि वित्तं पुंसां परत्रेह च दुर्निमित्तम् ॥
मूल पाठ: Darpadalana · Edition: Durgaparasad and Kashinath Pandurang Parab, Bombay 1890, Kâvyamâlâ : a Collection of Old and Rare Sanskrit Kâvyas ... [= 'collective' Kavyamala series], Part VI, pp. 66-118. · Data entry members of the Rasala team · GRETIL (Göttingen) · CC BY-NC-SA 4.0