भाषा

ENहिગુ
ग्रंथ पाठ

Darpadalana · अध्याय 1

1.1

प्रशान्ताशेषविघ्नाय दर्पसर्पापसर्पणात्
सत्यामृतनिधानाय स्वप्रकाशविकासिने ॥

1.2

संसारव्यतिरेकाय हृतोत्सेकाय चेतसः
प्रशमामृतसेकाय विवेकाय नमो नमः ॥

1.3

क्षेमेन्द्रः सुहृदां प्रीत्या दर्पदोषचिकित्सकः
स्वास्थ्याय कुरुते यत्नं मधुरैः सूक्तिभेषजैः ॥

1.4

कुलं वित्तं श्रुतं रूपं शौर्यं दानं तपस्तथा
प्राधान्येन मनुष्याणां सप्तैते मदहेतवः ॥

1.5

अहंकाराभिभूतानां भूतानामिव देहिनाम्
हिताय दर्पदलनं क्रियते मोहशान्तये ॥

1.6

कुलं कुलं कलयतां मोहान्मिथ्याभिमानिनाम्
लग्नः को ऽयं न जानीमः स्तब्धग्रीवाग्रहग्रहः ॥

1.7

कुलस्य कमलस्येव मूलमन्विष्यते यदि
दोषपङ्कप्रस्तान्तस् तदावश्यं प्रकाशते ॥

1.8

यथा जात्यतुरंगस्य न शक्यज्जात्य(?)मुच्यते
तथा गुणवतः सूनुर् निर्गुणस्तत्कुलोद्भवः ॥

1.9

एकश्चेत्पूर्वपुरुषः कुले यज्वा बहुश्रुतः
अपरः पापकृन्मूर्खः कुलं कस्यानुर्वर्तताम् ॥

1.10

लोके कुलं कुलं तावद् यावत्पूर्वसमन्वयः
गुणप्रभावे विच्छिन्ने समाप्तं सकलं कुलम् ॥

1.11

कुलाभिमानः कस्तेषां जघन्यस्थानजन्मनाम्
कुलकूलंकषा येषां जनन्यो निम्नगाः स्त्रियः ॥

1.12

कुलीनस्य कुलीनस्य नवदारिद्र्यलज्जया
किं कुलेनाकुलीनाग्रे याञ्चादैन्यप्रलापिनः ॥

1.13

गुणवत्कुलजातो ऽपि निर्गुणः केन पूज्यते
दोग्ध्रीकुलोद्भवा धेनुर् वन्ध्या कस्योपयुज्यते ॥

1.14

स्वयं कुलकृतस्तस्माद् विचार्य त्यज्यतां मदः
गुणाधीनं कुलं ज्ञात्वा गुणेष्वाधीयतां मतिः ॥

1.15

मूलान्वेषणचिन्त्यमानमनिशं नास्त्येव पुंसां कुलं स्त्रीणां यत्र परम्परैव तनुते संतानतन्तुक्रमम्
एतासां कृतकप्रपञ्चरचनालज्जावतीनां पुरः संसक्तस्मररूढगूढचरितं तत्त्वेन जानाति कः ॥

1.16

कुलाभिमानाभरणस्य माता पितामही वा प्रपितामही वा
योषित्स्वभावेन यदि प्रदुष्टा तदेष दोषः कुलमूलघातः ॥

1.17

सूर्यवंशे त्रिशङ्कुर्यश् चण्डालो ऽभून्महीपतिः
दिलीपरघुरामाद्याः क्षितिपास्तत्कुलोद्भवाः ॥

1.18

भूभुजां सोमवंश्यानां यः पूर्वपुरुषो बुधः
गुरुतल्पे स चन्द्रस्य जातो जगति विश्रुतः ॥

1.19

कन्यायास्तनयः कर्णः क्षेत्रजाः पाण्डुनन्दनाः
सामान्यकुलचर्चाभिः किमन्याभिः प्रयोजनम् ॥

1.20

मथुरायामभूत्पूर्वं ब्राह्मणः श्रीमतां वरः
यज्वा श्रुतनिधिर्नाम श्रुतिमान्विश्रुतश्रुतः ॥

1.21

तस्य मुक्तालता नाम प्रांशुवंशसमुद्भवा
बभूव वल्लभा पत्नी लावण्यललिताकृतिः ॥

1.22

तस्यां तस्याभवत्कान्तः सुवृत्तः सगुणाग्रणीः
पुत्रस्तेजोनिधिर्नाम विद्याविमलदर्पणः ॥

1.23

स धीमान्वेदविद्वादी कविः सर्वकलालयः
सभासु विदुषां चक्रे लज्जयावनतं शिरः ॥

1.24

तं दर्पदोषज्वरितं ग्रीवास्तम्भयुतं रहः
प्रशमाय पिता स्नेहात् पथ्यं वक्तुं प्रचक्रमे ॥

1.25

पुत्र मिथ्याभिमानेन किं प्रयातो ऽसि मूढताम्
यन्मदद्विरदारूढः पूज्यपूजासु लज्जसे ॥

1.26

नास्त्युपायः स संसारे दर्पश्वभ्रनिपातिनाम्
मूढानां क्रियते येन क्षनं हस्तावलम्बनम् ॥

1.27

कष्टं केनोपदिष्टस्ते विनष्टविनयस्मृतेः
मदः साधुजनाविष्टः कुलविद्याधनोद्भवः ॥

1.28

अस्थिरः कुलसंबन्धः सदा विद्याविवादिनी
मदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥

1.29

एतदेव कुलीनत्वम् एतदेव गुणार्जनम्
यत्सदैव सतां सत्सु विनयावनतं शिरः ॥

1.30

दयैव विदिता विद्या सत्यमेवाक्षयं धनम्
अकलङ्कविवेकानां शीलमेवामलं कुलम् ॥

1.31

अभोगसुभगा भूतिर् अदैन्यधवलं कुलम्
अदर्पविशदा विद्या भवत्युन्नतचेतसाम् ॥

1.32

द्वेषः कस्य न दोषाय प्रीतिः कस्य न भूतये
दर्पः कस्य न पाताय नोन्नत्यै कस्य नम्रता ॥

1.33

त्यागिना किं दरिद्रेण किं कुलीनेन पापिना
तुष्टेन किं कदर्येण दर्पान्धेन बुधेन किम् ॥

1.34

वैरायते सुहृद्भावः प्रदानं हरणायते
दर्पभूताभिभूतस्य विद्या मौर्ख्यशतायते ॥

1.35

गुणिनां मत्सरः शत्रुर् लुब्धानामतियाचकः
सर्व एव सदर्पाणां न कश्चित्प्रियवादिनाम् ॥

1.36

तस्मात्कार्यस्त्वया पुत्र नाहंकारः कदाचन
दर्पोद्ग्रीवः किलोग्रेण मोहग्राहेण गृह्यते ॥

1.37

वंशेनोन्नतिशालिना गुणगणेनान्तश्चमत्कारिणा रूपेणातिमनोहरेण महता वित्तेन वृत्तेन वा
रोहन्मोहमहातरुर्मदमयः संजायते यः सदा तस्यादौ दृढरूढमूलदलने कार्यो ऽभियोगस्त्वया ॥

1.38

गुणेष्वनादरं पुत्र प्राप्तश्रीरपि मा कृथाः
संपूर्णो ऽपि घटः कूपाद् गुणच्छिन्नः पतत्यधः ॥

1.39

कुलाभिमानं त्यज संवृत्ताग्रं धनाभिमानं त्यज दृष्टनष्टम्
विद्याभिमानं त्यज पण्यरूपं रूपाभिमानं त्यज काललेह्यम् ॥

1.40

पुत्र प्रयत्नेन विबोधितो ऽसि न मुञ्चसि त्वं यदि दर्पमोहम्
तदेष ते यास्यति शल्यभावं तीव्राभितापप्रसवो ऽभिमानः ॥

1.41

विभूतिनलिनीगजः सुजनमानभङ्गशनि निपातपथदैशिकः सुकृतचित्रधूमोद्गमः
पराशयनवज्वरश्चरितचन्द्रबिम्बाम्बुदः सदा समदचेतसां गुणविनाशहेतुर्मदः ॥

1.42

अनित्यतेयं यदि नित्यता स्यात् सर्वं न पाके विरसं यदि स्यात्
कुलार्थविद्यादिकृतो ऽभिमानस् तदैष ते स्यान्न विडम्बनीयः ॥

1.43

अहं वादी विद्यापरिचयगुरुः सर्वविदुषाम् अहं मानी वाणीप्रसरपरिपाकेन सुकविः
अहं लीलाहंसः कुवलयदृशां मानसचरः करोत्यन्तः पुंसामिति मदपिशाचः परिचयम् ॥

1.44

लक्ष्मीः क्षणक्षयवती परिरक्षितापि कायो ऽप्यपायनिचयस्य निकाय एव
संभोगयोगसुखसंगतिरप्यतथ्या मिथ्याभिमानकलनाघन एष शापः ॥

1.45

इत्युक्तो ऽप्यसकृत्पित्रा लीलामीलितलोचनः
स ययौ मत्तहस्तीव वेगादगणिताङ्कुशः ॥

1.46

पादेन क्षितिमालिखन्ति समदाः कोपोष्णनिःश्वासिनस् तिर्यग्जिह्मनिरीक्षणैर्विदधति भ्रूभङ्गभीमं मुखम्
सस्वेदाङ्गुलिकन्दलीनिकषणैस्ताम्यल्ललाटत्वचः कम्पन्ते हितमन्त्रवादसमये भूताभिभूता इव ॥

1.47

स कदाचिद्वराश्वेषु स्थितेषु जवकौतुकात्
प्रतस्थे खरमारुह्य वयस्यगृहमुत्सवे ॥

1.48

तेन तीक्ष्णप्रतोदेन चोद्यमानः पुनः पुनः
खरस्तीव्रव्यथार्तो ऽभूत् प्रक्षरत्क्षतजोक्षितः ॥

1.49

स्रुताक्षः कथितक्लेशः स्वस्वनोचितसंज्ञया
सो ऽवदत्संमुखायातां गर्दभीं जननीं निजाम् ॥

1.50

मातर्ब्राह्मणपुत्रो ऽयं पश्य मामधमाशयः
विदारयन्प्रतोदेन वहन्तं हन्तुमुद्यतः ॥

1.51

किं करोमि यमेनाहं लब्धो ऽनेन दुरात्मना
अवटे पातयाम्येनं तनुं श्वभ्रे क्षिपामि वा ॥

1.52

इत्यार्तराविणं पुत्रं साश्रुनेत्राथ गर्दभी
तमुवाच ससंतापं स्नेहसंक्रन्ततद्यथा ॥

1.53

वहैनं दुर्मदं पुत्र सहस्व विषमां व्यथाम्
अस्य नास्त्येव हृदये दारुणे करुणाकणः ॥

1.54

रौद्रः शूद्रेण जातो ऽयं ब्राह्मण्यां ब्रह्मवर्जितः
परदुःखं न जानाति चण्डं चण्डालचेष्टितः ॥

1.55

दयादरिद्रं हृदयं वचः क्रकचकर्कशम्
योनिसंकरजातानाम् एतत्प्रत्यक्षलक्षणम् ॥

1.56

नवनीतोपमा वाणी करुणाकोमलं मनः
एकबीजप्रजातानां भवत्यवनतं शिरः ॥

1.57

रटति कटुकाटोपं कोपादकारणवैरवान् स्पृशति न दयां दैन्यापन्ने विजातितया शठः
क्षणरसिकतालोलः सेवाश्रितानवमन्यते गुणिषु कुरुते गर्वोद्गारानखर्वगलः खलः ॥

1.58

इति दुःसहमाकर्ण्य गर्दभीवचनं द्विजः
सर्वप्राणिस्वनाभिज्ञः संमोहाभिहतो ऽपतत् ॥

1.59

स लब्धसंज्ञः सुचिरान् मेरुशृङ्गादिव च्युतः
तत्याज सहसा दर्पं नष्टाखिलकुलोन्नतिः ॥

1.60

संमूर्च्छितो विषेणेव स गत्वा मातुरन्तिकम्
यथाश्रुतं निवेद्यास्यै सर्वं पप्रच्छ तां रहः ॥

1.61

तनुत्यागप्रवृत्तेन पृष्टा सा तेन शापिता
अधोमुखी तमवदद् वैलक्ष्यलुलिताक्षरैः ॥

1.62

लज्जाकरमसत्कर्म कथं तत्कथयामि ते
संसारादपि साश्चर्यं गहनं स्त्रीविचेष्टितम् ॥

1.63

अपि कुञ्जरकर्णाग्राद् अपि पिप्पलपल्लवात्
अपि विद्युद्विलसिताद् विलोलं ललनामनः ॥

1.64

न बाध्यन्ते गुणैः पत्युर् न लक्ष्यन्ते परीक्षकैः
न धनेन निवार्यन्ते शीलत्यागोद्यताः स्त्रियः ॥

1.65

धनयौवनसंजात दर्पकालुष्यविप्लवाः
केनोन्नतपरिभ्रष्टा वार्यन्ते निम्नगाः स्त्रियः ॥

1.66

देहप्रदाः प्राणहरा नराणां भीरुस्वभावाः प्रविशन्ति वह्निम्
क्रूराः परं पल्लवपेशलाङ्ग्यो मुग्धा विदग्धानपि वञ्चयन्ति ॥

1.67

अहं पुर रजःस्नाता काले कुसुमुलाञ्छने
एकाकिनी पुष्पवने यौवनोन्मादिनी स्थिता ॥

1.68

व्रतदीक्षापरे पत्यौ सेर्ष्येव विनतानना
उन्नतस्तनविन्यस्त हस्ता चिरमचिन्तयम् ॥

1.69

एताः श्वसनसोत्कम्पाः सजृम्भाः षट्पदस्वनैः
सोत्कण्ठमिव गायन्ति लताः पुष्परजखलाः ॥

1.70

उद्भिन्नयौवनाक्रान्ता प्रियभोगवियोगिनी
व्रतशेषजुषः पत्युर् दोषेणैवास्मि निष्फला ॥

1.71

इति चिन्ताक्षणे तस्मिंल् लग्नाभिमुखदर्पणः
नापितः परिहासाख्यः शीलशत्रुरिवाययौ ॥

1.72

स मामेकाकिनीं दृष्ट्वा नष्टसंवृत्तिकातराम्
पस्पर्शोत्कम्पिनीं पाद नखग्रहणलीलया ॥

1.73

तत्राहं वृत्तकर्तव्या नीचसंगमलज्जया
अधोमुखी च्युतं शीलं वीक्षमाणेव मूर्च्छिता ॥

1.74

अविदूरे चरन्ती सा खरी सर्वं ददर्श तत्
गूढगर्भप्रदं चैतत् कर्म मे कुलपातकम् ॥

1.75

आस्तां किमनया पुत्र गुप्तवृत्तान्तचर्चया
संवृत्तान्येव शोभन्ते शरीराणि कुलानि च ॥

1.76

इति मातुर्वचः श्रुत्वा यातः स सहसान्धताम्
जातिमानावपतनान् निर्जीवित इवाभवत् ॥

1.77

अथ गत्वा निराहारः स कैलासाट्टाहासिनीम्
आशां ब्राह्मण्यबद्धाशश् चचार सुचिरं तपः ॥

1.78

तस्योग्रतपसा तुष्टः स्वयमेव शतक्रतुः
ब्राह्मण्यं याचमानस्य न ददौ दुर्लभं भुवि ॥

1.79

पुनः पुनः स तपसा संतापितजगत्त्रयः
सहस्राक्षवरात्प्राप देवत्वं न तु विप्रताम् ॥

1.80

छन्दोदेवाभिधानो ऽथ सो ऽभवद्भुवि विश्रुतः
प्रत्यब्दमेकदिवसे ह्य् अर्चनीयो मृगीदृशाम् ॥

1.81

संमोहपातालविशालसर्पस् तस्मान्न कार्यः कुलजातिदर्पः
शमक्षमादानदयाश्रयाणां शीलं विशालं कुलमामनन्ति ॥

1.82

माता न यस्यास्त्यविवेकराशिः पुनर्भवाब्धिर्जनको न यस्य
यस्य प्रसक्ता दयिता न तृष्णा स एव लोके कुशली कुलीनः ॥

मूल पाठ: Darpadalana · Edition: Durgaparasad and Kashinath Pandurang Parab, Bombay 1890, Kâvyamâlâ : a Collection of Old and Rare Sanskrit Kâvyas ... [= 'collective' Kavyamala series], Part VI, pp. 66-118. · Data entry members of the Rasala team · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc