भाषा

ENहिગુ
ग्रंथ पाठ

चित्तविशुद्धिप्रकरण · श्लोक 41-60

41

तव्दत्पात्रीकृतं चित्तं प्रज्ञोपायविधानतः ।
भुञ्जानो मुच्यते कामो मोचयत्यपरानपि

42

दुर्विज्ञैः सेवितः कामः कामो भवति बन्धनम् ।
स एव सेवितो विज्ञैः कामो मोक्षप्रसाधकः

43

प्रसिद्धं सकले लोके क्षीरं विषविनाशनम् ।
तदेव फणिभिः पीतं सुतरां विषवर्धनम्

44

जले क्षीरं यथाविष्टं हंसो पिबति पण्डितः ।
सविषान् विषायांस्तद्वद् भुक्त्वा मुक्तश्च पण्डितः

45

यथैव विधिवद्भुक्तं विषमप्यमृतायते ।
दुर्भुक्तं घृतपूरादि बालानान्तु विषायते

46

इदमेव हि यच्चित्तं शोधितं हेतुभिः शुभैः ।
निर्विकल्पं निरालम्बं भाति प्रकृतिनिर्मलम्

47

यथा वह्निः कृशोप्येष तैलवर्त्यादिसंस्कृतः ।
दीपो निर्मलनिष्कम्पः स्थिरस्तिमिरनाशनः

48

वटबीजं यथा सूक्ष्मं सहकारसमन्वितम् ।
शाखामूलफलोपेतं महावृक्षविधायकम्

49

हरिद्राचूर्णसंयोगाद्वर्णान्तरमिति स्मृतम् ।
प्रज्ञोपायसमायोगाद्धर्मधातुं तथा विदुः

50

घृतं च मधुसंयुक्तं समांशं विषतां व्रजेत् ।
तदेव विधिवद्भुइक्तमुत्कृष्टं तु रसायनम्

51

रसघृष्टं यथा ताम्रं निर्दोषं काञ्चनं भवेत् ।
ज्ञानशुद्ध्या तथा क्लेशाः सम्यक् कल्याणकारकाः

52

हीनयानाभिरूढानां मृत्युशङ्का पदे पदे ।
संग्रामजयचित्तस्तु दूर एव व्यवस्थितः

53

महायानाभिरूढस्तु करुणाधर्मवर्मितः ।
प्रज्ञातन्तुधनुर्बाणो जगदुड्वरणाशयः

54

महासत्त्वो महोपायः स्थिरबुद्विरतन्द्रितः ।
जित्वा दुस्तरसङ्ग्रामं तारयेदपरानपि

55

पशवो ऽपि हि क्लिश्यन्ते स्वार्थमात्रपरायणाः ।
जगदर्थविधातारो धन्यास्ते विरला जनाः

56

शीतवातादिदुःखानि सहन्ते स्वार्थलम्पटाः ।
जगदर्थप्रवृत्तास्ते न सहन्ते कथं नु ते

57

नारकाण्यपि दुःखानि सोढव्यानि कृपालुभिः ।
शीतवातादिदुःखानि कस्तान्यपि विचारयेत्

58

न कष्टकल्पनां कुर्यान्नोपवासेन च क्रियाम् ।
स्नानं शौचं न चैवात्र ग्रामधर्मं विवर्जयेत्

59

नखदन्तास्थिमज्जानः पितुः शुक्रविकारजाः ।
मांसशोणितकेशादि मातृशोणितसम्भवम्

60

इत्थमशुचिसम्भूतः पिण्डो यो ऽशुचिपूरितः ।
कथं संस्तादृशः कायो गङ्गास्नानेन शुध्यति

मूल पाठ: Cittaviśuddhiprakaraṇa · Edition: Prabhubhai Bhikhabhai Patel, Nagpur: Visva-Bharati, 1949. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc