चित्तविशुद्धिप्रकरण · श्लोक 61-80
न ह्यशुचिर्घटस्तोयैः क्षालितो ऽपि पुनः पुनः ।
तद्वदशुचिसम्पूर्णः पिण्डो ऽपि न विशुध्यति
प्रतरन्नपि गङ्गायां नैव श्वा शुद्धिमर्हति ।
तद्दद्वर्मधियां पुंसां तीर्थस्नानं तु निष्फलम्
धर्मो यदि भवेत्स्नानात्कैवर्तानां कृतार्थता ।
नक्तन्दिवं जलस्थानां मत्स्यादीनां तु का कथा
पापक्षयो ऽपि स्नानेन नैव स्यादिति निश्चयः ।
यतो रागादिवृद्धिस्तु दृश्यते तीर्थसेविनाम्
रागो द्वेषश्च मोहश्च ईर्ष्या तृष्णा च सर्वदा ।
पापानां मूलमाख्यातं नैषां स्नानेन शोधनम्
आत्मात्मीयग्रहादेते सम्भवन्तीह जन्मिनः ।
अविद्याहेतुकः सो ऽपि साविद्या भ्रान्तिरिष्यते
रौप्यबुद्धिर्यथा शुक्तौ शुक्तिदृष्टौ निवर्तते ।
नैरात्म्यदर्शनात्सापि निर्मूलमवसीदति
सर्पबुद्धिर्यथा रज्जौ रज्जुदृष्टौ निवर्तते ।
सर्पबुद्धिः पुनस्तत्र नैव स्यादिह जन्मनि
सत्त्वबुद्धिस्तथात्रापि वज्रज्ञानान्निवर्तते ।
न भावः सम्भवेत्तत्र दग्धबीज इवाङ्कुरः
नैरात्म्यशुचिसङ्गातः पिण्डः प्रकृतिनिर्मलः ।
तस्य सन्तापने धर्मः कष्टं बालैर्विकल्पितः
चन्द्रोदयव्ययञ्जापि अपेक्ष्य तिथिकल्पना ।
सूर्योदयव्ययेनापि दिवारात्रिव्यवस्थितिः
पूर्वादिव्यवहारो ऽपि कल्पनापेक्षया कृतः ।
ग्रहनक्षत्रराश्यादि सर्वलोकैर्विकल्पितम्
शीतोष्णवर्षणापेक्षा तथैव ऋतुकल्पना ।
स्वकर्मफलभोगो ऽयं शुभाशुभग्रहोदितः
अविद्याकर्दमालिप्तं चित्तचिन्तामणिं पुमान् ।
प्रवृत्तः क्षालितुं विद्वान् को ऽविद्यां वृंहयेत्पुनः
न ग्रहतिथिनक्षत्रदेशकालाद्यपेक्षणम् ।
विहरेन्निर्विकल्पस्तु निर्निमित्तमशङ्कितः
यद्यदिन्द्रियमार्गत्वं यायात्तत्तत्स्वभावतः ।
सुसमाहितयोगेन सर्वं बुद्धमयं वदेत्
चक्षुर्वैरोचनो बुद्धः श्रवणं वज्रसूर्यकः ।
घ्राणं च परमाश्वस्तु पद्मनर्तेश्वरो मुखम्
कायः श्रीहेरुको राजा वज्रसत्त्वश्च मानसम् ।
एवं सम्यक् सदा योगी विचरेत्करुणात्मकः
सिद्धान्ती निर्विकल्पो ऽसौ स्थिरकल्पस्तु धीधनः ।
यथेष्टचेष्टाव्यापारः सर्वभुक् सर्वकृत्तथा
सर्वकामक्रियाकारी यथारुचितचेष्टितः ।
उत्थितो वा निषणो वा चङ्क्रमन्वा स्वपंस्तथा
मूल पाठ: Cittaviśuddhiprakaraṇa · Edition: Prabhubhai Bhikhabhai Patel, Nagpur: Visva-Bharati, 1949. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0