चित्तविशुद्धिप्रकरण · श्लोक 21-40
विचिन्त्य समयं सर्वं देवतापूजनाविधिम् ।
शुद्धमालोक्य निःशङ्कं भोक्तव्यं मन्त्रचोदितम्
शोध्यं बोध्यं तथा दीप्यमक्षरत्रययोगतः ।
अङ्गुष्ठानामिकाग्राभ्यां प्रीणयेच्च तथागतान्
यत्सत्यमिति बालानां तन्मिथ्या खलु योगिनाम् ।
गच्छन्नन्तमनेनैव न बद्धो न च मुच्यते
संसारं चैव निर्वाणं मन्यन्ते ऽतत्त्वदर्शिनः ।
न संसारं न निर्वाणं मन्यन्ते ऽतत्त्वदर्शिनः
विकल्पो हि महाग्राहः संसारोदधिपातकः ।
अविकल्पा महात्मानो मुच्यन्ते भवबन्धनात्
शङ्काविषेण बाध्यन्ते विषेणेव पृथग्जनाः ।
तामेवोत्खात्य निर्मूलं विचरेत्करुणात्मकः
यथैव स्फटिकः स्वच्छः पररागेण रज्यते ।
तथैव चित्तरत्नं तु कल्पनारागरञ्जितम्
प्रकृत्या कल्पनारागैर्विविक्तं चित्तरत्नकम् ।
आदिशुद्धमनुत्पन्नं निःस्वभावमनाविलम्
तत्तद्यत्नेन कर्तव्यं यद्यद्बालैर्विगर्हितम् ।
स्वाधिदैवतयोगेन चित्तनिर्मलकारणात्
रागाग्निविषसंमुग्धा योगिनां शुभचेतसा ।
कामिताः खलु कामिन्यः काममोक्षफलावहाः
यथा स्वगरूडं ध्यात्वा विषमाकृष्य संपिबन् ।
करोति निर्विषं साध्यं न विषेणाभिभूयते
द्वादशयोजनव्यासं चक्रं वै शिरसि भ्रमत् ।
बोधिचित्तं समुत्पाद्य अपनीतमिति श्रुतिः
बोधिचित्तं समुत्पाद्य सम्बोधौ कृतचेतसा ।
तत्रास्ति यन्न कर्तव्यं जगदुद्वरणाशया
आदिशुद्धमनुत्पन्नं निःस्वभावमनाविलम् ।
जगद्भावेन सम्पश्यन्न बद्धो न च मुच्यते
विचिन्त्य विधिवद्योगी देवतागुणविस्तरम् ।
रज्यते रागचित्तेन रागभोगेण मुच्यते
किं कुर्मः कुत्र वै लभ्या विचित्रा भावशक्तयः ।
विषाक्रान्तो यथा कश्चिद्विषेणैव तु निर्विषः
कर्णाज्जलं जलेनैव कण्टकेनैव कण्टकम् ।
रागेणैव तथारागमुद्वरन्ति मणीषिणः
यथैव रजको वस्त्रं मलेनैव तु निर्मलम् ।
कुर्याद्विज्ञस्तथात्मानं मलेनैव तु निर्मलम्
यथा भवति संशुद्धो रजोनिर्घृष्टदर्पणः ।
सेवितस्तु तथा विज्ञैर्दोषो दोषविनाशनः
लोहपिण्डो जले क्षिप्तो मज्जत्येव तु केवलम् ।
पात्रीकृतो स एवान्धं तारयेत्तरति स्वयम्
मूल पाठ: Cittaviśuddhiprakaraṇa · Edition: Prabhubhai Bhikhabhai Patel, Nagpur: Visva-Bharati, 1949. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0