भाषा

ENहिગુ
ग्रंथ पाठ

चरक संहिता (टीका सहित) · भाग 81100

क्षारे लावण इति ज्योतिष्मत्याः क्षारे ॥ 2
साधयेद् इति निर्वापयेत् ॥ 3
लौहानामित्यनेनैव लोहान्तर्निविष्टयोः सुवर्णरजतयोर् ग्रहणे सिद्धे पुनस् तयोर् वचनं तयोर् विशेषेणादरोपदर्शनार्थम् ॥ 4
रसायनप्रभावाद् एव महाधनत्वम् इति ज्ञेयम् ॥ 5]
ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला ।
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषं घृतम् ॥ चर्_6,1.3.24
एषां त्रियवकान् भागान् हेमसर्पिर्विषैर् विना ।
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्य च ॥ चर्_6,1.3.25
सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत् ।
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नं प्रशस्यते ॥ चर्_6,1.3.26
जराव्याधिप्रशमनं स्मृतिमेधाकरं परम् ।
आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम् ॥ चर्_6,1.3.27
परमोजस्करं चैतत्सिद्धमैन्द्रं रसायनम् ।
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक् ॥ चर्_6,1.3.28
श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च ।
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः ॥ चर्_6,1.3.29
[{आयुर्वेददीपिका}
मत्स्याख्यको मच्छु इति लोके ख्यातः अन्ये तु ऐन्द्रीभेदं मत्स्याख्यकम् आहुः ॥ 1
त्रियवकानिति त्रियवप्रमाणान् ॥ 2
घृतप्रभूतम् इत्यन्नविशेषणम् ॥ 3
कृत्या अभिचारः ॥ 4]
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम् ।
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ॥ चर्_6,1.3.30
आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि ।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी ॥ चर्_6,1.3.31
[{आयुर्वेददीपिका}
मण्डूकपर्ण्या इत्यादयश् चत्वारो योगाः ॥ 1]
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा ।
रसायनगुणान्वेषी समामेकां प्रयोजयेत् ॥ चर्_6,1.3.32
तिस्रस्तिस्रस्तु पूर्वाह्णं भुक्त्वाग्रे भोजनस्य च ।
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः ॥ चर्_6,1.3.33
प्रयोज्या मधुरसम्मिश्रा रसायनगुणैषिणा ।
जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान् ॥ चर्_6,1.3.34
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम् ।
वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम् ॥ चर्_6,1.3.35
[{आयुर्वेददीपिका}
पञ्चेत्यादौ संख्याव्यतिक्रमेणानुक्तसंख्यानाम् अपि पिप्पलीनाम् उपयोगं सूचयति ॥ 1
यदापि त्रीणि द्रव्याणि नात्युपयुञ्जीत पिप्पलीं क्षारं लवणम् इत्युक्तं तथापीह द्रव्यान्तरसंयुक्तानां पिप्पलीनाम् अभ्यासो न विरुद्धः किंवा उक्तपिप्पलीरसायनव्यतिरेकेणोत्सर्गापवादन्यायात् स निषेधो ज्ञेयः ॥ 2
किंशुकः पलाशः ॥ 3]
क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम् ।

वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः ॥ चर्_6,1.3.36
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा ।
पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम् ॥ चर्_6,1.3.37
पिष्टास् ता बलिभिः सेव्याः शृता मध्यबलैर् नरैः ।
चूर्णीकृता ह्रस्वबलैर् योज्या दोषामयान् प्रति ॥ चर्_6,1.3.38
दशपैप्पलिकः श्रेष्ठो मध्यमः षट् प्रकीर्तितः ।
प्रयोगो यस् त्रिपर्यन्तः स कनीयान् स चाबलैः ॥ चर्_6,1.3.39
बृंहणं स्वर्यम् आयुष्यं प्लीहोदरविनाशनम् ।
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम् ॥ चर्_6,1.3.40
जरणान्ते ऽभयाम् एकां प्राग्भुक्ताद् द्वे विभीतके ।
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च ॥ चर्_6,1.3.41
प्रयोजयन् समाम् एकां त्रिफलाया रसायनम् ।
जीवेद् वर्षशतं पूर्णम् अजरो ऽव्याधिरेव च ॥ चर्_6,1.3.42
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन् नवाम् ।
तम् अहोरात्रिकं लेपं पिबेत् क्षौद्रोदकाप्लुतम् ॥ चर्_6,1.3.43
प्रभूतस्नेहम् अशनं जीर्णे तत्र प्रशस्यते ।
अजरो ऽरुक् समाभ्यासाज् जीवेच् चैव समाः शतम् ॥ चर्_6,1.3.44
मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा ।
त्रिफला सितया चापि युक्ता सिद्धं रसायनम् ॥ चर्_6,1.3.45
सर्वलौहैः सुवर्णेन वचया मधुसर्पिषा ।
विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च ॥ चर्_6,1.3.46
संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा ।
भवत्यायुःप्रदा धन्या जरारोगनिबर्हणी ॥ चर्_6,1.3.47
अनम्लं च कषायं च कटु पाके शिलाजतु ।
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ॥ चर्_6,1.3.48
हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि ।
रसायनं तद्विधिभिस्तद् वृष्यं तच्च रोगनुत् ॥ चर्_6,1.3.49
वातपित्तकफघ्नैश्च निर्यूहैस्तत्सुभावितम् ।
वीर्योत्कर्षं परं याति सर्वैरेकैकशो ऽपि वा ॥ चर्_6,1.3.50
[{आयुर्वेददीपिका}
शिलाजतुरसायनं दर्शयितुं शिलाजतुनो ऽभ्यर्हितस्य गुणानेव तावदाह अनम्लम् इत्यादि ॥ 1
वरादिति श्रेष्ठात् ॥ 2
सुश्रुते यद्यपि त्रपुसीसम्भवं प्रक्षिप्य षड्विधशिलाजतु सामान्येन रोगे रसायनाधिकारे चोक्तं तथापीह रसायनाधिकारे तदधिकृतचतुर्विधम् एवोक्तम् ॥ 3]
प्रक्षिप्तोद्धृतम् अप्य् एनत् पुनस् तत् प्रक्षिपेद् रसे ।
कोष्णे सप्ताहमेतेन विधिना तस्य भावना ॥ चर्_6,1.3.51
पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह ।
तत्पीतं पयसा दद्याद् दीर्घमायुः सुखान्वितम् ॥ चर्_6,1.3.52
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम् ।
मेधास्मृतिकरं धन्यं क्षीराशी तत्प्रयोजयेत् ॥ चर्_6,1.3.53
प्रयोगः सप्तसप्ताहास् त्रयश् चैकश्च सप्तकः ।

निर्दिष्टस् त्रिविधस्तस्य परो मध्योऽवरस्तथा ॥ चर्_6,1.3.54
पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता ।
[{आयुर्वेददीपिका}
शिलाजतुभावनाविधिम् आह प्रक्षिप्तेत्यादि ॥ 1
प्रक्षिप्तानन्तरमुद्धृतं प्रक्षिप्तोद्धृतम् ॥ 2
लौहैः सहेति भागानियमे लोहसमानभागता शिलाजतुनः ॥ 3
प्रयोगः सप्तसप्ताहा इति सप्तसप्ताहव्यापकप्रयोग इत्यर्थः एवं त्रयश् चैकश्च सप्तक इत्यत्रापि बोद्धव्यम् ॥ 4]
जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम् ॥ चर्_6,1.3.55
हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः ।
जत्वाभं मृदु मृत्स्नाच्छं यन्मलं तच्छिलाजतु ॥ चर्_6,1.3.56
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः ।
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ॥ चर्_6,1.3.57
रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते ।
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु ॥ चर्_6,1.3.58
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः ।
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ॥ चर्_6,1.3.59
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः ।
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ॥ चर्_6,1.3.60
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ।
विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ॥ चर्_6,1.3.61
[{आयुर्वेददीपिका}
सविधिम् इति विधानसहितम् ॥ 1
शिलाजतुविधानं च यथाक्रमं वातपित्ते इत्यादिग्रन्थेन वक्तव्यम् ॥ 2
हेमादिशब्देनेह हेमादिसम्भवस्थानभूतशिलोच्यते यतो न साक्षात् सुवर्णादिभ्य एव शिलाजतु स्रवति ॥ 3
मृत्स्नं मसृणम् अच्छं स्वच्छम् ॥ 4
यस्तु रूप्यभवे कटुरसे विरुद्धः स्वादुः पाक उक्तः स उत्सर्गापवादन्यायेन ज्ञेयः ॥ 5
वीर्यं तु ताम्रभवस्योष्णस्य तथा त्रयाणां च शीतत्वयुक्तानाम् अत्युष्णशीतवीर्यताया अवकाशो नास्ति अतः सामान्यगुणकथने नात्युष्णशीतम् इतिपदेन उष्णस्य शीतस्य च वीर्यस्य प्रकर्षो निषिध्यते तेनानुष्णाशीतत्वं विधीयते ततश्च शिलाजतुनि वीर्यं शीतम् उष्णं वाभिहितमपि न बलवद्भवतीति लभ्यते ॥ 6]
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च ।
वर्जयेत् सर्वकालं तु कुलत्थान्परिवर्जयेत् ॥ चर्_6,1.3.62
ते ह्य् अत्यन्तविरुद्धत्वाद् अश्मनो भेदनाः परम् ।
लोके दृष्टास्ततस्तेषां प्रयोगः प्रतिषिध्यते ॥ चर्_6,1.3.63
पयांसि तक्राणि रसाः सयूषास् तोयं समूत्रा विविधाः कषायाः ।
आलोडनार्थं गिरिजस्य शस्तास् ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ॥ चर्_6,1.3.64
न सो ऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य ।
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति ॥ चर्_6,1.3.65
करप्रचितिके पादे दश षट् च महर्षिणा ।
रसायनानां सिद्धानां संयोगाः समुदाहृताः ॥ चर्_6,1.3.66
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः ॥ चर्_6,1.3.67
[{आयुर्वेददीपिका}
शिलाजतुप्रयोगेष्विति बहुवचनमालोडनादिभेदेन प्रयोगभेदं बुद्धिस्थीकृत्य ज्ञेयम् ॥ 1

शिलाजतुप्रयोगे गुरुनिषेधेऽपि विशेषवचनात् क्षीरादिप्रयोगः ॥ 2
सर्वकालमिति यावद्रसायनाहिता गुणाः सन्ति ॥ 3
केचित् तु यावज्जीवं कुलत्थवर्जनम् आहुः यदुक्तं सुश्रुते तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत् इति ॥ 4
शिलाजतुप्रयोगं स्तौति न सो ऽस्तीत्यादि ॥ 5]
चरकसंहिता, चिकित्सास्थान, 1 [रसायनाध्याय], 4 [आयुर्वेदसमुत्थानीय]
अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः ॥ चर्_6,1.4.1
इति ह स्माह भगवानात्रेयः ॥ चर्_6,1.4.2
[{आयुर्वेददीपिका}
आयुर्वेदसमुत्थानीयो नाम रसायनपादः पारिशेष्याद् उच्यते आयुर्वेदसमुत्थानम् अस्मिन्न् अस्तीति मत्वर्थीयच्छप्रत्ययेणायुर्वेदसमुत्थानीयः ॥ 1]
ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः ।
ते सर्वासाम् इतिकर्तव्यतानाम् असमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासम् अपगतग्राम्यदोषं शिवं पुण्यम् उदारं मेध्यम् अगम्यम् असुकृतिभिर् गङ्गाप्रभवम् अमरगन्धर्वकिंनरानुचरितम् अनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिसिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवम् अतिशरण्यं हिमवन्तम् अमराधिपतिगुप्तं जग्मुर् भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः ॥ चर्_6,1.4.3
[{आयुर्वेददीपिका}
ऋषीणां शालीनत्वं यायावरत्वं च कर्मविशेषपरिग्रहात् ॥ 1
सम्पन्नम् अनु उपयुज्यन्त इति साम्पन्निकाः ॥ 2
नातिकल्या इति नातिनीरोगाः ॥ 3
इतिकर्तव्यता व्यापारः ॥ 4
इन्द्रपर्यायकथनं स्तुत्यर्थं स्तुतिश् चेयम् इन्द्रस्यायुर्वेदप्रकाशकत्वात् ॥ 5]
तान् इन्द्रः सहस्रदृग् अमरगुरुर् अब्रवीत्स्वागतं ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणाम् ।
अस्ति ननु वो ग्लानिर् अप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतम् असुखम् असुखानुबन्धं च ग्राम्यो हि वासो मूलम् अशस्तानां तत् कृतः पुण्यकृद्भिर् अनुग्रहः प्रजानां स्वशरीरमवेक्षितुं कालः कालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम् आत्मनः प्रजानां चानुग्रहार्थम् आयुर्वेदमश्विनौ मह्यं प्रायच्छतां प्रजापतिरश्विभ्यां प्रजापतये ब्रह्मा प्रजानाम् अल्पम् आयुर् जराव्याधिबहुलम् असुखम् असुखानुबन्धम् अल्पत्वाद् अल्पतपोदमनियमदानाध्ययनसंचयं मत्वा पुण्यतमम् आयुःप्रकर्षकरं जराव्याधिप्रशमनम् ऊर्जस्करम् अमृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यम् आत्मनश् चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति ॥ चर्_6,1.4.4
तच्छ्रुत्वा विबुधपतिवचनम् ऋषयः सर्व एवामरवरम् ऋग्भिस् तुष्टुवुः प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति ॥ चर्_6,1.4.5
[{आयुर्वेददीपिका}
असुखानुबन्धमिति रोगरूपम् असुखम् अनुबध्नातीत्यसुखानुबन्धम् ॥ 1
मूलमिति कारणम् ॥ 2
कृतः प्रजानामनुग्रह इति ग्रामे स्थित्वा आयुर्वेदोक्तारोग्यसाधनधर्मादिप्रकाशनेन प्रजानुग्रहः कृत एवेत्यर्थः ॥ 3
अयं शब्द उभाभ्यां कालशब्दाभ्यां योजनीयः ॥ 4
प्रजापतये ब्रह्मेति छेदः ॥ 5
प्रजानाम् अल्पादिकम् आयुर्मत्त्वेति योजना ॥ 6
अल्पत्वात् आयुष इति शेषः ॥ 7
अल्पस्तपःप्रभृतीनां संचयोऽस्मिन् अल्पे आयुषि तत् तथा ॥ 8
प्रतिशब्दो मैत्र्यादिभिः प्रत्येकं सम्बध्यते ॥ 9
अथशब्दश् चाधिकारे ॥ 10
तेन मैत्रीकारुण्यादीन्यधिकृत्य यं ब्रह्मा प्रजापतयेऽदात् तमनुश्रोतुम् अर्हतेति योजना ॥ 11
यद्यपि च ऋषयो भरद्वाजद्वारा इन्द्रादधिगतायुर्वेदाः तथापि ग्राम्यवासकृतमनोग्लान्या न तथा स्फुटार्थो वर्तत इति शङ्कया पुनरिन्द्रस् तानुपदिशति ॥ 12]
अथेन्द्रस् तदायुर्वेदामृतम् ऋषिभ्यः संक्रम्योवाच एतत्सर्वमनुष्ठेयम् अयं च शिवः कालो रसायनानां दिव्याश्चौषधयो हिमवत्प्रभवाः प्राप्तवीर्याः तद्यथा ऐन्द्री ब्राह्मी पयस्या क्षीरपुष्पी श्रावणी महाश्रावणी शतावरी विदारी जीवन्ती पुनर्नवा नागबला स्थिरा वचा छत्त्रा अतिच्छत्रा मेदा महामेदा जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदम् उपचयं मेधां स्मृतिमुत्तमबलम् इष्टांश्चापरान् भावान् आवहन्ति सिद्धाः ॥ चर्_6,1.4.6
[{आयुर्वेददीपिका}
महाश्रावणी अलम्बुषा ॥ 1
अतिच्छत्रा मधुरिका ॥ 2]
ब्रह्मसुवर्चला नामौषधिर् या हिरण्यक्षीरा पुष्करसदृशपत्त्रा आदित्यपर्णी नामौषधिर्या सूर्यकान्ता इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पा च नारीनामौषधिः अश्वबला इति विज्ञायते या बिल्वजसदृशपत्त्रा काष्ठगोधा नामौषधिर् गोधाकारा सर्पानामौषधिः सर्पाकारा सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धा च अजानाम् औषधिः अजशृङ्गी इति विज्ञायते नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति आसामोषधीनां यां यामेवोपलभेत तस्यास् तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायाम् आर्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत तत्र प्रलीयते षण्मासेन पुनः सम्भवति तस्याजं पयः प्रत्यवस्थापनं षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति दिव्यं चास्य चक्षुः श्रोत्रं च भवति गतिर् योजनसहस्रं दशवर्षसहस्राण्य् आयुर् अनुपद्रवं चेति ॥ चर्_6,1.4.7
[{आयुर्वेददीपिका}
ब्रह्मसुवर्चलाप्रभृतयो यथोक्तलक्षणा दिव्यौषधयो नातिप्रसिद्धाः ॥ 1

आदित्यपर्णी सूर्यावर्तमेव देशविशेषजातं केचिद् वर्णयन्ति ॥ 2
अश्वबलेति ज्ञायत इति ऋषिभिरेवानेन नाम्ना ज्ञायते नलौकिकैः लोकाप्रसिद्धत्वात् ॥ 3
सोम इव वर्धते हीयत इति यथासोमवृद्धिक्षयौ तथा तत्कालमेव तस्य वृद्धिक्षयौ भवतः ॥ 4
प्रलीयत इति द्रुतो भवति अन्ये तु मूर्छतीति वर्णयन्ति ॥ 5
प्रत्यवस्थापनमिति आहारसेवायां योज्यम् इत्यर्थः ॥ 6
सर्ववाचोगतानि सर्ववाक्यविशेषाः ॥ 7]
दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः ।
शक्यः सोढुमशक्यस्तु स्यात्सोढुमकृतात्मभिः ॥ चर्_6,1.4.8
ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि ।
भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते ॥ चर्_6,1.4.9
वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः ।
शक्या ओषधयो ह्य् एताः सेवितुं विषयाभिजाः ॥ चर्_6,1.4.10
[{आयुर्वेददीपिका}
एतद्दिव्यं रसायनमृषिभिस्तद्विधैर् वा सेव्यम् इति दर्शयन्न् आह दिव्यानाम् इत्यादि ॥ 1
विषयाभिजा इति स्वोचितपुण्यदेशे जाता इत्यर्थः अपुण्ये तु देशे दिव्यौषधिजन्मैव न भवति भवन्त्यो ऽपि निर्वार्या भवन्तीति भावः ॥ 2]
यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा ।
मृदुवीर्यतरास् तासां विधिर्ज्ञेयः स एव तु ॥ चर्_6,1.4.11
पर्येष्टुं ताः प्रयोक्तुं वा ये ऽसमर्थाः सुखार्थिनः ।
रसायनविधिस्तेषामयमन्यः प्रशस्यते ॥ चर्_6,1.4.12
[{आयुर्वेददीपिका}
सम्प्रति ब्रह्मसुवर्चलादीनां यथा मृदुवीर्यत्वं भवति तदाह यास् त्व् इत्यादि ॥ 1
क्षेत्रगुणैर् इति हिमालयादिप्रशस्तदेशव्यतिरिक्तक्षेत्रधर्मैः ॥ 2
तेषामिति ऋषिव्यतिरिक्तानां वानप्रस्थादीनाम् ॥ 3
मध्यमेन च कर्मणेति असम्यक्प्रयोगेण किंवा अनतिमहतादृष्टेन ॥ 4]
बल्यानां जीवनीयानां बृंहणीयाश् च या दश ।
वयसः स्थापनानां च खदिरस्यासनस्य च ॥ चर्_6,1.4.13
खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च ।
मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च ॥ चर्_6,1.4.14
शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च ।
ऋद्ध्या नागबलायाश्च द्वारदाया धवस्य च ॥ चर्_6,1.4.15
त्रिफलाकण्टकार्योश् च विदार्याश्चन्दनस्य च ।
इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च ॥ चर्_6,1.4.16
रसाः पृथक् पृथग् ग्राह्याः पलाशक्षार एव च ।
एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम् ॥ चर्_6,1.4.17
द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः ।
तत् साध्यं सर्वम् एकत्र सुसिद्धं स्नेहमुद्धरेत् ॥ चर्_6,1.4.18
तत्रामलकचूर्णानामाढकं शतभावितम् ।
स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च ॥ चर्_6,1.4.19
शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत् ।
तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं संमूर्छितं च तत् ॥ चर्_6,1.4.20

सुचौक्षे मार्त्तिके कुम्भे मासार्धं घृतभाविते ।
मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत् ॥ चर्_6,1.4.21
हेमताम्रप्रवालानाम् अयसः स्फटिकस्य च ।
मुक्तावैडूर्यशङ्खानां चूर्णानां रजतस्य च ॥ चर्_6,1.4.22
प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम् ।
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा ॥ चर्_6,1.4.23
सर्वरोगप्रशमनं वृष्यमायुष्यम् उत्तमम् ।
सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम् ॥ चर्_6,1.4.24
परमूर्जस्करं चैव वर्णस्वरकरं तथा ।
विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम् ॥ चर्_6,1.4.25
सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके ।
प्रयोज्यम् इच्छद्भिरिदं यथावद् रसायनं ब्राह्ममुदारवीर्यम् ॥ चर्_6,1.4.26
[{आयुर्वेददीपिका}
बल्यानाम् इत्यादौ जोङ्गकम् अगुरु ॥ 1
द्वारदा शाकतरुः कपिकच्छुर् वा ॥ 2
श्रीपर्णी गम्भारी ॥ 3
पलाशक्षारः पलाशक्षारोदकम् ॥ 4
सुचौक्षे इति सुविशुद्धे ॥ 5
अग्निसमामिति अग्न्यनुरूपाम् ॥ 6
षोडशीं मात्रामिति आमलकादिचूर्णयुक्तघृतापेक्षया षोडशभागो हेमादिचूर्णाद् ग्राह्यः ॥ 7]
समर्थानामरोगाणां धीमतां नियतात्मनाम् ।
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः ॥ चर्_6,1.4.27
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः ।
तयोः श्रेष्ठतरः पूर्वो विधिः स तु सुदुष्करः ॥ चर्_6,1.4.28
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि ।
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम् ॥ चर्_6,1.4.29
[{आयुर्वेददीपिका}
कुटीप्रावेशिकरसायनविषयान् वातातपिकरसायनविषयांश्च पुरुषान् आह समर्थानाम् इत्यादि ॥ 1
क्षणिनामिति कृतक्षणानाम् ॥ 2
सूर्यमारुतसेवयापि क्रियत इति सौर्यमारुतिकः ॥ 3]
सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात् ।
अहिंसकमनायासं प्रशान्तं प्रियवादिनम् ॥ चर्_6,1.4.30
जपशौचपरं धीरं दाननित्यं तपस्विनम् ।
देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम् ॥ चर्_6,1.4.31
आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् ।
समजागरणस्वप्नं नित्यं क्षीरघृताशिनम् ॥ चर्_6,1.4.32
देशकालप्रमाणज्ञं युक्तिज्ञम् अनहंकृतम् ।
शस्ताचारम् असंकीर्णम् अध्यात्मप्रवणेन्द्रियम् ॥ चर्_6,1.4.33
उपासितारं वृद्धानामास्तिकानां जितात्मनाम् ।
धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम् ॥ चर्_6,1.4.34

गुणैर् एतैः समुदितैः प्रयुङ्क्ते यो रसायनम् ।
रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते ॥ चर्_6,1.4.35
[{आयुर्वेददीपिका}
सामान्येन रसायनविषयपुरुषगुणानाह सत्यवादिनम् इत्यादि ॥ 1
करुणया सत्त्वानि पश्यतीति करुणवेदी ॥ 2
असंकीर्णः असंकीर्णभोजी ॥ 3
नित्यं रसायनप्रयोगो यस्य स नित्यरसायनः ॥ 4]
यथास्थूलम् अनिर्वाह्य दोषाञ्छारीरमानसान् ।
रसायनगुणैर् जन्तुर् युज्यते न कदाचन ॥ चर्_6,1.4.36
योगा ह्य् आयुःप्रकर्षार्था जरारोगनिबर्हणाः ।
मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम् ॥ चर्_6,1.4.37
तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु ।
अरुजेभ्यो ऽद्विजातिभ्यः शुश्रूषा येषु नास्ति च ॥ चर्_6,1.4.38
[{आयुर्वेददीपिका}
मनःशुद्ध्यैव प्रयतात्मतायां लब्धायां पुनस् तदभिधानम् इतरमानसगुणेषु प्रयतात्मताया अभ्यर्हिततोपदर्शनार्थम् ॥ 1
अरुजेभ्यो ऽद्विजातिभ्यो येषु च पुरुषेषु शुश्रूषा नास्ति तेषु चैतन् न वाच्यमिति योजना ॥ 2]
ये रसायनसंयोगा वृष्ययोगाश्च ये मताः ।
यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम् ॥ चर्_6,1.4.39
प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम् ।
अश्विनाव् इव देवेन्द्रः पूजयेद् अतिशक्तितः ॥ चर्_6,1.4.40
अश्विनौ देवभिषजौ यज्ञवाहाव् इति स्मृतौ ।
यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम् ॥ चर्_6,1.4.41
प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च ।
वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः ॥ चर्_6,1.4.42
चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा ।
सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी ॥ चर्_6,1.4.43
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः ।
वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा ॥ चर्_6,1.4.44
एतैश्चान्यैश्च बहुभिः कर्मभिर् भिषगुत्तमौ ।
बभूवतुर्भृशं पूज्याव् इन्द्रादीनां महात्मनाम् ॥ चर्_6,1.4.45
ग्रहाः स्तोत्राणि मन्त्राणि तथा नानाहवींषि च ।
धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः ॥ चर्_6,1.4.46
प्रातश्च सवने सोमं शक्रो ऽश्विभ्यां सहाश्नुते ।
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते ॥ चर्_6,1.4.47
इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः ।
स्तूयन्ते वेदवाक्येषु न तथान्या हि देवताः ॥ चर्_6,1.4.48
अजरैरमरैस्तावद्विबुधैः साधिपैर् ध्रुवैः ।
एते प्रयतैरेवमश्विनौ भिषजाव् इति ॥ चर्_6,1.4.49
मृत्युव्याधिजरावश्यैर् दुःखप्रायैः सुखार्थिभिः ।
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर् नातिशक्तितः ॥ चर्_6,1.4.50

शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः ।
प्राणिभिर्गुरुवत्पूज्यः प्राणाचार्यः स हि स्मृतः ॥ चर्_6,1.4.51
[{आयुर्वेददीपिका}
सम्प्रति रसायनादिसिद्धिर् वैद्याधीना तेन वैद्यस्तुतिम् आरभते य इत्यादि ॥ 1
प्राणाचार्यमित्यत्र प्राणिवर्यम् इति वा पाठः तत्र प्राणिनां वर्यः श्रेष्ठः प्राणिवर्यः ॥ 2
यज्ञं वहत इति यज्ञवाहौ ॥ 3
एतद्यज्ञवाहत्वमेव दर्शयति दक्षस्य हीत्यादि ॥ 4
पूष्णः सूर्यस्य भगोऽपि सूर्यभेदः ॥ 5
सोमाभिपतित इति सोमाभिपतनयोगेन पीडित इत्यर्थः सोमातिपचित इति वा पाठः तत्राप्यतिपचनेन सोमपानातियोगं दर्शयति ॥ 6
ग्रहाः सोमपानपात्राणि ॥ 7
स्तोत्राणि स्तवाः स्तावकवाचः शस्त्राणीति केचित् संशस्यते ऽनेनेति कृत्वा सामऋग्व्यतिरिक्तं स्तोत्रमाहुः शस्त्राणि अस्त्राण्येव वषड्युक्तानि शस्त्राणि च यज्ञे कल्प्यन्त एव ॥ 8
धूम्राश् च पशव इति धूम्रवर्णपशवः एवंवर्णाश् च पशवः श्रेष्ठा भवन्ति ॥ 9
सवन इति यज्ञस्थाने ॥ 10
सौत्रामणी यज्ञविशेषः ॥ 11
अतिशक्तित इति निजशक्तेर् अप्यतिरेकेण ॥ 12]
विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते ।
अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना ॥ चर्_6,1.4.52
विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा ।
ध्रुवम् आविशति ज्ञानात्तस्माद् वैद्यो द्विजः स्मृतः ॥ चर्_6,1.4.53
नाभिध्यायेन्न चाक्रोशेद् अहितं न समाचरेत् ।
प्राणाचार्यं बुधः कश्चिद् इच्छन्न् आयुर् अनित्वरम् ॥ चर्_6,1.4.54
[{आयुर्वेददीपिका}
वैद्यशब्दद्विजशब्दयोः प्रवृत्तिनिमित्तमाह विद्येत्यादि ॥ 1
तेन विद्यायोगाद् वैद्यत्वं तथा विद्यासमाप्तिलक्षणजन्मना द्विजत्वं भवतीत्युक्तं भवति ॥ 2
ब्राह्मं वा आर्षं वा इति विकल्पो वैद्यविशेषाभिप्रायाद् भवति तयोर् यो नैष्ठिकचिकित्सार्थस्तस्य ब्राह्मम् इतरस्य तु लोकानुग्राहिण आर्षमिति व्यवस्था ॥ 3]
चिकित्सितस्तु संश्रुत्य यो वासंश्रुत्य मानवः ।
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः ॥ चर्_6,1.4.55
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान् ।
आबाधेभ्यो हि संरक्षेद् इच्छन् धर्मम् अनुत्तमम् ॥ चर्_6,1.4.56
धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः ।
प्रकाशितो धर्मपरैर् इच्छद्भिः स्थानमक्षरम् ॥ चर्_6,1.4.57
नार्थार्थं नापि कामार्थमथ भूतदयां प्रति ।
वर्तते यश्चिकित्सायां स सर्वम् अतिवर्तते ॥ चर्_6,1.4.58
कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम् ।
ते हित्वा काञ्चनं राशिं पांशुराशिमुपासते ॥ चर्_6,1.4.59
दारुणैः कृष्यमाणानां गदैर् वैवस्वतक्षयम् ।
छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति ॥ चर्_6,1.4.60
धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते ।
न हि जीवितदानाद्धि दानम् अन्यद् विशिष्यते ॥ चर्_6,1.4.61
परो भूतदया धर्म इति मत्वा चिकित्सया ।

वर्तते यः स सिद्धार्थः सुखम् अत्यन्तम् अश्नुते ॥ चर्_6,1.4.62
[{आयुर्वेददीपिका}
संश्रुत्येति प्रतिज्ञाय ॥ 1
चिकित्सैव पण्यं विक्रेतव्यमिति चिकित्सापण्यम् ॥ 2
ते हित्वेत्यादौ धर्मार्थं क्रियमाणचिकित्सा महाफलत्वेन काञ्चनराशितुल्या इतरा त्व् असारकल्पा पांशुराशितुल्या ॥ 3
वैवस्वतक्षयमिति यमगृहम् ॥ 4]
आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम् ।
अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम् ॥ चर्_6,1.4.63
सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः ।
आयुर्वेदसमुत्थाने तत् सर्वं संप्रकाशितम् ॥ चर्_6,1.4.64
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रसायनाध्याये आयुर्वेदसमुत्थानीयो नाम रसायनपादश्चतुर्थः ॥ चर्_6,1.4.65
[{आयुर्वेददीपिका}
संग्रहे रत्नरसायनमिति हेमादिरत्नसंयुक्तं रसायनम् ॥ 1
आयुर्वेदसमुत्थाने प्रकाशिततया दिव्यौषधिविध्यादि यदुवाच ब्रह्मचारिभ्योऽमरेश्वरः तत् संप्रकाशितम् इति योजना ॥ 2]
चरकसंहिता, चिकित्सास्थान, 2 [वाजीकरणाध्याय], 1 [संयोगशरमूलीय]
अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः ॥ चर्_6,2.1.1
इति ह स्माह भगवानात्रेयः ॥ चर्_6,2.1.2
[{आयुर्वेददीपिका}
स्वस्थोर्जस्करत्वसामान्यात् रसायनमनु वाजीकरणं वाच्यं तत्रापि वाजीकरणे प्रवृत्त्युपदर्शकप्रकरणयुक्तत्वाद् आदौ संयोगशरमूलीय उच्यते ।
संयोगः शरमूलानाम् अस्मिन्न् अस्तीति संयोगशरमूलीयः ॥ 1]
वाजीकरणम् अन्विच्छेत् पुरुषो नित्यमात्मवान् ।
तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च ॥ चर्_6,2.1.3
पुत्रस्यायतनं ह्य् एतद्गुणाश्चैते सुताश्रयाः ।
[{आयुर्वेददीपिका}
अवाजी वाजीवात्यर्थं मैथुने शक्तः क्रियते येन तद् वाजीकरणम् ॥ 1
उक्तं हि वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियम् इत्यादि ॥ 2
अन्विच्छेदिति रसायनान्महाफलात् तदपेक्षयाल्पफलं वाजीकरणं पश्चाद् इच्छेत् ॥ 3
पुरुष इति पदेन तरुणपुरुषग्राहिणा बालवृद्धौ निषिद्धव्यवायौ निराकरोति ॥ 4
उक्तं हि ।
अतिबालो ह्य् असंपूर्णसर्वधातुः स्त्रियो व्रजन् ।
उपतप्येत सहसा तडागमिव काजलम् ॥ 5
शुष्कं रूक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम् ।
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन् इति ॥ 6
नित्यमित्यनेन न रसायनवत् संप्रयोगो वृष्यस्य किंत्व् आहारवत् सर्वदोषयोग इति दर्शयति ॥ 7
आत्मवानित्यनेन दुरात्मनो वृष्यकरणं निषेधति स हि वृष्योपयोगादुपचितधातुः सन्न् अगम्यागमनमपि कुर्यात् ॥ 8
धर्मादयो वृष्यायत्ता एव यथा भवन्ति तदाह पुत्रस्येत्यादि ॥ 9
आयतनं कारणम् ॥ 10
एते गुणा इति धर्मादयः वृष्यप्रयोगजनितः पुत्रो धर्मादीन् पितुः सम्पादयतीत्यर्थः ॥ 11
वाजीकरणसेवया चेह युक्तयैव ऋतुकाले च मैथुनं प्राधान्येनाभिप्रेतं तेन तिस्रैषणीये त्रय उपस्तम्भाः इत्यादिग्रन्थेन ब्रह्मचर्यं यदुक्तं तद् ऋतुकाले यथाविधिकृतमैथुनाप्रतिषेधकम् इति न विरोधः ॥ 12]
वाजीकरणम् अग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी ॥ चर्_6,2.1.4

इष्टा ह्य् एकैकशो ऽप्य् अर्थाः परं प्रीतिकराः स्मृताः ।
किं पुनः स्त्रीशरीरे ये संघातेन प्रतिष्ठिताः ॥ चर्_6,2.1.5
संघातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते ।
स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम् ।
स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्व् अपत्यं प्रतिष्ठितम् ॥ चर्_6,2.1.6
धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः ।
सुरूपा यौवनस्था या लक्षणैर्या विभूषिता ॥ चर्_6,2.1.7
या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता ।
[{आयुर्वेददीपिका}
सर्ववाजीकरणेभ्यः प्रधानरूपं वाजीकरणमाह वाजीत्यादि ॥ 1
क्षेत्रमिव क्षेत्रं तत्र शुक्ररूपबीजप्ररोहणात् ॥ 2
अर्था इति शब्दादयः ते च स्त्रीगताधररसकलविङ्करुतरूपादयः प्रसिद्धा एव ॥ 3
धर्मार्थौ स्त्रीष्विति सहैव पत्न्या धर्मश्चर्य इत्याद्युपदेशाद् धर्मः तथानुरक्ता गृहिणी अर्थरक्षणादि करोतीत्यर्थ इत्यर्थः ॥ 4
स्त्रिया लक्ष्म्याः संयोगे धनसम्पद् भवतीति स्त्रीषु लक्ष्मीः प्रतिष्ठितेत्यर्थः ॥ 5
वश्या आयत्ता ॥ 6
शिक्षितेति कामशास्त्रोक्तगीतवादित्रलास्यादिचतुःषष्टिकलाशिक्षिता ॥ 7]
नानाभक्त्या तु लोकस्य दैवयोगाच्च योषिताम् ॥ चर्_6,2.1.8
तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणाः ।
वयोरूपवचोहावैर् या यस्य परमाङ्गना ॥ चर्_6,2.1.9
प्रविशत्याशु हृदयं दैवाद् वा कर्मणो ऽपि वा ।
हृदयोत्सवरूपा या या समानमनःशया ॥ चर्_6,2.1.10
समानसत्त्वा या वश्या या यस्य प्रीयते प्रियैः ।
या पाशभूता सर्वेषाम् इन्द्रियाणां परैर्गुणैः ॥ चर्_6,2.1.11
यया वियुक्तो निस्त्रीकम् अरतिर् मन्यते जगत् ।
यस्या ऋते शरीरं ना धत्ते शून्यम् इवेन्द्रियैः ॥ चर्_6,2.1.12
शोकोद्वेगारतिभयैर् यां दृष्ट्वा नाभिभूयते ।
याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम् ॥ चर्_6,2.1.13
अपूर्वामिव यां याति नित्यं हर्षातिवेगतः ।
गत्वा गत्वापि बहुशो यां तृप्तिं नैव गच्छति ॥ चर्_6,2.1.14
सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः ।
अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम् ॥ चर्_6,2.1.15
शुद्धस्नातां व्रजेन्नारीमपत्यार्थी निरामयः ।
[{आयुर्वेददीपिका}
रूपादिव्यतिरेकेणापि काचित् कस्यचित् कर्मवशाद्वृष्या स्त्री भवतीति दर्शयन्नाह नानेत्यादि ॥ 1
दैवयोगादिति प्राक्तनकर्मवशात् ॥ 2
विवर्धन्त इति वृष्यत्वं सम्पादयन्ति ॥ 3
हावो नरं प्रति स्त्रीणां शृङ्गारचेष्टाविशेषः ॥ 4
उक्तं च भरतेन प्रकाशरूपकं सत्त्वं सत्त्वोत्प्लवाः समुद्गताः ॥ 5
तेभ्यो हावादिनिष्पत्तिरित्याहुः परमर्षयः इति ॥ 6
दैवाद् इति प्राक्तनकर्मणः ॥ 7

कर्मण इति ऐहिकाद्वशीकरणादिकर्मणः ॥ 8
मनःशयः कामः ॥ 9
पाशभूतेति मनैन्द्रियबन्धहेतुत्वात् ॥ 10
नानाभावा हि मानवाः इत्यनेन रूपादिगुणयोगेन सर्वपुरुषान् प्रति स्त्रीणां प्रियत्वमिति दर्शयति ॥ 11]
अच्छायश् चैकशाखश् च निष्फलश्च यथा द्रुमः ॥ चर्_6,2.1.16
अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः ।
चित्रदीपः सरः शुष्कम् अधातुर् धातुसंनिभः ॥ चर्_6,2.1.17
निष्प्रजस् तृणपूलीति मन्तव्यः पुरुषाकृतिः ।
अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना ॥ चर्_6,2.1.18
मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते ।
बहुमूर्तिर् बहुमुखो बहुव्यूहो बहुक्रियः ॥ चर्_6,2.1.19
बहुचक्षुर् बहुज्ञानो बह्वात्मा च बहुप्रजः ।
मङ्गल्योऽयं प्रशस्योऽयं धन्योऽयं वीर्यवान् अयम् ॥ चर्_6,2.1.20
बहुशाखोऽयमिति च स्तूयते ना बहुप्रजः ।
प्रीतिर्बलं सुखं वृत्तिर् विस्तारो विपुलं कुलम् ॥ चर्_6,2.1.21
यशो लोकाः सुखोदर्कास्तुष्टिश् चापत्यसंश्रिताः ।
तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान् ॥ चर्_6,2.1.22
वाजीकरणनित्यः स्यादिच्छन् कामसुखानि च ।
उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्धनान् ॥ चर्_6,2.1.23
वाजीकरणसंयोगान् प्रवक्ष्याम्यत उत्तरम् ।
[{आयुर्वेददीपिका}
सम्प्रति वृष्यप्रयोगसाध्यस्य पुत्रस्योपादेयेतां दर्शयन्नाह अच्छाय इत्यादि ॥ 1
एकशाख इति एकस्वरूप इत्यर्थः ॥ 2
चित्रलिखितो दीपश्चित्रदीपः ॥ 3
अधातुर् धातुसंनिभ इति असुवर्णादिरूपः सुवर्णादिवद् आभासते यो जातुषकङ्कणादिः ॥ 4
पूली नपुंसकधर्मित्वात् ॥ 5
तृणपूली पुरुषाकृतिरिति भाषया पुरुषार्थक्रियाविरहित्वं दर्शयति ॥ 6
कामसुखानि चेत्यनेन पुत्रोत्पादातिरिक्तं नातिश्लाघ्यं फलं दर्शयति ॥ 7
कामसुखानि हि ऐहिकान्येव परं न पुत्रवद् उभयलोकोपकारकाणि ॥ 8
उपभोगे मैथुने सुखं कुर्वन्तीत्युपभोगसुखाः किंवा उपभोक्तुं सुखा उपभोगसुखाः ।
वीर्यं शुक्रम् ॥ 9]
शरमूलेक्षुमूलानि काण्डेक्षुः सेक्षुबालिका ॥ चर्_6,2.1.24
शतावरी पयस्या च विदारी कण्टकारिका ।
जीवन्ती जीवको मेदा वीरा चर्षभको बला ॥ चर्_6,2.1.25
ऋद्धिर् गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा ।
एषां त्रिपलिकान् भागान् माषाणाम् आढकं नवम् ॥ चर्_6,2.1.26
विपाचयेज्जलद्रोणे चतुर्भागं च शेषयेत् ।
तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली ॥ चर्_6,2.1.27
आत्मगुप्ता मधूकानि खर्जूराणि शतावरी ।
विदार्यामलकेक्षूणां रसस्य च पृथक् पृथक् ॥ चर्_6,2.1.28

सर्पिषश् चाढकं दद्यात् क्षीरद्रोणं च तद्भिषक् ।
साधयेद्घृतशेषं च सुपूतं योजयेत् पुनः ॥ चर्_6,2.1.29
शर्करायास्तुगाक्षीर्याश् चूर्णैः प्रस्थोन्मितैः पृथक् ।
पलैश् चतुर्भिर् मागध्याः पलेन मरिचस्य च ॥ चर्_6,2.1.30
त्वगेलाकेसराणां च चूर्णैर् अर्धपलोन्मितैः ।
मधुनः कुडवाभ्यां च द्वाभ्यां तत्कारयेद्भिषक् ॥ चर्_6,2.1.31
पलिका गुलिकास्त्यानास्ता यथाग्नि प्रयोजयेत् ।
एष वृष्यः परं योगो बृंहणो बलवर्धनः ॥ चर्_6,2.1.32
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत् ।
[{आयुर्वेददीपिका}
काण्डेक्षुः बृहदिक्षुः ॥ 1
इक्षुबालिका खग्गालिका ॥ 2
पयस्या क्षीरविदारी ॥ 3
वीरा क्षीरकाकोली ॥ 4
फल्गुः काष्ठोदुम्बरिका ॥ 5
शतावरीत्यन्तेन कल्कच्छेदः ॥ 6
वंशरोचना तुगाक्षीरी अन्ये वंशरोचनानुकारि पार्थिवद्रव्यं तालधीति वदन्ति ॥ 7
स्त्याना इति घनाः ॥ 8]
माषाणामात्मगुप्ताया बीजानामाढकं नवम् ॥ चर्_6,2.1.33
जीवकर्षभकौ वीरां मेदाम् ऋद्धिं शतावरीम् ।
मधुकं चाश्वगन्धां च साधयेत् कुडवोन्मिताम् ॥ चर्_6,2.1.34
रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः ।
विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च ॥ चर्_6,2.1.35
दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत् ।
शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक् पृथक् ॥ चर्_6,2.1.36
भागांश्चतुष्पलांस् तत्र पिप्पल्याश्चावपेत् पलम् ।
पलं पूर्वमतो लीढ्वा ततोऽन्नम् उपयोजयेत् ॥ चर्_6,2.1.37
य इच्छेदक्षयं शुक्रं शेफसश् चोत्तमं बलम् ।
[{आयुर्वेददीपिका}
द्वितीयप्रयोगे रसे इति क्वाथे ॥ 1]
शर्करा माषविदलास्तुगाक्षीरी पयो घृतम् ॥ चर्_6,2.1.38
गोधूमचूर्णषष्ठानि सर्पिष्य् उत्कारिकां पचेत् ।
तां नातिपक्वां मृदितां कौक्कुटे मधुरे रसे ॥ चर्_6,2.1.39
सुगन्धे प्रक्षिपेद् उष्णे यथा सान्द्रीभवेद् रसः ।
एष पिण्डरसो वृष्यः पौष्टिको बलवर्धनः ॥ चर्_6,2.1.40
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत् ।
शिखितित्तिरिहंसानामेवं पिण्डरसो मतः ।
बलवर्णस्वरकरः पुमांस्तेन वृषायते ॥ चर्_6,2.1.41
[{आयुर्वेददीपिका}
उत्कारिका मूषिकोत्कराकारा ॥ 1

शिखितित्तिरिहंसानां पिण्डरसैर् व्यस्तसमस्ताश् चत्वारः पिण्डरसाः ॥ 2]
घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे ।
भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि ॥ चर्_6,2.1.42
ईषत् सलवणं युक्तं धान्यजीरकनागरैः ।
एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः ॥ चर्_6,2.1.43
चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे ।
कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च ॥ चर्_6,2.1.44
नवसर्पिषि संतप्तान् फलाम्लान् कारयेद् रसान् ।
मधुरान्वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान् ॥ चर्_6,2.1.45
तृप्तिं चटकमांसानां गत्वा यो ऽनुपिबेत् पयः ।
न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि ॥ चर्_6,2.1.46
माषसूपेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम् ।
पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान् ।
न ना स्वपिति रात्रिषु नित्यस्तब्धेन शेफसा ।
तृप्तः कुक्कुटमांसानां भृष्टानां नक्ररेतसि ॥ चर्_6,2.1.47
निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत् ॥ चर्_6,2.1.48
हंसबर्हिणदक्षाणाम् एवमण्डानि भक्षयेत् ॥ चर्_6,2.1.49
[{आयुर्वेददीपिका}
निशीत्यनेन सकलनिशामैथुने ऽपीति दर्शयति ॥ 1
हंसेत्यादि हंसबर्हिदक्षाणाम् अण्डप्रयोगा यद्यपि भिन्नाः तथापि प्रयोगापेक्षया एक एवायं प्रयोगः ॥ 2
एवं संग्रहोक्ताः हंसबर्हिदक्षाणाम् एकप्रयोगेण पञ्चदशप्रयोगाः पूर्यन्ते ॥ 3]
स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना मितमत्ति काले ।
वृषायते तेन परं मनुष्यस् तद्बृंहणं चैव बलप्रदं च ॥ चर्_6,2.1.50
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः ।
सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः ॥ चर्_6,2.1.51
[{आयुर्वेददीपिका}
वृष्ययोगाश्च शुद्धदेहैरेव कर्तव्या इति दर्शयन्नाह स्रोतःस्वित्यादि ॥ 1
मितमिति मात्रावत् ॥ 2
क्लिष्टे इति म्लाने ॥ 3]
वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या ।
ये दोषा निरपत्यानां गुणाः पुत्रवतां च ये ॥ चर्_6,2.1.52
दश पञ्च च संयोगा वीर्यापत्यविवर्धनाः ।
उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदाः ॥ चर्_6,2.1.53
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये संयोगशरमूलीयो नाम वाजीकरणपादः प्रथमः ॥ चर्_6,2.1.54
[{आयुर्वेददीपिका}
संग्रहे यस्य चैव येति यस्य या वृष्येत्यर्थः ॥ 1]
चरकसंहिता, चिकित्सास्थान, 2 [वाजीकरणाध्याय], 2 [आसिक्तक्षीरिक]
अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्यामः ॥ चर्_6,2.2.1
इति ह स्माह भगवानात्रेयः ॥ चर्_6,2.2.2
[{आयुर्वेददीपिका}

आसिक्तक्षीरिकं वृष्यपादाभिधानप्रसङ्गात् पदान्तस्य विशिष्टसम्बन्धावयवतयोच्यते ॥ 1
आसिक्तक्षीरमिति पदम् अस्त्य् अस्मिन्न् इति आसिक्तक्षीरी तत्र स्वार्थिकः कप्रत्ययः किंवा ढक्प्रत्ययेन वैशेषिकशब्दवत् आसिक्तक्षीरिक इति साधनीयम् ॥ 2]
आसिक्तक्षीरम् आपूर्णम् अशुष्कं शुद्धषष्टिकम् ।
उदूखले समापोथ्य पीडयेत् क्षीरमर्दितम् ॥ चर्_6,2.2.3
गृहीत्वा तं रसं पूतं गव्येन पयसा सह ।
बीजानामात्मगुप्ताया धान्यमाषरसेन च ॥ चर्_6,2.2.4
बलायाः शूर्पपर्ण्याश्च जीवन्त्या जीवकस्य च ।
ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च ॥ चर्_6,2.2.5
शतावर्या विदार्याश्च द्राक्षाखर्जूरयोर् अपि ।
संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत् ॥ चर्_6,2.2.6
तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च ।
गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः ॥ चर्_6,2.2.7
सान्द्रीभूतं च कुर्यात् प्रभूतमधुशर्करम् ।
गुटिका बदरैस्तुल्यास्ताश् च सर्पिषि भर्जयेत् ॥ चर्_6,2.2.8
ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः ।
पश्यत्यपत्यं विपुलं वृद्धो ऽप्यात्मजमक्षयम् ॥ चर्_6,2.2.9
[{आयुर्वेददीपिका}
आसिक्तक्षीरमिति क्षीरसेकवृद्धम् ॥ 1
यदुक्तं जतूकर्णे ।
क्षीरसेकवृद्धं षष्टिकं पक्वम् इत्यादि ॥ 2
शुद्धषष्टिकमिति गौरषष्टिकम् ॥ 3
अत्र बलादिरसानां तुल्यमानताः किंवा मात्राशब्दस्याल्पवचनत्वाद् बलादिरसानाम् अल्पमात्रत्वम् ॥ 4
प्रक्षेप्यचूर्णप्रमाणम् आह यैः स सान्द्रीभवेद् रस इति यावन्मानेन चूर्णेन रसस्य सान्द्रता भवति तावन्मात्रं चूर्णं ग्राह्यम् ॥ 5
प्रभूतत्वं मधुशर्करयोर् यावतात्यर्थमधुरत्वं स्यात् तावज्ज्ञेयम् ॥ 6
अत्र च प्रयोगमहिम्नैव मधुयुक्तस्यापि प्रयोगस्य भर्जनक्रियायाम् अग्निसंयोगो न विरोधम् आवहति तथा हि सुश्रुते ऽपि त्रिफलायस्कृतौ मधुनो ऽग्निसम्बन्धो भवत्येव ॥ 7
आत्मजमिति हर्षभूतात्मजं शुक्रमिति यावत् ॥ 8]
चटकानां सहंसानां दक्षाणां शिखिनां तथा ।
शिशुमारस्य नक्रस्य भिषक्शुक्राणि संहरेत् ॥ चर्_6,2.2.10
गव्यं सर्पिर् वराहस्य कुलिङ्गस्य वसामपि ।
षष्टिकानां च चूर्णानि चूर्णं गोधूमकस्य च ॥ चर्_6,2.2.11
एभिः पूपलिकाः कार्याः शष्कुल्यो वर्तिकास्तथा ।
पूपा धानाश् च विविधा भक्ष्याश्चान्ये पृथग्विधाः ॥ चर्_6,2.2.12
एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा ।
शेफसा वाजिवद्याति यावदिच्छं स्त्रियो नरः ॥ चर्_6,2.2.13
आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम् ।
शृङ्गाटकानि मृद्वीकां साधयेत्प्रसृतोन्मितम् ॥ चर्_6,2.2.14
क्षीरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम् ।
शुद्धेन वाससा पूतं योजयेत् प्रसृतैस् त्रिभिः ॥ चर्_6,2.2.15
शर्करायास्तुगाक्षीर्याः सर्पिषो ऽभिनवस्य च ।
तत् पाययेत् सक्षौद्रं षष्टिकान्नं च भोजयेत् ॥ चर्_6,2.2.16

जरापरीतोऽप्यबलो योगेनानेन विन्दति ।
नरोऽपत्यं सुविपुलं युवेव च स हृष्यति ॥ चर्_6,2.2.17
[{आयुर्वेददीपिका}
दक्षः कुक्कुटः ॥ 1
शुक्राणीति यद्यप्युक्तं तथापि चटकादिशुक्रग्रहणस्याशक्यत्वात् समानगुणानि तदण्डान्यपीह गृह्यन्ते ॥ 2
वर्तिका वर्त्याकारा भक्ष्याः ॥ 3
धाना इति धानाकारा भक्ष्याः ॥ 4
अयं तुल्यद्रव्यतया विविधभक्ष्यरूपो ऽप्येक एव योगः ॥ 5]
खर्जूरीमस्तकं माषान् पयस्यां च शतावरीम् ।
खर्जूराणि मधूकानि मृद्वीकामजडाफलम् ॥ चर्_6,2.2.18
पलोन्मितानि मतिमान् साधयेत् सलिलाढके ।
तेन पादावशेषेण क्षीरप्रस्थं विपाचयेत् ॥ चर्_6,2.2.19
क्षीरशेषेण तेनाद्याद् घृताढ्यं षष्टिकौदनम् ।
सशर्करेण संयोग एष वृष्यः परं स्मृतः ॥ चर्_6,2.2.20
[{आयुर्वेददीपिका}
अजडा शूकशिम्बी ॥ 1]
जीवकर्षभकौ मेदां जीवन्तीं श्रावणीद्वयम् ।
खर्जूरं मधुकं द्राक्षां पिप्पलीं विश्वभेषजम् ॥ चर्_6,2.2.21
शृङ्गाटकं विदारीं च नवं सर्पिः पयो जलम् ।
सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम् ॥ चर्_6,2.2.22
षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम् ।
वृष्यं बल्यं च वर्ण्यं च कण्ठ्यं बृंहणम् उत्तमम् ॥ चर्_6,2.2.23
[{आयुर्वेददीपिका}
जीवकेत्यादौ विदार्यन्तैः कल्कैः क्षीरजलाभ्यां घृतं साधनीयम् ॥ 1]
दध्नः सरं शरच्चन्द्रसंनिभं दोषवर्जितम् ।
शर्कराक्षौद्रमरिचैस् तुगाक्षीर्या च बुद्धिमान् ॥ चर्_6,2.2.24
युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे ।
मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदने ॥ चर्_6,2.2.25
पिबेन्मात्रां रसालायास्तं भुक्त्वा षष्टिकौदनम् ।
वर्णस्वरबलोपेतः पुमांस्तेन वृषायते ॥ चर्_6,2.2.26
[{आयुर्वेददीपिका}
युक्त्येति यथा कटुत्वाद्यधिकं न भवति तथा मरिचादियोगः कर्तव्यः ॥ 1
मार्जितमिति सुघृष्टम् ॥ 2
रसालालक्षणं सचातुर्जातकाजाजि सगुडार्द्रकनागरम् ॥ 3
रसाला स्याच्छिखरिणी सुघृष्टं ससरं दधि इति ॥ 4]
चन्द्रांशुकल्पं पयसा घृताढ्यं षष्टिकौदनम् ।
शर्करामधुसंयुक्तं प्रयुञ्जानो वृषायते ॥ चर्_6,2.2.27
तप्ते सर्पिषि नक्राण्डं ताम्रचूडाण्डमिश्रितम् ।
युक्तं षष्टिकचूर्णेन सर्पिषाभिनवेन च ॥ चर्_6,2.2.28
पक्त्वा पूपलिकाः खादेद्वारुणीमण्डपो नरः ।

य इच्छेदश्ववद् गन्तुं प्रसेक्तुं गजवच् च यः ॥ चर्_6,2.2.29
[{आयुर्वेददीपिका}
चन्द्रांशुकल्पमिति अत्यर्थशुक्लम् ॥ 1]
एतैः प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो बलवर्णयुक्तः ।
हर्षान्वितो वाजिवद् अष्टवर्षो भवेत् समर्थश्च वराङ्गनासु ॥ चर्_6,2.2.30
यद्यच्च किंचिन् मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः ।
इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् ॥ चर्_6,2.2.31
[{आयुर्वेददीपिका}
अत्र योग्यम् इति वृष्यप्रयोगसमर्थम् ॥ 1]
आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः ।
अष्टाव् अपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः ॥ चर्_6,2.2.32
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये आसिक्तक्षीरिको नाम वाजीकरणपादो द्वितीयः ॥ चर्_6,2.2.33
[{आयुर्वेददीपिका}
पौरुषार्थिभिरिति शुक्रार्थिभिः ॥ 1]
चरकसंहिता, चिकित्सास्थान, 2 [वाजीकरणाध्याय], 3 [माषपर्णभृतीय]
अथातो माषपर्णभृतीयं वाजीकरणपादं व्याख्यास्यामः ॥ चर्_6,2.3.1
इति ह स्माह भगवानात्रेयः ॥ चर्_6,2.3.2
[{आयुर्वेददीपिका}
माषपर्णभृतीयसम्बन्धो ऽपि पूर्ववत् ॥ 1]
माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतुःस्तनीम् ।
समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान् ॥ चर्_6,2.3.3
रोहिणीमथवा कृष्णाम् ऊर्ध्वशृङ्गीम् अदारुणाम् ।
इक्ष्वादाम् अर्जुनादां वा सान्द्रक्षीरां च धारयेत् ॥ चर्_6,2.3.4
केवलं तु पयस्तस्याः शृतं वाशृतमेव वा ।
शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्वृष्यमुत्तमम् ॥ चर्_6,2.3.5
[{आयुर्वेददीपिका}
गृष्टिम् एकवारप्रसूताम् ॥ 1
चतुःस्तनीम् इत्यनेन सम्पूर्णचतुःस्तनीं दर्शयति ॥ 2
रोहिणीमिति लोहितवर्णाम् ॥ 3
ऊर्ध्वशृङ्गत्वं विशुद्धबहुक्षीराया एव भवतीति वचनाज्ज्ञेयम् ॥ 4
इक्ष्वादेति इक्षुदण्डभक्षा ॥ 5
अर्जुनादा अर्जुनवृक्षपत्त्रभक्षा ॥ 6
इक्ष्वादा वा अर्जुनादा वा माषपर्णभृता वेति विकल्पत्रयम् ॥ 7
पयः शृतमशृतं वेति द्वौ योगौ ॥ 8
शर्कराक्षौद्रसर्पिर्भिर्युक्तं तदिति तृतीयः ॥ 9
एतत्प्रयोगोऽपि जतूकर्णे तस्याः क्षीरं शर्कराक्षौद्रयुक्तं वा केवलं शृतमशृतं वेति ॥ 10]
शुक्रलैर् जीवनीयैश्च बृंहणैर् बलवर्धनैः ।
क्षीरसंजननैश्चैव पयः सिद्धं पृथक् पृथक् ॥ चर्_6,2.3.6
युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम् ।
पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम् ॥ चर्_6,2.3.7

[{आयुर्वेददीपिका}
पर्यायेणेति पृथक् पृथक् प्रयोक्तव्यं तेन पञ्चभिर्गणैः पञ्च योगा भवन्ति ॥ 1]
मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम् ।
श्वदंष्ट्रां क्षीरिकां माषान् गोधूमाञ्छालिषष्टिकान् ॥ चर्_6,2.3.8
पयस्यर्धोदके पक्त्वा कार्षिकान् आढकोन्मिते ।
विवर्जयेत् पयःशेषं तत्पूतं क्षौद्रसर्पिषा ॥ चर्_6,2.3.9
युक्तं सशर्करं पीत्वा वृद्धः सप्ततिको ऽपि वा ।
विपुलं लभतेऽपत्यं युवेव च स हृष्यति ॥ चर्_6,2.3.10
[{आयुर्वेददीपिका}
विवर्जयेद् इति मेदादिकल्कं वर्जयेत् ॥ 1
वृद्धः सप्ततेरर्वागिति ज्ञेयम् ॥ 2
सप्ततिकस्य तु यद्यपि शुक्रनिवृत्तिरुक्ता तथापि वृष्यप्रभावाद् भवतीति विज्ञेयम् ॥ 3]
मण्डलैर्जातरूपस्य तस्या एव पयः शृतम् ।
अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम् ॥ चर्_6,2.3.11
[{आयुर्वेददीपिका}
जातरूपस्येति सुवर्णस्य मण्डलरूपाकृतिर् इह सुवर्णस्य प्रभावाद्वृष्यप्रयोगोपकारिणी भवतीति वचनाज्ज्ञेयम् ॥ 1
तस्या एवेति माषपर्णभृतधेन्वाः ॥ 2]
त्रिंशत् सुपिष्टाः पिप्पल्यः प्रकुञ्चे तैलसर्पिषोः ।
भृष्टाः सशर्करक्षौद्राः क्षीरधारावदोहिताः ॥ चर्_6,2.3.12
पीत्वा यथाबलं चोर्ध्वं षष्टिकं क्षीरसर्पिषा ।
भुक्त्वा न रात्रिम् अस्तब्धं लिङ्गं पश्यति ना क्षरत् ॥ चर्_6,2.3.13
श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे ।
घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः ॥ चर्_6,2.3.14
[{आयुर्वेददीपिका}
प्रकुञ्चं पलम् ॥ 1
क्षीरधारावदोहिता इति पिप्पलीकल्काद् उपरि क्षीरधारावदोहः कर्तव्यः क्षीरं च तावद्दोह्यं यावता पानयोग्याः पिप्पल्यो भवन्ति ॥ 2]
फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम् ।
कुडवश्चूर्णितानां स्यात् स्वयंगुप्ताफलस्य च ॥ चर्_6,2.3.15
कुडवश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयोः ।
गोधूमशालिचूर्णानां कुडवः कुडवो भवेत् ॥ चर्_6,2.3.16
सर्पिषः कुडवश्चैकस्तत् सर्वं क्षीरमर्दितम् ।
पक्त्वा पूपलिकाः खादेद् बह्व्यः स्युर् यस्य योषितः ॥ चर्_6,2.3.17
[{आयुर्वेददीपिका}
फलानामित्यादि ॥ 1
फलानामिति जीवनीयानाम् इत्यादिभिस् त्रिभिः प्रत्येकम् अभिसंबध्यते ॥ 2
जीवनीयानामिति षट्ककषायवर्गोक्तानां जीवकर्षभादीनां दशानाम् ॥ 3
स्निग्धानामिति स्नेहोपगानां मृद्वीकादीनां दशानां सप्तककषायवर्गोक्तानाम् ॥ 4
तथा रुचिकारिणाम् इति चतुष्ककषायवर्गोक्तानाम् आम्रादीनां हृद्यानां दशानाम् इति ॥ 5
एषां जीवनीयप्रभृतीनां फलानां चूर्णितानां मिलित्वा कुडवो ग्राह्यः ॥ 6
अन्यद् अतिरोहितार्थम् ॥ 7

तथा ह्य् अयं प्रयोगो जतूकर्णे च पठ्यते द्राक्षाखर्जूरमाषाजडागोधूमशालिघृतानां कुडवः तिलमुद्गौ द्विकौडविकौ चूर्णयित्वा इत्यादि ॥ 8]
घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत् ।
शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुत्तमम् ॥ चर्_6,2.3.18
[{आयुर्वेददीपिका}
घृतं शतावरीत्यादौ शर्करादीनां प्रक्षेप्याणाम् अन्यतोदृष्टन्यायाद् घृतात् पादिकत्वं घृतस्य प्रास्थिकत्वम् ॥ 1]
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमांशिकम् ।
प्रयुङ्क्ते यः पयश्चानु नित्यवेगः स ना भवेत् ॥ चर्_6,2.3.19
[{आयुर्वेददीपिका}
कर्षम् इत्यादिकान्ताः पञ्चदश प्रयोगाः ॥ 1]
घृतक्षीराशनो निर्भीर् निर्व्याधिर् नित्यगो युवा ।
संकल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते ॥ चर्_6,2.3.20
कृतैककृत्याः सिद्धार्था ये चान्योन्यानुवर्तिनः ।
कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये ॥ चर्_6,2.3.21
कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः ।
ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः ॥ चर्_6,2.3.22
ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः ।
तैर् नरः सह विस्रब्धः सुवयस्यैर् वृषायते ॥ चर्_6,2.3.23
अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः ।
गृहशय्यासनसुखैर् वासोभिरहतैः प्रियैः ॥ चर्_6,2.3.24
विहंगानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः ।
संवाहनैर् वरस्त्रीणाम् इष्टानां च वृषायते ॥ चर्_6,2.3.25
[{आयुर्वेददीपिका}
घृतक्षीराशन इत्यादिना तु वृष्यत्वार्थिन आहाराचाराभिधानम् ॥ 1
नित्यमित्यनेन व्यवायनित्यतया शुक्रमार्गानवरोधेन व्यवायशक्तिं दर्शयति ॥ 2
कृतम् एकं कृत्यं यैस्ते तथा एतच्च अन्योन्यार्थरागकारणम् ॥ 3
सिद्धार्था इति सिद्धसाध्याः अकृतार्था हि व्याकुलमनसो न कामक्षमाः ॥ 4
वृषायत इति उपचितप्रवृत्त्युन्मुखशुक्रो भवति ॥ 5]
मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः ।
जात्युत्पलसुगन्धीनि शीतगर्भगृहाणि च ॥ चर्_6,2.3.26
नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः ।
उन्नतिर् नीलमेघानां रम्यचन्द्रोदया निशाः ॥ चर्_6,2.3.27
वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः ।
रतिभोगक्षमा रात्र्यः संकोचागुरुवल्लभाः ॥ चर्_6,2.3.28
[{आयुर्वेददीपिका}
मत्तद्विरेफाचरिताः इत्यादि गृहाणि च इत्यन्तं योग्यतया ऋतुविभागेनानुक्तम् अपि ग्रीष्म एव ज्ञेयं मेघानां इत्यन्तं प्रावृषि तथा गन्धिन इत्यन्तं शरदि वल्लभा इत्यन्तं च विधानं हेमन्तशिशिरयोर् ज्ञेयम् ॥ 1
संकोचं कुङ्कुमं संकोचागुरुणोः समालभनार्थं वल्लभा यासु निशासु तास् तथा ॥ 2]
सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः ।
गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च ॥ चर्_6,2.3.29
सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य ।
वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम् ॥ चर्_6,2.3.30

प्रहर्षयोनयो योगा व्याख्याता दश पञ्च च ।
माषपर्णभृतीयेऽस्मिन् पादे शुक्रबलप्रदाः ॥ चर्_6,2.3.31
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये माषपर्णभृतीयो नाम वाजीकरणपादस्तृतीयः ॥ चर्_6,2.3.32
[{आयुर्वेददीपिका}
सुखा इत्यादिग्रन्थविधानं तु वसन्ताभिप्रायविहितम् अन्यत्राप्यविरुद्धम् ॥ 1
आत्मजस्येति मन्मथस्य ॥ 2
जातमदः कालो वसन्तादिः ॥ 3]
चरकसंहिता, चिकित्सास्थान, 2 [वाजीकरणाध्याय], 4 [पुमाञ्जातबलादिक]
अथातः पुमाञ्जातबलादिकं वाजीकरणपादं व्याख्यास्यामः ॥ चर्_6,2.4.1
इति ह स्माह भगवानात्रेयः ॥ चर्_6,2.4.2
[{आयुर्वेददीपिका}
पारिशेष्यात् पुमाञ्जातबलादिक उच्यते ॥ 1
पुमाञ्जातबलादयः शब्दा अस्मिन् विद्यन्त इति पुमाञ्जातबलादिकः आसिक्तक्षीरिकवच्छब्दसिद्धिः ॥ 2]
पुमान् यथा जातबलो यावदिच्छं स्त्रियो व्रजेत् ।
यथा चापत्यवान् सद्यो भवेत् तद् उपदेक्ष्यते ॥ चर्_6,2.4.3
न हि जातबलाः सर्वे नराश् चापत्यभागिनः ।
बृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः ॥ चर्_6,2.4.4
सन्ति चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः ।
प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः ॥ चर्_6,2.4.5
नराश्चटकवत् केचिद् व्रजन्ति बहुशः स्त्रियम् ।
गजवच्च प्रसिञ्चन्ति केचिन् न बहुगामिनः ॥ चर्_6,2.4.6
कालयोगबलाः केचित् केचिदभ्यसनध्रुवाः ।
केचित्प्रयत्नैर्व्यज्यन्ते वृषाः केचित् स्वभावतः ॥ चर्_6,2.4.7
तस्मात् प्रयोगान्वक्ष्यामो दुर्बलानां बलप्रदान् ।
सुखोपभोगान् बलिनां भूयश्च बलवर्धनान् ॥ चर्_6,2.4.8
पूर्वं शुद्धशरीराणां निरूहैः सानुवासनैः ।
बलापेक्षी प्रयुञ्जीत शुक्रापत्यविवर्धनान् ॥ चर्_6,2.4.9
घृततैलरसक्षीरशर्करामधुसंयुताः ।
वस्तयः संविधातव्याः क्षीरमांसरसाशिनाम् ॥ चर्_6,2.4.10
[{आयुर्वेददीपिका}
जातबलत्वे सत्य् अपि नावश्यम् अपत्यभागित्वं भवतीति वा यथा जातबलः इत्युक्तेऽपि यथा चापत्यवान् भवेत् युक्तम् ॥ 1
तदेव शुक्रवैचित्र्यं स्फोटयति न हीत्यादि ॥ 2
न हि जातबलाः सर्वे इत्येकः पक्षः तथा नरा नापत्यभागिनः सर्व इति द्वितीयः पक्षो ज्ञेयः ॥ 3
एतच्छुक्रबलभेदप्रसङ्गाद् अपरानपि शुक्रबलविशेषान् आह बृहच्छरीरा इत्यादि ॥ 4
अल्पाश्रया अल्पशरीराः एते च शुक्रसारत्वेन नरीषु बलवन्तो बहुप्रजाश्च भवन्ति ॥ 5
गजवत् प्रसिञ्चन्तीति शुक्रं बहु विसृजन्ति ॥ 6
कालयोगेन हेमन्तादिकालसम्बन्धेन व्यवाये बलवन्तो भवन्तीति कालयोगबलाः ॥ 7
अभ्यसनध्रुवा इति व्यवायाभ्यासेनैव व्यवायसमर्था भवन्ति ॥ 8
एवं प्रयत्नैर् व्यज्यन्त इति वृष्यप्रयोगैः स्त्रीषु प्रवर्तन्ते ॥ 9
सुखोपभोगान् इति सुखानुष्ठानान् ॥ 10

निरूहानुवासनशुद्धानां वृष्यप्रयोगाः फलदा भवन्तीति निरूहानुवासनाभिधानम् ॥ 11]
पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे ।
कोलवद्गुलिकाः कृत्वा तप्ते सर्पिषि वर्तयेत् ॥ चर्_6,2.4.11
वर्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे ।
घृताढ्ये गन्धपिशुने दधिदाडिमसारिके ॥ चर्_6,2.4.12
यथा न भिन्द्याद् गुलिकास् तथा तं साधयेद् रसम् ।
तं पिबन् भक्षयंस् ताश्च लभते शुक्रमक्षयम् ॥ चर्_6,2.4.13
मांसानाम् एवम् अन्येषां मेद्यानां कारयेद्भिषक् ।
गुटिकाः सरसास् तासां प्रयोगः शुक्रवर्धनः ॥ चर्_6,2.4.14
[{आयुर्वेददीपिका}
वर्तनस्तम्भिता इति वर्तनेन कठिनीकृताः ॥ 1
दधिदाडिमसाराभ्यां संस्कृतं दधिदाडिमसारिकम् ॥ 2
दाडिमसारश्च दाडिमरसः ॥ 3
मांसानामित्यादि अतिदेशयोगो द्वितीयः ॥ 4
मेद्यानामिति मेदुराणाम् ॥ 5]
माषानङ्कुरिताञ्छुद्धान् वितुषान् साजडाफलान् ।
घृताढ्ये माहिषरसे दधिदाडिमसारिके ॥ चर्_6,2.4.15
प्रक्षिपेन्मात्रया युक्तो धान्यजीरकनागरैः ।
भुक्तः पीतश्च स रसः कुरुते शुक्रमक्षयम् ॥ चर्_6,2.4.16
[{आयुर्वेददीपिका}
अजडा शूकशिम्बी ॥ 1
भुक्तः पीतश्चेति पूर्वयोगवद् धनभागस्य भोजनं द्रवस्य च पानं ज्ञेयम् ॥ 2]
आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभर्जिताः ।
तप्ते सर्पिषि यः खादेत्स गच्छेत् स्त्रीषु न क्षयम् ॥ चर्_6,2.4.17
घृतभृष्टान् रसे छागे रोहितान् फलसारिके ।
अनुपीतरसान् स्निग्धानपत्यार्थी प्रयोजयेत् ॥ चर्_6,2.4.18
[{आयुर्वेददीपिका}
मत्स्यशब्देन प्रधानकल्पनया रोहितं वदन्ति ॥ 1
फलसारिक इति दाडिमामलकादिफलसारसंस्कृतम् ॥ 2]
कुट्टकं मत्स्यमांसानां हिङ्गुसैन्धवधान्यकैः ।
युक्तं गोधूमचूर्णेन घृते पूपलिकाः पचेत् ॥ चर्_6,2.4.19
माहिषे च रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत् ।
रसे चानुगते मांसं पोथयेत्तत्र चावपेत् ॥ चर्_6,2.4.20
मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम् ।
माषपूपलिकानां तद्गर्भार्थम् उपकल्पयेत् ॥ चर्_6,2.4.21
एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ ।
हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ ॥ चर्_6,2.4.22
[{आयुर्वेददीपिका}
कुट्टकमिति कुट्टनेनाणुशः कृतम् ॥ 1]
माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम् ।

मूल पाठ: Carakasaṃhitā-parts with the Āyurvedadīpikā · Edition: J. Trikamji Varanasi: Chaukhambha Sanskrit Sansthan, 1994 (Kashi Sanskrit Series, 228) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc