चरक संहिता (टीका सहित) · भाग 101106
शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च ॥ चर्_6,2.4.23
संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत् ।
पयोऽनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां पराम् ॥ चर्_6,2.4.24
शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः ।
प्रस्थो विदार्याश्चूर्णस्य पिप्पल्याः प्रस्थ एव च ॥ चर्_6,2.4.25
अर्धाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य च ।
तत्सर्वं मूर्छितं तिष्ठेन् मार्त्तिके घृतभाजने ॥ चर्_6,2.4.26
मात्रामग्निसमां तस्य प्रातः प्रातः प्रयोजयेत् ।
एष वृष्यः परं योगो बल्यो बृंहण एव च ॥ चर्_6,2.4.27
[{आयुर्वेददीपिका}
इक्षुरकः कोकिलाक्षः ॥ 1]
शतावर्या विदार्याश्च तथा माषात्मगुप्तयोः ।
श्वदंष्ट्रायाश्च निष्क्वाथाञ्जलेषु च पृथक् पृथक् ॥ चर्_6,2.4.28
साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुनः ।
शर्करामधुयुक्तं तदपत्यार्थी प्रयोजयेत् ॥ चर्_6,2.4.29
[{आयुर्वेददीपिका}
शर्करामधुसंयुक्तमित्यत्र प्रक्षेपन्यायात् पादिकत्वं शर्करामधुनोः ॥ 1]
घृतपात्रं शतगुणे विदारीस्वरसे पचेत् ।
सिद्धं पुनः शतगुणे गव्ये पयसि साधयेत् ॥ चर्_6,2.4.30
शर्करायास्तुगाक्षीर्याः क्षौद्रस्येक्षुरकस्य च ।
पिप्पल्याः साजडायाश्च भागैः पादांशिकैर्युतम् ॥ चर्_6,2.4.31
गुटिकाः कारयेद्वैद्यो यथा स्थूलमुदुम्बरम् ।
तासां प्रयोगात्पुरुषः कुलिङ्ग इव हृष्यति ॥ चर्_6,2.4.32
[{आयुर्वेददीपिका}
पादांशिकैरिति घृतापेक्षया पादप्रमाणैः ॥ 1]
सितोपलापलशतं तदर्धं नवसर्पिषः ।
क्षौद्रपादेन संयुक्तं साधयेज्जलपादिकम् ॥ चर्_6,2.4.33
सान्द्रं गोधूमचूर्णानां पादं स्तीर्णे शिलातले ।
शुचौ श्लक्ष्णे समुत्कीर्य मर्दनेनोपपादयेत् ॥ चर्_6,2.4.34
शुद्धा उत्कारिकाः कार्याश् चन्द्रमण्डलसंनिभाः ।
तासां प्रयोगाद्गजवन्नारीः संतर्पयेन्नरः ॥ चर्_6,2.4.35
[{आयुर्वेददीपिका}
समुत्कीर्येति विस्तीर्य ॥ 1
उत्कारिकाः कार्या इत्यत्र पुनः पाके नैवोत्कारिकाकरणम् ॥ 2]
यत् किंचिन् मधुरं स्निग्धं जीवनं बृंहणं गुरु ।
हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते ॥ चर्_6,2.4.36
द्रव्यैरेवंविधैस्तस्माद्भावितः प्रमदां व्रजेत् ।
आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः ॥ चर्_6,2.4.37
गत्वा स्नात्वा पयः पीत्वा रसं वानु शयीत ना ।
तथास्याप्यायते भूयः शुक्रं च बलमेव च ॥ चर्_6,2.4.38
यथा मुकुलपुष्पस्य सुगन्धो नोपलभ्यते ।
लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम् ॥ चर्_6,2.4.39
नर्ते वै षोडशाद् वर्षात् सप्तत्याः परतो न च ।
आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति ॥ चर्_6,2.4.40
अतिबालो ह्य् असंपूर्णसर्वधातुः स्त्रियं व्रजन् ।
उपशुष्येत सहसा तडागमिव काजलम् ॥ चर्_6,2.4.41
शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम् ।
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन् ॥ चर्_6,2.4.42
जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्षणात् ।
क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात् ॥ चर्_6,2.4.43
क्षयाद्भयादविश्रम्भाच्छोकात्स्त्रीदोषदर्शनात् ।
नारीणामरसज्ञत्वाद् अविचाराद् असेवनात् ॥ चर्_6,2.4.44
तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते ।
देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा ॥ चर्_6,2.4.45
[{आयुर्वेददीपिका}
अनुक्तवाजीकरणं संगृह्णन्नाह यत्किंचिद् इत्यादि ॥ 1
भावित इति वचनात् प्रयोगेण शरीरभावनायां सत्यां स्त्रीसेवा सम्भवतीति दर्शयति ॥ 2
आत्मवेगेनेति संकल्पजातेनात्मवेगेन ॥ 3
बालस्य तडागदृष्टान्तेन पुनरपि शुक्रसद्भावं कफप्राधान्यं च दर्शयति वृद्धस्य तु जन्तुजग्धत्वादिदृष्टान्तेन विनष्टस्यापुनर्भावं शुक्रस्य तथाभूयिष्ठतां च दर्शयति ॥ 4
ननु तृप्तस्य शरीरबलं भवत्येव तत् किं तृप्तस्य स्त्रियो गन्तुमसामर्थ्यम् इत्याह देहेत्यादि ॥ 5
एतेन सत्यपि तृप्तिजनिते बले क्षयादिना देहमनसोर् उपहतत्वाद्धर्षो न भवति हर्षाभावाद् व्यवायशक्तिर् न भवतीत्युक्तं भवति ॥ 6]
रस इक्षौ यथा दध्नि सर्पिस्तैलं तिले यथा ।
सर्वत्रानुगतं देहे शुक्रं संस्पर्शने तथा ॥ चर्_6,2.4.46
तत् स्त्रीपुरुषसंयोगे चेष्टासंकल्पपीडनात् ।
शुक्रं प्रच्यवते स्थानाज्जलमार्द्रात्पटादिव ॥ चर्_6,2.4.47
हर्षात्तर्षात् सरत्वाच्च पैच्छिल्याद् गौरवादपि ।
अणुप्रवणभावाच्च द्रुतत्वान् मारुतस्य च ॥ चर्_6,2.4.48
अष्टाभ्य एभ्यो हेतुभ्यः शुक्रं देहात् प्रसिच्यते ।
चरतो विश्वरूपस्य रूपद्रव्यं यदुच्यते ॥ चर्_6,2.4.49
[{आयुर्वेददीपिका}
सम्प्रति सम्भवति शुक्रं यथा देहे स्थितं यथा च प्रवर्तते तदाह रस इत्यादि ॥ 1
इक्ष्वादिदृष्टान्तत्रयेणानतिप्रयत्नाल्पप्रयत्नमहाप्रयत्नवाह्यशुक्रान् पुरुषान् यथाक्रमं दर्शयति ॥ 2
संस्पर्शन इति संस्पर्शनवति तेन केशादौ संस्पर्शनाव्याप्तेः शुक्रमपि नास्तीति दर्शयति ॥ 3
स्त्रीपुरुषसंयोगो मिश्रीभावः ॥ 4
चेष्टा व्यवायचेष्टा संकल्पो योषिदनुरागः पीडनं नारीपुरुषयोः परस्परसम्मूर्छनम् अत्र च नारीपुरुषसंयोगः प्रधानं कारणं तत्सहकारीणि चेष्टादीनि ॥ 5
आर्द्रपटदृष्टान्तेनाश्रयानुपघातेन शुक्रस्रवणं दर्शयति ॥ 6
अपरमपि शुक्रप्रवृत्तिहेतुमाह हर्षाद् इत्यादि ॥ 7
हर्षः संकल्पपूर्वकशुक्रोद्रेकध्वजोच्छ्रायादिकरीच्छा ॥ 8
तर्षः वनिताभिलाषः ॥ 9
सरत्वम् अस्थैर्यम् ॥ 10
अणुप्रवणभावः अणुत्वे सति बहिर्निर्गमनस्वभावः ॥ 11
द्रुतत्वान् मारुतस्य चेति शुक्रप्रेरकस्य वायोर् अभिद्रवणशीलत्वाद् इत्यर्थः ॥ 12
एते च यद्यपि हेतवस्तथापि प्राधान्यात् प्रथमप्रतिपादितस्त्रीपुरुषसंयोगादिरूपहेतूनां समष्टौ नैवामी गणिताः ॥ 13
चरत इति नानामानुषपश्वादिजातिषु भ्रमतः ॥ 14
विश्वरूपस्येति आत्मनः ॥ 15
तथा ह्य् आत्मपर्यायेषूक्तं विश्वकर्मा स च विश्वरूपः इति ॥ 16
रूपद्रव्यमिति रूपप्राक्तनकारणम् ॥ 17
एतेन अव्यक्तस्यात्मनो व्यक्तशरीरनिर्वृत्तौ शुक्रं हेतुर् इत्युक्तं भवति ॥ 18
शुक्रं चेह प्रकरणागतत्वेनोक्तं तेन आर्तवमप्यात्मनो रूपद्रव्यं ज्ञेयम् ॥ 19]
बहलं मधुरं स्निग्धम् अविस्रं गुरु पिच्छिलम् ।
शुक्लं च यच्छुक्रं फलवत्तदसंशयम् ॥ चर्_6,2.4.50
[{आयुर्वेददीपिका}
प्रशस्तशुक्रगुणान् आह बहलमित्यादि ॥ 1]
येन नारीषु सामर्थ्यं वाजीवल्लभते नरः ।
व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत् ॥ चर्_6,2.4.51
[{आयुर्वेददीपिका}
वाजीकरणशब्दनिरुक्तम् आह येनेत्यादि ॥ 1
व्रजेच्चाभ्यधिकम् इति पुनः पुनर्गच्छेत् व्यज्यते इति वा पाठः तत्रापि भूयो गमनेन नारीषु पुंस्त्वेन व्यज्यते ॥ 2
व्यज्यात् इति पाठेऽपि स एवार्थो विद्वद्भिः सुचिन्तनीयः ॥ 3
अनेन निरुक्तेन त्रिविधमपि वृष्यमवरुध्यते यथा शुक्रवृद्धिकरं च माषादि तथा स्रुतिकरं संकल्पादि शुक्रस्रुतिवृद्धिकरं क्षीरादि ॥ 4
यदुक्तमन्यत्र शुक्रस्रुतिकरं किंचित् किंचिच्छुक्रविवर्धनम् ॥ 5
स्रुतिवृद्धिकरं किंचित् त्रिविधं वृष्यमुच्यते इति ॥ 6
त्रिविधमपि हीदं व्यवाये बलवत्त्वं पुनः पुनर्व्यवायशक्तिं च करोति ॥ 7]
हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः ।
यत् पूर्वं मैथुनात् सेव्यं सेव्यं यन्मैथुनाद् अनु ॥ चर्_6,2.4.52
यदा न सेव्याः प्रमदाः कृत्स्नः शुक्रविनिश्चयः ।
निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके ॥ चर्_6,2.4.53
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये पुमाञ्जातबलादिको नाम वाजीकरणपादश्चतुर्थः ॥ चर्_6,2.4.54
समाप्तश्चायं द्वितीयो वाजीकरणाध्यायः ॥ चर्_6,2.4.55
[{आयुर्वेददीपिका}
हेतुरित्यादि ॥ 1
संग्रहो व्यक्तः ॥ 2]
चरकसंहिता, चिकित्सास्थान, 22 [तृष्णाचिकित्सित]
अथातस्तृष्णाचिकित्सितं व्याख्यास्यामः ॥ चर्_6,22.1
इति ह स्माह भगवानात्रेयः ॥ चर्_6,22.2
[{आयुर्वेददीपिका}
विसर्पे प्रायेण तृष्णा उपद्रवरूपा भवतीति विसर्पानन्तरं तृष्णाचिकित्सितम् उच्यते ॥ 1]
ज्ञानप्रशमतपोभिः ख्यातोऽत्रिसुतो जगद्धितेऽभिरतः ।
तृष्णानां प्रशमार्थं चिकित्सितं प्राह पञ्चानाम् ॥ चर्_6,22.3
[{आयुर्वेददीपिका}
ज्ञानेत्यादौ ज्ञानं तत्त्वज्ञानं प्रशमः शान्तिः तपः चान्द्रायणादि ॥ 1
चिकित्सितं चिकित्साविधायको ग्रन्थः निदानाद्यभिधानं च चिकित्सार्थमेव निदानादिज्ञानपूर्वकत्वाच् चिकित्सायाः ॥ 2
पञ्चानामिति वचनेन पञ्चानामपि चिकित्साविषयत्वं दर्शयति नहि कासश्वासवदस्यासाध्यत्वं कस्याश्चिद् अत्रेत्यर्थः तथा सुश्रुतोक्तातिरिक्ततृष्णाद्वयान्तर्भावं पञ्चस्वेव सूचयति ॥ 3
उक्तं हि सुश्रुते तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथा ह्य् आमसमुद्भवा च ॥ 4
स्यात् सप्तमी भक्तनिमित्तजा च इति ॥ 5]
क्षोभाद्भयाच्छ्रमाद् अपि शोकात् क्रोधाद् विलङ्घनान्मद्यात् ।
क्षाराम्ललवणकटुकोष्णरूक्षशुष्कान्नसेवाभिः ॥ चर्_6,22.4
धातुक्षयगदकर्षणवमनाद्यतियोगसूर्यसंतापैः ।
पित्तानिलौ प्रवृद्धौ सौम्यान् धातूंश् च शोषयतः ॥ चर्_6,22.5
रसवाहिनीश्च नाडीर् जिह्वामूलगलतालुकक्लोम्नः ।
संशोष्य नृणां देहे कुरुतस्तृष्णां महाबलावेतौ ॥ चर्_6,22.6
पीतं पीतं हि जलं शोषयतस्तावतो न याति शमम् ।
घोरव्याधिकृशानां प्रभवत्युपसर्गभूता सा ॥ चर्_6,22.7
[{आयुर्वेददीपिका}
क्षोभाद् इत्याद्युक्तनिदानस्य यथायोग्यतया वातकर्तृत्वं वातपित्तकर्तृत्वं चोन्नेयम् ॥ 1
पित्तानिलाव् इत्यादिः सर्वतृष्णासम्प्राप्तिग्रन्थः ॥ 2
सौम्यान् धातूनिति कफरसोदकानि सोमगुणातिरिक्तानि ॥ 3
प्रदूषयत इति शोषणेन दूषयतः ॥ 4
क्लोम्न इति द्वितीयाबहुवचनान्तम् ॥ 5
देहे इत्यनेन एतासां तृष्णानां शरीरत्वं दर्शयति ॥ 6
या हि मानसी तृष्णा सा शरीरे इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्तते इत्यादाव् उक्ता इयं तु देहाश्रयदोषकारणा सती देहजैवेति भावः ॥ 7
स्वाभाविकतृष्णायाम् अपि वातपित्ते आरम्भके एव तत् किं साप्यत्र न गृह्यते ॥ 8
मैवं तस्या उचितद्रवपानेनैवाभिप्रेतेन प्रशमाद् इह अस्वाभाविकव्याधिप्रकरणे नाधिकार इति हृदि कृत्वा ॥ 9
स्वाभाविकतृष्णाकरवातपित्ताभ्यां वक्ष्यमाणतृष्णारम्भकवातपित्तयोर् विशेषमाह पीतं पीतम् इत्यादि ॥ 10
प्रकृततृष्णारम्भकौ पित्तवातौ पीतं पीतं जलं शोषयतः अतो जलशोषणत्वाद्धेतोर् न शमं याति पुरुषः स्वाभाविक्यां जलं पीत्वा शान्तिमधिगच्छतीति भावः ॥ 11
उपद्रवरूपतृष्णोत्पादम् आह घोरेत्यादि ॥ 12
उपसर्गभूता इति उपद्रवरूपा ॥ 13]
प्राग्रूपं मुखशोषः स्वलक्षणं सर्वदाम्बुकामित्वम् ।
तृष्णानां सर्वासां लिङ्गानां लाघवमपायः ॥ चर्_6,22.8
[{आयुर्वेददीपिका}
तृष्णाप्राग्रूपम् आह प्राग्रूपम् इत्यादि ॥ 1
प्राग्रूपकथने एव मध्ये तृष्णानामव्यभिचारिलक्षणम् आह स्वलक्षणम् इत्यादि ॥ 2
स्वलक्षणम् इति अव्यभिचारिलक्षणं यथा ज्वरस्य संतापः श्वयथोर् उत्सेधः ॥ 3
पुनः प्रकृतं प्राग्रूपम् आह लिङ्गानां लाघवमपाय इति ॥ 4
लिङ्गानां वक्ष्यमाणवातादिजतृष्णालिङ्गानां लाघवम् अल्पत्वं केषांचिच् चाभावः पूर्वरूपं तृष्णानाम् इत्यर्थः ॥ 5
तेन पूर्वरूपावस्थायां वक्ष्यमाणलक्षणानि कानिचिन् न भवन्त्येव यानि च भवन्ति तान्यल्पतयास्फुटानि भवन्ति ॥ 6
उक्तं च अव्यक्तं लक्षणं तस्य पूर्वरूपम् इति स्मृतम् इति ॥ 7
किंवा यदेतत् प्राग्रूपं मुखशोषः स्वलक्षणं सर्वदाम्बुकामित्वम् एतत् प्राग्रूपं स्वलक्षणं च तृष्णानां तेन मुखशोषाम्बुकामित्वे स्वलक्षणे तथा पूर्वरूपे च भवतः पूर्वरूपावस्थायां त्व् अप्रबले मुखशोषाम्बुकामित्वे ज्ञेये ॥ 8
ये तु प्राग्रूपं मुखशोषः स्वरक्षयः सर्वदाम्बुकामित्वम् इति पठन्ति तेषां मते तृष्णायाः स्वलक्षणं नोक्तं स्यात् ॥ 9
उक्तं च हारीतेऽपि तृष्णास्वलक्षणं स्वलक्षणं तु तृष्णानां सर्वदाम्बुपिपासिता इति ॥ 10
किंवा मुखशोषस्वरक्षये एव पूर्वरूपं सर्वदाम्बुकामित्वं च स्वलक्षणं लिङ्गानां च लाघवं रोगरूपायास् तृष्णाया अपायो गमनमित्यर्थः अयमेव तृष्णाव्युपरमो यद् वक्ष्यमाणलिङ्गानाम् अल्पत्वं सर्वथोच्छेदो हि तृष्णालक्षणानां न भवत्येव सहजतृष्णाग्रस्तत्वेनैतल्लक्षणानाम् अल्पमात्रतयावस्थानात् ॥ 11
कैश्चित् तु लिङ्गानां लाघवम् आशूत्पादः स च अपायो मरणम् इति कृत्वा तृष्णानामसाध्यतालक्षणमिदमुच्यते तन्नातिमनोहरम् ॥ 12]
मुखशोषस्वरभेदभ्रमसंतापप्रलापसंस्तम्भान् ।
ताल्वोष्ठकण्ठजिह्वाकर्कशतां चित्तनाशं च ॥ चर्_6,22.9
जिह्वानिर्गममरुचिं बाधिर्यं मर्मदूयनं सादम् ।
तृष्णोद्भूता कुरुते पञ्चविधां लिङ्गतः शृणु ताम् ॥ चर्_6,22.10
[{आयुर्वेददीपिका}
सर्वतृष्णानामुपद्रवान् आह मुखशोषेत्यादि ॥ 1
उद्भूतेति वृद्धा ॥ 2
ये तु मुखशोषादीनि लक्षणान्याहुस्तन्मते तृष्णोपद्रवानाम् अभिधानं न स्यात् उपद्रवाश्चाध्यायसंग्रहे संगृहीताः तेनातिशयवृद्धा मुखशोषादय उपद्रवाः वृद्धास्तु लिङ्गम् इति व्यवस्था ॥ 3]
अब्धातुं देहस्थं कुपितः पवनो यदा विशोषयति ।
तस्मिञ्शुष्के शुष्यत्यबलस्तृष्यत्यथ विशुष्यन् ॥ चर्_6,22.11
[{आयुर्वेददीपिका}
अब्धातुम् इत्यादिना पञ्चानां सम्प्राप्त्याद्य् आह ॥ 1
देहस्थमिति देहे नानारसादिरूपतया स्थितम् ॥ 2
शुष्के ऽब्धातौ शुष्यतीति योज्यम् ॥ 3]
निद्रानाशः शिरसो भ्रमस्तथा शुष्कविरसमुखता च स्रोतोऽवरोध इति च स्याल्लिङ्गं वाततृष्णायाः ॥ चर्_6,22.12
[{आयुर्वेददीपिका}
स्रोतोऽवरोध इति अत्युपघातः ॥ 1]
पित्तं मतमाग्नेयं कुपितं चेत् तापयत्य् अपां धातुम् ।
संतप्तः स हि जनयेत्तृष्णां दाहोल्बणां नृणाम् ॥ चर्_6,22.13
तिक्तास्यत्वं शिरसो दाहः शीताभिनन्दता मूर्छा ।
पीताक्षिमूत्रवर्चस्त्वम् आकृतिः पित्ततृष्णायाः ॥ चर्_6,22.14
[{आयुर्वेददीपिका}
पित्तमित्यादिना पित्तजाम् आह ॥ 1
शरीरसंख्याशरीरे पित्तमाप्यम् उक्तं यद् द्रवसरस्निग्धमन्दमृदुपिच्छिलं रसरुधिरवसाकफपित्तस्वेदादि तद् आप्यं रसो रसनं च इत्यनेन तथा तत्रैव यत् पित्तस्य यो या च शरीरे भाः तत् सर्वम् आग्नेयम् इत्यनेन द्वयात्मकत्वं पित्तस्य यद्यप्युक्तं तथाप्याग्नेयाकारत्वाद् बाहुल्यात् पित्तम् आग्नेयम् एवेति दर्शयन्नाह पित्तं मतम् आग्नेयम् इति द्वयात्मकत्वे ऽपि च पित्तस्याग्नेयांशप्राधान्याद् अन्यत्रापि सौम्याग्नेयवायव्यविकारभेदे पैत्तिकविकारा आग्नेयत्वेन गृहीता एव ॥ 2
संतप्तः स हीति अब्धातुः संतप्तः ॥ 3
संतप्तं हि इति पाठपक्षे पित्तमेव जनयेदिति योज्यम् ॥ 4
यदाब्धातुर् जनयति तदा पित्तसंतप्त एव जनयतीति पित्तस्यैव कर्तृत्वम् ॥ 5]
तृष्णा यामप्रभवा साप्याग्नेयामपित्तजनितत्वात् ।
लिङ्गं तस्याश् चारुचिर् आध्मानकफप्रसेकौ च ॥ चर्_6,22.15
[{आयुर्वेददीपिका}
तृष्णेत्यादिनामजाम् आह ॥ 1
आमशब्देन चेह लक्षणया आमसमानचिकित्सित आमसमानलक्षणश् च कफो ऽपि गृह्यते ॥ 2
तेनामप्रभवाया व्युत्पादनेन कफजापि सुश्रुतोक्ता गृहीतैवेह साप्याग्नेयेत्यनेन पूर्वपरिज्ञातं सर्वासां वातपित्तजन्यत्वं समुन्नयति ॥ 3
वातश्च तृष्णाकारणत्वेनोक्तोऽप्यत्राप्रधानं पित्तमेव ये प्रधानम् इतीह वाताकथनाद् उन्नीयते ॥ 4
अन्यत्राप्युक्तं दर्शनपक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम् ॥ 5
प्रभाप्रसादौ मेधा च पित्तकर्माविकारजम् इति ॥ 6
आमपित्तजनितत्वाद् इति आमावरोधवृद्धपित्तजनितत्वाद् इत्यर्थः ॥ 7]
देहो रसजोऽम्बुभवो रसश्च तस्य क्षयाच्च तृष्येद्धि ।
दीनस्वरः प्रताम्यन् संशुष्कहृदयगलतालुः ॥ चर्_6,22.16
[{आयुर्वेददीपिका}
देहो रसज इत्यादिना क्षयजाम् आह ॥ 1
आहाररसात् सर्वधातुपोषको धातुरस उत्पद्यते स च रसो देहपोषको ऽम्बुभव इति आप्य इत्यर्थः ॥ 2
तस्य क्षयादिति रसक्षयात् तृष्यते रसक्षयाद् अम्बुक्षयो भवति तेन चाम्बुक्षयेण पुरुषः पानीयप्रार्थनारूपतृष्णया युक्तो भवतीति युक्तम् इति दर्शयति ॥ 3
उक्तं हि सुश्रुते दोषधातुमलक्षीणो बलक्षीणोऽपि मानवः ॥ 4
स्वयोनिवर्धनं यत् तद् अन्नपानं प्रकाङ्क्षति इति इहापि चोक्तं तस्य क्षयाच्च तृष्येद्धि इति ॥ 5]
भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा ।
ज्वरमेहक्षयशोषश्वासाद्युपसृष्टदेहानाम् ॥ चर्_6,22.17
[{आयुर्वेददीपिका}
भवतीत्यादिनोपसर्गजाम् आह ॥ 1
उपसर्गादिति ज्वराद्युपद्रवात् ज्वराद्युपद्रवरूपतयेति यावत् ॥ 2
कष्टेति कष्टसाध्या ॥ 3
एवं प्राक्सूत्रितवातपित्तामाम्बुक्षयोपसर्गात्मिकाः पञ्च तृष्णा व्याहृताः अत्रैव सुश्रुतोक्ता कफजा आमजायाम् अवरुद्धा क्षतजा उपसर्गात्मिकायाम् अवरुद्धा अन्नजा चामजायाम् एवान्तर्भावनीया ॥ 4]
सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम् ।
घोरोपद्रवयुक्तास् तृष्णा मरणाय विज्ञेयाः ॥ चर्_6,22.18
[{आयुर्वेददीपिका}
इदानीं तृष्णानामसाध्यतालक्षणम् आह सर्वास्त्वित्यादि ।
घोरोपद्रवयुक्तेति पीडाकरोपद्रववती ॥ 1]
मूल पाठ: Carakasaṃhitā-parts with the Āyurvedadīpikā · Edition: J. Trikamji Varanasi: Chaukhambha Sanskrit Sansthan, 1994 (Kashi Sanskrit Series, 228) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0