भाषा

ENहिગુ
ग्रंथ पाठ

चरक संहिता (टीका सहित) · भाग 6180

अवरमध्यमाभ्यां लक्षितः पुरुषः ॥ 9
प्रवरमिति सर्वरसम् ॥ 10
सात्म्यमुपपादयेत् अभ्यसेद् इत्यर्थः ॥ 11
क्रमेणेति यथोक्ताभ्यासक्रमेण ॥ 12
उपपादितसर्वरससात्म्येनापि चाहारः प्रशस्तप्रकृत्यादिसम्पन्न एव कर्तव्य इत्याह सर्वरसम् इत्यादि ॥ 13
अभिसमीक्ष्येति हिताहितत्वेन विचार्य ॥ 14
हितमेवेति पदेन यदेव प्रकृत्यादिना हितं तद् एवानुरुध्येत सेवेतेत्यर्थः ॥ 15]
तत्र खल्विमान्यष्टाव् आहारविधिविशेषायतनानि भवन्ति तद्यथा प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि भवन्ति ॥ चर्_3,1.21
[{आयुर्वेददीपिका}
आहारस्य विधिः प्रकारो विधानं वा इत्याहारविधिः तस्य विशेषो हितत्वमहितत्वं च तस्यायतनानि हेतून् इत्य् आहारविधिविशेषायतनानि ॥ 1
आहारप्रकारस्य हितत्वमहितत्वं च प्रकृत्यादिहेतुकम् इत्यर्थः ॥ 2
उपयोक्ता अष्टमो येषां तान्युपयोक्त्रष्टमानि ॥ 3]
तत्र प्रकृतिर् उच्यते स्वभावो यः स पुनराहारौषधद्रव्याणां स्वाभाविको गुर्वादिगुणयोगः तद्यथा मषमुद्गयोः शूकरैणयोश्च ।
[{आयुर्वेददीपिका}
उक्तानि प्रकृत्यादिना विभजते तत्रेत्यादिना ॥ 1
स्वाभाविक इति संस्काराद्यकृतः ॥ 2
माषमुद्गयोर् इति प्रकृत्या माषे गुरुत्वं मुद्गे च लघुत्वं शूकरे गुरुत्वम् एणे च लघुत्वम् ॥ 3]
करणं पुनः स्वाभाविकानां द्रव्याणाम् अभिसंस्कारः ।
संस्कारो हि गुणान्तराधानम् उच्यते ।
ते गुणास् तोयाग्निसंनिकर्षशौचमन्थनदेशकालवासनभावनादिभिः कालप्रकर्षभाजनादिभिश् चाधीयन्ते ।
[{आयुर्वेददीपिका}
द्रव्याणाम् इति वक्तव्ये स्वाभाविकानाम् इति यत् करोति तेनोत्पत्तिकाले जनकभूतैः स्वगुणारोपणं संस्कारस्तूत्पन्नस्यैव तोयादिना गुणान्तराधानमिति दर्शयति ॥ 1
तच्च प्राकृतगुणोपमर्देनैव क्रियते यथा तोयाग्निसंनिकर्षशौचैस् तण्डुलस्थं गौरवम् उपहत्य लाघवम् अन्ने क्रियते ॥ 2
यदुक्तं सुधौतः प्रस्रुतः स्विन्नः संतप्तश् चौदनो लघुः ॥ 3
तथा रक्तशाल्यादेर्लघोर् अप्यग्निसंयोगादिना लाघवं वर्धते ॥ 4
मन्थनाद्गुणाधानं यथा शोथकृद् दधि शोथघ्नं सस्नेहमपि मन्थनात् इति ॥ 5
देशेन यथा भस्मराशेर् अधः स्थापयेत् इत्यादौ ॥ 6
वासनेन गुणाधानं यथापाम् उत्पलादिवासनेन सुगन्धानुकरणम् ॥ 7
भावनया च स्वरसादिकृतया स्थितस्यैवामलकादेर् गुणस्योत्कर्षो भवति ॥ 8
कालप्रकर्षाद्यथा पक्षाज्जातरसं पिबेद् इत्यादि ॥ 9
भाजनेन यथा त्रैफलेनायसीं पात्रीं कल्केनालेपयेत् इत्यादौ ॥ 10
आदिग्रहणात् पेषणाभिमन्त्रणादि गृह्यते ॥ 11
ननु संस्काराधेयेन गुणेन कथं स्वाभाविकगुणनाशः क्रियते यतः स्वभावो निष्प्रतिक्रियः इत्युक्तं यदि हि संस्कारेण स्वाभाविकगुरुत्वं प्रतिक्रियते तदा स्वभावो निष्प्रतिक्रियः इति कथं ब्रूमः स्वभावो निष्प्रतिक्रियः इति स्वभावो भावानाम् उत्पत्तौ नान्यथा क्रियते ॥ 12
तेन जातिप्रतिबद्धं माषादीनां गुरुत्वं न तज्जातौ स्फोटयितुं पार्यते संस्कारेण तु तदन्यथाकरणमनुमतमेव दृष्टत्वात् ॥ 13
कश्चित् तु गुणो द्रव्याणां संस्कारादिनापि नान्यथा क्रियते यथा वह्नेर् औष्ण्यं वायोश्चलत्वं तैलस्य स्नेह इत्यादि ॥ 14
एते हि यावद्द्रव्यभाविन एव गुणाः ॥ 15
गौरवादयस्तु पुराणधान्यादिष्वप्यपगमदर्शनान् न यावद्द्रव्यभाविनः ॥ 16
उक्तं हि गुणो द्रव्यविनाशाद् वा विनाशम् उपगच्छति ॥ 17
गुणान्तरोपधानाद् वा इति ॥ 18
यत्र तु संस्कारेण व्रीहेर्लाजलक्षणं द्रव्यान्तरमेव जन्यते तत्र गुणान्तरोत्पादः सुष्ठ्वेव ॥ 19]

संयोगः पुनर् द्वयोर् बहूनां वा द्रव्याणां संहतीभावः स विशेषमारभते यं पुनर् नैकैकशो द्रव्याण्यारभन्ते तद् यथा मधुसर्पिषोः मधुमत्स्यपयसां च संयोगः ।
[{आयुर्वेददीपिका}
संयोगम् आह संयोगस् त्व् इत्यादि ॥ 1
स विशेषमारभत इति संयुज्यमानद्रव्यैकदेशे ऽदृष्टं कार्यम् आरभत इत्यर्थः ॥ 2
यं नैकैकश इति यं विशेषं प्रत्येकसंयुज्यमानानि द्रव्याणि नारभन्त इत्यर्थः ॥ 3
मधुसर्पिषी हि प्रत्येकममारके मिलिते तु मारके भवतः क्षीरमत्स्यादिसंयोगश्च कुष्ठादिकरो भवति ॥ 4
संयोगस् त्व् इह प्राधान्येनैवोपलभ्यमानद्रव्यमेलको विवक्षितस् तेन भावनादिष्वपि यद्यपि संयोगो ऽस्ति तथापि तत्र भावनाद्रव्याणां प्राधान्येनानुपलब्धेर् न संयोगेन ग्रहणम् ॥ 5]
राशिस्तु सर्वग्रहपरिग्रहौ मात्रामात्रफलविनिश्चयार्थः ।
तत्र सर्वस्याहारस्य प्रमाणग्रहणम् एकपिण्डेन सर्वग्रहः परिग्रहः पुनः प्रमाणग्रहणम् एकैकश्येनाहारद्रव्याणाम् ।
सर्वस्य हि ग्रहः सर्वग्रहः सर्वतश्च ग्रहः परिग्रह उच्यते ।
[{आयुर्वेददीपिका}
राशिः प्रमाणम् ॥ 1
मात्रामात्रफलविनिश्चयार्थ इति मात्रावदाहारौषधस्य च यत् फलं शुभम् अमात्रस्य हीनस्यातिरिक्तस्य वा यत् फलम् अशुभम् ॥ 2
यदुक्तं तस्य ज्ञानार्थम् उचितप्रमाणम् अनुचितप्रमाणं च राशिसंज्ञं भवति ॥ 3
सर्वग्रहं विवृणोति तत्रेत्यादि ॥ 4
सर्वस्येति मिश्रीकृतस्यान्नमांससूपादेर् एकपिण्डेन मानम् ॥ 5
परिग्रहं विवृणोति परिग्रहः पुनर् इत्यादि ॥ 6
एकैकश्येनेति अन्नस्य कुडवः सूपस्य पलं मांसस्य द्विपलमित्याद्यवयवमानपूर्वकं समुदायमानम् ॥ 7
सर्वग्रहे प्रत्यवयवमाननियमो नास्ति तेन येन केनचिद् आहारेण प्रत्येकमनियतमानेन सम्पूर्णाहारमात्रानियमनं सर्वग्रहः ॥ 8
एतदेव शब्दव्युत्पत्त्या दर्शयति सर्वस्य हीत्यादि ॥ 9
सर्वत इति प्रत्येकावयवत इत्यर्थः ॥ 10]
देशः पुनः स्थानं स द्रव्याणामुत्पत्तिप्रचारौ देशसात्म्यं चाचष्टे ।
[{आयुर्वेददीपिका}
देशं विभजते देश इत्यादि ॥ 1
स्थानग्रहणेनाहारद्रव्यस्य तथा भोक्तुश्च स्थानं दर्शयति ॥ 2
आचष्ट इति द्रव्यस्योत्पत्तिप्रचारादिकृतगुणज्ञानहेतुर् भवति ॥ 3
तत्रोत्पत्त्या हिमवति जातं गुणवद्भवति मरौ जातं लघु भवति इत्यादि ॥ 4
प्रचारेण लघु भक्ष्याणां प्राणिनां तथा धन्वप्रचारिणां बहुक्रियाणां च लाघवं विपर्यये च गौरवं गृह्यते ॥ 5
देशसाम्येन च देशविपरीतगुणं सात्म्यं गृह्यते यथानूपे उष्णरूक्षादि धन्वनि च शीतस्निग्धादि ॥ 6
ओकसात्म्यं तु उपयोक्तृग्रहणेन गृहीतम् ॥ 7]
कालो हि नित्यगश् चावस्थिकश्च तत्रावस्थिको विकारमपेक्षते नित्यगस्तु ऋतुसात्म्यापेक्षः ।
[{आयुर्वेददीपिका}
नित्यग इति अहोरात्रादिरूपः ॥ 1
आवस्थिक इति रोगित्वबाल्याद्यवस्थाविशेषित इत्यर्थः ॥ 2
विकारमपेक्षत इति बाल्यादिकृतं तु श्लेष्मविकारं ज्वरादिकं चाहारनियमार्थमपेक्षत इत्यर्थः ॥ 3
ऋतुसात्म्यं हि ऋतुमपेक्षत इति ऋतुसात्म्यापेक्षः ॥ 4]
उपयोगसंस्था योगनियमः स जीर्णलक्षणापेक्षः ।
[{आयुर्वेददीपिका}
एवमाहारोपयोगः कर्तव्य एवं न कर्तव्य इत्युपयोगनियमः स जीर्णलक्षणापेक्ष इति प्राधान्येनोक्तः ॥ 1
तेनेह अजल्पन्न् अहसन् नातिद्रुतं नातिविलम्बितम् इत्याद्युपयोगनियममप्यपेक्षत एव अजीर्णभोजने तु महांस्त्रिदोषकोपलक्षणो दोषो भवतीत्ययम् एवोदाहृतः ॥ 2]

उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते यदायत्तम् ओकसात्म्यम् ।
इत्यष्टाव् आहारविधिविशेषायतनानि व्याख्यातानि भवन्ति ॥ चर्_3,1.22
[{आयुर्वेददीपिका}
यदायत्तम् ओकसात्म्यम् इति भोक्तृपुरुषापेक्षं ह्य् अभ्याससात्म्यं भवति कस्यचिद्धि किंचिद् एवाभ्यासात् पथ्यमपथ्यं वा सात्म्यं भवति ॥ 1]
एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति तान् बुभुत्सेत बुद्ध्वा च हितेप्सुरेव स्यात् न च मोहात् प्रमादाद्वा प्रियम् अहितम् असुखोदर्कम् उपसेव्यम् आहारजातम् अन्यद्वा किंचित् ॥ चर्_3,1.23
[{आयुर्वेददीपिका}
एषामित्यादौ शुभफला विशेषा अशुभफलाश्च परस्परोपकारका भवन्तीति ज्ञेयम् ॥ 1
तत्र प्रकृत्या लाघवादिः शुभफलः गुर्वादिश् चाशुभफलः ॥ 2
करणाद्याधेयोऽपि विशेषः शास्त्रोक्तः शुभः निषिद्धस्त्वशुभः ॥ 3
देशासात्म्यं निन्दितदेशभवत्वादि च द्रव्यस्याशुभफलम् ॥ 4
एवं कालासात्म्यमशुभफलं चाजीर्णभोजनादि तथा ओकासात्म्यं चाशुभमशुभफलमिति ज्ञेयं विपरीतं तु शुभफलम् ॥ 5
मोहादिति अज्ञानात् प्रमादादिति ज्ञात्वापि रागाद् इत्यर्थः ॥ 6
प्रियमिति तदात्वमात्रप्रियम् ॥ 7
अहितमित्यस्य विवरणमसुखोदर्कम् इति ॥ 8
असुखं दुःखरूपम् उदर्क उत्तरकालीनं फलं यस्य स तथा ॥ 9
अन्यद्वेति भेषजविहारादि ॥ 10]
तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषांचित् काले प्रकृत्यैव हिततमं भुञ्जानानां भवति उष्णं स्निग्धं मात्रावत् जीर्णे वीर्याविरुद्धम् इष्टे देशे इष्टसर्वोपकरणं नातिद्रुतं नातिविलम्बितम् अजल्पन् अहसन् तन्मना भुञ्जीत आत्मानमभिसमीक्ष्य सम्यक् ॥ चर्_3,1.24
[{आयुर्वेददीपिका}
तत्रेत्यादौ इदमिति वक्ष्यमाणम् ॥ 1
आहारविधिर् विधीयते येनोष्णस्निग्धादिना वक्ष्यमाणेन तदाहारविधिविधानम् ॥ 2
आतुराणां च केषांचिदिति पदेन रक्तपित्तिनां शीतमेव कफरोगिणां रूक्षमेव हितमित्यादिविपर्ययं दर्शयति ॥ 3
केषांचिद्भुञ्जानानाम् इदम् आहारविधिविधानं हिततमं भवतीति योजना ॥ 4
प्रकृत्यैवेति स्वभावेनैव हिततमं हिततमम् इत्युक्तं तेन यत् प्रकृत्या हितं तत् कदाचिदेव कंचिदेव पुरुषम् आसाद्याहितं भवति तच्च कादाचित्कत्वाद् अनादृतं तेन प्रायिकत्वादेनं हिततमं वक्ष्याम इति भावः ॥ 5
उष्णमित्यादौ सम्यगिति छेदः ॥ 6]
तस्य साद्गुण्यम् उपदेक्ष्याम उष्णम् अश्नीयाद् उष्णं हि भुज्यमानं स्वदते भुक्तं चाग्निम् औदर्यम् उदीरयति क्षिप्रं जरां गच्छति वातम् अनुलोमयति श्लेष्माणं च परिह्रासयति तस्मादुष्णम् अश्नीयात् ।
स्निग्धमश्नीयात् स्निग्धं हि भुज्यमानं स्वदते भुक्तं चानुदीर्णम् अग्निम् उदीरयति क्षिप्रं जरां गच्छति वातमनुलोमयति शरीरमुपचिनोति दृढीकरोतीन्द्रियाणि बलाभिवृद्धिम् उपजनयति वर्णप्रसादं चाभिनिर्वर्तयति तस्मात् स्निग्धमश्नीयात् ।
[{आयुर्वेददीपिका}
तस्येति उष्णादिगुणयुक्तस्यान्नस्य ॥ 1
साद्गुण्यमिति प्रशस्तगुणयोगिताम् ॥ 2
परिह्रासयतीति भिन्नसंघातं करोति ॥ 3]
मात्रावदश्नीयात् मात्रावद्धि भुक्तं वातपित्तकफान् अपीडयद् आयुर् एव विवर्धयति केवलं सुखं गुदम् अनुपर्येति न चोष्माणमुपहन्ति अव्यथं च परिपाकमेति तस्मान्मात्रावद् अश्नीयात् ।
[{आयुर्वेददीपिका}
मात्रावदिति प्रशंसायां मतुप् तेन प्रशस्तमात्रम् इत्यर्थः ॥ 1
अपीडयदिति अनतिमात्रत्वेन स्वस्थानस्थितं सद्वातादीन् स्थानापीडनाद् अप्रकोपयत् ॥ 2
गुदम् अनुपर्येतीति परिणतं सदनुरूपतया निःसरतीत्यर्थः ॥ 3
ऊष्माणं वह्निम् ॥ 4]
जीर्णे ऽश्नीयात् अजीर्णे हि भुञ्जानस्याभ्यवहृतम् आहारजातं पूर्वस्याहारस्य रसम् अपरिणतम् उत्तरेणाहाररसेनोपसृजत् सर्वान् दोषान् प्रकोपयत्याशु जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेष्वग्नौ चोदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे चोद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेष्वभ्यवहृतम् आहारजातं सर्वशरीरधातून् अप्रदूषयद् आयुर् एवाभिवर्धयति केवलं तस्माज्जीर्णे ऽश्नीयात् ।
[{आयुर्वेददीपिका}
पूर्वस्येति दिनान्तरकृतस्य ॥ 1
अपरिणतम् इति असम्यग्जातम् ॥ 2

आहाररसेनेति आहारपरिणामगतेन मधुरादिना किंवा आहारजेन रसेन ॥ 3
स्वस्थानस्थेषु दोषेष्वित्यादि जीर्णाहारस्य लक्षणम् ॥ 4]
वीर्याविरुद्धम् अश्नीयात् अविरुद्धवीर्यम् अश्नन् हि विरुद्धवीर्याहारजैर्विकारैर् नोपसृज्यते तस्माद् वीर्याविरुद्धम् अश्नीयात् ।
[{आयुर्वेददीपिका}
विरुद्धवीर्याहारजैर् इति कुष्ठान्ध्यविसर्पाद्यैर् आत्रेयभद्रकाप्यीयोक्तैः ॥ 1]
इष्टे देशे इष्टसर्वोपकरणं चाश्नीयात् इष्टे हि देशे भुञ्जानो नानिष्टदेशजैर्मनोविघातकरैर् भावैर् मनोविघातं प्राप्नोति तथैवेष्टैः सर्वोपकरणैः तस्मादिष्टे देशे तथेष्टसर्वोपकरणं चाश्नीयात् ।
[{आयुर्वेददीपिका}
मनोविघातकरैर्भावैरिति त्रिविधकुक्षीये वक्ष्यमाणैः कामादिभिश् चित्तोपतापकरैश् चित्तविकारैर् इत्यर्थः ॥ 1
तथेष्टैश्च सर्वोपकरणैर् भुञ्जानो मनोविघातं न प्राप्नोतीति योजना अनिष्टभोजनादेर् मनोविघातो भवति ॥ 2]
नातिद्रुतमश्नीयात् अतिद्रुतं हि भुञ्जानस्योत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं च भोज्यदोषसाद्गुण्योपलब्धिश् च न नियता तस्मान्नातिद्रुतम् अश्नीयात् ।
[{आयुर्वेददीपिका}
उत्स्नेहनम् उन्मार्गगमनम् ॥ 1
अवसादनम् अवसादः ॥ 2
अप्रतिष्ठानं हृदयस्थत्वेन कोष्ठाप्रवेशः ॥ 3
भोज्यगतानां दोषाणां केशादीनां साद्गुण्यस्य च स्वादुत्वादेः उपलब्धिर् न नियता भवति कदाचिदुपलभ्यते कदाचिन् नेति ॥ 4
तत्र दोषानुपलब्ध्या सदोषस्यैव भक्षणं साद्गुण्यानुपलब्ध्या च प्रीत्यभावः ॥ 5]
नातिविलम्बितम् अश्नीयात् अतिविलम्बितं हि भुञ्जानो न तृप्तिम् अधिगच्छति बहु भुङ्क्ते शीतीभवत्य् आहारजातं विषमं च पच्यते तस्मान्नातिविलम्बितम् अश्नीयात् ।
[{आयुर्वेददीपिका}
विषमं च पच्यत इति चिरकालभोजनेनाग्निसम्बन्धस्य वैषम्यादिति भावः ॥ 1]
अजल्पन्नहसन् तन्मना जल्पतो हसतो ऽन्यमनस वा भुञ्जानस्य त एव हि दोषा भवन्ति य एवातिद्रुतम् अश्नतः तस्माद् अजल्पन्नहसंस्तन्मना भुञ्जीत ।
[{आयुर्वेददीपिका}
य एवातिद्रुतम् अश्नतो दोषा इति उत्स्नेहनादयः ॥ 1]
आत्मानम् अभिसमीक्ष्य भुञ्जीत सम्यग् इदं ममोपशेते इदं नोपशेत इत्येवं विदितं ह्य् अस्यात्मन आत्मसात्म्यं भवति तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति ॥ चर्_3,1.25
[{आयुर्वेददीपिका}
नोपशेत इतीत्यत्र इतिशब्देन सात्म्यासात्म्यविधानोपदर्शकेन विचारफलमोकसात्म्यसेवनं दर्शयति ॥ 1
आत्मन इति पदेनात्मनैवात्मसात्म्यं प्रतिपुरुषं ज्ञायते न शास्त्रोपदेशेनेति दर्शयति ॥ 2]
रसान् द्रव्याणि दोषांश्च विकारांश्च प्रभावतः ।
वेद यो देशकालौ च शरीरं च स नो भिषक् ॥ चर्_3,1.26
[{आयुर्वेददीपिका}
अध्यायोक्तरसप्रभावादिज्ञानं स्तौति रसानित्यादि ।
स नो भिषगिति नो ऽस्माकं संमत इत्यर्थः ॥ 1]
विमानार्थो रसद्रव्यदोषरोगाः प्रभावतः ।
द्रव्याणि नातिसेव्यानि त्रिविधं सात्म्यमेव च ॥ चर्_3,1.27
आहारायतनान्यष्टौ भोज्यसाद्गुण्यमेव च ।
विमाने रससंख्याते सर्वमेतत्प्रकाशितम् ॥ चर्_3,1.28
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमोऽध्यायः ॥ चर्_3,1.29
[{आयुर्वेददीपिका}
दोषविकारौ च यद्यपि त्रिविधकुक्षीये प्रभावविस्तारेण वक्तव्यौ तथापीह संक्षेपेणोक्ताव् एव तेन दोषविकारप्रभावाव् अप्युक्ताव् इति यदुच्यते संग्रहे तत् साधु ॥ 1
तैलादिद्रव्यत्रयकथनं च द्रव्यप्रभावगृहीतमिति कृत्वा न पृथक् संग्रहे पठितम् ॥ 2]
चरकसंहिता, शारीरस्थान, 1

अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः ॥ चर्_5,1.1
इति ह स्माह भगवान् आत्रेयः ॥ चर्_5,1.2
कतिधा पुरुषो धीमन् धातुभेदेन भिद्यते ।
पुरुषः कारणं कस्मात् प्रभवः पुरुषस्य कः ॥ चर्_5,1.3
किम् अज्ञो ज्ञः स नित्यः किं किम् अनित्यो निदर्शितः ।
प्रकृतिः का विकाराः के किं लिङ्गं पुरुषस्य च ॥ चर्_5,1.4
निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम् ।
वदन्त्य् आत्मानम् आत्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा ॥ चर्_5,1.5
निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथम् ।
स्वतन्त्रश् चेद् अनिष्टासु कथं योनिषु जायते ॥ चर्_5,1.6
वशी यद्य् असुखैः कस्माद् भावैर् आक्रम्यते बलात् ।
सर्वाः सर्वगतत्वाच् च वेदनाः किं न वेत्ति सः ॥ चर्_5,1.7
न पश्यति विभुः कस्माच् छैलकुड्यतिरस्कृतम् ।
क्षेत्रज्ञः क्षेत्रम् अथवा किं पूर्वम् इति संशयः ॥ चर्_5,1.8
ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते ।
क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्याद् अशाश्वतः ॥ चर्_5,1.9
साक्षिभूतश् च कस्यायं कर्ता ह्य् अन्यो न विद्यते ।
स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः ॥ चर्_5,1.10
अथ चार्तस्य भगवंस् तिसृणां कां चिकित्सति ।
अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम् ॥ चर्_5,1.11
भविष्यन्त्या असंप्राप्तिर् अतीताया अनागमः ।
सांप्रतिक्या अपि स्थानं नास्त्य् अर्तेः संशयो ह्य् अतः ॥ चर्_5,1.12
कारणं वेदनानां किं किम् अधिष्ठानम् उच्यते ।
क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्य् अशेषतः ॥ चर्_5,1.13
सर्ववित् सर्वसंन्यासी सर्वसंयोगनिःसृतः ।
एकः प्रशान्तो भूतात्मा कैर् लिङ्गैर् उपलभ्यते ॥ चर्_5,1.14
इत्य् अग्निवेशस्य वचः श्रुत्वा मतिमतां वरः ।
सर्वं यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसुः ॥ चर्_5,1.15
खादयश् चेतनाषष्ठा धातवः पुरुषः स्मृतः ।
चेतनाधातुर् अप्य् एकः स्मृतः पुरुषसंज्ञकः ॥ चर्_5,1.16
पुनश् च धातुभेदेन चतुर्विंशतिकः स्मृतः ।
मनो दशेन्द्रियाण्य् अर्थाः प्रकृतिश् चाष्टधातुकी ॥ चर्_5,1.17
लक्षणं मनसो ज्ञानस्याभावो भाव एव च ।
सति ह्य् आत्मेन्द्रियार्थानां सन्निकर्षे न वर्तते ॥ चर्_5,1.18
वैवृत्त्यान् मनसो ज्ञानं सान्निध्यात् तच् च वर्तते ।
अणुत्वम् अथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ ॥ चर्_5,1.19
चिन्त्यं विचार्यम् ऊह्यं च ध्येयं संकल्प्यम् एव च ।
यत् किंचिन् मनसो ज्ञेयं तत् सर्वं ह्य् अर्थसंज्ञकम् ॥ चर्_5,1.20
इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः ।
ऊहो विचारश् च ततः परं बुद्धिः प्रवर्तते ॥ चर्_5,1.21

[{आयुर्वेददीपिका}
मनोगुणमभिधाय मनोविषयमाह चिन्त्यमित्यादि ॥ 1
चिन्त्यं कर्तव्यतया अकर्तव्यतया वा यन्मनसा चिन्त्यते ॥ 2
विचार्यम् उपपत्त्यनुपपत्तिभ्यां यद्विमृश्यते ॥ 3
ऊह्यं च यत् सम्भावनया ऊह्यते एवमेतद्भविष्यति इति ॥ 4
ध्येयं भावनाज्ञानविषयम् ॥ 5
संकल्प्यं गुणवत्तया दोषवत्तया वावधारणाविषयम् ॥ 6
यत् किंचिदित्यनेन सुखाद्यनुक्तविषयावरोधः ॥ 7
मनसो ज्ञेयमिति इन्द्रियनिरपेक्षमनोग्राह्यम् ॥ 8
एते च मनोऽर्थाः शब्दादिरूपा एव तेन षष्ठार्थकल्पनया न चतुर्विंशतिसंख्यातिरेकः ॥ 9
सुखादयस् तु शब्दादिव्यतिरिक्ता मनोऽर्था बुद्धिभेदग्रहणेनैव ग्राह्याः ॥ 10
मनोविषयमभिधाय मनःकर्माह इन्द्रियेत्यादि ॥ 11
इन्द्रियाभिग्रहः इन्द्रियाधिष्ठानं मनसः कर्म तथा स्वस्य निग्रहो मनसः कर्म मनो ह्य् अनिष्टविषयप्रसृतं मनसैव नियम्यते मनश्च गुणान्तरयुक्तं सद्विषयान्तरान् नियमयति इत्याहुरेके ॥ 12
यदुक्तम् विषयप्रवणं चित्तं धृतिभ्रंशान्न शक्यते ॥ 13
नियन्तुम् अहिताद् अर्थाद् धृतिर्हि नियमात्मिका इति ॥ 14
तेन धृत्या कारणभूतया आत्मानं नियमयतीति न स्वात्मनि क्रियाविरोधः ॥ 15
मनःकर्मान्तरम् आह ऊहो विचारश् चेति ॥ 16
अत्रोह आलोचनज्ञानं निर्विकल्पकम् विचारो हेयोपादेयतया विकल्पनम् ॥ 17
चतुर्विधं हि विकल्पकारणं सांख्या मन्यन्ते तत्र बाह्यम् इन्द्रियरूपम् आभ्यन्तरं तु मनोऽहंकारो बुद्धिश्चेति त्रितयम् ॥ 18
तत्रेन्द्रियाण्यालोचयन्ति निर्विकल्पेन गृह्णन्तीत्यर्थः मनस्तु संकल्पयति हेयोपादेयतया कल्पयतीत्यर्थः अहंकारो ऽभिमन्यते ममेदमहमत्राधिकृत इति मन्यत इत्यर्थः बुद्धिर् अध्यवस्यति त्यजाम्येनं दोषवन्तम् उपाददाम्येनं गुणवन्तम् इत्यध्यवसायं करोतीत्यर्थः ॥ 19
ऊहस् तु यद्यपि बाह्यचक्षुरादिकर्म तथापि तत्रापि मनोऽधिष्ठानम् अस्तीति मनःकर्मतयोक्तः ॥ 20
वचनं हि सान्तःकरणा बुद्धिः सर्वं विषयम् अवगाहते यस्मात् ॥ 21
तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि इति ॥ 22
ततः परं बुद्धिः प्रवर्तत इति ऊहविचारानन्तरं बुद्धिर् अध्यवसायं करोतीत्यर्थः ॥ 23
अहंकारव्यापारश् चाभिमननम् इहानुक्तो ऽपि बुद्धिव्यापारेणैव सूचितो ज्ञेयः ॥ 24
बुद्धिर्हि त्यजाम्येनमुपाददामीति वाध्यवसायं कुर्वती अहंकाराभिमत एव विषये भवति तेन बुद्धिव्यापारेणैवाहंकारव्यापारो ऽपि गृह्यते ॥ 25
बुद्धौ हि सर्वकरणव्यापारार्पणं भवति ॥ 26
यदुक्तम् एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ 27]
इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते ।
कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा ॥ चर्_5,1.22
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका ।
व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम् ॥ चर्_5,1.23
[{आयुर्वेददीपिका}
एतदेवोहविचारपूर्वकत्वं बुद्धेर् विवृणोति इन्द्रियेणेत्यादि ॥ 1
गृह्यते इति ऊहमात्रेण निर्विकल्पेन गृह्यते ॥ 2
गुणत इति उपादेयतया ॥ 3
दोषत इति हेयतया ॥ 4
बुद्ध्यध्यवसायं विवृणोति जायत इत्यादि ॥ 5
विषये तत्रेति मनसा कल्पिते विषये ॥ 6

निश्चयात्मिकेति स्थिरस्वरूपा अध्यवसायरूपेत्यर्थः ॥ 7
व्यवस्यतीति अनुष्ठानं करोति उद्युक्तो भवतीत्यर्थः बुद्ध्यध्यवसितमर्थं वक्तुं कर्तुं वानुतिष्ठतीति यावत् ॥ 8
बुद्धिपूर्वकमित्यनेन यदेव बुद्धिपूर्वकम् अनुष्ठानं तद् एवैवंविधं भवति नोन्मत्ताद्यनुष्ठानमिति दर्शयति ॥ 9]
एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु ।
पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते ॥ चर्_5,1.24
[{आयुर्वेददीपिका}
मनोऽभिधायेन्द्रियाण्यभिधत्ते तत्रापि ज्यायस्त्वाद् बुद्धीन्द्रियाणि प्रागाह एकैकेत्यादि ॥ 1
खादीनां मध्ये एकैकेनाधिकेन भूतेन युक्तानीन्द्रियाणि पञ्च चक्षुरादीनि एकैकाधिकपदेन पञ्चापि पाञ्चभौतिकानि परं चक्षुषि तेजोऽधिकमित्याद्युक्तं सूचयति ॥ 2
कर्मानुमेयानीति कार्यानुमेयानि कार्यं चक्षुर्बुद्ध्यादि ॥ 3
येभ्यो बुद्धिः प्रवर्तत इति यानि बुद्धीन्द्रियाणि तानीमानि पञ्चेति दर्शयति ॥ 4
यद्यपि च सांख्ये आहंकारिकाणीन्द्रियाणि यदुक्तं सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहंकाराद् इति तथापि मतभेदाद्भौतिकत्वम् इन्द्रियाणां ज्ञेयं किंवा औपचारिकम् एतद्भौतिकत्वम् इन्द्रियाणां ज्ञेयम् उपचारबीजं च यद् गुणभूयिष्ठं यद् इन्द्रियं गृह्णाति तत्तद्भूयिष्ठम् इत्युच्यते चक्षुस्तेजो गृह्णाति तेन तैजसम् उच्यते इत्यादि ज्ञेयम् ॥ 5]
हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च ।
कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि ॥ चर्_5,1.25
पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे ।
जिह्वावागिन्द्रियं वाक् च सत्या ज्योतिस्तमोऽनृता ॥ चर्_5,1.26
[{आयुर्वेददीपिका}
अथ कर्मेन्द्रियाण्याह हस्ताव् इत्यादि ॥ 1
हस्ताव् एकं पादौ चैकमिन्द्रियमेकरूपकर्मकर्तृतया ॥ 2
गुदोपस्थं चैकैकम् ॥ 3
वाच उपादानहानार्थं भेदमाह वाक् चेत्यादि ॥ 4
ज्योतिरिव ज्योतिः धर्मकर्तृत्वेनोभयलोकप्रकाशकारित्वात् एतद्विपर्ययेण तमः अनृता ॥ 5]
महाभूतानि खं वायुर् अग्निर् आपः क्षितिस्तथा ।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥ चर्_5,1.27
[{आयुर्वेददीपिका}
सम्प्रत्युद्देशक्रमानुरोधादर्थे ऽभिधातव्ये ऽर्थानां प्रकृतिग्रहणगृहीतपञ्चभूतगुणतया पराधीनत्वाद् अष्टधातुप्रकृतिगृहीतानि भूतान्येव तावदाह महाभूतानीत्यादि ॥ 1
शब्दादयो यथासंख्यं खादीनां नैसर्गिका गुणा ज्ञेयाः ॥ 2
यस्तु गुणोत्कर्षो ऽभिधातव्यः स हि अनुप्रविष्टभूतसम्बन्धाद् एव ॥ 3
तेन पृथिव्यां चतुर्भूतप्रवेशात् पञ्चगुणत्वम् एवं जलादाव् अपि चतुर्गुणत्वादि ज्ञेयम् ॥ 4]
तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे ।
पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मृतः ॥ चर्_5,1.28
[{आयुर्वेददीपिका}
नैसर्गिकं गुणमभिधाय भूतान्तरप्रवेशकृतं गुणम् आह तेषाम् इत्यादि ॥ 1
एकगुणः पूर्व इति पूर्वो धातुः खरूपः शब्दैकगुणः ॥ 2
पुंलिङ्गता च खादीनां धातुरूपताबुद्धिस्थीकृतत्वात् उक्तं हि खादयश् चेतनाषष्ठा धातवः इति ॥ 3
यथा यथा च परत्वं तथा तथा च गुणवृद्धिर् यथासंख्यम् ॥ 4
ननु एतावता ऽप्य् एकगुणत्वद्विगुणत्वादि न नियमेन ज्ञायते को गुणः क्व भूते इत्याह पूर्व इत्यादि ॥ 5
गुणिषु खादिषु धातुषु पूर्वो गुणः क्रमेण यथासंख्यं वर्तते न केवलं पूर्वः किंतु पूर्वस्यापि यो गुणः स च पूर्वगुण उत्तरे भूते वर्तते ॥ 6
तेन खे पूर्वे पूर्वः शब्दगुणो वर्तते वायौ तु स्पर्शः क्रमप्राप्तः पूर्वो भवति पूर्वगुणश्च शब्द इति द्विगुणत्वम् एवमग्न्यादौ च ज्ञेयम् ॥ 7
गन्धस् तूत्तरगुणान्तराभावान्न पूर्वो भवति तथापि गन्धश् च तद्गुणाः इति ग्रन्थे तद्गुणा इतिपदापेक्षया गन्धस्य पूर्वत्वं कल्पनीयं किंवा पूर्व इति छत्त्रिणो गच्छन्तीति न्यायेनोक्तं तेनापूर्वो ऽपि गन्धः क्रमागतः पृथिव्यां ज्ञेयः ॥ 8]
खरद्रवचलोष्णत्वं भूजलानिलतेजसाम् ।

आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम् ॥ चर्_5,1.29
लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरम् ।
स्पर्शनेन्द्रियविज्ञेयः स्पर्शो हि सविपर्ययः ॥ चर्_5,1.30
[{आयुर्वेददीपिका}
भूतानाम् असाधारणं लक्षणमाह खरेत्यादि ॥ 1
अप्रतीघातः अप्रतिहननम् अस्पर्शत्वम् इति यावत् स्पर्शवद्धि गतिविघातकं भवति नाकाशः अस्पर्शवत्त्वात् ॥ 2
सर्वमेवैतदिति खरत्वादि ॥ 3
स्पर्शनेन्द्रियगोचरमिति स्पर्शनेन्द्रियज्ञेयम् ॥ 4
कथमेतत्सर्वं स्पर्शनेन्द्रियज्ञेयम् इत्याह स्पर्शनेत्यादि ॥ 5
सविपर्यय इति स्पर्शाभाव इत्यर्थः ॥ 6
यद् इन्द्रियं यद्गृह्णाति तत्तस्याभावमपि गृह्णाति तेन आकाशस्यास्पर्शत्वम् अपि स्पर्शनेन्द्रियग्राह्यम् इति युक्तम् ॥ 7
द्रवत्वं चलत्वं च सांख्यमते स्पर्शनग्राह्यत्वात् स्थूलभूतवातधर्मः स्पर्श एव यद्धि स्पर्शनेन गृह्यते तत् सर्वं महाभूतवातपरिणाम एव ॥ 8
एतानि च खादीनि सूक्ष्माणि तन्मात्ररूपाणि ज्ञेयानि स्थूलभूतानि तु खादीनि विकारतया तत्रोक्तानि ॥ 9
प्रकृतिवर्गे सूक्ष्मरूपास्तन्मात्रा उक्ताः ॥ 10
वचनं हि तन्मात्राण्यविशेषास् तेभ्यो भूतानि पञ्च पञ्चभ्यः ॥ 11
एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च इति तेनेहापि खादीनि तन्मात्रशब्दोक्तानि सूक्ष्माणि बोद्धव्यानि ॥ 12]
चरकसंहिता, चिकित्सास्थान, 1 [रसायनाध्याय]
अथातो ऽभयामलकीयं रसायनपादं व्याख्यास्यामः ॥ चर्_6,1.1
इति ह स्माह भगवानात्रेयः ॥ चर्_6,1.2
[{आयुर्वेददीपिका}
पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावेन चिकित्सा धर्मार्थयशस्करी कर्तव्येत्यनन्तरं चिकित्साभिधायकं स्थानम् उच्यते ॥ 1
रसायनवाजीकरणसाधनमपि यथा चिकित्सोच्यते तथानन्तरम् एव वक्ष्यति ॥ 2
तत्रापि ज्वरादिचिकित्सायाः प्राग्रसायनवाजीकरणयोर् महाफलत्वेनादाव् अभिधानम् ॥ 3
तयोरपि च रसायनमेव वर्षसहस्रायुष्ट्वादिकारणतया महाफलम् इति तद् अभिधीयते तत्रापि चाभयामलकीयश् चिकित्सास्थानार्थसूत्राभिधायकतयाग्रे ऽभिधीयते ॥ 4]
चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम् ।
प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम् ॥ चर्_6,1.3
[{आयुर्वेददीपिका}
तत्रादौ व्यवहारार्थं स्थानाभिधेयस्य भेषजस्य पर्यायानाह चिकित्सितम् इत्यादि ॥ 1
करोति चैवमादौ प्रधानाभिधेयपर्यायाभिधानं यथानिदाने हेतुरूपादिपर्यायकथनम् ॥ 2
एतच्च पर्यायाभिधानं प्राधान्येन चतुष्पादस्यैव भेषजस्य यदुक्तं चतुष्पादं षोडशकलं भेषजमिति भिषजो भाषन्ते इति ॥ 3
एवंभूतभेषजाङ्गरूपतया तु स्थावरजङ्गमद्रव्यरूपस्य भेषजस्य भेषजत्वमेवान्तरव्यवहारकृतं ज्ञेयम् ॥ 4
प्रायश्चित्तम् इति भेषजसंज्ञा प्रायश्चित्तवद् भेषजस्याधर्मकार्यव्याधिहरत्वेन ॥ 5]
विद्याद् भेषजनामानि भेषजं द्विविधं च तत् ।
स्वस्थस्योर्जस्करं किंचित् किंचिदार्तस्य रोगनुत् ॥ चर्_6,1.4
[{आयुर्वेददीपिका}
द्वैविध्यं विवृणोति स्वस्थस्येत्यादि ॥ 1
किंचिदिति न सर्वम् ॥ 2
स्वस्थत्वेन व्यवह्रियमाणस्य पुंसो जरादिस्वाभाविकव्याधिहरत्वेन तथाप्रहर्षव्ययायक्षयित्वानुचितशुक्रत्वाद्यप्रशस्तशारीरभावहरत्वेन ऊर्जः प्रशस्तं भावम् आदधातीति स्वस्थस्योर्जस्करम् ॥ 3
आर्तस्य रोगनुदिति विशेषणेन ज्वरादिनार्तस्य ज्वरादिहरम् ॥ 4
रोगनुद् इति वचनेनैवार्तविशेषितायां लब्धायां यद् आर्तस्य इति करोति तेन सहजजरादिकृतां पीडाम् अनुद्वेजिकां परित्यज्य ज्वरादिनास्वाभाविकेन रोगेण पीडितस्येति दर्शयति ॥ 5]

अभेषजं च द्विविधं बाधनं सानुबाधनम् ।
[{आयुर्वेददीपिका}
भेषजप्रसङ्गाद् अभेषजद्वैविध्यम् आह अभेषजम् इत्यादि ॥ 1
बाधनम् इह तदात्वमात्रबाधकं यथास्वल्पम् अपथ्यम् ॥ 2
सानुबाधनं च दीर्घकालावस्थायिकुष्ठादिविकारकारि ॥ 3]
स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम् ॥ चर्_6,1.5
प्रायः प्रायेण रोगाणां द्वितीयं प्रशमे मतम् ।
प्रायःशब्दो विशेषार्थो ह्य् उभयं ह्य् उभयार्थकृत् ॥ चर्_6,1.6
[{आयुर्वेददीपिका}
द्विविधं भेषजमुक्तं विभजते स्वस्थस्येत्यादि ॥ 1
तद्वृष्यं तद्रसायनं प्राय इति छेदः ॥ 2
यद्वृष्यं प्रायो भवति तथा रसायनं यत् प्रायो भवति आर्तस्य रोगहरं यद्बाहुल्येन तत् स्वस्थोर्जस्करम् उच्यते यत्तु द्वितीयम् आर्तरोगहरं तत् प्रायेण ज्वरादिशमनं रसायनं वाजीकरणं च भवति यथाक्षतक्षीणोक्तं सर्पिर्गुडादि रसायनं वृष्यं च भवति तथा पाण्डुरोगोक्तो योगराजो रसायनत्वेनोक्तः तथा कासाधिकारे ऽगस्त्यहरीतकी रसायनत्वेनोक्तेत्याद्य् अनुसरणीयम् ॥ 3
रसायनोक्तानां च ज्वरादिहरत्वम् अत्र सुव्यक्तमेव रसायनग्रन्थेषु ॥ 4
अन्ये तु ब्रुवते यद् व्याधिमात्रहरं न तद् रसायनं किंतु शरीरसंयोगदार्ढ्याद् दीर्घायुःकर्तृत्वसाधारणधर्मयोगाद् उपचरितव्याधिहरं रसायनम् इहोच्यत इति ॥ 5
ननु यदि स्वस्थोर्जस्करमपि व्याधिहरं व्याधिहरं च स्वस्थोर्जस्करं तत्किं किंचिदिति पदेन भेषजकर्मव्यवस्थादर्शकेन क्रियते ब्रूमः बाहुल्येन स्वस्थोर्जस्करत्वं व्याधिहरत्वं च व्यवस्थाप्यते न चेह सर्वार्तरोगहरस्य स्वस्थोर्जस्करत्वमिति प्रतिज्ञायते येन पाठासप्तपर्णादीनाम् अपि रसायनत्वं साधनीयशक्तित्वाद् आर्तरोगहरत्वेन यदुच्यते तदपि रसायनं वाजीकरणं च भवतीति लवमात्रोपदर्शनं क्रियते तत् स्वस्थार्तयोर् उभयार्थकर्तृत्वम् ॥ 6
प्रायःशब्दतात्पर्यं विवृणोति प्राय इत्यादि ॥ 7
विशेषार्थम् इति बाहुल्यार्थम् इत्यर्थः ॥ 8]
दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः ।
प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम् ॥ चर्_6,1.7
वाक्सिद्धिं प्रणतिं कान्तिं लभते ना रसायनात् ।
लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥ चर्_6,1.8
[{आयुर्वेददीपिका}
रसायनकार्यम् आह दीर्घम् इत्यादि ॥ 1
प्रभादीनां त्रयाणाम् औदर्यं योजनीयम् ॥ 2
वाक्सिद्धिः यद् उच्यते तद् अवश्यं भवतीत्यर्थः ॥ 3
प्रणतिः लोकवन्द्यता ॥ 4
कथम् एतद् रसायनेन क्रियत इत्याह लाभेत्यादि रसादिग्रहणेन स्मृत्यादयो ऽपि गृह्यन्ते ॥ 5]
अपत्यसंतानकरं यत् सद्यः सम्प्रहर्षणम् ।
वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः ॥ चर्_6,1.9
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते ।
जीर्यतो ऽप्यक्षयं शुक्रं फलवद्येन दृश्यते ॥ चर्_6,1.10
प्रभूतशाखः शाखीव येन चैत्यो यथा महान् ।
भवत्यर्च्यो बहुमतः प्रजानां सुबहुप्रजः ॥ चर्_6,1.11
संतानमूलं येनेह प्रेत्य चानन्त्यमश्नुते ।
यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत् ॥ चर्_6,1.12
[{आयुर्वेददीपिका}
वाजीकरणकार्यम् आहापत्येत्यादि ॥ 1
अपत्यसंतानः अपत्यपरम्परा तेन पुत्रपौत्रकरम् इत्यर्थः वाजीकरणजनिताच्छुक्राज् जातः पुत्रः पुत्रजननसमर्थो भवतीत्यर्थः ॥ 2
अतिप्रियत्वं चेहोपचितशुक्रतया निरन्तरव्यवायकर्तृत्वात् यद् उच्यते ।
विरूपम् अपि योद्धारं भृत्यमिच्छन्ति पार्थिवाः ।

व्यवायव्यायतं मूर्खं धृष्टं पतिमिव स्त्रियः ॥ 3
इति ॥ 4
उपचीयत इति पुष्टिं प्राप्नोति ॥ 5
अक्षयम् इवाक्षयम् ॥ 6
फलवद् इति गर्भजनकम् ॥ 7
चैत्यो देवतायतनम् ॥ 8
अर्च्यः अर्चनीयः ॥ 9
आनन्त्यमिवानन्त्यं दीर्घसंतानताम् इत्यर्थः ॥ 10]
स्वस्थस्योर्जस्करं त्व् एतद् द्विविधं प्रोक्तम् औषधम् ।
यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते ॥ चर्_6,1.13
चिकित्सितार्थ एतावान् विकाराणां यदौषधम् ।
रसायनविधिश्चाग्रे वाजीकरणमेव च ॥ चर्_6,1.14
[{आयुर्वेददीपिका}
चिकित्सित इति ज्वरादिचिकित्सिते ॥ 1
ननु रसायनवाजीकरणे अपि ज्वरादिचिकित्सिते एव तत् किं विशिष्योच्यते वक्ष्यते तच्चिकित्सिते इत्याह चिकित्सितार्थ इत्यादि ॥ 2
सत्यं रसायनं वाजीकरणं च ज्वरादिव्याधिहरत्वाच् चिकित्सितशब्देनोच्यत इत्यर्थः ॥ 3
अथ व्याधिहरत्वाच्चिकित्सिते वक्तव्यत्वाच्च रसायनवाजीकरणे क्व नु वक्तव्ये इत्याह रसायनेत्यादि ॥ 4
विधिः विधानं रसायनाभिधानम् इत्यर्थः ॥ 5
अग्रे इति अनन्तरम् ॥ 6
वाजीकरणं चाग्रे अभिधास्यते इति शेषः ॥ 7]
अभेषजमिति ज्ञेयं विपरीतं यदौषधात् ।
तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम् ॥ चर्_6,1.15
[{आयुर्वेददीपिका}
अभेषजमपि पूर्वोद्दिष्टं विवृणोत्यभेषजमित्यादि ॥ 1
विपरीतं रोगजननलक्षणार्थकारि ॥ 2]
रसायनानां द्विविधं प्रयोगमृषयो विदुः ।
कुटीप्रावेशिकं चैव वातातपिकमेव च ॥ चर्_6,1.16
कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते ।
नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम् ॥ चर्_6,1.17
निवासे निर्भये शस्ते प्राप्योपकरणे पुरे ।
दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत्कुटीम् ॥ चर्_6,1.18
विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम् ।
घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम् ॥ चर्_6,1.19
शब्दादीनाम् अशस्तानाम् अगम्यां स्त्रीविवर्जिताम् ।
इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम् ॥ चर्_6,1.20
अथोदगयने शुक्ले तिथिनक्षत्रपूजिते ।
मुहूर्तकरणोपेते प्रशस्ते कृतवापनः ॥ चर्_6,1.21
धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः ।
विधूय मानसान्दोषान् मैत्रीं भूतेषु चिन्तयन् ॥ चर्_6,1.22
देवताः पूजयित्वाग्रे द्विजातींश्च प्रदक्षिणम् ।

देवगोब्राह्मणान् कृत्वा ततस् तां प्रविशेत् कुटीम् ॥ चर्_6,1.23
तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः ।
रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामि शोधनम् ॥ चर्_6,1.24
[{आयुर्वेददीपिका}
कुटीप्रवेशेन यत् क्रियते तत् कुटीप्रावेशिकम् ॥ 1
वातातपसेवयापि यत् क्रियते तद् वातातपिकम् ॥ 2
त्रिगर्भां प्रथममेकं गृहं तस्याभ्यन्तरे द्वितीयम् एवं त्रिगर्भास्त्रयो गर्भा अन्तराणि यस्यां सा त्रिगर्भामिति अन्तस् त्रिप्रकोष्ठाम् ॥ 3
सूक्ष्मलोचनामिति अल्पद्वारजालकाम् ॥ 4
शुक्ले शुक्लपक्षे ॥ 5
सज्जा वैद्यादयो यस्यां सा तथा ॥ 6
तिथिनक्षत्रपूजित इति शुभतिथिनक्षत्रयोगात् पूजिते ॥ 7
कृतवापन इति कृतक्षौरः ॥ 8
मानसान् दोषानिति कामक्रोधादीन् ॥ 9
संशोधनैर् इति वमनविरेचनास्थापनशिरोविरेचनैः ॥ 10
सुखीति अरोगः ॥ 11
जातबल इति संशोधनापहृतमलतया संसर्जनादिक्रमेण पुनर् जातबलः ॥ 12
यद्यपीह संशोधनैर् इति बहुवचनप्रयोगात् सर्वाण्येव संशोधनानि संमतानि तथापीह रसायने विशेषेण यौगिकत्वाद्धरीतक्यादिप्रयोग एवोक्तः अन्ये तु हरीतक्यादिप्रयोगेणैव परं संशोधनं कर्तव्यम् इत्याहुः संशोधनैर् इति बहुवचनं पुनर् यावच्छुद्धेर् हरीतक्यादिप्रयोगस्यैव करणं दर्शयति ॥ 13]
हरीतकीनां चूर्णानि सैन्धवामलके गुडम् ।
वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम् ॥ चर्_6,1.25
पिबेदुष्णाम्बुना जन्तुः स्नेहस्वेदोपपादितः ।
तेन शुद्धशरीराय कृतसंसर्जनाय च ॥ चर्_6,1.26
त्रिरात्रं यावकं दद्यात् पञ्चाहं वापि सर्पिषा ।
सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः ॥ चर्_6,1.27
शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत् ।
वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत् ॥ चर्_6,1.28
[{आयुर्वेददीपिका}
यावकमिति यवान्नम् ॥ 1
त्रिरात्रादिविकल्पत्रयं हीनमध्योत्तमशुद्धिविषयम् ॥ 2]
हरीतकीं पञ्चरसामुष्णामलवणां शिवाम् ।
दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम् ॥ चर्_6,1.29
आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम् ।
सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम् ॥ चर्_6,1.30
कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम् ।
अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम् ॥ चर्_6,1.31
हृद्रोगं सशिरोरोगमतीसारमरोचकम् ।
कासं प्रमेहमानाहं प्लीहानम् उदरं नवम् ॥ चर्_6,1.32
कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन् ।
श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम् ॥ चर्_6,1.33
स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः ।
स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी ॥ चर्_6,1.34

अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः ।
सेवेरन् नाभयाम् एते क्षुत्तृष्णोष्णार्दिताश् च ये ॥ चर्_6,1.35
तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि ।
यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः ॥ चर्_6,1.36
अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः ।
हरीतकीनां शस्यानि भिषगामलकस्य च ॥ चर्_6,1.37
[{आयुर्वेददीपिका}
यद्यपि द्रव्यान्तराणि दशवर्षशतायुष्कररसायनाधिकृतानि सन्ति तथापि हरीतक्यामलके एव रोगहरत्वायुष्करत्वरूपोभयधर्मयोगाद् अध्यायादौ गुणकर्मभ्यामुच्येते तत्रापि यद्यपि आमलकं वयःस्थापनानाम् इत्युक्तं तथापि रोगहरत्वे हरीतकी प्रकर्षवतीति कृत्वा हरीतक्य् अग्रे ऽभिहिता ॥ 1
हरीतक्यादिषु पञ्चरसत्वाद्युत्पादो ऽदृष्टवशाद् भूतसंनिवेशविशेषप्रभावकृतः तेन नात्रोपपत्तयः क्रमन्ते ॥ 2
शिवामिति कल्याणकरिणीं प्रशस्तगुणयुक्तत्वात् ॥ 3
सर्वरोगप्रशमनीमिति संयोगसंस्कारादिना ॥ 4
सर्वरोगहरत्वम् अभिधायापि कुष्ठादिहन्तृत्वाभिधानं विशेषेण कुष्ठादिहन्तृत्वोपदर्शनार्थम् ॥ 5
प्रवर्तकत्वे ऽप्यतीसारग्रहणीहरत्वं विबद्धदोषप्रवर्तकतया ज्ञेयं यदुक्तं स्तोकं स्तोकं विबद्धं वा सशूलं यो ऽतिसार्येते ॥ 6
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेद् इति ॥ 7
बुद्धिस्मृतिप्रदत्वमभिधायापि स्मृतिबुद्धिप्रमोहहरत्वाभिधानं तत्र विशिष्टशक्त्युपदर्शनार्थम् ॥ 8
वीर्यस्य तु विपर्यय इत्यनेनामलकस्य शीतवीर्यत्वम् उक्तम् ॥ 9
शस्यानीति अस्थिरहितानि फलानि ॥ 10]
ओषधीनां परा भूमिर् हिमवाञ्शैलसत्तमः ।
तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु ॥ चर्_6,1.38
आपूर्णरसवीर्याणि काले काले यथाविधि ।
आदित्यपवनच्छायासलिलप्रीणितानि च ॥ चर्_6,1.39
यान्य् अजग्धान्य् अपूतीनि निर्व्रणान्यगदानि च ।
तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम् ॥ चर्_6,1.40
[{आयुर्वेददीपिका}
यद्यपि हिमवान् औषधभूमीनाम् इत्युक्तं तथापि रसायने हिमवत्प्रभवाण्येव भेषजानि ग्राह्याणीति दर्शयितुम् औषधीनाम् इत्याहाभिधानम् ॥ 1
काले काले इति फलपाककाले इत्यर्थः ॥ 2
यथाविधीति यथा भेषजग्रहणं मङ्गलदेवतार्चनादिपूर्वकं स्यात् तथावश्यं रसायने कर्तव्यम् ॥ 3
अगदानीत्यनेन पवनदहनाद्यदोषं फलस्य दर्शयति ॥ 4]
पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान् ।
हरीतकीसहस्रं च त्रिगुणामलकं नवम् ॥ चर्_6,1.41
विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम् ।
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ॥ चर्_6,1.42
बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम् ।
पुनर्नवां शूर्पपर्ण्यौ बलाम् एरण्डमेव च ॥ चर्_6,1.43
जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम् ।
शरेक्षुदर्भकाशानां शालीनां मूलमेव च ॥ चर्_6,1.44
इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत् ।
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणे ऽम्भसि ॥ चर्_6,1.45
दशभागावशेषं तु पूतं तं ग्राहयेद्रसम् ।
हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च ॥ चर्_6,1.46

तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः ।
विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ॥ चर्_6,1.47
मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च ।
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ॥ चर्_6,1.48
मधुकस्य हरिद्राया वचायाः कनकस्य च ।
भागांश् चतुष्पलान् कृत्वा सूक्ष्मैलायास् त्वचस् तथा ॥ चर्_6,1.49
सितोपलासहस्रं च चूर्णितं तुलयाधिकम् ।
तैलस्य ह्य् आढकं तत्र दद्यात् त्रीणि च सर्पिषः ॥ चर्_6,1.50
साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाग्निना ।
ज्ञात्वा लेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत् ॥ चर्_6,1.51
क्षौद्रप्रमाणं स्नेहार्धं तत्सर्वं घृतभाजने ।
तिष्ठेत् संमूर्छितं तस्य मात्रां काले प्रयोजयेत् ॥ चर्_6,1.52
या नोपरुन्ध्यादाहारमेकं मात्रा जरां प्रति ।
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ॥ चर्_6,1.53
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः ।
रसायनमिदं प्राश्य बभूवुर् अमितायुषः ॥ चर्_6,1.54
मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः ।
वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः ॥ चर्_6,1.55
मेधास्मृतिबलोपेताश् चिररात्रं तपोधनाः ।
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया ॥ चर्_6,1.56
रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत् ।
दीर्घम् आयुर् वयश् चाग्र्यं कामांश्चेष्टान् समश्नुते ॥ चर्_6,1.57
[{आयुर्वेददीपिका}
पञ्चानाम् इत्यादौ प्रतिद्रव्यं दशपलभागग्रहणम् उक्तं हि जातूकर्णे इति पञ्च पञ्चमूलानि तेषां प्रतिद्रव्यं दशपलानि इति ॥ 1
हरीतकीसहस्रमिति हरीतकीफलसहस्रम् ॥ 2
शूर्पपर्ण्यौ मुद्गमाषपर्ण्यौ ॥ 3
वीरा जालंधरं शाकम् ॥ 4
कूर्चनं जर्जरीकरणसाधनं शिलापुत्रकमुसलादि ॥ 5
विनीयेति प्रक्षिप्य ॥ 6
प्लवः कैवर्तमुस्तकम् ॥ 7
कनकं नागकेशरम् ॥ 8
त्वग् गुडत्वक् ॥ 9
औदुम्बरे इति ताम्रमये ॥ 10
स्नेहार्धमिति सर्पिस्तैलार्धम् ॥ 11
एकम् अनपराह्णिकम् आहारम् ॥ 12]
यथोक्तगुणानाम् आमलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत् ।
तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृता चन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर् नागबलासहस्रपलस्वरसपरिपीतम् अनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेर् अधः स्थापयेद् अन्तर्भूमेः पक्षं कृतरक्षाविधानम् अथर्ववेदविदा पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तम् अर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानो ऽग्निबलम् अभिसमीक्ष्य जीर्णे च षष्टिकं पयसा ससर्पिष्कम् उपसेवमानो यथोक्तान् गुणान् समश्नुत इति ॥ चर्_6,1.58
इदं रसायनं ब्राह्मं महर्षिगणसेवितम् ।
भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः ॥ चर्_6,1.59
कान्तः प्रजानां सिद्धार्थश् चन्द्रादित्यसमद्युतिः ।

श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते ॥ चर्_6,1.60
धरणीधरसारश्च वायुना समविक्रमः ।
स भवत्यविषं चास्य गात्रे संपद्यते विषम् ॥ चर्_6,1.61
[{आयुर्वेददीपिका}
पिष्टस्वेदनविधिनेति यथा पिष्टकं तोयपरिपूरितपात्रोपरिदत्ततृणादिसंस्थितं स्वेद्यते तथा तत् स्वेदनीयम् इत्यर्थः ॥ 1
स्वरसपरिपीतमिति स्वरसभावितम् ॥ 2
ब्रह्मसुवर्चलाद्यौषधान्य् आयुर्वेदसमुत्थानीये वक्ष्यमाणानि ॥ 3
युवतिः नवमालिका ॥ 4
अष्टमो भागो ऽष्टभागः ॥ 5
क्षुद्रगुडाकृतिम् इति फाणिताकृतिम् ॥ 6
अर्धकर्षवृद्ध्येति अर्धकर्षात्प्रभृति वर्धयेत् ॥ 7
यथोक्तविधिनेति कुटीप्रावेशिकेन विधिना ॥ 8
यथोक्तान् गुणानिति पूर्वप्रयोगफलश्रुतिपठितान् ॥ 9
धरणीधरसार इति उष्ट्रमुखवत् तेन धरणीधराः पर्वतास् तेषां सारो लौहं तद्वत्सार इत्यर्थः ॥ 10
अविषमिति विषम् अविकारि ॥ 11]
बिल्वो ऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला ।
पर्ण्यश् चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ॥ चर्_6,1.62
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु ।
अभया चामृता ऋद्धिर् जीवकर्षभकौ शटी ॥ चर्_6,1.63
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम् ।
विदारी वृषमूलानि काकोली काकनासिका ॥ चर्_6,1.64
एषां पलोन्मितान् भागाञ्शतान्य् आमलकस्य च ।
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ॥ चर्_6,1.65
ज्ञात्वा गतरसान्येतान्य् औषधान्यथ तं रसम् ।
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ॥ चर्_6,1.66
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक् ।
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत् ॥ चर्_6,1.67
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् ।
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा ॥ चर्_6,1.68
पलमेकं निदध्याच्च त्वगेलापत्त्रकेसरात् ।
इत्ययं च्यवनप्राशः परमुक्तो रसायनः ॥ चर्_6,1.69
कासश्वासहरश् चैव विशेषेणोपदिश्यते ।
क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः ॥ चर्_6,1.70
स्वरक्षयम् उरोरोगं हृद्रोगं वातशोणितम् ।
पिपासां शुक्रस्थान् दोषांश्चाप्यपकर्षति ॥ चर्_6,1.71
अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् ।
अस्य प्रयोगाच् च्यवनः सुवृद्धोऽभूत्पुनर्युवा ॥ चर्_6,1.72
मेधां स्मृतिं कान्तिमनामयत्वम् आयुःप्रकर्षं बलमिन्द्रियाणाम् ।
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ॥ चर्_6,1.73
रसायनस्यास्य नरः प्रयोगाल् लभेत जीर्णो ऽपि कुटीप्रवेशात् ।

जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य ॥ चर्_6,1.74
[{आयुर्वेददीपिका}
पर्ण्यश् चतस्र इति शालपर्णी पृश्निपर्णी मुद्गपर्णी माषपर्णी च ॥ 1
तामलकी भूम्यामलकी ॥ 2
काकनासा नासाफला काकतुण्डक इत्यन्ये ॥ 3
गतरसत्वमिह द्रव्याणां चतुर्भागस्थितजले भवति ॥ 4
निष्कुलमिति निरस्थि ॥ 5
तैलसर्पिषोरिति समासनिर्देशाद् उभाभ्यामेव द्वादशपलानि न पृथक् पृथक् ॥ 6
मत्स्यण्डिका खण्डसंहतिः ॥ 7
अत्र षट्पलत्वेन समयोरपि मधुसर्पिषोर् द्रव्यान्तरयुक्तत्वेनाविरुद्धत्वम् ॥ 8]
अथामलकहरीतकीनाम् आमलकविभीतकानां हरीतकीविभीतकानाम् आमलकहरीतकीविभीतकानां वा पलाशत्वगवनद्धानां मृदावलिप्तानां कुकूलस्विन्नानाम् अकुलकानां पलसहस्रमुलूखले संपोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेद् अनन्नभुग् यथोक्तेन विधिना तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च अयंच रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलम् अभिसमीक्ष्य प्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः अतः परं यथासुखविहारः कामभक्ष्यः स्यात् ।
अनेन प्रयोगेणर्षयः पुनर् युवत्वम् अवापुर् बभूवुश् चानेकवर्षशतजीविनो निर्विकाराः परशरीरबुद्धीन्द्रियबलसमुदिताश् चेरुश् चात्यन्तनिष्ठया तपः ॥ चर्_6,1.75
[{आयुर्वेददीपिका}
कुकूलकः करीषाग्निः ॥ 1
अकुलकानामिति अनस्थ्नाम् ॥ 2
द्रव्यादीनामत्र मानं नोक्तं तेन प्रधानस्य चूर्णस्य दध्यादिभिर् मिलितैः समानमानत्वं किंवा प्रत्येकमेव दध्यादीनां चूर्णसमत्वम् ॥ 3
पललं तिलचूर्णम् ॥ 4
भक्षयेदिति वचनं लेह्येऽपि अल्पाभ्यवहरणमात्रार्थत्वाद् उपपन्नम् ॥ 5
अनन्नभुगिति सर्वथाहारान्तराभुक् ॥ 6
तस्यान्त इति एतत्प्रयोगपरित्यागकाले ॥ 7
प्रत्यवस्थापनमिति यवाग्वादिक्रमविशेषणं तेन प्रयोगान्ते यदा अन्नसंसर्जनं कर्तव्यं तदा यवाग्वादिक्रमेणेत्य् उक्तस्यार्थस्य प्रत्यवस्थापनं क्रियत इत्यर्थः ॥ 8
यूषेण पयसा वेति विकल्पोऽग्निबलापेक्षया ॥ 9]
हरीतक्यामलकविभीतकपञ्चपञ्चमूलनिर्यूहे पिप्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीरशुक्लाकल्कसम्प्रयुक्तेन विदारीस्वरसेन क्षीराष्टगुणसम्प्रयुक्तेन च सर्पिषः कुम्भं साधयित्वा प्रयुञ्जानो ऽग्निबलसमां मात्रां जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकम् उष्णोदकानुपानम् अश्नञ्जराव्याधिपापाभिचारव्यपगतभयः शरीरेन्द्रियबुद्धिबलम् अतुलम् उपलभ्याप्रतिहतसर्वारम्भः परमायुर् अवाप्नुयात् ॥ चर्_6,1.76
[{आयुर्वेददीपिका}
अत्र हरीतक्यादौ क्षीरशुक्ला क्षीरविदारिका ॥ 1
अत्र हरीतक्यादिक्वाथस्य त्व् एको भागः क्षीरस्याष्टौ भागाः सर्पिष एको भागः ॥ 2
कुम्भो द्रोणद्वयम् ॥ 3
वचनं हि द्रोणस्तु द्विगुणः शूर्पो विज्ञेयः कुम्भ एव च इति ॥ 4]
हरीतक्यामलकविभीतकहरिद्रास्थिराबलाविडङ्गामृतवल्लीविश्वभेषजमधुकपिप्पलीसोमवल्कसिद्धेन क्षीरसर्पिषा मधुशर्कराभ्यामपि च संनीयामलकस्वरसशतपरिपीतम् आमलकचूर्णम् अयश्चूर्णचतुर्भागसम्प्रयुक्तं पाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विधिना सायं मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नम् अश्नीयात् त्रिवर्षप्रयोगादस्य वर्षशतम् अजरं वयस् तिष्ठति श्रुतम् अवतिष्ठते सर्वामयाः प्रशाम्यन्ति विषमविषं भवति गात्रे गात्रम् अश्मवत् स्थिरीभवति अधृष्यो भूतानां भवति ॥ चर्_6,1.77
यथामराणाम् अमृतं यथा भोगवतां सुधा ।
तथाभवन् महर्षीणां रसायनविधिः पुरा ॥ चर्_6,1.78
न जरां न च दौर्बल्यं नातुर्यं निधनं न च ।
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा ॥ चर्_6,1.79
न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते ।
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ॥ चर्_6,1.80
[{आयुर्वेददीपिका}
अमृतवल्ली गुडूची ।
सोमवल्कः विट्खदिरः ।
क्षीरसर्पिः क्षीरसमुत्थितसर्पिः ।
अयश्चूर्णस्य चतुर्थो भागः यत एतदयश्चूर्णं चतुर्थभागमत एकस्मिन् प्रयोगे जातूकर्णेन अयश्चूर्णपादयुक्तम् इति कृतम् ।

अमराणाममृतं जरादिहरं नागानां च सुधा जरामरणहरी इत्युभयोपादानं दृष्टान्ते ।
ब्रह्म मोक्षः ।
मोक्षसाधनत्वं चेह रसायनस्य विशुद्धसत्त्वकर्तृतयोच्यते ॥ 1]
अभयामलकीये ऽस्मिन् षड् योगाः परिकीर्तिताः ।
रसायनानां सिद्धानाम् आयुर् यैर् अनुवर्तते ॥ चर्_6,1.81
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये ऽभयामलकीयो नाम रसायनपादः प्रथमः ॥ चर्_6,1.82
[{आयुर्वेददीपिका}
अभयेत्यादिना संदेहनिरासार्थम् उक्तप्रयोगसंख्यां दर्शयति ।
एवमन्यत्रापि संख्याप्रणयनम् अन्ते ज्ञेयम् ॥ 1]
चरकसंहिता, चिकित्सास्थान, 2 [रसायनाध्याये द्वितीयः पादः]
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः ॥ चर्_6,2.1
इति ह स्माह भगवान् आत्रेयः ॥ चर्_6,2.2
[{आयुर्वेददीपिका}
पूर्वपादे ह्य् आमलकरसायनान्युक्तानि इहाप्यामलकरसायनानि सन्तीति प्राणकामीयम् अनन्तरम् उच्यते ॥ 1
प्राणकामशब्दम् अधिकृत्य कृतम् इति प्राणकामीयम् ॥ 2]
प्राणकामाः शुश्रूषध्वम् इदम् उच्यमानम् अमृतम् इवापरम् अदितिसुतहितकरम् अचिन्त्याद्भुतप्रभावम् आयुष्यम् आरोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरम् अनिलकफपित्तसाम्यकरं स्थैर्यकरम् अबद्धमांसहरम् अन्तरग्निसंधुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम् ।
अनेन च्यवनादयो महर्षयः पुनर्युवत्वम् आपुर् नारीणां चेष्टतमा बभूवुः स्थिरसमसुविभक्तमांसाः सुसंहतस्थिरशरीराः सुप्रसन्नबलवर्णेन्द्रियाः सर्वत्राप्रतिहतपराक्रमाः क्लेशसहाश् च ।
सर्वे शरीरदोषा भवन्ति ग्राम्याहाराद् अम्लत्वलवणकटुकक्षारशुक्रशाकमांसतिलपललपिष्टान्नभोजिनां विरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनां क्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमातिमात्रव्यायामसंक्षोभितशरीराणां भयक्रोधशोकलोभमोहायासबहुलानाम् अतोनिमित्तं हि शिथिलीभवन्ति मांसानि विमुच्यन्ते संधयः विदह्यते रक्तं विष्यन्दते चानल्पं मेदः न संधीयते ऽस्थिषु मज्जा शुक्रं न प्रवर्तते क्षयमुपैत्योजः स एवंभूते ग्लायति सीदति निद्रातन्द्रालस्यसमन्वितो निरुत्साहः श्वसिति असमर्थश्चेष्टानां शारीरमानसीनां नष्टस्मृतिबुद्धिच्छायो रोगाणाम् अधिष्ठानभूतो न सर्वमायुरवाप्नोति ।
तस्मादेतान्दोषानवेक्षमाणः सर्वान् यथोक्तान् अहितान् अपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुर् आत्रेय उवाच ॥ चर्_6,2.3
[{आयुर्वेददीपिका}
निद्राहरत्वं रसायनस्य वैकारिकनिद्राहरत्वेन किंवा देववत्सर्वदा प्रबुद्धो निद्रारहितो भवति ॥ 1
तन्द्रालक्षणं तन्त्रान्तरे ।
इन्द्रियार्थेष्वसंवित्तिर् गौरवं जृम्भणं क्लमः ।
निद्रार्तस्येव यस्यैते तस्य तन्द्रां विनिर्दिशेत् इति ॥ 2
अबद्धमांसम् अनिबिडमांसम् ॥ 3
उत्तमानि प्रभादीनि करोतीति प्रभावर्णस्वरोत्तमकरम् ॥ 4
एवंजातीयश् च पूर्वनिपातानियमो ऽप्रतिबन्धेन चरकेऽस्ति स मयूरव्यंसकादिपाठाद् द्रष्टव्यः ॥ 5
अनेन हीत्यादिना पुरावृत्तकथनेन रसायनानि वक्ष्यमाणानि प्रवृत्त्यर्थं स्तौति ॥ 6
रसायनप्रयोगे वर्जनीयं ग्राम्याहारादि दूषणत्वेन निर्दिशन्नाह सर्वे इत्यादि ॥ 7
तिलस्तु अचूर्णितस् तिलः पललं तिलचूर्णम् ॥ 8
अतोनिमित्तमिति ग्राम्याहारादिकारणकम् ॥ 9
शुक्रं न प्रवर्तत इति नोत्पद्यते शुक्रमित्यर्थः ॥ 10]
आमलकानां सुभूमिजानां कालजानाम् अनुपहतगन्धवर्णरसानाम् आपूर्णसप्रमाणवीर्याणां स्वरसेन पुनर्नवाकल्कपादसम्प्रयुक्तेन सर्पिषः साधयेदाढकम् अतः परं विदारीस्वरसेन जीवन्तीकल्कसम्प्रयुक्तेन अतः परं चतुर्गुणेन पयसा बलातिबलाकषायेण शतावरीकल्कसंयुक्तेन अनेन क्रमेणैकैकं शतपाकं सहस्रपाकं वा शर्कराक्षौद्रचतुर्भागसम्प्रयुक्तं सौवर्णे राजते मार्त्तिके वा शुचौ दृढे घृतभाविते कुम्भे स्थापयेत् तद्यथोक्तेन विधिना यथाग्नि प्रातः प्रातः प्रयोजयेत् जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकम् अश्नीयात् ।
अस्य प्रयोगाद्वर्षशतं वयोऽजरं तिष्ठति श्रुतमवतिष्ठते सर्वामयाः प्रशाम्यन्ति अप्रतिहतगतिः स्त्रीषु अपत्यवान् भवतीति ॥ चर्_6,2.4
बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च ।
अधृष्यमन्यैर् अतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च ॥ चर्_6,2.5
बलं महद्वर्णविशुद्धिर् अग्र्या स्वरो घनौघस्तनितानुकारी ।
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य ॥ चर्_6,2.6
[{आयुर्वेददीपिका}
एकैकशः शतपाकम् इत्यर्थः ॥ 1

एकैकपाकसाधनं पृथक् कर्तव्यं तेन त्रिशतधा पाको भवति ॥ 2
अत्र च कल्कोपलेपादि नोपक्षीणमपि यदवशिष्टं भवति तदेव ग्राह्यं वचनबलात् ॥ 3
सौवर्णादिपात्रेषु यथापूर्वं वरगुणत्वम् अन्यथा समानगुणत्वे सर्वेषां मृत्पात्रस्य सुलभत्वेनातिदुर्लभतरं सौवर्णपात्रं नोपदेशम् अर्हति ॥ 4
यथोक्तेन विधिनेति कुटीप्रावेशिकेन ॥ 5
गिरिसारः लोहम् ॥ 6]
आमलकसहस्रं पिप्पलीसहस्रसम्प्रयुक्तं पलाशतरुणक्षारोदकोत्तरं तिष्ठेत् तदनुगतक्षारोदकम् अनातपशुष्कम् अनस्थि चूर्णीकृतं चतुर्गुणाभ्यां मधुसर्पिर्भ्यां संनीय शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं षण्मासान् स्थापयेदन्तर्भूमेः ।
तस्योत्तरकालमग्निबलसमां मात्रां खादेत् पौर्वाह्णिकः प्रयोगो नापराह्णिकः सात्म्यापेक्षश्चाहारविधिः ।
अस्य प्रयोगाद् वर्षशतमजरं वयस् तिष्ठतीति समानं पूर्वेण ॥ चर्_6,2.7
[{आयुर्वेददीपिका}
पलाशतरुणः तरुणपलाशः अनेन बालवृद्धपलाशवर्जनम् उच्यते ॥ 1
क्षारोदकोत्तरमिति यथा क्षारोदकं भाव्यादुपरि भवति तथा कर्तव्यमिति दर्शयति ॥ 2
चतुर्भागः पादः ॥ 3
समानं पूर्वेणेति पूर्वयोगफलश्रुत्यैतदपि युक्तम् इत्यर्थः ॥ 4]
आमलकचूर्णाढकम् एकविंशतिरात्रम् आमलकस्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकीकृतम् अष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात् तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेत् अस्य प्रयोगाद् वर्षशतम् अजरम् आयुस् तिष्ठतीति समानं पूर्वेण ॥ चर्_6,2.8
विडङ्गतण्डुलचूर्णानाम् आढकमाढकं पिप्पलीतण्डुलानाम् अध्यर्धाढकं सितोपलायाः सर्पिस्तैलमध्वाढकैः षड्भिर् एकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशाव् इति सर्वं समानं पूर्वेण यावद् आशीः ॥ चर्_6,2.9
[{आयुर्वेददीपिका}
यावद् आशीर् इति आशीः फलश्रुतिः तेन तद्वर्षान्ते इत्यादि ग्रन्थोक्तविधिविधानं दर्शयति ॥ 1]
यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पम् अनुद्वमन्त्याम् आरण्यगोमयाग्निभिर् उपस्वेदयेत् तानि सुस्विन्नशीतान्य् उद्धृतकुलकान्य् आपोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानाम् अध्यर्धेन चाढकेन शर्कराया द्वाभ्यां द्वाभ्याम् आढकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढे घृतभाविते कुम्भे स्थापयेद् एकविंशतिरात्रम् अत ऊर्ध्वं प्रयोगः अस्य प्रयोगाद्वर्षशतम् अजरम् आयुस् तिष्ठतीति समानं पूर्वेण ॥ चर्_6,2.10
[{आयुर्वेददीपिका}
पूर्वेणेति पूर्वयोगफलश्रुतिपर्यन्तं पूर्वयोगेनास्य समानमित्यर्थः ॥ 1]
धन्वनि कुशास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा व्यपगतविषश्वापदपवनसलिलाग्निदोषे कर्षणवल्मीकश्मशानचैत्योषरावसथवर्जिते देशे यथर्तुसुखपवनसलिलादित्यसेविते जातान्य् अनुपहतान्य् अनध्यारूढान्य् अबालान्य् अजीर्णान्य् अधिगतवीर्याणि शीर्णपुराणपर्णान्य् असंजातान्य् अपर्णानि तपसि तपस्ये वा मासे शुचिः प्रयतः कृतदेवार्चनः स्वस्ति वाचयित्वा द्विजातीन् चले सुमुहूर्ते नागबलामूलान्य् उद्धरेत् तेषां सुप्रक्षालितानां त्वक्पिण्डम् आम्रमात्रम् अक्षमात्रं वा श्लक्ष्णपिष्टमालोड्य पयसा प्रातः प्रयोजयेत् चूर्णीकृतानि वा पिबेत् पयसा मधुसर्पिर्भ्यां वा संयोज्य भक्षयेत् जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकम् अश्नीयात् ।
संवत्सरप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥ चर्_6,2.11
[{आयुर्वेददीपिका}
धन्वनीति जाङ्गलदेशे ।
कर्षणं हलादिना ।
अनध्यारूढानीति न महता पार्श्वस्थेन वृक्षेणाक्रान्तानि ।
तपसि माघे ॥ 1
तपस्ये इति फाल्गुने ।
चले सुमुहूर्त इति इन्द्रे मुहूर्ते ।
आम्रमात्रमिति पलपरिमाणम् ॥ 2]
बलातिबलाचन्दनागुरुधवतिनिशखदिरशिंशपासनस्वरसाः पुनर्नवान्ताश्चौषधयो दश नागबलया व्याख्याताः ।
स्वरसानामलाभे त्व् अयं स्वरसविधिश् चूर्णानाम् आढकम् आढकम् उदकस्याहोरात्रास्थितं मृदितपूतं स्वरसवत् प्रयोज्यम् ॥ चर्_6,2.12
[{आयुर्वेददीपिका}
पुनर्नवान्ता दश षड्विरेचनशताश्रितीये अमृताभया धात्री युक्ता श्रेयसी श्वेतातिरसा मण्डूकपर्णी स्थिरा पुनर्नवा इति सर्वा वयःस्थापनोक्ताः ॥ 1
नागबलया व्याख्याता इति नागबलावत्तेषामपि प्रयोगः ॥ 2
बलादीनां स्वरसेनैव विधानम् ॥ 3
नागबलावद् भोजनादिकं ज्ञेयम् ॥ 4
स्वरसालाभे ऽनुकल्पम् आह स्वरसानाम् इत्यादि ॥ 5]
भल्लातकान्य् अनुपहतान्य् अनामयान्य् आपूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे संगृह्य यवपल्ले माषपल्ले वा निधापयेत् तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे प्रयोक्तुम् आरभेत शीतस्निग्धमधुरोपस्कृतशरीरः ।
पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत् तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत् सर्पिषान्तर् मुखम् अभ्यज्य ।

तान्य् एकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्य् आ त्रिंशतः प्रयोज्यानि नातः परमुत्कर्षः ।
प्रयोगविधानेन सहस्रपर एव भल्लातकप्रयोगः ।
जीर्णे च ससर्पिषा पयसा शालिषष्टिकाशनम् उपचारः प्रयोगान्ते च द्विस् तावत् पयसैवोपचारः ।
तत्प्रयोगाद्वर्षशतमजरं वयस् तिष्ठतीति समानं पूर्वेण ॥ चर्_6,2.13
[{आयुर्वेददीपिका}
शुचिः ज्येष्ठः शुक्रस्तु आषाढः सह आग्रहायणः सहस्यः पौषः ॥ 1
एतच्च भल्लातकं मासचतुष्टयस्थितं यवपल्लादौ उद्धृतमात्रं न प्रयोज्यं किंतु यथोक्त एव काले शीतगुणयुक्ते ॥ 2
मुखदाहपरिहारार्थं सर्पिषान्तर् मुखम् अभ्यज्येति ॥ 3
नातः परमिति त्रिंशतः परेण प्रयोगो न भल्लातकस्य ॥ 4
सहस्रपरो भल्लातकप्रयोग इति उपयुक्तभल्लातकसंपिण्डनया यदा सहस्रं पूर्यते तदैवोपरमः कर्तव्यः सहस्रादर्वागपि च प्रयोगपरित्यागः प्रकृत्याद्यपेक्षया भवत्येव ॥ 5
सहस्रसंख्यापूरणं चेहैकेन वर्धनह्रासक्रमेण न भवति तेन पुनर् आवृत्त्या च त्रिंशत्पर्यन्तं प्रयोगः कर्तव्यः यथा हि भल्लातकप्रयोगाभ्यासेन सहस्रसंख्यापूरणं भवति तथा कृत्वा परित्यागः कर्तव्यः ॥ 6
अन्ये त्व् अत्र सुश्रुते अर्शश्चिकित्सितोक्तशतपर्यन्तं भल्लातकप्रयोगेण समं विरोधं पश्यन्तः सुश्रुतप्रयोगस्याप्यन्यथा व्याख्यानेन त्रिंशत्कमात्रं प्रयोगमिच्छन्ति तच्च व्याख्यानं नातिसंगतम् ॥ 7
किंच सहस्रद्वयस्य तत्रोपयोगो विहितः अत्र सहस्रपर्यन्तः प्रयोगः तेन व्याधिविषयोऽन्य एव स प्रयोगः अयं तु रसायनविषयः ॥ 8]
भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमाव् आकण्ठं निखातस्य स्नेहभावितस्य दृढस्योपरि कुम्भस्यारोप्योडुपेनापिधाय कृष्णमृत्तिकावलिप्तं गोमयाग्निभिर् उपस्वेदयेत् तेषां यः स्वरसः कुम्भं प्रपद्येत तम् अष्टभागमधुसम्प्रयुक्तं द्विगुणघृतम् अद्यात् तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥ चर्_6,2.14
[{आयुर्वेददीपिका}
पिष्टस्वेदनं तत् यत्रस्थं पिष्टकम् उपस्वेद्यते तदुपरि यत् पिधानपात्रं तच्चेह सच्छिद्रं ग्राह्यम् अन्यथोपरिस्थभल्लातकतापाच् च्युतः स्नेहो नाधो याति ॥ 1]
भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण ॥ चर्_6,2.15
[{आयुर्वेददीपिका}
भल्लातकतैलम् इति अनन्तरोक्तविधानेन गृहीतो भल्लातकस्नेहः ॥ 1]
भल्लातकसर्पिः भल्लातकक्षीरं भल्लातकक्षौद्रं गुडभल्लातकं भल्लातकयूषः भल्लातकतैलं भल्लातकपललं भल्लातकसक्तवः भल्लातकलवणं भल्लातकतर्पणम् इति भल्लातकविधानमुक्तं भवति ॥ चर्_6,2.16
[{आयुर्वेददीपिका}
भल्लातकसर्पिर् इत्यादयो दशप्रयोगाः ॥ 1
अत्र च यथायोग्यतया भल्लातकेन सर्पिरादीनां संस्कारः संयोगश्च ज्ञेयः ॥ 2
यदुक्तं जतूकर्णे भल्लातकसंयुक्तसंस्कृतानि च घृतक्षीरक्षौद्रगुडयूषतैलपललसक्तुलवणतर्पणानि इति ॥ 3
एवं च सर्पिःक्षीरयूषतैलानां संस्कारो यथान्यायं भल्लातकेन क्षौद्रपललसक्तुतर्पणानां भल्लातकेन योगः गुडलवणयोस्तु संस्कारः संयोगो वा ॥ 4
लवणे संस्कारपक्षे हि लवणसमं भल्लातकम् अन्तर्धूमदग्धं ग्राह्यम् ॥ 5
अन्ये तु सर्पिरादीनां सर्वेषामेव भल्लातकेन संस्कारं व्याख्यानयन्ति ॥ 6
इह सक्तुप्रयोगोऽद्रवोत्तरत्वाद् अविशेषकर्मणा भेदनीयः ॥ 7]
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च ।
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि ॥ चर्_6,2.17
एते दशविधास्त्वेषां प्रयोगाः परिकीर्तिताः ।
रोगप्रकृतिसात्म्यज्ञस् तान् प्रयोगान् प्रकल्पयेत् ॥ चर्_6,2.18
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन ।
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम् ॥ चर्_6,2.19
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः ।
रसायनैः शिवैर् एतैर् बभूवुर् अमितायुषः ॥ चर्_6,2.20
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च ।
दीर्घायुषो यथाकामं संभृत्य त्रिदिवं गताः ॥ चर्_6,2.21
तस्मादायुःप्रकर्षार्थं प्राणकामैः सुखार्थिभिः ।
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः ॥ चर्_6,2.22

[{आयुर्वेददीपिका}
अग्निसमानीति दाहस्फोटकर्तृतया ॥ 1
संभृत्येति निष्पाद्य ॥ 2]
रसायनानां संयोगाः सिद्धा भूतहितैषिणा ।
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ॥ चर्_6,2.23
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः ॥ चर्_6,2.24
[{आयुर्वेददीपिका}
पादानुसंग्रहे सप्तत्रिंशत्प्रयोगा उक्ताः तत्र बलादिभिरष्टाभिः पुनर्नवान्तैश्च दशभिरष्टादशप्रयोगाः अपरे तु व्याहृता व्यक्ता एव ॥ 1]
चरकसंहिता, चिकित्सास्थान, 1 [रसायनाध्याय], 3 [करप्रचितीय]
अथातः करप्रचितीयं रसायनपादं व्याख्यास्यामः ॥ चर्_6,1.3.1
इति ह स्माह भगवानात्रेयः ॥ चर्_6,1.3.2
[{आयुर्वेददीपिका}
आमलकरसायनत्वसाम्याद् अनन्तरं करप्रचितीय उच्यते ॥ 1]
करप्रचितानां यथोक्तगुणानाम् आमलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रिःसप्तकृत्वः स्वरसपरिपीतानां पुनः शुष्कचूर्णीकृतानाम् आढकम् एकं ग्राहयेत् अथ जीवनीयानां बृंहणीयानां स्तन्यजननानां शुक्रजननानां वयःस्थापनानां षड्विरेचनशताश्रितीयोक्तानाम् औषधगणानां चन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणां चाणुशः कृत्तानाम् अभयाविभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत् तस्मिन्नाढकावशेषे रसे सुपूते तान्य् आमलकचूर्णानि दत्त्वा गोमयाग्निभिर् वंशविदलशरतेजनाग्निभिर् वा साधयेद् यावद् अपनयाद्रसस्य तम् अनुपदग्धम् उपहृत्यायसीषु पात्रीष्वास्तीर्य शोषयेत् सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टम् अयःस्थाल्यां निधापयेत् सम्यक् तच्चूर्णम् अयश् चूर्णाष्टभागसम्प्रयुक्तं मधुसर्पिर्भ्याम् अग्निबलम् अभिसमीक्ष्य प्रयोजयेदिति ॥ चर्_6,1.3.3
एतद्रसायनं पूर्वं वसिष्ठः कश्यपो ऽङ्गिराः ।
जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः ॥ चर्_6,1.3.4
प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात् ।
यावद् ऐच्छंस् तपस्तेपुस् तत्प्रभावान्महाबलाः ॥ चर्_6,1.3.5
इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम् ।
जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम् ॥ चर्_6,1.3.6
[{आयुर्वेददीपिका}
करप्रचितानामितिपदं स्वयंपतितग्रहणं निषेधयति ॥ 1
माघे फाल्गुने वेतिग्रहणवचनात् तथैव गृहीतानामधिकार इत्यागमादुन्नीयते ॥ 2
स्वरस इहामलकस्यैव भवति अधिकारात् ॥ 3
शाकः बृहत्पत्त्रस् तरुः ॥ 4
कृत्तानामिति छिन्नानाम् ॥ 5
इह गोमयाग्न्याद्युपकरणनियमेनैव शक्त्युत्कर्षो भवतीति ऋषिवचनाद् उन्नीयते ॥ 6
यदुक्तम् ऋषयस् त्व् एव जानन्ति योगसंयोगजं फलम् इति ॥ 7
एवमन्यत्रापि इतिकर्तव्यतानियमो व्याख्येयः ॥ 8
कृष्णाजिनस्येति कृष्णसाराजिनस्य ॥ 9]
तपसा ब्रह्मचर्येण यानेन प्रशमेन च ।
रसायनविधानेन कालयुक्तेन चायुषा ॥ चर्_6,1.3.7
स्थिता महर्षयः पूर्वं नहि किंचिद् रसायनम् ।
ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम् ॥ चर्_6,1.3.8
[{आयुर्वेददीपिका}
सम्प्रति रसायनस्य तपोब्रह्मचर्यध्यानादियुक्तस्यैव महाफलत्वं भवतीति दर्शयन्नाह तपसेत्यादि ॥ 1
कालयुक्तेन चायुषेति अनियतकालयुक्तेन चायुषेत्यर्थः नियतकालायुषं प्रति तु न रसायनं फलवदित्युक्तम् एव ॥ 2
स्थिता इति दीर्घकालजीविनः ॥ 3
विपर्ययेण तपःप्रभृतिविरहे रसायनस्याफलताम् आह न हीत्यादि ॥ 4]
संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा ।

सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः ॥ चर्_6,1.3.9
संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम् ।
त्र्यहोषवासी शुक्लस्य प्रविश्यामलकीवनम् ॥ चर्_6,1.3.10
बृहत्फलाढ्यम् आरुह्य द्रुमं शाखागतं फलम् ।
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात् ॥ चर्_6,1.3.11
तदा ह्य् अवश्यममृतं वसत्यामलके क्षणम् ।
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च ॥ चर्_6,1.3.12
भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत् ।
जीवेद् वर्षसहस्राणि तावन्त्यागतयौवनः ॥ चर्_6,1.3.13
सौहित्यमेषां गत्वा तु भवत्यमरसंनिभः ।
स्वयं चास्योपतिष्ठन्ते श्रीर् वेदा वाक्च रूपिणी ॥ चर्_6,1.3.14
[{आयुर्वेददीपिका}
ब्रह्मचारित्वेनेन्द्रियनियमे लब्धे ऽपि यतेन्द्रियपदसम्बन्ध इन्द्रियनियमातिशयोपदर्शनार्थः ॥ 1
पौषादिषु संवत्सरान्तत्वं नियमदिनादारभ्य वर्षपूरणेन ज्ञेयम् ॥ 2
फाल्गुनीम् इत्यस्यान्ते प्राप्येति शेषः ॥ 3
न द्रुममारोहेत् इत्यस्येह आरुह्य द्रुममिति वचनेनापवादः ॥ 4
जपन् ब्रह्मेति ओंकारं जपन् ॥ 5
अमृतागमादिति अमृतागमपर्यन्तम् ॥ 6
सौहित्यमेषामिति करणे षष्ठी ॥ 7
वाग्रूपिणीति तदधिष्ठात्री देवता ॥ 8]
त्रिफलाया रसे मूत्रे गवां क्षारे च लावणे ।
क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च ॥ चर्_6,1.3.15
तीक्ष्णायसस्य पत्त्राणि वह्निवर्णानि साधयेत् ।
चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च ॥ चर्_6,1.3.16
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत् ।
तानि चूर्णानि मधुना रसेनामलकस्य च ॥ चर्_6,1.3.17
युक्तानि लेहवत्कुम्भे स्थितानि घृतभाविते ।
संवत्सरं निधेयानि यवपल्ले तथैव च ॥ चर्_6,1.3.18
दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः ।
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा ॥ चर्_6,1.3.19
प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम् ।
एष एव च लौहानां प्रयोगः संप्रकीर्तितः ॥ चर्_6,1.3.20
नाभिघातैर्न चातङ्कैर्जरया न च मृत्युना ।
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः ॥ चर्_6,1.3.21
धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः ।
भवेत्समां प्रयुञ्जानो नरो लौहरसायनम् ॥ चर्_6,1.3.22
अनेनैव विधानेन हेम्नश्च रजतस्य च ।
आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत् ॥ चर्_6,1.3.23
[{आयुर्वेददीपिका}
क्षार इति परिस्रावितक्षारोदके ॥ 1

मूल पाठ: Carakasaṃhitā-parts with the Āyurvedadīpikā · Edition: J. Trikamji Varanasi: Chaukhambha Sanskrit Sansthan, 1994 (Kashi Sanskrit Series, 228) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc