भाषा

ENहिગુ
ग्रंथ पाठ

चरक संहिता (टीका सहित) · भाग 4160

कुतुम्बकः द्रोणपुष्पिका ॥ 4
आलुकानि पिण्डालुकादीनि ॥ 5
कर्बुदारः काञ्चनः ॥ 6
सुवर्चला सूर्यभक्तिका केचित् फप्पुकम् आहुः ॥ 7
पत्तूरः शालिञ्चः ॥ 8
चुच्चुपर्णिका नाडीचभेदः ॥ 9
कुमारजीवः जीवशाकम् ॥ 10
लोट्टाकः लोट्टामारिषः ॥ 11
नालिका गोनाडीचः ॥ 12
आसुरी राजिका मण्डको वा ॥ 13
वृकधूमकः भूमिशिरीषः ॥ 14
लक्ष्मणा स्वनामख्याता ॥ 15
नलिनी पद्ममृणालं नीलिनीति पाठपक्षे बुह्ना ॥ 16
यवशाकं क्षेत्रवास्तुकम् ॥ 17
कूष्माण्डः सर्पच्छत्त्रम् ॥ 18
अवल्गुजमिति अवल्गुजभेदः ॥ 19
यातुकः शुक्ला शालपर्णी ॥ 20
शालकल्याणी शालिञ्चभेदः ॥ 21
त्रिपर्णी हंसपादिका ॥ 22
पीलुपर्णी मोरटकः ॥ 23
गण्डीरः शमठः ॥ 24
बिल्वपर्णी बिल्वार्जकम् ॥ 25
भण्डी स्वनामख्याता ॥ 26
पर्वणी पर्वशाकम् ॥ 27
पर्वपुष्पी कुक्कुटी ॥ 28
पञ्चाङ्गुलः चित्रैरण्डः ॥ 29
एर्वारुकं राजकर्कटी ॥ 30
कूष्माण्डकं सुश्रुते बाल्याद्यावस्थाभेदेन पठितं तद् अप्यविरुद्धम् एव यतो बालमध्ययोस् तत्र पित्तहरत्वं कफकरत्वं चोक्तं तदपीह पित्तोत्तरे कफोत्तरे संनिपाते बोद्धव्यम् ॥ 31]
केलूटं च कदम्बं च नदीमाषकम् ऐन्दुकम् ।
विशदं गुरु शीतं च समभिष्यन्दि चोच्यते ॥ चर्_1,27.114
उत्पलानि कषायाणि रक्तपित्तहराणि च ।
तथा तालप्रलम्बं स्याद् उरःक्षतरुजापहम् ॥ चर्_1,27.115
खर्जूरं तालशस्यं च रक्तपित्तक्षयापहम् ।
तरूटबिसशालूकक्रौञ्चादनकशेरुकम् ॥ चर्_1,27.116
शृङ्गाटकाङ्कलोड्यं च गुरु विष्टम्भि शीतलम् ।
कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः ॥ चर्_1,27.117
शीताः स्वादुकषायास्तु कफमारुतकोपनाः ।
कषायमीषद्विष्टम्भि रक्तपित्तहरं स्मृतम् ॥ चर्_1,27.118
पौष्करं तु भवेद्बीजं मधुरं रसपाकयोः ।
बल्यः शीतो गुरुः स्निग्धस्तर्पणो बृंहणात्मकः ॥ चर्_1,27.119

वातपित्तहरः स्वादुर्वृष्यो मुञ्जातकः परम् ।
जीवनो बृंहणो वृष्यः कण्ठ्यः शस्तो रसायने ॥ चर्_1,27.120
विदारीकन्दो बल्यश्च मूत्रलः स्वादुशीतलः ।
अम्लिकायाः स्मृतः कन्दो ग्रहण्यर्शोहितो लघुः ॥ चर्_1,27.121
नात्युष्णः कफवातघ्नो ग्राही शस्तो मदात्यये ।
त्रिदोषं बद्धविण्मूत्रं सार्षपं शाकमुच्यते ॥ चर्_1,27.122
तद्वत् स्याद्रक्तनालस्य रूक्षमम्लं विशेषतः ।
तद्वत् पिण्डालुकं विद्यात् कन्दत्वाच्च मुखप्रियम् ।
सर्पच्छत्त्रकवर्ज्यास् तु बह्व्यो ऽन्याश् छत्त्रजातयः ॥ चर्_1,27.123
शीताः पीनसकर्त्र्यश्च मधुरा गुर्व्य एव च ।
चतुर्थः शाकवर्गो ऽयं पत्त्रकन्दफलाश्रयः ॥ चर्_1,27.124
[{आयुर्वेददीपिका}
केलूटे हारीतवचनं केलूटं स्वादु विटपं तत्कन्दः स्वादुशीतलः इति ॥ 1
कदम्बं कदम्बिकां वदन्ति केचित् तु स्वल्पकदम्बकम् आहुः ॥ 2
नदीमाषकः उदीमानक इति ख्यातः ॥ 3
ऐन्दुकं निक्षारः ॥ 4
तालप्रलम्बः तालाङ्कुरः ॥ 5
शस्यशब्देनेह मस्तकमज्जा गृह्यते ॥ 6
तरुटः कह्लारकन्दः ॥ 7
क्रौञ्चादनं धिञ्चुलिका ॥ 8
कशेरुकशब्देन चिञ्चोडका राजकशेरुकश्च गृह्यते ॥ 9
अङ्कालोड्यं ह्रस्वोत्पलकन्दः ॥ 10
मुञ्जातक औत्तरापथिककन्दः ॥ 11
अम्लिका स्वल्पविटपा प्रायः कामरूपादौ भवति ॥ 12
सर्पच्छत्त्रं सर्पफणाकारं छत्त्रकम् ॥ 13
अन्याश् छत्त्रजातयः करीषपलालादिजा बहुला ज्ञेयाः ॥ 14
पत्त्रकन्दफलाश्रय इति प्राधान्येन तेन पुष्पाद्याश्रयत्वम् अपि शाकवर्गस्य ज्ञेयम् ॥ 15]
तृष्णादाहज्वरश्वासरक्तपित्तक्षतक्षयान् ।
वातपित्तमुदावर्तं स्वरभेदं मदात्ययम् ॥ चर्_1,27.125
तिक्तास्यताम् आस्यशोषं कासं चाशु व्यपोहति ।
मृद्वीका बृंहणी वृष्या मधुरा स्निग्धशीतला ॥ चर्_1,27.126
मधुरं बृंहणं वृष्यं खर्जूरं गुरु शीतलम् ।
क्षयेऽभिघाते दाहे च वातपित्ते च तद्धितम् ॥ चर्_1,27.127
तर्पणं बृंहणं फल्गु गुरु विष्टम्भि शीतलम् ।
परूषकं मधूकं च वातपित्ते च शस्यते ॥ चर्_1,27.128
मधुरं बृंहणं बल्यम् आम्रातं तर्पणं गुरु ।
सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्यति ॥ चर्_1,27.129
तालशस्यानि सिद्धानि नारिकेलफलानि च ।
बृंहणस्निग्धशीतानि बल्यानि मधुराणि च ॥ चर्_1,27.130
मधुराम्लकषायं च विष्टम्भि गुरु शीतलम् ।

पित्तश्लेष्मकरं भव्यं ग्राहि वक्त्रविशोधनम् ॥ चर्_1,27.131
अम्लं परूषकं द्राक्षा बदराण्यारुकाणि च ।
पित्तश्लेष्मप्रकोपीणि कर्कन्धुनिकुचान्यपि ॥ चर्_1,27.132
नात्युष्णं गुरु सम्पक्वं स्वादुप्रायं मुखप्रियम् ।
बृंहणं जीर्यति क्षिप्रं नातिदोषलमारुकम् ॥ चर्_1,27.133
द्विविधं शीतमुष्णं च मधुरं चाम्लमेव च ।
गुरु पारावतं ज्ञेयमरुच्यत्यग्निनाशनम् ॥ चर्_1,27.134
भव्यादल्पान्तरगुणं काश्मर्यफलमुच्यते ।
तथैवाल्पान्तरगुणं तूदम् अम्लं परूषकात् ॥ चर्_1,27.135
कषायमधुरं टङ्कं वातलं गुरु शीतलम् ।
कपित्थमामं कण्ठघ्नं विषघ्नं ग्राहि वातलम् ॥ चर्_1,27.136
मधुराम्लकषायत्वात्सौगन्ध्याच्च रुचिप्रदम् ।
परिपक्वं च दोषघ्नं विषघ्नं ग्राहि गुर्वपि ॥ चर्_1,27.137
बिल्वं तु दुर्जरं पक्वं दोषलं पूतिमारुतम् ।
स्निग्धोष्णतीक्ष्णं तद्बालं दीपनं कफवातजित् ॥ चर्_1,27.138
रक्तपित्तकरं बालमापूर्णं पित्तवर्धनम् ।
पक्वमाम्रं जयेद्वायुं मांसशुक्रबलप्रदम् ॥ चर्_1,27.139
कषायमधुरप्रायं गुरु विष्टम्भि शीतलम् ।
जाम्बवं कफपित्तघ्नं ग्राहि वातकरं परम् ॥ चर्_1,27.140
बदरं मधुरं स्निग्धं भेदनं वातपित्तजित् ।
तच्छुष्कं कफवातघ्नं पित्ते न च विरुध्यते ॥ चर्_1,27.141
कषायमधुरं शीतं ग्राहि सिम्बितिकाफलम् ।
गाङ्गेरुकी करीरं च बिम्बी तोदनधन्वनम् ॥ चर्_1,27.142
मधुरं सकषायं च शीतं पित्तकफापहम् ।
सम्पक्वं पनसं मोचं राजादनफलानि च ॥ चर्_1,27.143
स्वादूनि सकषायाणि स्निग्धशीतगुरूणि च ।
कषायविशदत्वाच्च सौगन्ध्याच्च रुचिप्रदम् ॥ चर्_1,27.144
अवदंशक्षमं हृद्यं वातलं लवलीफलम् ।
नीपं शताह्वकं पीलु तृणशून्यं विकङ्कतम् ॥ चर्_1,27.145
प्राचीनामलकं चैव दोषघ्नं गरहारि च ।
ऐङ्गुदं तिक्तमधुरं स्निग्धोष्णं कफवातजित् ॥ चर्_1,27.146
तिन्दुकं कफपित्तघ्नं कषायं मधुरं लघु ।
विद्याद् आमलके सर्वान् रसांल्लवणवर्जितान् ॥ चर्_1,27.147
रूक्षं स्वादु कषायं कफपित्तहरं परम् ।
रसासृङ्मांसमेदोजान्दोषान् हन्ति विभीतकम् ॥ चर्_1,27.148
स्वरभेदकफोत्क्लेदपित्तरोगविनाशनम् ।
अम्लं कषायमधुरं वातघ्नं ग्राहि दीपनम् ॥ चर्_1,27.149
स्निग्धोष्णं दाडिमं हृद्यं कफपित्तविरोधि च ।
रूक्षाम्लं दाडिमं यत्तु तत्पित्तानिलकोपनम् ॥ चर्_1,27.150
मधुरं पित्तनुत्तेषां पूर्वं दाडिममुत्तमम् ।

वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्मणि शस्यते ॥ चर्_1,27.151
अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः ।
गुणैस् तैर् एव संयुक्तं भेदनं त्व् अम्लवेतसम् ॥ चर्_1,27.152
शूले ऽरुचौ विबन्धे च मन्दे ऽग्नौ मद्यविप्लवे ।
हिक्काश्वासे च कासे च वम्यां वर्चोगदेषु च ॥ चर्_1,27.153
वातश्लेष्मसमुत्थेषु सर्वेष्वेवोपदिश्यते ।
केसरं मातुलुङ्गस्य लघु शेषमतोऽन्यथा ॥ चर्_1,27.154
रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्जितः ।
कर्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः ॥ चर्_1,27.155
मधुरं किंचिदम्लं च हृद्यं भक्तप्ररोचनम् ।
दुर्जरं वातशमनं नागरङ्गफलं गुरु ॥ चर्_1,27.156
वातामाभिषुकाक्षोटमुकूलकनिकोचकाः ।
गुरूष्णस्निग्धमधुराः सोरुमाणा बलप्रदाः ॥ चर्_1,27.157
वातघ्ना बृंहणा वृष्याः कफपित्ताभिवर्धनाः ।
प्रियालमेषां सदृशं विद्यादौष्ण्यं विना गुणैः ॥ चर्_1,27.158
श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु ।
श्लेष्मलं गुरु विष्टम्भि चाङ्कोटफलमग्निजित् ॥ चर्_1,27.159
गुरूष्णं मधुरं रूक्षं केशघ्नं च शमीफलम् ।
विष्टम्भयति कारञ्जं वातश्लेष्माविरोधि च ॥ चर्_1,27.160
आम्रातकं दन्तशठम् अम्लं सकरमर्दकम् ।
रक्तपित्तकरं विद्यादैरावतकम् एव च ॥ चर्_1,27.161
वातघ्नं दीपनं चैव वार्ताकं कटु तिक्तकम् ।
वातलं कफपित्तघ्नं विद्यात्पर्पटकीफलम् ॥ चर्_1,27.162
पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षिकीफलम् ।
मधुराण्यम्लपाकीनि पित्तश्लेष्महराणि च ॥ चर्_1,27.163
अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि च ।
कषायमधुराम्लानि वातलानि गुरूणि च ॥ चर्_1,27.164
भल्लातकास्थ्यग्निसमं तन्मांसं स्वादु शीतलम् ।
पञ्चमः फलवर्गो ऽयमुक्तः प्रायोपयोगिकः ॥ चर्_1,27.165
[{आयुर्वेददीपिका}
फलानामपि केषांचिच्छाकवद् उपयोगात् फलवर्गम् आह ॥ 1
मृद्वीकाग्रे ऽभिधीयते श्रेष्ठगुणत्वात् ॥ 2
फल्गु औदुम्बरम् ॥ 3
मधूकशब्देन समानगुणत्वात् फलं कुसुमं च ज्ञेयम् ॥ 4
परूषकं चेह मधुरपरूषकं ज्ञेयम् ॥ 5
आम्रातम् आमडा इति ख्यातमाम्रफलसदृशम् इति चन्द्रिका एतच्च द्विविधं मधुरमम्लं च अत्र मधुरस्यैव गुणः अम्लस्य वक्ष्यमाणत्वात् ॥ 6
तालशस्यानीति तालफलानि यथा हरीतकीनां शस्यानि इत्यत्र फलमेव शस्यम् उच्यते ॥ 7
सिद्धानि पक्वानि तेन पक्वतालस्य ग्रहणम् ॥ 8
भव्यं कर्मरङ्गफलं केचित् त्वक्संहितमात्रफलं वदन्ति ॥ 9
आरुकं कार्त्तिकेयपुरे प्रसिद्धम् ॥ 10

कर्कन्धूः शृगालबदरी कर्कन्धूनिकुचयोर् विच्छिद्य पाठेन नित्यं पित्तश्लेष्मकर्तृत्वं तयोर् दर्शयति ॥ 11
परूषकादीनां तु मधुराम्लभेदेन द्विरूपाणां य एव परूषकादयो ऽम्लास्त एव पित्तश्लेष्मकरा इति ॥ 12
पारावतः कामरूपप्रसिद्धः ॥ 13
अत्र यो मधुरः स शीतः यश्चाम्लः स उष्ण इति ज्ञेयम् ॥ 14
एवं रसनिर्देशेनैव वीर्ये लब्धेऽपि पुनर्वीर्याख्यानमम्लस्यामलकस्य शीततादर्शनाद् बोद्धव्यम् ॥ 15
टङ्कं काश्मीरप्रसिद्धम् ॥ 16
सिद्धम् इति कालवशात् पक्वम् ॥ 17
कपित्थबिल्वाम्राणाम् अवस्थाभेदेन गुणकथनं सर्वावस्थासु तेषामुपयोज्यत्वात् ॥ 18
बदरं मध्यप्रमाणं तद्धि मधुरमेव भवति ॥ 19
गाङ्गेरुकं नागबलाफलम् ॥ 20
करीरो मरुजो द्रुमः ॥ 21
तोदनं धन्वनभेदः ॥ 22
राजादनं क्षीरी ॥ 23
अवदंशक्षममिति लवलीफलं प्राश्य द्रव्यान्तरे रुचिर् भवति ॥ 24
नीपं कदम्बकम् ॥ 25
शताह्वकफलं सेह इति ख्यातम् ॥ 26
पीलु औत्तरापथिकम् ॥ 27
तृणशून्यं केतकीफलम् ॥ 28
प्राचीनामलकं पानीयामलकम् ॥ 29
तिन्दुकं केन्दुः ॥ 30
दाडिमगुणे कफपित्ताविरोधीति अम्लदाडिमं पित्ताविरोधि मधुरं तु कफाविरोधि एवं च त्रिदोषहरत्वमस्योपपन्नं यद् उक्तं सुश्रुते द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च ॥ 31
त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम् इति ॥ 32
वृक्षाम्लं महार्द्रकम् ॥ 33
अम्लिका तिन्तिडी ॥ 34
शेषमिति त्वङ्मांसम् अतोऽन्यथेति गुरु किंवा शूले ऽरुचाव् इत्याद्युक्तकेसरगुणविपरीतम् ॥ 35
वातामादय औत्तरापथिकाः ॥ 36
प्रियालोऽयं मगधप्रसिद्धः ॥ 37
दन्तशठः जम्बीरः केचिद् अम्लोटं वदन्ति ॥ 38
इहाम्रातकमम्लं ग्राह्यं पूर्वं तु मधुरमाम्रातकम् उक्तम् ॥ 39
करमर्दं द्विविधं ग्रामजं वनजं च ॥ 40
ऐरावतम् अम्लातकं किंवा नागरङ्गम् ॥ 41
वार्ताकं दक्षिणापथे फलवत् खाद्यते यद् गोष्ठवार्ताकसंज्ञकं तस्येह गुणः किंवा फलवदसिद्धस्यैव वार्ताकस्योपयोज्यस्यायं गुणः ॥ 42
आक्षिकी लता तस्याः फलम् आक्षिकम् ॥ 43
अनुपाकि अनुया इति ख्याता ॥ 44
अग्निसमम् इति स्फोटादिजनकत्वात् ॥ 45]
रोचनं दीपनं वृष्यम् आर्द्रकं विश्वभेषजम् ।
वातश्लेष्मविबन्धेषु रसस्तस्योपदिश्यते ॥ चर्_1,27.166
रोचनो दीपनस् तीक्ष्णः सुगन्धिर्मुखशोधनः ।
जम्बीरः कफवातघ्नः क्रिमिघ्नो भक्तपाचनः ॥ चर्_1,27.167
बालं दोषहरं वृद्धं त्रिदोषं मारुतापहम् ।

स्निग्धसिद्धं विशुष्कं तु मूलकं कफवातजित् ॥ चर्_1,27.168
हिक्काकासविषश्वासपार्श्वशूलविनाशनः ।
पित्तकृत्कफवातघ्नः सुरसः पूतिगन्धहा ॥ चर्_1,27.169
यवानी चार्जकश्चैव शिग्रुशालेयमृष्टकम् ।
हृद्यान्य् आस्वादनीयानि पित्तमुत्क्लेशयन्ति च ॥ चर्_1,27.170
गण्डीरो जलपिप्पल्यस्तुम्बरुः शृङ्गवेरिका ।
तीक्ष्णोष्णकटुरूक्षाणि कफवातहराणि च ॥ चर्_1,27.171
पुंस्त्वघ्नः कटुरूक्षोष्णो भूस्तृणो वक्त्रशोधनः ।
खराह्वा कफवातघ्नी वस्तिरोगरुजापहा ॥ चर्_1,27.172
धान्यकं चाजगन्धा च सुमुखश्चेति रोचनाः ।
सुगन्धा नातिकटुका दोषानुत्क्लेशयन्ति च ॥ चर्_1,27.173
ग्राही गृञ्जनकस्तीक्ष्णो वातश्लेष्मार्शसां हितः ।
स्वेदनेऽभ्यवहारे च योजयेत् तम् अपित्तिनाम् ॥ चर्_1,27.174
श्लेष्मलो मारुतघ्नश्च पलाण्डुर्न च पित्तनुत् ।
आहारयोगी बल्यश्च गुरुर्वृष्योऽथ रोचनः ॥ चर्_1,27.175
क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः ।
स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः ॥ चर्_1,27.176
शुष्काणि कफवातघ्नान्य् एतान्य् एषां फलानि च ।
हरितानामयं चैष षष्ठो वर्गः समाप्यते ॥ चर्_1,27.177
[{आयुर्वेददीपिका}
हरितानाम् अप्यार्द्रकादीनां फलवदग्निपाकम् अन्तरेण भोजनस्य प्राक् पश्चाच्चोपयोगात् फलम् अनु हरितकथनं फलेभ्यस्तु पश्चादभिधानं हरितस्य तृप्त्यनाधायकत्वात् ॥ 1
आर्द्रकमिति विशेषणं शुण्ठीव्यावृत्त्यर्थं शुण्ठीगुणश्चाहारसंयोगिवर्गे भविष्यति ॥ 2
जम्बीरः पर्णासभेदः जम्बीरफलं सुगन्धि ॥ 3
बालं दोषहरमिति तरुणावस्थायामव्यक्तरसायां त्रिदोषहरम् ॥ 4
तन्त्रान्तरवचनं हि यावद्धि चाव्यक्तरसान्वितानि नवप्ररूढानि च मूलकानि भवन्ति तावल्लघुदीपनानि पित्तानिलश्लेष्महराणि चैव ॥ 5
वृद्धं त्रिदोषमिति तदेवप्रवृद्धम् एनामेव मूलकावस्थाम् अभिप्रेत्य चोक्तं मूलकं कन्दानामपथ्यत्वे प्रकृष्टतमम् इति मारुतापहं स्निग्धसिद्धमिति सामान्येन बालं वृद्धं च ॥ 6
शुष्काणि कफवातघ्नान्येतानि इति वक्ष्यमाणग्रन्थेनैव शुष्ककस्य कफवातहन्तृत्वे लब्धे पुनर्वचनं प्रकर्षप्राप्त्यर्थम् ॥ 7
पूतिगन्धहेति शरीरस्य तथा व्यञ्जनार्थं मांसस्य च पूतिगन्धतां हन्ति ॥ 8
अर्जकः श्वेतपर्णासः ॥ 9
शिग्रुः विटपशोभाञ्जनः शालेयश् चाणक्यमूलं मरौ प्रसिद्धं किंवा शालेयम् इति मिस्तेयं पाटकप्रसिद्धं वचनं हि चाणक्यमूलमिस्तेये शालेयाभिख्यया जगुः इति मृष्टकं राजिका ॥ 10
गण्डीरो द्विविधो रक्तः शुक्लश्च तत्र यो रक्तः स हि कटुत्वेन हरितवर्गे पठ्यते यस्तु शुक्लो जलजः स शाकवर्गे पठित इति नैकस्य वर्गद्वये पाठः ॥ 11
जलपिप्पली जले पिप्पल्याकारा भवति ॥ 12
शृङ्गवेरी गोजिह्विका किंवा आर्द्रकाकृतिः शृङ्गवेरी यदुक्तं शृङ्गवेरवद् आकृत्या शृङ्गवेरीति भाषिता ॥ 13
कुस्तुम्बुरुसमाकृत्या तुम्बुरूणि वदन्ति च इति ॥ 14
भूस्तृणो गन्धतृणः ॥ 15
खराह्वा कृष्णजीरकम् ॥ 16
अजगन्धा वनयवानी ॥ 17
सुमुखः पर्णासभेदः ॥ 18
अयं च धान्यकादीनाम् आर्द्राणां गुणः शुष्काणां त्व् आहारयोगिगणे कारवी कुञ्चिका इत्यादिना गुणं निर्देक्ष्यति ॥ 19
गृञ्जनकः स्वल्पनालपत्त्रः पलाण्डुर् एव ॥ 20

एतानीति हरितवर्गोक्तानि ॥ 21
शुष्काणीत्यादिना यद्यपि शुष्काणाम् अपि शुण्ठीप्रभृतीनां गुण उक्तो भवति तथापि विशेषगुणान्तरकथनार्थं पुनस्तदभिधानम् आहारसंयोगिवर्गे भविष्यतीति न पौनरुक्त्यम् ॥ 22]
चरकसंहिता, सूत्रस्थान, 28 [विविधाशितपीतीय]
अथातो विविधाशितपीतीयमध्यायं व्याख्यास्यामः ॥ चर्_1,28.1
इति ह स्माह भगवानात्रेयः ॥ चर्_1,28.2
[{आयुर्वेददीपिका}
पूर्वाध्याये अन्नं प्राणाः इत्युक्तं तद्येन प्रकारेणान्नं प्राणहेतुर् भवति तदभिधानार्थं विविधाशितपीतीयो ऽभिधीयते ॥ 1
इयम् अप्यर्थपरा संज्ञा ॥ 2]
विविधम् अशितं पीतं लीढं खादितं जन्तोर्हितम् अन्तरग्निसंधुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानं कालवद् अनवस्थितसर्वधातुपाकम् अनुपहतसर्वधातूष्ममारुतस्रोतः केवलं शरीरमुपचयबलवर्णसुखायुषा योजयति शरीरधातून् ऊर्जयति च ।
धातवो हि धात्वाहाराः प्रकृतिमनुवर्तन्ते ॥ चर्_1,28.3
[{आयुर्वेददीपिका}
विविधमित्यादि ॥ 1
विविधमिति अनेनाशितादीनामवान्तरभेदं दर्शयति अशितादिषु यो यः प्राय उपयुज्यते स पूर्वम् उक्तः ॥ 2
जन्तोर् हितम् इति वचनम् अहितस्याशितादेर् बलवर्णादिकर्तृत्वाभावात् ॥ 3
अन्तरग्निना जाठरेण वह्निना संधुक्षितं बलं यस्य तेनान्तरग्निसंधुक्षितबलेन ॥ 4
यथास्वेनोष्मणेति पृथिव्यादिरूपाशितादेयस्य य ऊष्मा पार्थिवाग्न्यादिरूपस्तेन वचनं हि भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः ॥ 5
पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्ति हि इति ॥ 6
सम्यग्विपच्यमानम् इति अशितादि ॥ 7
किंवा यथास्वेनोष्मणेति यस्य रुधिरादेर् य ऊष्मा धात्वग्निरूपस्तेन सम्यग्विपच्यमानमशितादि रसताम् आपन्नं यदा रक्तादिधातून् प्रतिपद्यते तदा रक्ताद्यूष्मणैव पच्यते एवं विपच्यमानमशितादि शरीरमुपचयादिना योजयत्यूर्जयति वर्धयतीति योजना ॥ 8
किंविशिष्टं शरीरम् इत्याह कालवद् इत्यादि ॥ 9
यथा कालो नित्यगत्वेनानवस्थितः तथानवस्थितः अविश्रान्तः सर्वधातूनां पाको यस्मिन् शरीरे तत्तथा एतेन सर्वदा स्वाग्निपाकक्षीयमाणधातोः शरीरस्याशितादिनोपचयादियोजनम् उपपन्नमिति दर्शयति यदि हि पाकक्षीयमाणं शरीरं न स्यात्तदा स्वतः सिद्धे उपचयादौ किमशितादि कुर्याद् इति भावः ॥ 10
किंवा कालवदित्यशितादिविशेषणं तेन यथोक्तकालकृतम् अशितादीत्यर्थः अकालभोजनस्योपचयाद्यकारकत्वात् ॥ 11
तथा अनवस्थितसर्वधातुपाकमित्येतदपि अशितादिविशेषणं तेन अनवस्थितः सर्वधातुषु पाको यस्याशितादेस्तत्तथा एतेन क्वचिदपि धातौ स्थगितस्याशितादे रसरूपस्य पाकविगमनान् नोपचयादिर् भवतीति दर्शयति ॥ 12
एतच्च व्याख्यानं नातिसुन्दरम् अस्यार्थस्य अनुपहतेत्यादिशरीरविशेषणेनैव लब्धत्वात् पुनः शरीरविशेषणम् अनुपपन्नम् ॥ 13
अनुपहतेत्यादि अनुपहतानि सर्वधातूनाम् ऊष्ममारुतस्रोतांसि यस्य तत्तथा यदा हि एको ऽपि धातुपाचकोऽग्निरुपहतः मारुतो वा धातुपोषकरसवाही व्यानरूपः क्वचिद् उपहतो भवति तथा स्रोतो वा धातुपोषकरसवहम् उपहतं स्यात् तदा अशितादिकं धातूनाम् अवर्धकत्वान्नोपचयादिकारकम् इति भावः ॥ 14
केवलमिति कृत्स्नं शरीरं किंवा केवलमिति अधर्मरहितम् अधर्मयुक्ते हि शरीरे विफलमशितादि भवतीति ॥ 15
ननु शरीरधातूनां प्रकृतिस्थितानां स्वत एवोपचयाद्यस्ति तत् किमशितादिना क्रियत इत्याह धातवो हीत्यादि ॥ 16
धातुराहारो येषां ते धात्वाहाराः धातवो रसादयो नित्यं क्षीयमाणा अशितादिजनितधात्वाहारा एव सन्तः परं स्वास्थ्यमनुवर्तन्ते नान्यथेत्यर्थः ॥ 17]
तत्राहारप्रसादाख्यो रसः किट्टं च मलाख्यम् अभिनिर्वर्तते ।
किट्टात् स्वेदपुरीषवातपित्तश्लेष्माणः कर्णाक्षिनासिकास्यलोमकूपप्रजननमलाः केशश्मश्रुलोमनखादयश् चावयवाः पुष्यन्ति ।
पुष्यन्ति त्व् आहाररसाद् रसरुधिरमांसमेदोऽस्थिमज्जशुक्रौजांसि पञ्चेन्द्रियद्रव्याणि धातुप्रसादसंज्ञकानि शरीरसंधिबन्धपिच्छादयश् चावयवाः ।
ते सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मानमनुवर्तन्ते यथावयःशरीरम् ।
एवं रसमलौ स्वप्रमाणावस्थिताव् आश्रयस्य समधातोर्धातुसाम्यम् अनुवर्तयतः ।
निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्याम् आहारमूलाभ्यां रसः साम्यम् उत्पादयत्यारोग्याय किट्टं च मलानामेवमेव ।
स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणैश् चोपचर्यमाणा मलाः शरीरधातुसाम्यकराः समुपलभ्यन्ते ॥ चर्_1,28.4
[{आयुर्वेददीपिका}
यो ऽसौ धातूनामाहारस्तमाह तत्रेत्यादि ॥ 1
तत्रेति अशितादौ ॥ 2
रसः किट्टं चाभिनिवर्तत इत्यन्वयः ॥ 3
आहारप्रसाद इत्याख्या यस्य स तथा प्रसादः सारः ॥ 4

किट्टम् असारभागः ॥ 5
किट्टाद् इति किट्टांशात् तेन अन्नाद्यः किट्टांशस् ततो मूत्रपुरीषे भवतो वायुश्च रसात् पच्यमानान्मलः कफः एवमादि ग्रहण्यध्याये वक्ष्यमाणम् अनुसर्तव्यं वक्ष्यति हि ।
किट्टमन्नस्य विण्मूत्रं रसस्य तु कफो ऽसृजः ।
पित्तं मांसस्य स्वमलो मलः स्वेदस्तु मेदसः ॥ 6
स्यात् किट्टं केशलोमास्थ्नो मज्ज्ञः स्नेहोऽक्षिविट् त्वचाम् ।
इति ॥ 7
आदिग्रहणाद् अक्षिस्नेहादि ग्राह्यम् ॥ 8
यद्यपि च वातोऽनशनाद् अप्युपलभ्यते तथापि रूक्षकिट्टादिभोजनमलांशाद् अप्युत्पद्यत एवेति किट्टाद्वातोत्पत्तिर्युक्तैव न चायं नियमो यन्मलादेवोत्पद्यत इति व्यायामादवगाहादेरपि च वातादिसद्भावात् ॥ 9
प्रजननं लिङ्गम् ॥ 10
रसपोष्यम् आह पुष्यन्ति त्व् इत्यादि ॥ 11
पञ्चेन्द्रियद्रव्याणीति पृथिव्यादीनि घ्राणादीनीन्द्रियकारणानि ॥ 12
धातुप्रसादसंज्ञकाणीति अत्यर्थशुद्धेनैव धातुप्रसादेनेन्द्रियाण्यारभ्यन्त इति दर्शयति ॥ 13
शरीरं बध्नातीति शरीरबन्धः स्नायुसिरादिभिः ॥ 14
आदिग्रहणाद् आर्तवस्तन्यादिग्रहणम् ॥ 15
अत्राहाररसाद् रक्तादिपोषणे केचिद् ब्रुवते यत् रसो रक्तरूपतया परिणमति रक्तं च मांसरूपतया एवं मांसादयो ऽप्युत्तरोत्तरधातुरूपतया परिणमन्ति ॥ 16
अत्रापि च पक्षे केचिद् ब्रुवते क्षीराद् यथा सर्वात्मना दधि भवति तथा कृत्स्नो रसो रक्तं भवति एवं रक्तादयोऽपि मांसादिरूपा भवन्ति ॥ 17
अन्ये त्व् आहुः केदारीकुल्यान्यायेन रसस्य धातुपोषणं तत्रान्नादुत्पन्नो रसो धातुरूपं रसमधिगम्य कियताप्यंशेन तं रसं वर्धयति अपरश्च रसराशिस्तत्र गतः सन् शोणितगन्धवर्णयुक्तत्वाच्छोणितम् इव भूत्वा कियतापि शोणितसमानेनांशेन धातुरूपं शोणितं पुष्णाति शेषश्च भागो मांसं याति तत्रापि शोणितवद्व्यवस्था तथा मेदःप्रभृतिष्वपीति ॥ 18
अत एव च मुख्यार्थो ऽयं ग्रन्थो भवति यथा ।
रसाद् रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च ।
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः ॥ 19
इति तथा हारीतेऽप्युक्तं रसः सप्ताहादर्वाक् परिवर्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशुकालक्तकरसप्रख्यश् चायं यथाक्रमं दिवसपरिवर्ताद् वर्णपरिवर्तम् आपद्यमानः पित्तोष्मोपरागाच्छोणितत्वम् आपद्यते इति तथा सुश्रुते ऽप्युक्तं स खल्वाप्यो रस एकैकस्मिन् धातौ त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला अवतिष्ठते एवं मासेन रसः शुक्रीभवति इति ॥ 20
अन्ये त्व् आहुः खलेकपोतन्यायेनायम् अन्नरसः पृथक् पृथग् धातुमार्गे गतः सन् रसादीन् पोषयति न त्व् अस्य धातुपोषको रसभागो धात्वन्तरेण समं सम्बन्धम् अप्यनुभवति रसादिपोषकानि स्रोतांस्युत्तरोत्तरं सूक्ष्ममुखानि दीर्घाणि च तेनैव रसपोषकरसभागो रसमार्गचारित्वाद् रसं पोषयति एवं रसपोषणकालाद् उत्तरकालं रक्तपोषको रसभागो रक्तं पोषयति तथा शोणितपोषणकालाद् उत्तरकालं मांसपोषको रसभागो मांसं पोषयति विदूरसूक्ष्ममार्गचारित्वात् एवं मेदःप्रभृतिपोषणेऽपि ज्ञेयम् ॥ 21
तेन रसाद् रक्तं ततो मांसम् इत्यादेर् अयम् अर्थो यत्र रसपुष्टिकालाद् उत्तरकालं रक्तं जायते तथा रक्तपुष्टिकालाद् उत्तरकालं मांसं प्रजायते इत्यादि ॥ 22
एवं सुश्रुतहरीतवचने अपि व्याख्येये ॥ 23
यच्च रक्तं विबद्धमार्गत्वान् मांसादीन्न प्रपद्यते इति राजयक्ष्मणि वक्ष्यति तद्धृदयचारिशोणिताभिप्रायेण न तु पोषकशोणिताभिप्रायेण ॥ 24
किंच परिणामपक्षे वृष्यप्रयोगस्य रक्तादिरूपतापत्तिक्रमेणातिचिरेण शुक्रं भवतीति क्षीरादयश्च सद्य एव वृष्या दृश्यन्ते खलेकपोतपक्षे तु वृष्योत्पन्नो रसः प्रभावाच्छीघ्रमेव शुक्रेण सम्बद्धः सन् तत्पुष्टिं करोतीति युक्तं तथा रसदुष्टौ सत्यां परिणामपक्षे तज्जन्मनां शोणितादीनां सर्वेषामेव दुष्टिः स्यात् दुष्टकारणजातत्वात् ॥ 25
खलेकपोतपक्षे तु यद्धातुपोषको रसभागो दुष्टः स एव दुष्यति न सर्वे तदितरेषामदुष्टकारणत्वात् तथा मेदोवृद्धौ सत्यां भूरिकारणत्वेनास्थ्नापि भूयसा भवितव्यं दृश्यते च भूरिमेदस इतरधातुपरिक्षयः वचनं च मेदस्विनो मेद एवोपचीयते न तथेतरे धातवः इति एवमादि परिणामवादे दूषणम् ॥ 26
एषु च पक्षेषु सर्वात्मपरिणामवादो विरुद्ध एव येन सर्वात्मपरिणामे त्रिचतुरोपवासेनैव नीरसत्वाच्छरीरस्य मरणं स्यात् मासोपवासे केवलं शुक्रमयं शरीरं स्यात् ॥ 27
केदारीकुल्यान्यायस् तु तुल्यबल एव खलेकपोतन्यायेन यतो यद् उक्तं वृष्यप्रभावं प्रति तत् केदारीकुल्यापक्षेऽपि प्रभावादेव शीघ्रं रक्तादिधातूनभिगम्य शुक्रं जनयिष्यति वृष्यं यथा खलेकपोतपक्षेऽपि प्रभवादिति ॥ 28
यत्तु रसदुष्टौ शोणितदूषणं तन्न भवति धातुभूतशोणितांशपोषकस्य रसभागस्यादुष्टत्वात् इति समानं पूर्वेण ॥ 29
अत्रापि हि पक्षे न सर्वो रसो धातुरूपशोणितताम् आपद्यते किं तर्हि कश्चिदेव शोणितसमानो भागः शेषस्तु शोणितस्थानगतत्वेन किंचिच्छोणितसमानवर्णादित्वाच्च शोणितम् उच्यते अनेन न्यायेन मेदोवृद्धौ सत्यामस्थिवृद्धिर् अपि निरस्ता यतो न मेदसा अस्थि पोष्यते अपि तर्हि मेदःस्थानगतेनैव रसेन मेदोऽनुकारिणा ॥ 30
एवमनयोः पक्षयोर्महाजनादृतत्वेन तुल्यन्यायत्वेन च नैकमपि निश्चितं बुद्धिविभवान्न पक्षबलाबलम् अत्र न कश्चित् कार्यविरोध इत्युपरम्यते ॥ 31
नन्वाहाररसादयः पुष्यन्तीति वदता धातुरसादाहाररसोत्पादः पृथक् स्वीक्रियते ततश्च तस्य किं स्थानं किंवा प्रमाणम् इति किमिति नोक्तम् उच्यते न तस्याहारोत्कर्षापकर्षाव् एवंविधौ उत्कर्षापकर्षस्य निश्चितप्रमाणत्वाभावात् स्थानं तु धमन्य एव ॥ 32
पोषकाहाररसस्य तस्य च पृथग्रसादिधातुभ्यः प्रदेशान्तरग्रहणं न क्रियते रसादिकारणरूपतया रसादिग्रहणेनैव ग्रहणात् ॥ 33
अत्र यद्यप्योजः सप्तधातुसाररूपं तेन धातुग्रहणेनैव लभ्यते तथापि प्राणधारणकर्तृत्वेन पृथक् पठितं ये तु शुक्रजन्यमोज इच्छन्ति तेषामष्टमो धातुरोजः स्यादिति पक्षे चातिदेशं कृत्वा वक्ष्यति रसादीनां शुक्रान्तानां यत् परं तेजः तत् खल्वोजः इति ॥ 34
उपपादितपोषणानां धातुमलानां प्रकृत्यनुविधानम् उपसंहरति ते सर्व इत्यादि ॥ 35
मलाख्या अपि स्वेदमूत्रादयः स्वमानावस्थिता देहधारणाद्धातवो भवन्तीत्युक्तं धातवो मलाख्या इति ॥ 36
यथावयःशरीरम् इति यस्मिन् वयसि बाल्यादौ यादृशं मानं धातूनां तादृशं पुष्यन्तः तथा यस्मिन् शरीरे प्रकृत्या दीर्घे ह्रस्वे कृशे वा स्थूले वा यादृशं मानं धातूनां तादृशं पुष्यन्त इति योजना ॥ 37
एवम् इत्यादौ स्वप्रमाणावस्थिताव् इति अनतिरिक्ताव् अन्यूनौ च ॥ 38
आश्रयस्येति शरीरस्य यथावत्पक्वौ सर्वाश्रयं पश्चाद्धमनीभिः प्रपद्येते सर्वशरीरम् इत्यर्थः ॥ 39

समधातोर् इति समरसादेः समस्वेदमूत्रादेश् च ॥ 40
निमित्तत इत्यादि ॥ 41
निमित्तत इत्यनेनानिमित्ते अरिष्टरूपे क्षयवृद्धी निराकरोति ॥ 42
वृद्धिक्षयाभ्याम् आहारमूलाभ्याम् इति यथासंख्यं वृद्धक्षीणाहारकृताभ्याम् एतेनाहारविशेषकृतवृद्धिक्षयो रसः साम्यं करोतीत्यर्थः ॥ 43
धातुसाम्यस्यारोग्यत्वे सिद्धेऽपि यदारोग्यायेति ब्रूते तेन प्राकृतधातूनां क्षयेण वातिवृद्ध्या वा साम्यं निराकरोति अस्य साम्यस्य रोगकर्तृत्वाद् एव ॥ 44
किट्टं च मलानामेवम् एवेति यथा रसस्तथा किट्टमप्यारोग्याय मलानां साम्यं प्रतिपादितरसक्रमेण करोति ॥ 45
वृद्धमलानां चिकित्सान्तरम् आह स्वमानेत्यादि ॥ 46
उत्सर्गो बहिर्निःसरणं संशोधनरूपमेषां शास्त्रोक्तमस्ति उत्सर्गं वा वहन्तीत्युत्सर्गिणः ॥ 47
वृद्धानां मलानां चिकित्सान्तरम् आह शीतोष्णेत्यादि ॥ 48
पर्ययः विपर्ययः तेन शीतोष्णविपरीतगुणैर् इत्यर्थः तेन शीतसमुत्थे मले उष्णं तथोष्णसमुत्थे शीतमुपचारो भवति ॥ 49
आदिशब्दश् चात्र लुप्तनिर्दिष्टः तेन स्निग्धरूक्षादीनामपि विपरीतगुणानां ग्रहणम् ॥ 50
किंवा पर्ययगुणा द्वंद्वगुणाः स्निग्धरूक्षमृदुतीक्ष्णादयः तैश्च यथायोग्यतयोपचर्यमाणा इति ज्ञेयम् ॥ 51
एतेन वृद्धमलानां त्रिविधो ऽप्युपक्रमो निदानवर्जनशोधनशमनरूप उक्तो भवति तत्र निदानवर्जनं वृद्धमले मलवृद्धिहेत्वाहारपरित्यागाद् अल्पमलाहारोपयोगाद् वा बोद्धव्यं संशोधनं च उत्सर्गिण इत्यनेनोक्तं शमनं च शीतोष्णेत्यादि ग्रन्थेनोक्तम् ॥ 52]
तेषां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमुखानि ।
तानि यथाविभागेन यथास्वं धातूनापूरयन्ति ।
एवमिदं शरीरमशितपीतलीढखादितप्रभवम् ।
अशितपीतलीढखादितप्रभवाश्चास्मिञ्शरीरे व्याधयो भवन्ति ।
हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरा भवन्तीति ॥ चर्_1,28.5
[{आयुर्वेददीपिका}
अयनानि च तानि मुखानि चेत्ययनमुखानि अत्र आयान्त्यनेनेत्ययनानि मार्गाणि मुखानि तु यैः प्रविशन्ति एतेन मलानां धातूनां च यदेवायनं तदेव प्रवेशमुखमिति नान्येन प्रवेशो नान्येन च गमनम् इत्युक्तं भवति ॥ 1
रसादीनां यथास्वनाम स्रोतोमुखं चायनं च ॥ 2
किंवा अयनस्य गमनस्य मुखानि मार्गाणि तेन अयनमुखानि गतिमार्गाणीत्यर्थः ॥ 3
तानि च स्रोतांसि मलप्रसादपूरितानि धातून् यथास्वमिति यद्यस्य पोष्यं तच्च तत् पूरयति ॥ 4
यथाविभागेनेति यस्य धातोर्यो विभागः प्रमाणं तेनैव प्रमाणेन पूरयति तादृक्प्रमाणान्येव पुष्यन्ति नाधिकन्यूनानीत्यर्थः ॥ 5
एतच्च प्रकृतिस्थानां कर्म विकृतानां तु न्यूनातिरिक्तधातुकरणम् अस्त्येवेति बोद्धव्यम् ॥ 6
उक्तं चान्यत्र स्रोतसा च यथास्वेन धातुः पुष्यति धातुना इति ॥ 7
उपसंहरत्येवम् इत्यादि ॥ 8
कथमशितादेर्विरुद्धयोः शरीरतदुपघातकरोगयोर् उत्पाद इत्याह हिताहितेत्यादि ॥ 9
हितरूपोऽशितादिविशेषः शुभरूपविशेषकारकः अहितरूपस्त्वशितादिविशेषो ऽशुभरूपविशेषकरो भवति तेन नैकरूपात् कारणाद् विरुद्धकार्योदय इति भावः ॥ 10]
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच दृश्यन्ते हि भगवन् हितसमाख्यातम् अप्याहारमुपयुञ्जाना व्याधिमन्तश् चागदाश् च तथैवाहितसमाख्यातम् एवं दृष्टे कथं हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषम् उपलभामह इति ॥ चर्_1,28.6
[{आयुर्वेददीपिका}
दृश्यन्ते हि भगवन्नित्यादौ तथैवाहितसमाख्यातम् उपयुञ्जाना व्याधिमन्तश् चागदाश्चेति सम्बन्धः ॥ 1
विशेषात्मकमिति विशेषोद्भवम् ॥ 2]
तमुवाच भगवानात्रेयो न हिताहारोपयोगिनाम् अग्निवेश तन्निमित्ता व्याधयो जायन्ते न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयम् अतिक्रान्तं भवति सन्ति ह्य् ऋते ऽप्यहिताहारोपयोगाद् अन्या रोगप्रकृतयः तद्यथा कालविपर्ययः प्रज्ञापराधः शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति ।
ताश्च रोगप्रकृतयो रसान् सम्यगुपयुञ्जानमपि पुरुषम् अशुभेनोपपादयन्ति तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते व्याधिमन्तः ।
अहिताहारोपयोगिनां पुनः कारणतो न सद्यो दोषवान् भवत्यपचारः ।
न हि सर्वाण्यपथ्यानि तुल्यदोषाणि न च सर्वे दोषास्तुल्यबला न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति ।
तदेव ह्य् अपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगाद् भूयस्तरम् अपथ्यं सम्पद्यते ।
स एव दोष संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश् चिरस्थितः प्राणायतनसमुत्थो मर्मोपघाती कष्टतमः क्षिप्रकारितमश्च सम्पद्यते ।
शरीराणि चातिस्थूलान्यतिकृशान्य् अनिविष्टमांसशोणितास्थीनि दुर्बलान्य् असात्म्याहारोपचितान्य् अल्पाहाराण्य् अल्पसत्त्वानि च भवन्त्यव्याधिसहानि विपरीतानि पुनर्व्याधिसहानि ।

एभ्यश् चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदवो दारुणाः क्षिप्रसमुत्थाश्चिरकारिणश्च भवन्ति ।
एव वातपित्तश्लेष्माणः स्थानविशेषे प्रकुपिता व्याधिविशेषान् अभिनिवर्तयन्त्यग्निवेश ॥ चर्_1,28.7
[{आयुर्वेददीपिका}
तन्निमित्ता इति हिताहारनिमित्ताः ॥ 1
न केवलमिति परम् ॥ 2
रोगप्रकृतय इति रोगकारणानि ॥ 3
अहिताहारोपयोगिन इत्यादि ॥ 4
कारणत इति निमित्तान्तरात् प्रतिबन्धात् तच्च कारणं तदेव ह्य् अपथ्यम् इत्यादिवक्ष्यमाणग्रन्थविपरीतं बोद्धव्यम् ॥ 5
सद्य इति तत्कालम् ॥ 6
अनेनापथ्यस्य रोगजननं प्रति कालान्तरविकारकर्तृत्वं प्रायो भवतीति दर्शयति अन्यथा सद्य इत्यनर्थकं स्यात् कालान्तरे ऽपि दोषाकर्तृत्वात् ॥ 7
दोषवानिति व्याधिजनकः ॥ 8
अपचार इति अहिताहारोपयोगः उक्ते कारणमाह नहीत्यादि ।
तुल्यदोषाणीति तुल्यदोषकराणि ॥ 9
व्याधिक्षमत्वं व्याधिबलविरोधित्वं व्याध्युत्पादप्रतिबन्धकत्वमिति यावत् ॥ 10
तद् एवापथ्यतुल्यदोषतादि विवृणोति तदेवेत्यादि ॥ 11
अत्र यद्यपि प्रस्तुतत्वाद् अपथ्यप्रतिबन्धकानि कारणानि वक्तव्यानि तथापि समानन्यायतयापथ्यशक्तिवर्धकान्युच्यन्ते ॥ 12
तत्र देशादीनां योगादिति अनुगुणदेशादियोगात् यथा व्रीहिः पित्तकर्तृत्वेनापथ्यः स चानूपदेशयोगाद्भूयस्तरम् अपथ्यो भवति धन्वदेशे तु हीनबलो भवति तथा शरत्कालस्यानुगुणस्य योगाद्बलवान्भवति हेमन्ते दुर्बलः संयोगाद् यथा स व्रीहिर् दधिफाणितादियुक्तो बलवान् मध्वादियुक्तश्च दुर्बलः वीर्याद् यथा स एवोष्णीकृतो बलवान् शीतस्तु दुर्बलः स एव च प्रमाणातियोगाद् बली हीनमात्रस्त्वबलः इत्याद्यनुसर्तव्यम् ॥ 13
दोषतुल्यबलतामाह स एव दोष इत्यादि ॥ 14
संसृष्टा मिलिता बहवो योनयः कारणानि यस्य स तथा किंवा संसृष्टयोनिर् इति अनुगुणदूष्यः यथा पित्तस्य रक्तं दूष्यम् आसाद्य कष्टत्वं क्षिप्रकारित्वं च भवति ॥ 15
विरुद्धोपक्रमो यथा पित्तं मेहारम्भकं वचनं हि पित्तमेहाः सर्व एव याप्याः विरुद्धोपक्रमत्वात् इति विरुद्धता चोपक्रमस्यात्र यत् पित्तहरं मधुरादि तन्मेहप्रधानदूष्यमेदसो विरुद्धं मेदोऽनुगुणं तु कट्वादि पित्ते विरुद्धम् इति ॥ 16
गम्भीरानुगत इति गम्भीरमज्जादिधातुगतः वचनं हि त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्व् अन्तराश्रयम् इति ॥ 17
चिरस्थित इति देहे चिरकालावस्थानेन कृतमूलत्वात् कष्टसाध्यः ॥ 18
प्राणायतनसमुत्थ इति अग्रे ऽध्याये वक्ष्यमाणशङ्खादिदशप्राणायतनाश्रयी ॥ 19
मर्मोपघातीति प्राणायतनव्यतिरिक्तक्षिप्रतलहृदयादिमर्मोपघातकारी ॥ 20
मर्मघातित्वेनैव मर्मविशेषप्राणायतनसमुत्थत्वे लब्धे पुनस्तद्वचनं प्राणायतनमर्माश्रयिणो विशेषेण कष्टत्वप्रतिपादनार्थम् ॥ 21
कष्टतम इति बहुदुःखकर्तृत्वेनासाध्यत्वेन च ॥ 22
क्षिप्रकारितम इति आशुविकारकारितमः ॥ 23
चकारात् संसृष्टयोनित्वादिहेतूनाम् अल्पत्वेन कष्टकष्टतरक्षिप्रकारिक्षिप्रकारितरादिविशेषाश् च भवन्तीति दर्शयति यथोक्तसर्वहेतुमेलके कष्टतमः क्षिप्रकारितमश् च भवतीति ज्ञेयं कष्टतमत्वादि च यथायोग्यतया ज्ञेयं विरुद्धोपक्रमो दोषः कष्ट एव भवति न क्षिप्रकारी ॥ 24
व्याध्यक्षमशरीराण्याह शरीराणि चेत्यादि ॥ 25
अनिविष्टानि श्लथानि मांसादीनि येषां शरीरिणां तानि तथा किंवा अनिविष्टानीति विषमाणि ॥ 26
उपचितानीति संवर्धितानि असात्म्यपुष्टं हि शरीरं भूरिदोषभावितमेव भवतीति भावः ॥ 27
विपरीतानीति अनतिस्थूलत्वादियुक्तानि ॥ 28
व्याधिसहानीति व्याध्युत्पादकप्रतिबन्धकानि ॥ 29
एतच्च शरीरमधिकृत्य वैपरीत्यं व्याधिसहत्वे उदाहरणार्थम् उपन्यस्तं तेन यथोक्तापथ्यबलवैपरीत्यं दोषबलवैपरीत्यं च न सद्यो व्याधिकारकं भवतीत्येतद् अप्युक्तं बोद्धव्यम् ॥ 30
एतद् एवापथ्याहारदोषशरीराणाम् एवाबलवत्त्वबलवत्त्वाभ्यां लक्षणविशेषं यथायोग्यतया मृद्वादिव्याधिकारणत्वेनोपसंहरन्न् आह एभ्यश् चैवेत्यादि ॥ 31
विशेषा यथोक्ता उक्तविपरीताश्च तत्रोक्तविपरीतविशेषान् मृदवस्तथा चिरकारिणश्च भवन्ति यथोक्तापथ्यादिविशेषात्तु दारुणाः क्षिप्रकारिणश्च भवन्तीति मन्तव्यम् ॥ 32
अनेन प्रसङ्गेन वातादीनां रसादिस्थानविशेषेषु कुपितानां ये व्याधयो भवन्ति तान् दर्शयितुम् आह त एवेत्यादि ॥ 33]
तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन् स्थाने ये ये व्याधयः सम्भवन्ति तांस् तान् यथावद् अनुव्याख्यास्यामः ॥ चर्_1,28.8
[{आयुर्वेददीपिका}
तत्र रसेत्यादौ प्रकुपितानां दोषाणामिति अनियमेन रसे कुपितो वायुर् वा पित्तं वा श्लेष्मा वा संसृष्टा वा अश्रद्धादीनि कुर्वन्ति ॥ 1

सत्यपि दोषभेदे ऽत्राश्रयस्याभेदाद् आश्रयप्रभावेणैवाश्रद्धादयो भवन्ति परं दोषभेदे अश्रद्धादाव् एव वातादिलिङ्गं विशिष्टं भवति ॥ 2
किंवा यथायोग्यतया रसाश्रयिणा वातादिना अश्रद्धादिकरणं बोद्धव्यं यतो न गौरवं वातदुष्टरसे भवितुमर्हति एतच्च नातिसुन्दरं तेन पूर्व एव पक्षो ज्यायान् ॥ 3]
अश्रद्धा चारुचिश् चास्यवैरस्यम् अरसज्ञता ।
हृल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस् तमः ॥ चर्_1,28.9
पाण्डुत्वं स्रोतसां रोधः क्लैब्यं सादः कृशाङ्गता ।
नाशोऽग्नेरयथाकालं वलयः पलितानि च ॥ चर्_1,28.10
[{आयुर्वेददीपिका}
अश्रद्धायां मुखप्रविष्टस्याहारस्याभ्यवहरणं भवत्येव परं त्व् अनिच्छा अरुचौ तु मुखप्रविष्टं नाभ्यवहरतीति भेदः ॥ 1
आस्यवैरस्यम् उचितादास्यरसादन्यथात्वम् ॥ 2
अरसज्ञता रसाप्रतिपत्तिः ॥ 3
सादः अङ्गावसादः ॥ 4]
रसप्रदोषजा रोगा वक्ष्यन्ते रक्तदोषजाः ।
कुष्ठवीसर्पपिडका रक्तपित्तमसृग्दरः ॥ चर्_1,28.11
गुदमेढ्रास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधिः ।
नीलिका कामला व्यङ्गः पिप्प्लवस् तिलकालकाः ॥ चर्_1,28.12
दद्रुश्चर्मदलं श्वित्रं पामा कोठास्रमण्डलम् ।
[{आयुर्वेददीपिका}
रक्तप्रदोषजेषु कुष्ठग्रहणादेव दद्र्वादिलाभे सिद्धे पुनस्तद्वचनं विशेषप्रादुर्भावप्रदर्शनार्थम् ॥ 1
तिलकालकाः तिलाकृतयः ॥ 2
अस्रमण्डलं लोहितमण्डलम् ॥ 3]
रक्तप्रदोषाज्जायन्ते शृणु मांसप्रदोषजान् ॥ चर्_1,28.13
अधिमांसार्बुदं कलिं गलशालूकशुण्डिके ।
पूतिमांसालजीगण्डगण्डमालोपजिह्विकाः ॥ चर्_1,28.14
[{आयुर्वेददीपिका}
कीलशब्देनात्रार्श उच्यते ॥ 1]
वेद्यान्मांसाश्रयान् मेदःसंश्रयांस्तु प्रचक्ष्महे ।
निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च ॥ चर्_1,28.15
[{आयुर्वेददीपिका}
निन्दितानि प्रमेहपूर्वरूपाणीति केशजटिलत्वादीनि तेषामेव निन्दितत्वात् न त्व् आस्यवैरस्यमधुरत्वादीनि ॥ 1
किंवा निन्दितानीति अतिस्थूलगतान्य् आयुर्ह्रासादीन्य् अष्टौनिन्दितीयोक्तानि तेषां च निन्दितत्वं निन्दितातिस्थूलसम्बद्धत्वेन ॥ 2
एवं पूर्वस्मिन्व्याख्याने यानि च इति चकारो नियमे उत्तरव्याख्याने तु समुच्चये ॥ 3]
अध्यस्थिदन्तौ दन्तास्थिभेदशूलं विवर्णता ।
केशलोमनखश्मश्रुदोषाश्चास्थिप्रदोषजाः ॥ चर्_1,28.16
[{आयुर्वेददीपिका}
अध्यस्थिदन्तशब्देन अध्यस्थ्यधिदन्तयोर्ग्रहणम् ।
शूलम् इति अस्थिशूलमेव बोद्धव्यम् ॥ 1]
रुक् पर्वणां भ्रमो मूर्छा दर्शनं तमसस्तथा ।
अरुषां स्थूलमूलानां पर्वजानां च दर्शनम् ॥ चर्_1,28.17
[{आयुर्वेददीपिका}
रुगित्यादि मज्जदोषाज्ज्ञेयम् ॥ 1

अरूंषीति व्रणानि ॥ 2]
मज्जप्रदोषात् शुक्रस्य दोषात् क्लैब्यम् अहर्षणम् ।
रोगि वा क्लीबमल्पायुर् विरूपं वा प्रजायते ॥ चर्_1,28.18
न चास्य जायते गर्भः पतति प्रस्रवत्यपि ।
शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम् ॥ चर्_1,28.19
[{आयुर्वेददीपिका}
क्लैब्यम् इति ध्वजानुच्छ्रायः ॥ 1
अहर्षणं च सत्यपि ध्वजोत्थाने मैथुनाशक्तिः ॥ 2
शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरमिति अत्रापत्यबाधा रोगिक्लीबाद्यपत्यजनकत्वेन दारबाधा तु स्राविगर्भादिजनकत्वेन ॥ 3]
इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः ।
उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते ॥ चर्_1,28.20
[{आयुर्वेददीपिका}
उपघातेत्यादौ उपघातो विनाशः उपतापस्तु किंचिद् वैकल्यम् ॥ 1]
स्नायौ सिराकण्डराभ्यो दुष्टाः क्लिश्नन्ति मानवम् ।
स्तम्भसंकोचखल्लीभिर्ग्रन्थिस्फुरणसुप्तिभिः ॥ चर्_1,28.21
[{आयुर्वेददीपिका}
कण्डराभ्य इति सप्तम्यर्थे पञ्चमी ॥ 1
खल्ली करपदावमोटनम् ॥ 2
ग्रन्थिः स्नाय्वादिग्रन्थिरेव ॥ 3]
मलानाश्रित्य कुपिता भेदशोषप्रदूषणम् ।
दोषा मलानां कुर्वन्ति सङ्गोत्सर्गाव् अतीव च ॥ चर्_1,28.22
[{आयुर्वेददीपिका}
मलानित्यादौ भेदशोषप्रदूषणम् इति यथासम्भवं ज्ञेयं तत्र भेदः पुरीषस्य शोषस्तु विशेषेण सर्वमलेषु सम्भवति प्रदूषणं तु प्रदुष्टवर्णादियुक्तत्वेन प्राकृतवर्णाद्युपघातः ॥ 1
संगोत्सर्गाव् अतीव चेति अतीव सङ्गः अप्रवृत्तिः अत्युत्सर्गस्तु अतिप्रवृत्तिः ॥ 2]
विविधाद् अशितात् पीताद् अहिताल्लीढखादितात् ।
भवन्त्येते मनुष्याणां विकारा य उदाहृताः ॥ चर्_1,28.23
तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा ।
हितान्येवाशितादीनि न स्युस् तज्जास् तथामयाः ॥ चर्_1,28.24
रसजानां विकाराणां सर्वं लङ्घनम् औषधम् ।
विधिशोणितिके ऽध्याये रक्तजानां भिषग्जितम् ॥ चर्_1,28.25
मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च ।
अष्टौनिन्दितिके ऽध्याये मेदोजानां चिकित्सितम् ॥ चर्_1,28.26
अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम् ।
वस्तयः क्षीरसर्पींषि तिक्तकोपहितानि च ॥ चर्_1,28.27
मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम् ।
अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया ॥ चर्_1,28.28
शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते ।
स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके ॥ चर्_1,28.29
नवेगान्धारणे ऽध्याये चिकित्सितसंग्रहः कृतः ।
मलजानां विकाराणां सिद्धिश् चोक्ता क्वचित्क्वचित् ॥ चर्_1,28.30

[{आयुर्वेददीपिका}
सम्प्रत्यहिताहारजनितान् दोषान् दर्शयन् यथाकर्तव्यम् उपदिशति विविधादित्यादि ॥ 1
भिषग्जितम् उक्तम् इति शेषः ॥ 2
पञ्चकर्माणीत्यभिधायापि वस्तय इति वचनं तिक्तोपहितवस्तेर् विशेषेण हितत्वोपदर्शनार्थम् ॥ 3
शुद्धिरिति वमनादिना ॥ 4
सिद्धिः प्रोक्ता क्वचिदिति अतीसारग्रहण्यादौ ॥ 5]
व्यायामाद् ऊष्मणस् तैक्ष्ण्याद्धितस्यानवचारणात् ।
कोष्ठाच्छाखा मला यान्ति द्रुतत्वान्मरुतस्य च ॥ चर्_1,28.31
तत्रस्थाश्च विलम्बन्ते कदाचिन् न समीरिताः ।
नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः ॥ चर्_1,28.32
[{आयुर्वेददीपिका}
सम्प्रति रसादीनां शाखारूपत्वात् कोष्ठाश्रयिणो दोषा यथा शाखां यान्ति तद् आह व्यायामेत्यादि ॥ 1
तत्र व्यायामक्षोभात् कोष्ठं परित्यज्य शाखां मला यान्ति ऊष्मणो वह्नेस्तीक्ष्णत्वाद् विलायिता दोषाः शाखां यान्ति हितस्यानवचारणयाहितसेवयातिसेवयातिमात्रवृद्धो दोषो जलापूरवद् वृद्धः स्वस्थानमाप्लाव्य स्थानान्तरं यातीति युक्तम् ॥ 2
द्रुतत्वान्मारुतस्येति चलत्वाद् वायोर् वायुना क्षिप्तो यातीत्यर्थः वाय्वन्तरेण च वायोर् आक्षेपणमुपपन्नम् एवेति अन्यथा मला इति बहुवचनम् असाधु ॥ 3
अथ शाखागताः किं कुर्वन्तीत्याह तत्रस्थाश्चेत्यादि ॥ 4
विलम्बन्ते कदाचिद् इति कदाचिद्व्याधिकरणे विलम्बं कुर्वन्ति ॥ 5
कुतो विलम्बन्त इत्याह न समीरिताः ॥ 6
ये दोषा अल्पत्वेनाबलवन्तस्ते हेत्वन्तरेण समीरिताः सन्तः कुप्यन्ति तथा त एव नादेश इत्यननुगुणदेशे तथा नाकाल इत्यननुगुणकाले कुप्यन्तीति योजना ॥ 7
अत्रैव हेतुमाह भूय इत्यादि ॥ 8
यस्माद्भूयो हेतुप्रतीक्षिणस् ते ऽल्पबला दोषास्तस्मादीरणाद्यपेक्षन्ते एतेन भूयो ये ऽहेतुप्रतीक्षिणो भवन्ति बलवत्त्वान्न ते ईरणाद्यपेक्षन्ते अत एवोक्तं कदाचिदिति ॥ 9]
वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखविशोधनात् ।
शाखा मुक्त्वा मलाः कोष्ठं यान्ति वायोश्च निग्रहात् ॥ चर्_1,28.33
[{आयुर्वेददीपिका}
सम्प्रति शाखाभ्यः कोष्ठागमनहेतुं दोषाणाम् आह वृद्ध्येत्यादि ॥ 1
विष्यन्दनादिति विलयनात् विलीनश्च द्रवत्वादेव कोष्ठे निम्नं याति ॥ 2
पाकादिति पक्वो दोषो ऽबद्धत्वेनैव निम्नं कोष्ठं याति ॥ 3
स्रोतोमुखविशोधनादिति अवरोधकापगमात् ॥ 4
वायोर्निग्रहादिति क्षेप्तुर्वायोर्निग्रहात् प्राकृतं स्थानं कोष्ठं याति ॥ 5]
अजातानामनुत्पत्तौ जातानां विनिवृत्तये ।
रोगाणां यो विधिर्दृष्टः सुखार्थी तं समाचरेत् ॥ चर्_1,28.34
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः ।
ज्ञानाज्ञानविशेषात्तु मार्गामार्गप्रवृत्तयः ॥ चर्_1,28.35
[{आयुर्वेददीपिका}
इदानीं संक्षेपेणाखिलव्याधिप्रतीकारं सूत्रयति अजातानामित्यादि ॥ 1
यो विधिर्दृष्ट इति कृत्स्ने तन्त्रे ॥ 2
ननु यदि सुखार्था सर्वप्राणिनां प्रवृत्तिस्तत्कथं को ऽपि अमार्गे प्रवर्तत इत्याह ज्ञानेत्यादि ॥ 3
अज्ञानाद् एव सुखसाधनमिदम् इति कृत्वा अपरीक्षकाः प्रवर्तन्ते न तु दुःखकर्तृतासंधानाद् इति भावः ॥ 4]
हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षकाः ।
रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः ॥ चर्_1,28.36
श्रुतं बुद्धिः स्मृतिर्दाक्ष्यं धृतिर् हितनिषेवणम् ।

वाग्विशुद्धिः शमो धैर्यम् आश्रयन्ति परीक्षकम् ॥ चर्_1,28.37
लौकिकं नाश्रयन्त्येते गुणा मोहरजःश्रितम् ।
तन्मूला बहवो यन्ति रोगाः शारीरमानसाः ॥ चर्_1,28.38
[{आयुर्वेददीपिका}
हितमेवेति आयतिविशुद्धम् एव तदात्वे दुःखकरम् अपि ॥ 1
प्रियमेवेति तदात्वे सुखकरम् आयतिविरुद्धम् ॥ 2
लौकिका अपरीक्षकाः ॥ 3
परीक्षकं स्तौति श्रुतम् इत्यादि ॥ 4
परीक्षकमाश्रयन्तीति परीक्षके भवन्ति किंवा बुद्ध्यादिदेवताः परीक्षकमाश्रयन्ते यद् उक्तं विविशुर् ज्ञानदेवताः इति ॥ 5
तन्मूला इति रजस्तमोमूलाः ॥ 6]
प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते ।
संधारयति वेगांश्च सेवते साहसानि च ॥ चर्_1,28.39
तदात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते ।
रज्यते न तु विज्ञाता विज्ञाने ह्य् अमलीकृते ॥ चर्_1,28.40
[{आयुर्वेददीपिका}
यथा अपरीक्षके रजस्तमोमूला रोगा भवन्ति तदाह प्रज्ञापराधाद् इत्यादि ॥ 1
अहितार्थसेवादि च रोगं करोतीति भावः ॥ 2
तदात्वसुखेष्विति वक्तव्ये यत् सुखसंज्ञेषु इति करोति तत्तदात्वसुखस्यापथ्यस्य दुःखानुबन्धसुखकर्तृतया परमार्थतस् तदात्वे ऽप्यसुखत्वं दर्शयति यथा सुखसंज्ञकम् आरोग्यम् इत्यत्रोक्तम् ॥ 3
विज्ञातेति परीक्षकः ॥ 4]
न रागान्नाप्यविज्ञानाद् आहारान् उपयोजयेत् ।
परीक्ष्य हितमश्नीयाद्देहो ह्य् आहारसंभवः ॥ चर्_1,28.41
[{आयुर्वेददीपिका}
न रागाद् इत्यादि ॥ 1
अहितत्वेन जानन्न् अपि रागादेव कश्चिद् दुष्टः प्रवर्तते अज्ञानाच्चाहितत्वाज्ञानाद् एव कश्चिद्धिताध्यवसायेन प्रवर्तते एतद्द्वयमपि निषिध्यते ॥ 2]
आहरस्य विधाव् अष्टौ विशेषा हेतुसंज्ञकाः ।
शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत् ॥ चर्_1,28.42
[{आयुर्वेददीपिका}
कथमाहारः परीक्ष्य इत्याह आहारस्येत्यादि ॥ 1
आहारस्य विधौ विधानेऽष्टौ विशेषाः प्रकृतिकरणसंयोगादयो रसविमाने वक्तव्या हेतुसंज्ञकाः क्व हेतुसंज्ञका इत्याह शुभेत्यादि ॥ 2
शुभाशुभसमुत्पत्तौ इति ते च प्रकृत्यादयः शुभाः शुभकराः अशुभा अशुभकराः इति ज्ञेयम् ॥ 3]
परिहार्याण्यपथ्यानि सदा परिहरन्नरः ।
भवत्यनृणतां प्राप्तः साधूनाम् इह पण्डितः ॥ चर्_1,28.43
यत्तु रोगसमुत्थानमशक्यमिह केनचित् ।
परिहर्तुं न तत्प्राप्य शोचितव्यं मनीषिभिः ॥ चर्_1,28.44
[{आयुर्वेददीपिका}
ननु पथ्यसेवायां क्रियमाणायाम् अपि बलवत्प्राक्तनाधर्मवशादपि व्याधयो भवन्ति तत् किम् अनेन पथ्यसेवनेनेत्याह परिहार्याणीत्यादि ॥ 1
अनृणताम् इव प्राप्तोऽनृणतां प्राप्तः एतेन परिहार्यपरिहारेण पुरुषकारेऽनपराधः पुरुषो भवतीति दर्शयति ॥ 2
यस्तु दैवागतस्तस्य व्याधिस्तत्र साधवो नैवं पथ्यसेविनं गर्हयन्ति एतदेवाह यत्त्वित्यादि ॥ 3
अशक्यं परिहर्तुम् इति बलवत्कर्मजन्यत्वाद् इत्यर्थः ॥ 4
न शोचितव्यम् इति पुरुषकारस्य दैवजन्ये ऽवश्यम्भाविनि व्याधाव् अकिंचित्करत्वाद् इत्यर्थः ॥ 5]

आहारसंभवं यस्तु रोगाश्चाहारसंभवाः ।
हिताहितविशेषांश् च विशेषः सुखदुःखयोः ॥ चर्_1,28.45
सहत्वे चासहत्वे च दुःखानां देहसत्त्वयोः ।
विशेषो रोगसंघाश् च धातुजा ये पृथक्पृथक् ॥ चर्_1,28.46
तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च ।
दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेत्य च ॥ चर्_1,28.47
प्राज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितं च यत् ।
विविधाशितपीतीये तत् सर्वं संप्रकाशितम् ॥ चर्_1,28.48
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने विविधाशितपीतीयो नामाष्टाविंशोऽध्यायः ॥ चर्_1,28.49
[{आयुर्वेददीपिका}
संग्रहे वस्त्विति शरीरम् ॥ 1
सहत्वे चासहत्वे चेत्यादिना शरीराणि चातिस्थूलानि इत्यादि विपरीतानि पुनर् व्याधिसहानि इत्यन्तं ग्रन्थं ज्ञापयति ॥ 2]
चरकसंहिता, निदानस्थान, 7
अथात उन्मादनिदानं व्याख्यास्यामः ॥ चर्_2,7.1
इति ह स्माह भगवान् आत्रेयः ॥ चर्_2,7.2
इह खलु पञ्चोन्मादा भवन्ति तद्यथा वातपित्तकफसन्निपातागन्तुनिमित्ताः ॥ चर्_2,7.3
तत्र दोषनिमित्ताश् चत्वारः पुरुषाणाम् एवंविधानां क्षिप्रम् अभिनिर्वर्तन्ते तद्यथा भीरूणाम् उपक्लिष्टसत्त्वानाम् उत्सन्नदोषाणां समलविकृतोपहितान्य् अनुचितान्य् आहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोगम् अपि विषमम् आचरताम् अन्याश् च शरीरचेष्टा विषमाः समाचरताम् अत्युपक्षीणदेहानां व्याधिवेगसमुद्भ्रमितानाम् उपहतमनसां वा कामक्रोधलोभहर्षभयमोहायासशोकचिन्तोद्वेगादिभिर् भूयो ऽभिघाताभ्याहतानां वा मनस्य् उपहते बुद्धौ च प्रचलितायाम् अभ्युदीर्णा दोषाः प्रकुपिता हृदयम् उपसृत्य मनोवहानि स्रोतांस्य् आवृत्य जनयन्त्य् उन्मादम् ॥ चर्_2,7.4
उन्मादं पुनर् मनोबुद्धिसंज्ञाज्ञानस्मृतिभक्तिशीलचेष्टाचारविभ्रमं विद्यात् ॥ चर्_2,7.5
तस्येमानि पूर्वरूपाणि तद्यथा शिरसः शून्यता चक्षुषोर् आकुलता स्वनः कर्णयोः उच्छ्वासस्याधिक्यम् आस्यसंस्रवणम् अनन्नाभिलाषारोचकाविपाकाः हृद्ग्रहः ध्यानायाससम्मोहोद्वेगाश् चास्थाने सततं लोमहर्षः ज्वरश् चाभीक्ष्णम् उन्मत्तचित्तत्वम् उदर्दित्वम् अर्दिताकृतिकरणं च व्याधेः स्वप्ने चाभीक्ष्णं दर्शनं भ्रान्तचलितानवस्थितानां रूपाणाम् अप्रशस्तानां च तिलपीडकचक्राधिरोहणं वातकुण्डलिकाभिश् चोन्मथनं निमज्जनं च कलुषाणाम् अम्भसाम् आवर्ते चक्षुषोश् चापसर्पणम् इति ॥ चर्_2,7.6
ततो ऽनन्तरम् एवम् उन्मादाभिनिर्वृत्तिर् एव ।
तत्रेदम् उन्मादविशेषविज्ञानं भवति तद्यथा परिसरणम् अजस्रम् अक्षिभ्रुवौष्टांसहन्वग्रहस्तपादाङ्गविक्षेपणम् अकस्मात् सततम् अनियतानां च गिराम् उत्सर्गः फेनागमनम् आस्यात् अभीक्ष्णं स्मितहसितनृत्यगीतवादित्रसंप्रयोगाश् चास्थाने वीणावंशशङ्खशम्यातालशब्दानुकरणम् असाम्ना यानम् अयानैः अलङ्करणम् अनलङ्कारिकैर् द्रव्यैः लोभश् चाभ्यवहार्येष्व् अलब्धेषु लब्धेषु चावमानस् तीव्रमात्सर्यं च कार्श्यं पारुष्यम् उत्पिण्डितारुणाक्षता वातोपशयविपर्यासाद् अनुपशयता च इति वातोन्मादलिङ्गानि भवन्ति ।
अमर्षः क्रोधः संरम्भश् चास्थाने शस्त्रलोष्टकशाकाष्ठमुष्टिभिर् अभिहननं स्वेषां परेषां वा अभिद्रवणं प्रच्छायशीतोदकान्नाभिलाषः संतापश् चातिवेलं ताम्रहारितहारिद्रसंरब्धाक्षता पित्तोपशयविपर्यासाद् अनुपशयता च इति पित्तोन्मदलिङ्गानि भवन्ति ।
स्थानम् एकदेशे तूष्णींभावः अल्पशश् चङ्क्रमणं लालाशिङ्घाणकस्रवणम् अनन्नाभिलाषः रहस्कामता बीभत्सत्वं शौचद्वेषः स्वप्ननित्यता श्वयथुर् आनने शुक्लस्तिमितमलोपदिग्धाक्षत्वं श्लेष्मोपशयविपर्यासाद् अनुपशयता च इति श्लेष्मोन्मादलिङ्गानि भवन्ति ।
त्रिदोषलिङ्गसन्निपाते तु सान्निपातिकं विद्यात् तम् असाध्यम् आचक्षते कुशलाः ॥ चर्_2,7.7
साध्यानां तु त्रयाणां साधनानि स्नेहस्वेदवमनविरेचनास्थापनानुवासनोपशमनस्तःकर्मधूमधूपनाञ्जनावपीडप्रधमनाभ्यङ्गप्रदेहपरिषेकानुलेपनवधबन्धनावरोधनवित्रासनविस्मापनविस्मारणापतर्पणसिराव्यधनानि भोजनविधानं च यथास्वं युक्त्या यच् चान्यद् अपि किंचिन् निदानविपरीतम् औषधं कार्यं तद् अपि स्याद् इति ॥ चर्_2,7.8
भवति चात्र उन्मादान् दोषजान् साध्यान् साधयेद् भिषगुत्तमः ।
अनेन विधियुक्तेन कर्मणा यत्प्रकीर्तितम् ॥ चर्_2,7.9
यस् तु दोषनिमित्तेभ्य उन्मादेभ्यः समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषसमन्वितो भवत्य् उन्मादस् तम् आगन्तुकम् आचक्षते ।
केचित् पुनः पूर्वकृतं कर्माप्रशस्तम् इच्छन्ति तस्य निमित्तम् ।
तस्य च हेतुः प्रज्ञापराध एवेति भगवान् पुनर्वसुर् आत्रेयः ।
प्रज्ञापराधाद् ध्य् अयं देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचगुरुवृद्धसिद्धाचार्यपूज्यानवमत्याहितान्य् आचरति अन्यद् वा किंचिद् एवंविधं कर्माप्रशस्तम् आरभते तम् आत्मना हतम् उपघ्नन्तो देवादयः कुर्वन्त्य् उन्मत्तम् ॥ चर्_2,7.10
देवादिप्रकोपनिमित्तेनागन्तुकोन्मादेन पुरस्कृतस्येमानि पूर्वरूपाणि भवन्ति तद्यथा देवगोब्राह्मणतपस्विनां हिंसारुचित्वं कोपनत्वं नृशंसाभिप्रायता अरतिः ओजोवर्णच्छायावलवपुषाम् उपनप्तिः स्वप्ने च देवादिभिर् अभिभर्त्सनं प्रवर्तनं चेति ततो ऽनन्तरम् उन्मादाभिनिर्वृत्तिः ॥ चर्_2,7.11
तत्रायम् उन्मादकराणां भूतानाम् उन्मादयिष्यताम् आरम्भविशेषो भवति तद् यथा अवलोकयन्तो देवा जनयन्त्य् उन्मादं गुरुवृद्धसिद्धमहर्षयो ऽभिशपन्तः पितरो दर्शयन्तः स्पृशन्तो गन्धर्वाः समाविशन्तो यक्षाः राक्षसास् त्व् आत्मगन्धम् आघ्रापयन्तः पिशाचाः पुनर् आरुह्य वाहयन्तः ॥ चर्_2,7.12
तस्येमानि रूपाणि भवन्ति तद् यथा अत्यात्मबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणज्ञानवचनविज्ञानानि अनियतश् चोन्मादकालः ॥ चर्_2,7.13
उन्मादयिष्यताम् अपि खलु देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचानां गुरुवृद्धसिद्धानां वा एष्व् अन्तरेष्व् अभिगमनीयाः पुरुषा भवन्ति तद् यथा पापस्य कर्मणः समारम्भे पूर्वकृतस्य वा कर्मणः परिणामकाले एकस्य वा शून्यगृहवासे चतुष्पथाधिष्ठाने वा सन्ध्यावेलायाम् अप्रयतभावे वा पर्वसन्धिषु वा मिथुनीभावे रजस्वलाभिगमने वा विगुणे वाध्ययनबलिमङ्गलहोमप्रयोगे नियमव्रतब्रह्मचर्यभङ्गे वा महाहवे वा देशकुलपुरविनाशे वा महाग्रहोपगमने वा स्त्रिया वा प्रजननकाले विविधभूताशुभाशुचिस्पर्शने वा वमनविरेचनरुधिरस्रावे अशुचेर् अप्रयतस्य वा चैत्यदेवायतनाभिगमने वा मांसमधुतिलगुडमद्योच्छिष्टे वा दिग्वाससि वा निशि नगरनिगमचतुष्पथोपवनश्मशानाघातनाभिगमने वा द्विजगुरुसुरयतिपूज्याभिधर्षणे वा धर्माख्यानव्यतिक्रमे वा अन्यस्य वा कर्मणो ऽप्रशस्तस्यारम्भे इत्य् अभिघातकाला व्याख्याता भवन्ति ॥ चर्_2,7.14
त्रिविधं तु खलून्मादकराणां भूतानाम् उन्मादने प्रयोजनं भवति तद् यथा हिंसा रतिः अभ्यर्चनं चेति ।
तेषां तं प्रयोजनविशेषम् उन्मत्ताचारविशेषलक्षणैर् विद्यात् ।

चरकसंहिता, विमानस्थान, 1 [रसविमान]
अथातो रसविमानं व्याख्यास्यामः ॥ चर्_3,1.1
इति ह स्माह भगवानात्रेयः ॥ चर्_3,1.2

[{आयुर्वेददीपिका}
निदाने ज्ञातहेत्वादिपञ्चकस्य चिकित्सोपयोगितया दोषभेषजादिविशेषज्ञानम् अपेक्षितं भवति अतो वक्ष्यमाणदोषभेषजादिविशेषज्ञापकं विमानस्थानं ब्रूते ॥ 1
तत्रापि च दोषभेषजयोः प्राधान्यात् तद्विशेषज्ञापकं रसविमानं प्रथमं ब्रूते ॥ 2
इमं च स्थानसम्बन्धं स्वयमेव दर्शयिष्यति ॥ 3
विशेषेण मीयते ज्ञायते दोषभेषजाद्य् अनेनेति विमानं दोषभेषजादीनां प्रभावादिविशेष इत्यर्थः एवंभूतंविमानम् अभिधेयतया यत्र तिष्ठति तद् विमानस्थानम् ॥ 4
रसविमानम् अधिकृत्य कृतो ऽध्यायो रसविमानम् ॥ 5]
इह खलु व्याधीनां निमित्तपूर्वरूपरूपोपशयसंख्याप्राधान्यविधिविकल्पबलकालविशेषान् अनुप्रविश्यानन्तरं दोषभेषजदेशकालबलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां मानम् अवहितमनसा यथावज् ज्ञेयं भवति भिषजा दोषादिमानज्ञानायत्तत्वात् क्रियायाः ।
न ह्य् अमानज्ञो दोषादीनां भिषग् व्याधिनिग्रहसमर्थो भवति ।
तस्माद् दोषादिमानज्ञानार्थं विमानस्थानम् उपदेक्ष्यामो ऽग्निवेश ॥ चर्_3,1.3
[{आयुर्वेददीपिका}
इह खल्व् इत्यादिना स्थानसम्बन्धम् आह ॥ 1
इह सम्प्राप्तिभेदसंख्याप्राधान्यादिग्रहणेनैव सम्प्राप्तिम् उपदिशन् संख्यादिभेदेन सर्वैव सम्प्राप्तिः कथिता भवतीति दर्शयति ॥ 2
निमित्तादीनां तु न तादृशो भेदो ऽल्पग्रन्थवक्तव्यो ऽस्ति येन भेदेन ते ऽपीह कथ्येरन् अतस्ते सामान्येनैवोक्ताः ॥ 3
अनुप्रविश्येति बुद्ध्वा ॥ 4
दोषादयः सूत्रस्थान एव प्रपञ्चिताः ॥ 5
मानमिति प्रभावादिविशेषः एतज्ज्ञाने हेतुम् आह दोषादीत्यादि ॥ 6
क्रियाया इति चिकित्सायाः ॥ 7]
तत्रादौ रसद्रव्यदोषविकारप्रभावान् वक्ष्यामः रसास्तावत्षट् मधुराम्ललवणकटुतिक्तकषायाः ते सम्यगुपयुज्यमानाः शरीरं यापयन्ति मिथ्योपयुज्यमानास्तु खलु दोषप्रकोपायोपकल्पन्ते ॥ चर्_3,1.4
[{आयुर्वेददीपिका}
अध्यायार्थं वक्तुं प्रतिजानीते तत्रादाव् इत्यादि ॥ 1
यद्यपि च दोषभेषजेत्यादौ दोषापेक्षत्वाद् भेषजस्य दोष आदौ कृतः तथापीह रसद्रव्यरूपभेषजस्यापेक्षितरोगप्रशमकर्तृत्वेन तथा दोषस्यापि च रसद्रव्ययोरेव कारणत्वेन भेषजशब्दसूचिते रसद्रव्ये एवाग्रे कृते पश्चात्तु दोषग्रहणगृहीतौ दोषविकारौ ॥ 2
प्रकृष्टो भावः प्रभावः शक्तिरित्यर्थः स चेहाचिन्त्यश्चिन्त्यश् च ग्राह्यः ॥ 3
येन तत्र खल्वनेकरसेषु इत्यादिना द्रव्यविकारयोः प्रभावं रसद्वारा दोषद्वारा च चिन्त्यमपि वक्ष्यति ॥ 4
यापयन्तीति साम्येनावस्थापयन्ति ॥ 5
मिथ्याशब्द इहायोगातियोगमिथ्यायोगेषु वर्तते ॥ 6]
दोषाः पुनस् त्रयो वातपित्तश्लेष्माणः ।
ते प्रकृतिभूताः शरीरोपकारका भवन्ति विकृतिमापन्नास्तु खलु नानाविधैर् विकारैः शरीरम् उपतापयन्ति ॥ चर्_3,1.5
[{आयुर्वेददीपिका}
दोषा इति शरीरदोषाः ॥ 1
पुनःशब्दो मानसदोषं व्यावर्तयति ॥ 2]
तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति त्रयस् त्रयश् चोपशमयन्ति ।
तद्यथा कटुतिक्तकषाया वातं जनयन्ति मधुराम्ललवणस् त्व् एनं शमयन्ति कट्वम्ललवणाः पित्तं जनयन्ति मधुरतिक्तकषायास् त्व् एनच्छमयन्ति मधुराम्ललवणाः श्लेष्माणं जनयन्ति कटुतिक्तकषायास्त्वेनं शमयन्ति ॥ चर्_3,1.6
[{आयुर्वेददीपिका}
रसानामसंसृष्टानां कर्माह तत्रेत्यादि ॥ 1
अनेन च रसकर्मोपदेशेन दोषाणामपि तत्तद्रसोत्पाद्यत्वं तथा तत्तद्रसोपशमनीयत्वम् उक्तं भवति ॥ 2
कटुतिक्तकषाया वातं जनयन्तीति असति परिपन्थिनीति ज्ञेयं तेनार्कागुरुगुडूच्यादीनां तिक्तानामपि वाताजनकत्वे न दोषः ॥ 3
तत्र ह्य् उष्णवीर्यता परिपन्थिनी विद्यते तेन न ते वातं जनयन्तीत्याद्य् अनुसरणीयम् ॥ 4
एनम् इति पदेन यश्च कट्वादिजो वायुस्तमेव मधुरादयः सर्वात्मवैपरीत्याद् विशेषेण शमयन्तीति दर्शयति जागरणादिजे हि वायौ जागरणादिविपरीताः स्वप्नादय एव विशेषेण पथ्याः ॥ 5
एवं पित्तश्लेष्मणोरपि एनदेनं शब्दयोस् तात्पर्यं दर्शयति ॥ 6]
रसदोषसंनिपाते तु ये रसा यैर् दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति ते तान् अभिवर्धयन्ति विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति ।

एतद्व्यवस्थाहेतोः षट्त्वम् उपदिश्यते रसानां परस्परेणासंसृष्टानां त्रित्वं च दोषाणाम् ॥ चर्_3,1.7
[{आयुर्वेददीपिका}
अथ कया युक्त्या रसा दोषाञ्जनयन्ति शमयन्ति चेत्याह रसदोषेत्यादि ॥ 1
संनिपाते इति अन्तःशरीरमेलके ॥ 2
तुशब्दो विशेषे तेन विपरीतगुणा एव विशेषेण विपरीतगुणभूयिष्ठापेक्षया शमयन्तीति दर्शयति ॥ 3
रसानां तु यथा उपाचाराद्गुणा भवन्ति तदभिहितं गुणागुणाश्रया नोक्ताः इत्यादिना सूत्रे ॥ 4
अभ्यस्यमाना इति न सकृद् उपयुज्यमानाः ॥ 5
अथ कस्माद्रसदोषसंसर्गभूयस्त्वं परित्यज्य रसषट्त्वं दोषत्रित्वं चोच्यते इत्याह इत्येतदित्यादि ॥ 6
व्यवस्थेति रसदोषसंसर्गप्रपञ्चसंक्षेपः ॥ 7
परस्परेणासंसृष्टानामिति पदं दोषाणामित्यनेनापि योज्यम् ॥ 8]
संसर्गविकल्पविस्तरो ह्य् एषाम् अपरिसंख्येयो भवति विकल्पभेदापरिसंख्येयत्वात् ॥ चर्_3,1.8
[{आयुर्वेददीपिका}
रसदोषसंसर्गप्रपञ्चानभिधाने हेतुमाह संसर्गेत्यादि ॥ 1
यस्मात् संसर्गभेदविस्तरो ऽपरिसंख्येयस् तस्मात् षट्त्वं त्रित्वं चोच्यते ॥ 2
विकल्पभेदापरिसंख्येयत्वाद् इति संसर्गविकल्पस्य भेदो विजातीयप्रकारः तस्यापरिसंख्येयत्वात् ॥ 3
एतेन यथा रसानाम् अवान्तरव्यक्तिभेदे ऽपि मधुरत्वादिसामान्ययोगान् मधुरादिव्यपदेशेन षट्त्वमुच्यते तथा मधुराम्लमधुरलवणादिसंसर्गाणाम् अपि सत्यप्यवान्तरभेदे सामान्योपसंग्रहं कृत्वा त्रिषष्टित्वसंख्यानियमो भविष्यतीति निरस्यते यतो मधुराम्लादिसंसर्गे ऽपि विजातीयो मधुरतरमधुरतमादिभेदकृतो भेदो ऽपरिसंख्येयो भवति ॥ 4
वचनं हि रसास् तरतमाभ्यां तां संख्याम् अतिपतन्ति हि इति ॥ 5]
तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावम् एकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारयोः प्रभावतत्त्वं व्यवस्येत् ॥ चर्_3,1.9
[{आयुर्वेददीपिका}
अथ कथं तर्हि संसृष्टानां रसानां दोषाणां च प्रभावो ज्ञेय इत्याह तत्र खल्वित्यादि ॥ 1
तत्र चानेकरसद्रव्यस्यानेकदोषविकारस्य च प्रत्येकरसदोषप्रभावमेलकेन प्रभावं कथयन् रससंसर्गदोषसंसर्गयोर् अपि तादृशमेव प्रभावं कथयति यतो रसदोषसंसर्गप्रभावाव् अत्र द्रव्यविकाराश्रयित्वाद् रसदोषयोर् द्रव्यविकारप्रभावत्वेनोच्येते ॥ 2
अनेन न्यायेन साक्षादनुक्तेऽपि एकरसद्रव्यैकदोषविकारयोर् अपि प्रभावो ऽसंसृष्टरसदोषप्रभावकथनाद् उक्त एव ज्ञेयः ॥ 3
एकैकश्येनाभिसमीक्ष्येति प्रत्येकम् उक्तरसादिप्रभावेणानेकरसं द्रव्यम् अनेकदोषं च विकारं समुदितप्रभावम् अभिसमीक्ष्य ॥ 4]
न त्व् एवं खलु सर्वत्र ।
न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च विकल्पनैर् विकल्पितानाम् अवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वम् अध्यवसातुं शक्यम् ॥ चर्_3,1.10
[{आयुर्वेददीपिका}
अयं च रसदोषप्रभावद्वारा द्रव्यविकारप्रभावनिश्चयो न सर्वत्र द्रव्ये विकारे चेत्याह न त्व् एवं खलु सर्वत्रेति ॥ 1
अत्रैव हेतुम् आह न हीत्यादिनाध्यवसातुं शक्यमित्यन्तेन ॥ 2
विकृतिविषमसमवेतानाम् इति विकृतिसमवेतानां तथा विषमसमवेतानां चेति विकृतिविषमसमवेतानाम् ॥ 3
समवेतानामिति मिलितानां रसानां दोषाणां च ॥ 4
तत्र रसस्य विकृतिसमवायो यथा मधुरे तण्डुलीयके मधुरो हि प्रकृत्या स्नेहवृष्यत्वादिकरः तण्डुलीयके तु विकृतिसमवेतत्वेन तन्न करोति ॥ 5
विषमसमवेतास्तु तिले कषायकटुतिक्तमधुराः यदि हीमे रसाः समया मात्रया समवेताः स्युस्ततस्तिलोऽपि पित्तश्लेष्महरस्त्रिदोषहरो वा स्यात् पित्तकफकरस्त्वयं तेनात्र रसानां क्वचित् कर्तृत्वम् अकर्तृत्वं च क्वचिदिति वैषम्यम् उन्नीयते ॥ 6
नानात्मकानामित्यादिहेतुत्रयं तु विकृतिसमवायविषमसमवाययोर् एवोपलम्भकम् ॥ 7
तेन नानात्मकत्वाद् इत्यादिभिर् विकृतिसमवायविषमसमवायौ भवतः ॥ 8
नानात्मकानामिति नानारूपहेतुजनितानां तेन हेतुभेदबलादेव रसदोषयोर् विकृतो विषमो वा मेलको भवतीत्यर्थः ॥ 9
किंवा नानात्मकानामिति नानाप्रमाणानाम् ॥ 10
एवं च नानाप्रमाणत्वं विषमसमवाये हेतुः ॥ 11
परस्परेण चोपहतानामिति अन्योन्यम् उपघातितगुणानाम् ॥ 12
परस्परगुणोपघातस्तु यद्यपि दोषाणां प्रायो नास्त्येव तथाप्यदृष्टवशात् क्वचिद् भवतीति ज्ञेयं रसानां तु प्रबलेनान्योपघातो भवत्येव ॥ 13
अन्यैश्च विकल्पनैरिति अन्यैश्च भेदकैः तत्र रसस्य भेदकाः स्वरसकल्कादयः एकस्यैव हि द्रव्यस्य कल्पनाविशेषेण गुणान्तराणि भवन्ति ॥ 14

दोषस्य तु दूष्यान्तराण्येव गुणान्तरयोगाद्भेदकानि भवन्ति ॥ 15
यदुक्तं स एव कुपितो दोषः समुत्थानविशेषतः ॥ 16
स्थानान्तरगतश्चैव विकारान् कुरुते बहून् इति ॥ 17
अस्मिन्व्याख्याने रसानां दोषाणां च य उत्कर्षापकर्षकृतो विषमसमवायः पृथगुच्यते स न युज्यते यतो विषमसमवाये ऽप्युत्कृष्टस्य रसस्य तथा दोषस्य चोत्कृष्टा गुणा अपकृष्टस्य चापकृष्टा गुणा भवन्तीति कृत्वावयवप्रभावान् अनुमानेनैव समुदायप्रभावानुमानं शक्यम् ॥ 18
अथोच्यते विषममेलके रसस्य दोषस्य च न त एव गुणा उत्कृष्टा अपकृष्टा वा भवन्ति किंतु गुणान्तरमेव भवति हन्त तर्हि विकृत एवायं समवायो विसदृशकार्यकारणत्वात् ॥ 19
तदेवं दूषणदर्शनाद् अन्यथा व्याख्यायते यद् द्विविधो मेलको भवति रसानां दोषाणां च प्रकृत्यनुगुणः प्रकृत्यननुगुणश्च तत्र यो मिलितानां प्राकृतगुणानुपमर्देन मेलको भवति स प्रकृतिसमसमवायशब्देनोच्यते यस्तु प्राकृतगुणोपमर्देन भवति स विकृतिविषमसमवायो ऽभिधीयते विकृत्या हेतुभूतया विषमः प्रकृत्यननुगुणः समवायो विकृतिविषमसमवाय इत्यर्थः ॥ 20
अत्रैव विकृतिविषमसमवाये नानात्मकत्वादिहेतुत्रयं यथाविवृतमेव योजनीयम् ॥ 21
ये तु विकृतिविषमसमवायौ पृथग् एव कुर्वन्ति विषमसमवायस्य वैषम्यतारतम्येनातिबहुप्रपञ्चितत्वाद् विषमावयवगुणानुमानं दुःशकम् इति कृत्वा तदपि द्रव्यविकारप्रभावेणैव व्यपदिशन्ति ॥ 22]
तथायुक्ते हि समुदये समुदायप्रभावतत्त्वमेवम् एवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत् ॥ चर्_3,1.11
[{आयुर्वेददीपिका}
अथ कथं तर्हि विकृतिविषमसमवायप्रभावज्ञानम् इत्याह तथायुक्ते हीत्यादि ॥ 1
तथायुक्ते समुदय इति विकृतिविषमसमवाये ॥ 2
समुदयप्रभावतत्त्वम् इति मेलकप्रभावतत्त्वम् ॥ 3
समधृते हि मधुसर्पिषि सूर्यावर्ताख्ये वा दोषसमुदये न संयुज्यमानमधुघृतगुणक्रमागतं मारकत्वं न च वातादिदोषप्रभावगतं सूर्यवृद्ध्या वर्धिष्णुत्वं सूर्यावर्तस्य किं तु संयोगमहिमकृतम् एवेत्यर्थः ॥ 4
यच्च गतिद्वयं दोषरसमेलकस्य तेन प्रकृतिसमसमवायरूपं संनिपातं ज्वरनिदाने दोषलिङ्गमेलकेनैवोक्तवान् ॥ 5
यदुक्तं पृथगुक्तलक्षणसंसर्गाद् द्वांद्विकम् अन्यतमं सांनिपातिकं वा ज्वरं विद्याद् इति ॥ 6
यस्तु विकृतिविषमसमवेतस्त्रिदोषकृतो ज्वरस् तस्य चिकित्सिते क्षणे दाहः क्षणे शीतम् इत्यादिना लक्षणम् उक्तम् ॥ 7
न हि श्यावरक्तकोठोत्पत्त्यादि तत्रोक्तं वातादिज्वरे क्वचिद् अस्ति ॥ 8
एवं रसेऽपि यत्राम्राते मधुरत्वं प्रकृतिसमसमवेतं तत्राम्रातं मधुरम् एतन्मात्रम् एवोक्तं तेन मधुरसामान्यगुणागतं तस्य वातपित्तहरत्वमपि लभ्यत एव ॥ 9
यत्र वार्ताके कटुतिक्तत्वेन वातकरत्वं प्राप्तमपि च विकृतिविषमसमवायात्तन्न भवति तत्राचार्येण वार्ताकं वातघ्नम् इत्युक्तम् एव ॥ 10
एवमित्यादि तत्तदुदाहरणं शास्त्रप्रसृतम् अनुसरणीयम् ॥ 11
यत्तु प्रकृतिसमसमवायकृतरसदोषगुणद्वारा प्राप्तमपि द्रव्यगुणं विकारलक्षणं च ब्रूते तत् प्रकर्षार्थं स्पष्टार्थं चेति ज्ञेयम् ॥ 12]
तस्माद् रसप्रभावतश् च द्रव्यप्रभावतश् च दोषप्रभावतश् च विकारप्रभावतश् च तत्त्वमुपदेक्ष्यामः ॥ चर्_3,1.12
[{आयुर्वेददीपिका}
उपसंहरति तस्माद् इत्यादि ॥ 1
तत्त्वमिति रसादिप्रभावतत्त्वम् ॥ 2
यत्तु पूर्वं तत्रादौ रसद्रव्यदोषविकारप्रभावान् उपदेक्ष्यामः इत्यनेन रसादिप्रभावव्याख्यानप्रतिज्ञानं कृतं तत्तु रसप्रभावानुमानेनैव द्रव्यप्रभावकथनात् तथा दोषप्रभावेण च विकारप्रभावकथनाच् चरितार्थं स्यात् ॥ 3
इह तु विकृतिविषमसमवायात्मके द्रव्ये विकारे वा रसदोषप्रभावानुमानेन न द्रव्यविकारप्रभावानुमानम् अस्तीति कृत्वा पृथक् पृथग्रसादिप्रभावतत्त्वाभिधानप्रतिज्ञानम् इति न पौनरुक्त्यम् ॥ 4
इह द्रव्याणां वीर्यप्रभावविपाकप्रभावौ च द्रव्यप्रभावे रसप्रभावे वान्तर्भावनीयौ ॥ 5
तत्र यौ रसानुगुणौ वीर्यविपाकप्रभावौ तौ रसे यौ तु रसक्रमोक्तवीर्यविपाकविपरीतौ वीर्यविपाकौ तौ द्रव्यप्रभावे बोद्धव्यौ ॥ 6
उपदेक्ष्याम इति निखिलेन तन्त्रेण रसादिप्रभावतत्त्वं पृथग् उपदेक्ष्याम इत्यर्थः रसादिप्रभावः प्रपञ्चेन निखिले तन्त्र एव वक्तव्यः ॥ 7]
तत्रैष रसप्रभाव उपदिष्टो भवति ।
द्रव्यप्रभावं पुनर् उपदेक्ष्यामः ।
तैलसर्पिर्मधूनि वातपित्तश्लेष्मप्रशमनार्थानि द्रव्याणि भवन्ति ॥ चर्_3,1.13
[{आयुर्वेददीपिका}
संक्षेपाभिधानमेतदेवेति दर्शयन्नाह तत्रैष इत्यादि ॥ 1
एष इति रसाः षड् इत्यादिना तत्त्वमुपदेक्ष्यामः इत्यन्तेन ग्रन्थेनोक्त इत्यर्थः ॥ 2
उपदिष्टो भवतीति संक्षेपेण कथितो भवति ॥ 3
अन्ये तु तत्रैष रसप्रभाव उद्दिष्टो भवति इति पठन्ति ॥ 4
अस्मिन् पक्षे द्रव्यदोषविकारप्रभावो ऽपि ऽत्र उद्दिष्टः सो ऽपि रसद्वारा तेन रसस्यैव प्रपञ्चाभिहितत्वात् तस्यैवाभिधानम् उपसंहरति न द्रव्यादीनामिति ज्ञेयम् द्रव्यप्रभावमित्यादौ पुनरिति सामान्येन द्रव्यप्रभावकथनात् पुनः शृङ्गग्राहिकया तैलादिद्रव्यप्रभावं कथयिष्याम इत्यर्थः ॥ 5

प्रशमनार्थानीति प्रशमनप्रयोजनानि ॥ 6]
तत्र तैलं स्नेहौष्ण्यगौरवोपपन्नत्वाद् वातं जयति सततमभ्यस्यमानं वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति विरुद्धगुणसंनिपाते हि भूयसाल्पम् अवजीयते तस्मात्तैलं वातं जयति सततम् अभ्यस्यमानम् ।
सर्पिः खल्वेवमेव पित्तं जयति माधुर्याच्छैत्यान्मन्दत्वाच्च पित्तं ह्य् अमधुरम् उष्णं तीक्ष्णं च ।
मधु च श्लेष्माणं जयति रौक्ष्यात् तैक्ष्ण्यात् कषायत्वाच् च श्लेष्मा हि स्निग्धो मन्दो मधुरश्च ।
यच् चान्यदपि किंचिद् द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात् तच् चैताञ्जयत्य् अभ्यस्यमानम् ॥ चर्_3,1.14
[{आयुर्वेददीपिका}
सततम् अभ्यस्यमानमिति अविच्छेदेनोपयुज्यमानम् ॥ 1
विरुद्धगुण इति तैलगुणेभ्यो विपरीतगुणः ॥ 2
विरुद्धगुणसंनिपाते इति विरुद्धगुणयोर् मेलके ॥ 3
ननु विरुद्धगुणयोर् मध्ये भूयसाल्पं जीयते तत् कथं तैलं वातं जयति न ह्य् अस्य वातं प्रति भूयस्त्वं युक्तमित्याह सततम् अभ्यस्यमानम् इति ॥ 4
सततोपयोगेन हि तैलं वाताद् अधिकं भवति तेन वातं जयतीत्यर्थः ॥ 5
सर्पिः खल्वेवमेवेति सर्पिरपि सततम् अभ्यस्यमानम् इत्यर्थः ॥ 6
अमधुरमिति रौक्ष्यलाघवावृष्यत्वादिना मधुरविपरीतं कटुरसम् इत्यर्थः ॥ 7
इह च प्रभावशब्देन सामान्येन द्रव्यशक्तिर् उच्यते नाचिन्त्यशक्तिः तेन तैलादीनां स्नेहौष्ण्यादिगुणादपि वातादिशमनं द्रव्यप्रभावादेव भवति ॥ 8
सर्पिषि च यद्यपि मधुरो रसः पित्तप्रशमे व्याप्रियते तथापि माधुर्यशैत्यमन्दत्वैः पित्तशमनं सर्पिःकार्यमेव तेन द्रव्यप्रभाव एव वाच्यः ॥ 9
यदा तु रसद्वारा कार्यं द्रव्यस्य चिन्त्यते तदा रसप्रभाव इति व्यपदेशो भवति ॥ 10
एवं कषायानुरसे मधुनि च समाधानं वाच्यम् ॥ 11
अन्ये तु ब्रुवते यत्तैलादीनां वातादिशमनत्वं प्रत्यचिन्त्य एव प्रभावो ऽयमुच्यते तत्र च तैलवातयोर् विरुद्धगुणयोर् मेलके तैलमेव वातं जयति न तु वातस् तैलम् इति तैलस्याचिन्त्यप्रभावः एवं सर्पिर्मधुनोर् अपि पित्तश्लेष्महरणे प्रभावाज्ज्ञेये ॥ 12
एतच्चान्ये नेच्छन्ति यतस् तैलादीनां सततम् अभ्यस्यमानमिति पदेनाधिक्यमेव वातादिजयकारणमुक्तं तथा यच्चान्यद् अपि किंचिद् द्रव्यम् इत्यादिग्रन्थेन द्रव्याचिन्त्यप्रभावं परित्यज्य सामान्येन गुणवैपरीत्यम् एवाभ्यासाद् वातादिजयहेतुर् उच्यते ॥ 13]
अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकम् अन्येभ्यो द्रव्येभ्यः तद्यथापिप्पली क्षारः लवणमिति ॥ चर्_3,1.15
[{आयुर्वेददीपिका}
अभ्यस्यद्रव्यं प्रभावोदाहरणार्थम् अभिधायानभ्यस्यान् आह अथेत्यादि ॥ 1
अधिकमन्येभ्य इति वचनादन्यदपि चित्रकभल्लातकाद्येवंजातीयं नात्युपयोक्तव्यं पिप्पल्यादिद्रव्यं त्व् अन्येभ्यो ऽप्यधिकम् अत्युपयोगे वर्जनीयमिति दर्शयति ॥ 2]
पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्यो नात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश् च ताः सद्यः शुभाशुभकारिण्यो भवन्ति आपातभद्राः प्रयोगसमसाद्गुण्यात् दोषसंचयानुबन्धाः सततम् उपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणम् उत्क्लेशयन्ति औष्ण्यात् पित्तं न च वातप्रशमनायोपकल्पन्ते ऽल्पस्नेहोष्णभावात् योगवाहिन्यस्तु खलु भवन्ति तस्मात्पिप्पलीर् नात्युपयुञ्जीत ॥ चर्_3,1.16
[{आयुर्वेददीपिका}
कटुकाः सत्यो मधुरविपाकाः इत्यादि पिप्पलीगुणकथनम् अनभ्यासप्रयोगे दोषवैपरीत्येन दोषप्रशमनोपदर्शनार्थं तथा अत्यभ्यासे गुरुप्रक्लेदित्वाच्छ्लेष्माणम् उत्क्लेशयन्ति इत्यादिग्रन्थवक्तव्यदोषकरणयोग्यतोपदर्शनार्थं च ॥ 1
भेषजाभिमताश्च सद्य इति छेदः ॥ 2
सद्य इति अनभ्यासे ॥ 3
शुभाशुभकारिण्यो भवन्तीति सद्यः शुभकारिण्यः अत्यभ्यासप्रयोगे त्व् अशुभकारिण्यः ॥ 4
एतदेव शुभाशुभकारित्वं दर्शयत्य् आपातभद्रा इत्यादिना ॥ 5
प्रयोगसमसाद्गुण्याद् इति समस्य प्रयोगस्य सद्गुणत्वात् समे ऽल्पकाले अल्पमात्रे च पिप्पल्यादिप्रयोगे सद्गुणा भवन्तीत्यर्थः ॥ 6
दोषसंचयानुबन्धो ऽत्युपयोगो यासां ता दोषसंचयानुबन्धाः ॥ 7
एतदेव दोषसंचयानुबन्धत्वं विवृणोति सततम् इत्यादि ॥ 8
पिप्पलीधर्मकथनप्रस्तावाद् गुणान्तरम् आह योगवाहिन्यस् त्व् इत्यादि ॥ 9
योगवाहित्वेन कटुकानामपि पिप्पलीनां वृष्यप्रयोगेषु योगः तथा ज्वरगुल्मकुष्ठहरादिप्रयोगेषु ज्वरादीन् हन्ति पिप्पली ॥ 10
अयं च पिप्पल्यतियोगनिषेधोऽपवादं परित्यज्य ज्ञेयः ॥ 11
तेन पिप्पलीरसायनप्रयोगस् तथा गुल्मादिषु च पिप्पलीवर्धमानकप्रयोगो न विरोधम् आवहति ॥ 12
उक्ते हि विषये यथोक्तविधानेन निर्दोषा एव पिप्पल्य इति ऋषिवचनाद् उन्नीयते ।
अन्ये तु अन्नसंस्करणे पिप्पल्यादीनाम् अतिप्रयोगो न तु स्वातन्त्र्येणेति ब्रुवते ।
सततमुपयुज्यमाना इति अतिमात्रत्वेन तथा सततप्रयोगेण चेति ज्ञेयम् ॥ 13]

क्षारः पुनर् औष्ण्यतैक्ष्ण्यलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति स पचनदहनभेदनार्थम् उपयुज्यते सो ऽतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः संपद्यते ।
ये ह्य् एनं ग्रामनगरनिगमजनपदाः सततम् उपयुञ्जते त आन्ध्यषाण्ढ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति तद्यथा प्राच्याश् चीनाश्च तस्मात्क्षारं नात्युपयुञ्जीत ॥ चर्_3,1.17
[{आयुर्वेददीपिका}
हृदयापकर्तिन इति हृदयपरिकर्तनरूपवेदनायुक्ताः ॥ 1]
लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम् अनतिगुरु अनतिस्निग्धम् उपक्लेदि विस्रंसनसमर्थम् अन्नद्रव्यरुचिकरम् आपातभद्रं प्रयोगसमसाद्गुण्यात् दोषसंचयानुबन्धं तद् रोचनपाचनोपक्लेदनविस्रंसनार्थम् उपयुज्यते ।
तद् अत्यर्थम् उपयुज्यमानं ग्लानिशैथिल्यदौर्बल्याभिनिर्वृत्तिकरं शरीरस्य भवति ।
ये ह्य् एनद् ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अपरिक्लेशसहाश् च भवन्ति ।
तद्यथा वाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः ते हि पयसापि सह लवणम् अश्नन्ति ।
ये ऽपीह भूमेर् अत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्तेऽल्पतेजसो वा भवन्ति लवणोपहतत्वात् ।
तस्माल्लवणं नात्युपयुञ्जीत ।
ये ह्य् अतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति ॥ चर्_3,1.18
[{आयुर्वेददीपिका}
ग्लानिः मांसापचयो हर्षक्षयो वा ॥ 1
न केवलं लवणातियोगः शरीरोपघातकरः किंतु भूमेर् अप्युपघातकर इत्याह ये ऽपीहेत्यादि ॥ 2
ऊषरा इति लवणप्रधानाः ॥ 3
लवणं नात्युपयुञ्जीतेति नातिमात्रं लवणं सततम् उपयुञ्जीत अन्नद्रव्यसंस्कारकं तु स्तोकमात्रम् अभ्यासेनाप्युपयोजनीयम् एव ॥ 4
वाह्लीकादिव्यतिरिक्ते ऽपि देशे ये ऽतिलवणम् अश्नन्ति तेषामपि दोषानाह ये हीत्यादि ॥ 5
एतेन चान्यत्रापि देशे ऽतिमात्रलवणसात्म्यानां लवणात्युपयोगकृत एव शैथिल्यादिदोष उन्नीयते न देशस्वभावकृतः ॥ 6]
तस्मात्तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः ।
सात्म्यमपि हि क्रमेणोपनिवर्त्यमानम् अदोषम् अल्पदोषं वा भवति ॥ चर्_3,1.19
[{आयुर्वेददीपिका}
तेषामिति अतिक्षारलवणसात्म्यानाम् ॥ 1
तत्सात्म्यत इति अतिमात्रक्षाराद् अतिमात्रलवणाच् च सात्म्यात् ॥ 2
क्रमेणेति न वेगान् धारणीयोक्तसात्म्यपरित्यागक्रमेण ॥ 3
इह च सात्म्यशब्देनौकसात्म्यम् अभिप्रेतम् ॥ 4
अल्पदोषम् अदोषं वेति पक्षद्वये ऽत्यर्थसात्म्यम् अल्पदोषं भवति अन्यत्त्वदोषम् इति व्यवस्था ॥ 5]
सात्म्यं नाम तद् यद् आत्मन्युपशेते सात्म्यार्थो ह्य् उपशयार्थः ।
तत्त्रिविधं प्रवरावरमध्यविभागेन सप्तविधं तु रसैकैकत्वेन सर्वरसोपयोगाच्च ।
तत्र सर्वरसं प्रवरम् अवरमेकरसं मध्यं तु प्रवरावरमध्यस्थम् ।
तत्रावरमध्याभ्यां सात्म्याभ्यां क्रमेणैव प्रवरम् उपपादयेत् सात्म्यम् ।
सर्वरसमपि च सात्म्यम् उपपन्नः प्रकृत्याद्युपयोक्त्रष्टमानि सर्वाण्याहारविधिविशेषायतनान्यभिसमीक्ष्य हितम् एवानुरुध्येत ॥ चर्_3,1.20
[{आयुर्वेददीपिका}
सात्म्यं नामेति ओकसात्म्यं नामेत्यर्थः ॥ 1
ओकादिति अभ्यासात् ॥ 2
उपशयार्थ इति उपशयशब्दाभिधेय इत्यर्थः ॥ 3
तदिति ओकसात्म्यम् ॥ 4
त्रिविधमिति प्रवरावरमध्यभेदेन ॥ 5
सप्तविधं तु एकैकरसेन षट् संसृष्टरसोपयोगाच्चैकम् एवं सप्तविधम् ॥ 6
संसृष्टशब्देन द्विरसादयः षड्रसपर्यन्ता गृह्यन्ते ॥ 7
प्रवरावरमध्यस्थम् इति द्विरसादिपञ्चरसपर्यन्तम् ॥ 8

मूल पाठ: Carakasaṃhitā-parts with the Āyurvedadīpikā · Edition: J. Trikamji Varanasi: Chaukhambha Sanskrit Sansthan, 1994 (Kashi Sanskrit Series, 228) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc