चरक संहिता (टीका सहित) · भाग 2140
अभयायाम् अतोऽन्यथेति अभयायां कषायो रसो भेदनश् चोष्णश् चेत्यर्थः ॥ 2]
रौक्ष्यात्कषायो रूक्षाणामुत्तमो मध्यमः कटुः ।
तिक्तोऽवरस्तथोष्णानाम् उष्णत्वाल्लवणः परः ॥ चर्_1,26.53
मध्योऽम्लः कटुकश् चान्त्यः स्निग्धानां मधुरः परः ।
मध्योऽम्लो लवणश्चान्त्यो रसः स्नेहान्निरुच्यते ॥ चर्_1,26.54
मध्योत्कृष्टावराः शैत्यात् कषायस्वादुतिक्तकाः ।
स्वादुर्गुरुत्वादधिकः कषायाल्लवणोऽवरः ॥ चर्_1,26.55
अम्लात्कटुस् ततस्तिक्तो लघुत्वाद् उत्तमोत्तमः ।
केचिल् लघूनाम् अवरमिच्छन्ति लवणं रसम् ॥ चर्_1,26.56
गौरवे लाघवे चैव सो ऽवरस् तूभयोरपि ।
[{आयुर्वेददीपिका}
रौक्ष्याद् इत्यादि ॥ 1
रौक्ष्येण कषाय उत्तम इति रूक्षतमः तिक्तो रूक्षः कटुस्तु मध्यो रूक्षतरः एवम् अन्यत्रापि ॥ 2
कटुकश्चान्त्य इति अवर इत्यर्थः ॥ 3
एवं लवणश्चान्त्य इति अवर इत्यर्थः ॥ 4
लवणोऽवर इति गुरुत्वेनेत्यर्थः ॥ 5
अम्लात् कटुर् इत्यादौ अम्लात्कटुर्लघुः ततः कटुकाद् उत्तमात् तिक्तो लघुत्वेनोत्तमोत्तमः उत्तमात् कटुकादुत्तम उत्तमोत्तमः ॥ 6
एकीयमतमाह केचिद् इत्यादि ॥ 7
एकीयमतं वचनभङ्ग्या स्वीकुर्वन्नाह गौरव इत्यादि ॥ 8
एतेन गौरवे लाघवे चावरत्वं लवणस्य स्वीकुर्वन् गौरवे ऽवर इत्यनेनाम्लकटुतिक्तेभ्यो गुरुत्वं स्वीकरोति लवणस्य लाघवे चावर इत्यनेनाम्लादपि लघुनो ऽल्पं लाघवं लवणस्य स्वीकरोति ॥ 9
न च वाच्यम् अम्ले पृथिवी कारणं लवणे तु तोयं ततः पृथिव्यपेक्षया तोयजन्यस्य लवणस्यैव लाघवमुचितमिति यतो न निवेशेन गौरवलाघवे शक्येते ऽवधारयितुं तथाहि तोयातिरेककृतो मधुरः पृथिव्यतिरेककृतात् कषायाद्गुरुर्भवति ॥ 10]
परं चातो विपाकानां लक्षणं सम्प्रवक्ष्यते ॥ चर्_1,26.57
कटुतिक्तकषायाणां विपाकः प्रायशः कटुः ।
अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा ॥ चर्_1,26.58
[{आयुर्वेददीपिका}
सम्प्रति विपाकस्यापि रसरूपत्वाल्लक्षणम् आह परमित्यादि ॥ 1
प्रायोग्रहणात् पिप्पलीकुलत्थादीनां रसाननुगुणपाकितां दर्शयति ॥ 2
कटुकादिशब्देन च तदाधारं द्रव्यमुच्यते यतो न रसाः पच्यन्ते किंतु द्रव्यम् एव ॥ 3
लवणस्तथेति लवणोऽपि मधुरविपाकः प्राय इत्यर्थः ॥ 4
विपाकलक्षणं तु जठराग्नियोगाद् आहारस्य निष्ठाकाले यो गुण उत्पद्यते स विपाकः वचनं हि ।
जाठरेणाग्निना योगाद् यदुदेति रसान्तरम् ।
आहारपरिणामान्ते स विपाकः प्रकीर्तितः ॥ 5]
मधुरो लवणाम्लौ च स्निग्धभावात् त्रयो रसाः ।
वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मताः ॥ चर्_1,26.59
कटुतिक्तकषायास्तु रूक्षभावात् त्रयो रसाः ।
दुःखाय मोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम् ॥ चर्_1,26.60
[{आयुर्वेददीपिका}
सम्प्रति वक्ष्यमाणविपाकलक्षणे मधुराम्लपाकयोर् वातमूत्रपुरीषान् अवरोधकत्वे तथा कटोर्विपाकस्य वातमूत्रपुरीषविबन्धकत्वे हेतुम् आह मधुर इत्यादि ॥ 1
अत्र मधुराम्ललवणा निष्ठापाकं गता अपि सन्तः स्नेहगुणयोगाद् वातपुरीषाणां विसर्गं सुखेन कुर्वन्तीति वाक्यार्थः ॥ 2
तेन मधुराम्लपाकयोरेतत्समानं लक्षणम् ॥ 3
एवं कटुतिक्तकषायेष्वपि विपर्ययेऽपि वाक्यार्थः ॥ 4]
शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः ।
मधुरः सृष्टविण्मूत्रो विपाकः कफशुक्रलः ॥ चर्_1,26.61
पित्तकृत् सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः ।
तेषां गुरुः स्यान्मधुरः कटुकाम्लाव् अतो ऽन्यथा ॥ चर्_1,26.62
[{आयुर्वेददीपिका}
सम्प्रति विपाकलक्षणं हेतुव्युत्पादितं शुक्रहत्वादिविशेषयुक्तं वक्तुम् आह शुक्रहेत्यादि ॥ 1
अतोऽन्यथेति लघुः ॥ 2]
विपाकलक्षणस्याल्पमध्यभूयिष्ठतां प्रति ।
द्रव्याणां गुणवैशेष्यात्तत्र तत्रोपलक्षयेत् ॥ चर्_1,26.63
[{आयुर्वेददीपिका}
सम्प्रति यथोक्तविपाकलक्षणानां द्रव्यभेदे क्वचिदल्पत्वं क्वचिन्मध्यत्वं क्वचिच् चोत्कृष्टत्वं यथा भवति तद् आह विपाकेत्यादि ॥ 1
विपाकलक्षणस्याल्पमध्यभूयिष्ठताम् उपलक्षयेत् प्रति प्रति द्रव्याणां गुणवैशेष्याद्धेतोर् इत्यर्थः ॥ 2
एतेन द्रव्येषु यद् गुणवैशेष्यं मधुरत्वमधुरतरत्वमधुरतमत्वादि ततो हेतोर् विपाकानामल्पत्वादयो विशेषा भवन्तीत्युक्तं भवति ॥ 3
अत्र केचिद्ब्रुवते प्रतिरसं पाको भवति यथा मधुरादीनां षण्णां षण्मधुरादयः पाका इति केचिद् ब्रुवते बलवतां रसानामबलवन्तो रसा वशतां यान्ति ततश् चानवस्थितः पाकः ॥ 4
तत्रैतद्द्वितयमपि पाके व्यवस्थाकरणम् अनादृत्य सुश्रुतेन द्विविधः पाको मधुरः कटुश् चाङ्गीकृतः ॥ 5
द्वैविध्यं च पञ्चभूतात्मके द्रव्ये गुरुभूतपृथिवीतोयातिरेकान्मधुरः पाको भवति शेषलघुभूतातिरेकात् तु कटुकः पाको भवति यदुक्तं द्रव्येषु पच्यमानेषु येष्व् अम्बुपृथिवीगुणाः ॥ 6
निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ॥ 7
तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु ॥ 8
निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते इति ॥ 9
प्रतिरसपाके तथानवस्थितपाके च द्रव्यं रसगुणेनैव तुल्यं पाकावस्थायामपि भवति तेन न कश्चिद्विशेषो विपाकेन तत्र बोध्यत इति सुश्रुतेन तत्पक्षद्वयम् उपेक्षितमिति साधु कृतम् ॥ 10
तृतीयाम्लपाकनिरासस्तु दोषम् आवहति यतो व्रीहिकुलत्थादीनाम् अम्लपाकतया पित्तकर्तृत्वमुपलभ्यते अथ मन्यसे व्रीह्यादेर् उष्णवीर्यत्वेन तत्र पित्तकर्तृत्वं तन्न मधुरस्य व्रीहेस्तन्मते मधुरविपाकस्योष्णवीर्यतायामपि सत्यां न पित्तकर्तृत्वमुपपद्यते रसविपाकाभ्याम् एकस्य वीर्यस्य बाधनीयत्वात् ॥ 11
किंच अम्लपाकत्वाद् व्रीह्यादेः पित्तमम्लगुणमुत्पद्यते यदि तु तद् उष्णवीर्यताकृतं स्यात्तदा कटुगुणभूयिष्ठं पित्तं स्यात् दृश्यते च व्रीहिभक्षणाद् अम्लोद्गारादिनाम्लगुणभूयिष्ठतैवेति ॥ 12
किंच पृथिवीसोमगुणातिरेकान् मधुरः पाको भवति वाय्वग्न्याकाशातिरेकाच्च कटुर् भवतीति पक्षे यदा व्यामिश्रगुणातिरेकता भवति तदा सोमाग्न्यात्मकस्याम्लस्योत्पादः कथं प्रतिक्षेपणीयः ॥ 13
अथवा तन्त्रकारयोः किम् अनयोर् अनेन वचनमात्रविरोधेन कर्तव्यं यतो यदम्लपाकं चरको ब्रूते तत्सुश्रुतेन वीर्योष्णम् इति कृत्वा समाधीयते तेन न कश्चिद् द्रव्यगुणे विरोधः ॥ 14
यत्तु सुश्रुतेऽम्लपाकनिरासार्थं दूषणम् उच्यते पित्तं हि विदग्धमम्लतामुपैति इत्यादिना तदनभ्युपगमादेव निरस्तम् ॥ 15
ननु लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वमनुपपन्नं तथा तिक्तकषाययोः कटुपाकित्वे पित्तहन्तृत्वमनुपपन्नं नैवं सत्यपि लवणस्य मधुरपाकित्वे तत्र लवणरस उष्णं च वीर्यं यदस्ति तेन तत् पित्तरक्तादिकारकं विपाकस्तु तत्र पित्तरक्तहरणलक्षणे कार्ये बाधितः सन् सृष्टविण्मूत्र इत्यादिना लक्षणेन लक्ष्यत एव ॥ 16
एतेन यदुच्यते लवणे मधुरो विपाकश्चेद्रसवीर्याभ्यां बाधितः सन् स्वकार्यकरो न भवति तत्किं तेनोपदिष्टेनेति तन्निरस्तं भवति ॥ 17
यतोऽस्त्येव सृष्टविण्मूत्रतादिना तत्र लवणे मधुरविपाकित्वं लक्षणीयम् ॥ 18
अनया दिशा तिक्तकषाययोरपि पूर्वपक्षपरिहारः ॥ 19
अन्ये त्व् एतद्दोषभयाल् लवणोऽप्यम्लं पच्यत इति व्याख्यानयन्ति लवणस्तथेत्यत्र तथाशब्देन विप्रकृष्टस्याम्लमित्यस्य कर्षणादिति ॥ 20
तन्न कट्वादीनां कटुर्विपाकोऽम्लोऽम्लस्य शेषयोर् मधुरः इति जतूकर्णवचनात् ॥ 21
नच वाच्यं कस्मात् त्रय एव विपाका भवन्ति न पुनस्तिक्तादयोऽपीति यतो भूतस्वभाव एवैषः येन मधुरादयस् त्रय एव भवन्ति भूतस्वभावाश् चापर्यनुयोज्याः ॥ 22
ननु यश्च रसविपरीतः पाको यथा लवणस्य मधुरः तिक्तकषाययोश् च कटुः स उच्यतां यस्तु समानगुणो मधुरस्य मधुरोऽम्लस्याम्लः कटुकस्य वा कटुकः तत्कथने किं प्रयोजनं यतो रसगुणैर् एव तत्र विपाकगुणोऽपि ज्ञास्यते ॥ 23
नैवं येन लवणादिवद् विसदृशरसान्तरोत्पादशङ्कानिरारासार्थम् अपि तत्रानुगुणोऽपि विपाको वक्तव्य एव विपाकजश्च रस आहारपरिणामान्ते भवति प्राकृतस्तु रसो विपाकविरुद्धः परिणामकालं वर्जयित्वा ज्ञेयः तेन पिप्पल्याः कटुकरसत्वम् आदौ कण्ठस्थश्लेष्मक्षपणमुखशोधनादिकर्तृत्वेन सप्रयोजनं मधुरविपाकत्वं तु परिणामेन वृष्यत्वादिज्ञापनेन सप्रयोजनम् ॥ 24
तथा यत्र विपाकस्य रसाः समानगुणतयानुगुणा भवन्ति तत्र बलवत् कार्यं भवति विपर्यये तु दुर्बलम् इति ज्ञेयम् ॥ 25
एतच्च पाकत्रयं द्रव्यनियतं तेन ग्रहण्यध्याये वक्ष्यमाणाहारावस्थापाकाद्भिन्नम् एव तत्र ह्य् अविशेषेण सर्वेषामेव रसानाम् अवस्थावशात् त्रयः पाका वाच्याः अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः इत्यादिना ग्रन्थेन ॥ 26]
मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम् ।
वीर्यमष्टविधं केचित् केचिद्द्विविधमास्थिताः ॥ चर्_1,26.64
शीतोष्णमिति वीर्यं तु क्रियते येन या क्रिया ।
नावीर्यं कुरुते किंचित् सर्वा वीर्यकृता क्रिया ॥ चर्_1,26.65
[{आयुर्वेददीपिका}
एकीयमतेन वीर्यलक्षणम् आह मृद्वित्यादि ॥ 1
एतच्चैकीयमतद्वयं पारिभाषिकीं वीर्यसंज्ञां पुरस्कृत्य प्रवृत्तम् ॥ 2
वैद्यके हि रसविपाकप्रभावव्यतिरिक्ते प्रभूतकार्यकारिणि गुणे वीर्यमिति संज्ञा तेनाष्टविधवीर्यवादिमते पिच्छिलविशदादयो गुणा न रसादिविपरीतं कार्यं प्रायः कुर्वन्ति तेन तेषां रसाद्युपदेशेनैव ग्रहणं मृद्वादीनां तु रसाद्यभिभावकत्वमस्ति यथा पिप्पल्यां कटुरसकार्यं पित्तकोपनमभिभूय तद्गते मृदुशीतवीर्ये पित्तमेव शमयतीति तथा कषाये तिक्तानुरसे महति पञ्चमूले तत्कार्यं वातकोपनम् अभिभूयोष्णेन वीर्येण तद्विरुद्धं वातशमनमेव क्रियते तथा मधुरेऽपीक्षौ शीतवीर्यत्वेन वातवृद्धिर् इत्यादि ॥ 3
यदुक्तं सुश्रुते एतानि खलु वीर्याणि स्वबलगुणोत्कर्षाद् रसम् अभिभूयात्मकर्म दर्शयन्ति इत्यादि ॥ 4
शीतोष्णवीर्यवादिमतं त्व् अग्नीषोमीयत्वाज् जगतः शीतोष्णयोरेव प्राधान्याज्ज्ञेयम् ॥ 5
उक्तं च ।
नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ ।
व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित् वा ॥ 6
एतच्च मतद्वयम् अप्याचार्यस्य परिभाषासिद्धमनुमतमेव येनोत्तरत्र रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते इत्यादौ पारिभाषिकम् एव वीर्यं निर्देक्ष्यति ॥ 7
पारिभाषिकवीर्यसंज्ञापरित्यागेन तु शक्तिपर्यायस्य वीर्यस्य लक्षणमाह वीर्यं त्व् इत्यादि ॥ 8
वीर्यमिति शक्तिः ॥ 9
येनेति रसेन वा विपाकेन वा प्रभावेन वा गुर्वादिपरादिभिर्वा गुणैर्या क्रिया तर्पणह्लादनशमनादिरूपा क्रियते तस्यां क्रियायां तद् रसादि वीर्यम् ॥ 10
अत एवोक्तं सुश्रुते येन कुर्वन्ति तद्वीर्यम् इति ॥ 11
अत्रैव लोकप्रसिद्धाम् उपपत्तिम् आह नावीर्यम् इत्यादि ॥ 12
अवीर्यम् अशक्तमित्यर्थः ॥ 13
वीर्यकृतेति वीर्यवता कृता वीर्यकृता ॥ 14]
रसो निपाते द्रव्याणां विपाकः कर्मनिष्ठया ।
वीर्यं यावद् अधीवासान् निपाताच्चोपलभ्यते ॥ चर्_1,26.66
[{आयुर्वेददीपिका}
रसादीनामेकद्रव्यनिविष्टानां भेदेन नार्थं लक्षणमाह रसो निपात इत्यादि ॥ 1
निपात इति रसनायोगे ॥ 2
कर्मनिष्ठयेति कर्मणो निष्ठा निष्पत्तिः कर्मनिष्ठा क्रियापरिसमाप्तिः रसोपयोगे सति यो ऽन्त्याहारपरिणामकृतः कर्मविशेषः कफशुक्राभिवृद्ध्यादिलक्षणः तेन विपाको निश्चीयते ॥ 3
अधीवासः सहावस्थानं यावद् अधीवासादिति यावच्छरीरनिवासात् एतच्च विपाकात्पूर्वं निपाताच्चोर्ध्वं ज्ञेयम् ॥ 4
निपाताच्चेति शरीरसंयोगमात्रात् तेन किंचिद् वीर्यम् अधीवासाद् उपलभ्यते यथानूपमांसादेर् उष्णत्वं किंचिच् च निपातादेव लभ्यते यथा मरीचादीनां तीक्ष्णत्वादि किंचिच् च निपाताधीवासाभ्यां यथा मरीचादीनामेव ॥ 5
एतेन रसः प्रत्यक्षेणैव विपाकस्तु नित्यपरोक्षः तत्कार्येणानुमीयते वीर्यं तु किंचिदनुमानेन यथा सैन्धवगतं शैत्यम् आनूपमांसगतं वा औष्ण्यं किंचिच् च वीर्यं प्रत्यक्षेणैव यथा राजिकागतम् औष्ण्यं घ्राणेन पिच्छिलविशदस्निग्धरूक्षादयः चक्षुःस्पर्शनाभ्यां निश्चीयन्त इति वाक्यार्थः ॥ 6
एतच्च वीर्यं सहजं कृत्रिमं च ज्ञेयम् ॥ 7
एतच्च यथासम्भवं गुरुलघ्वादिषु वीर्येषु लक्षणं ज्ञेयम् ॥ 8
द्रव्याणामिति उपयुज्यमानद्रव्याणाम् ॥ 9
तच्च वीर्यलक्षणं पारिभाषिकवीर्यविषयमेव ॥ 10]
रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते ।
विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः ॥ चर्_1,26.67
[{आयुर्वेददीपिका}
प्रभावलक्षणमाह रसवीर्येत्यादि ॥ 1
सामान्यमिति तुल्यता ॥ 2
विशेषः कर्मणामिति दन्त्याद्याश्रयाणां विरेचनत्वादीनाम् ।
सामान्यं लक्ष्यत इत्यनेन रसादिकार्यत्वेन यन्नावधारयितुं शक्यते कार्यं तत् प्रभावकृतम् इति सूचयति अत एवोक्तंप्रभावो ऽचिन्त्य उच्यते रसवीर्यविपाककार्यतयाचिन्त्य इत्यर्थः ॥ 3]
कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः ।
तद्वद्दन्ती प्रभावात्तु विरेचयति मानवम् ॥ चर्_1,26.68
विषं विषघ्नमुक्तं यत् प्रभावस्तत्र कारणम् ।
ऊर्ध्वानुलोमिकं यच्च तत्प्रभावप्रभावितम् ॥ चर्_1,26.69
मणीनां धारणीयानां कर्म यद्विविधात्मकम् ।
तत् प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ॥ चर्_1,26.70
सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः ।
किंचिद्रसेन कुरुते कर्म वीर्येण चापरम् ॥ चर्_1,26.71
द्रव्यं गुणेन पाकेन प्रभावेण च किंचन ।
रसं विपाकस्तौ वीर्यं प्रभावस्तानपोहति ॥ चर्_1,26.72
बलसाम्ये रसादीनामिति नैसर्गिकं बलम् ।
[{आयुर्वेददीपिका}
अस्यैव दुरभिगमत्वाद् उदाहरणानि बहून्याह कटुक इत्यादिना ॥ 1
तद्वदिति चित्रकसमानगुणा ॥ 2
विषघ्नमुक्तम् इति तस्माद्दंष्ट्राविषं मौलम् इत्यादिना ॥ 3
ऊर्ध्वानुलोमिकमिति युगपद् उभयभागहरं किंवा ऊर्ध्वहरं तथानुलोमहरं च ॥ 4
कर्म यद्विविधात्मकमिति विषहरणशूलहरणादि ॥ 5
एतच्चोदाहरणमात्रं तेन जीवनमेध्यादिद्रव्यस्य रसाद्यचिन्त्यं सर्वं प्रभाव इति ज्ञेयम् ॥ 6
प्रभावश्चेह द्रव्यशक्तिर् अभिप्रेता सा च द्रव्याणां सामान्यविशेषः दन्तीत्वादियुक्ता व्यक्तिरेव यतः शक्तिर्हि स्वरूपमेव भावानां नातिरिक्तं किंचिद्धर्मान्तरम् एवं प्रदेशान्तरोक्तगुणप्रभावादिष्वपि वाच्यम् यथोक्तं द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावाम् इत्यादि ॥ 7
न च वाच्यं दन्त्यादिः स्वरूपत एव विरेचयति तेन किमिति जलाद्युपहता दन्ती न विरेचयतीति प्रतिबन्धकाभावविशिष्टस्यैव प्रभावस्य कारणत्वात् जलोपहतायां दन्त्यां जलोपघातः प्रतिबन्धक इत्याद्यनुसरणीयम् ॥ 8
नैयायिकशक्तिवादे या च विषस्य विषघ्नत्वे उपपत्तिर् उक्ता ऊर्ध्वाधोगामित्वविरोधलक्षणा सान्तर्भागत्वात् प्रभावाद् एव भवति ॥ 9
एवम् ऊर्ध्वानुलोमिकत्वादौ पार्थिवत्वादिकथने ऽपि वाच्यम् ॥ 10]
षण्णां रसानां विज्ञानमुपदेक्ष्याम्यतः परम् ॥ चर्_1,26.73
स्नेहनप्रीणनाह्लादमार्दवैर् उपलभ्यते ।
मुखस्थो मधुरश्चास्यं व्याप्नुवंल्लिम्पतीव च ॥ चर्_1,26.74
दन्तहर्षान् मुखास्रावात् स्वेदनान्मुखबोधनात् ।
विदाहाच्चास्यकण्ठस्य प्राश्यैवाम्लं रसं वदेत् ॥ चर्_1,26.75
प्रलीयन् क्लेदविष्यन्दमार्दवं कुरुते मुखे ।
यः शीघ्रं लवणो ज्ञेयः स विदाहान्मुखस्य च ॥ चर्_1,26.76
संवेजयेद्यो रसानां निपाते तुदतीव च ।
विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः ॥ चर्_1,26.77
प्रतिहन्ति निपाते यो रसनं स्वदते न च ।
स तिक्तो मुखवैशद्यशोषप्रह्लादकारकः ॥ चर्_1,26.78
वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः ।
बध्नातीव च यः कण्ठं कषायः स विकास्यपि ॥ चर्_1,26.79
[{आयुर्वेददीपिका}
विज्ञायतेऽनेनेति विज्ञानं लक्षणमित्यर्थः ॥ 1
प्रलीयन्निति विलीनो भवन् ॥ 2
संस्रावयतीति संस्रावी ॥ 3
विकासीति हृदयविकसनशील उक्तं हि सुश्रुते हृदयं पीडयति इति ॥ 4]
एवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच भगवन् श्रुतमेतदवितथम् अर्थसम्पद्युक्तं भगवतो यथावद् द्रव्यगुणकर्माधिकारे वचः परं त्व् आहारविकाराणां वैरोधिकानां लक्षणम् अनतिसंक्षेपेणोपदिश्यमानं शुश्रूषामह इति ॥ चर्_1,26.80
[{आयुर्वेददीपिका}
सम्प्रति विरुद्धाहारं वक्तुम् आहैवम् इत्यादि ॥ 1
शरीरधातुविरोधं कुर्वन्तीति वैरोधिकाः लक्ष्यते वैरोधिकमनेनेति लक्षणं वैरोधिकाभिधायको ग्रन्थ एव ॥ 2
यत् किंचिद्दोषमास्राव्य इत्यादि वैरोधिकलक्षणं ज्ञेयम् ॥ 3]
तम् उवाच भगवान् आत्रेयः देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधम् आपद्यन्ते परस्परगुणविरुद्धानि कानिचित् कानिचित् संयोगात् संस्काराद् अपराणि देशकालमात्रादिभिश् चापराणि तथा स्वभावादपराणि ॥ चर्_1,26.81
[{आयुर्वेददीपिका}
देहधातुप्रत्यनीकभूतानीति देहधातूनां रसादीनां वातादीनां च प्रकृतिस्थानां प्रत्यनीकस्वरूपाणि ॥ 1
विरोधमापद्यन्त इति देहधातूनां विरोधमाचरन्ति दूषयन्तीति यावत् ॥ 2
यथाभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते तदाह परस्परविरुद्धानि कानिचिद् इत्यादि ॥ 3
तत्र परस्परगुणविरुद्धानि यथा न मत्स्यान् पयसाभ्यवहरेत् उभयं ह्य् एतद् इत्यादिनोक्तानि ॥ 4
संयोगविरुद्धं यथा तदेव निकुचं पक्वं न माष इत्यादिनोक्तं यत् संस्कारादिविरुद्धगुणकथनं विना साहित्यमात्रेण विरुद्धम् उच्यते तत् संयोगविरुद्धम् ॥ 5
मत्स्यपयसोस् तु यद्यपि सहोपयोगो विरुद्धत्वेनोक्तः तथाप्यसौ गुणविरुद्धत्वेन कथित इति गुणविरोधकस्यैवोदाहरणम् ।
विरोधश्च विरुद्धगुणत्वे सत्यपि क्वचिद् एव द्रव्यप्रभावाद् भवति तेन षड्रसाहारोपयोगे मधुराम्लयोर् विरुद्धशीतोष्णवीर्ययोर् विरोधो नोद्भावनीयः ॥ 6
संस्कारतो विरुद्धं यथा न कपोतान् सर्षपतैलभृष्टान् इत्यादि ॥ 7
देशो द्विविधः भूमिः शरीरं च ॥ 8
तत्र भूमिविरुद्धं यथा तदेव भस्मपांशुपरिध्वस्तम् किंवा यत् किंचिदगोचरभृतं तद्देशविरुद्धं शरीरविरुद्धं यथा उष्णार्तस्य मधु मरणाय ॥ 9
कालविरुद्धं यथा पर्युषिता काकमाची मरणाय ॥ 10
मात्राविरुद्धं यथा समधृते मधुसर्पिषी मरणाय ॥ 11
आदिग्रहणाद्दोषप्रकृत्यादिविरुद्धानां ग्रहणम् ॥ 12
स्वभावविरुद्धं यथा विषम् ॥ 13]
तत्र यान्याहारमधिकृत्य भूयिष्ठम् उपयुज्यन्ते तेषाम् एकदेशं वैरोधिकम् अधिकृत्योपदेक्ष्यामः न मत्स्यान् पयसा सहाभ्यवहरेत् उभयं ह्य् एतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय च ॥ चर्_1,26.82
तन्निशम्यात्रेयवचनमनु भद्रकाप्यो ऽग्निवेशम् उवाच सर्वानेव मत्स्यान् पयसा सहाभ्यवहरेद् अन्यत्रैकस्माच् चिलिचिमात् स पुनः शकली लोहितनयनः सर्वतो लोहितराजी रोहिताकारः प्रायो भूमौ चरति तं चेत् पयसा सहाभ्यवहरेन्निःसंशयं शोणितजानां विबन्धजानां च व्याधीनामन्यतममथवा मरणं प्राप्नुयादिति ॥ चर्_1,26.83
[{आयुर्वेददीपिका}
वैरोधिकमधिकृत्येति वैरोधिकम् उद्दिश्य ॥ 1
शीतोष्णत्वादिति पयः शीतम् उष्णवीर्याश्च मत्स्याः शेषं मधुरत्वादि समानम् ॥ 2
एतच्च द्रव्यप्रभावादेव विरोधि ॥ 3
स पुनः शकली इत्यादिना नान्दिनिः इति ख्यातो मत्स्य उच्यते ॥ 4]
नेति भगवानात्रेयः सर्वानेव मत्स्यान्न पयसा सहाभ्यवहरेद्विशेषतस्तु चिलिचिमं स हि महाभिष्यन्दित्वात् स्थूललक्षणतरान् एतान् व्याधीन् उपजनयत्यामविषम् उदीरयति च ।
ग्राम्यानूपौदकपिशितानि च मधुतिलगुडपयोमाषमूलकबिसैर् विरूढधान्यैर्वा नैकध्यमद्यात् तन्मूलं हि बाधिर्यान्ध्यवेपथुजाड्यकलमूकतामैण्मिण्यम् अथवा मरणमाप्नोति ।
न पौष्करं रोहिणीकं शाकं कपोतान् वा सर्षपतैलभ्रष्टान् मधुपयोभ्यां सहाभ्यवहरेत् तन्मूलं हि शोणिताभिष्यन्दधमनीप्रविचयापस्मारशङ्खकगलगण्डरोहिणीनाम् अन्यतमं प्राप्नोत्यथवा मरणमिति ।
न मूलकलशुनकृष्णगन्धार्जकसुमुखसुरसादीनि भक्षयित्वा पयः सेव्यं कुष्ठाबाधभयात् ।
न जातुकशाकं न निकुचं पक्वं मधुपयोभ्यां सहोपयोज्यम् एतद्धि मरणायाथवा बलवर्णतेजोवीर्योपरोधायालघुव्याधये षाण्ढ्याय चेति ।
तदेव निकुचं पक्वं न माषसूपगुडसर्पिर्भिः सहोपयोज्यं वैरोधिकत्वात् ।
तथाम्राम्रातकमातुलुङ्गनिकुचकरमर्दमोचदन्तशठबदरकोशाम्रभव्यजाम्बवकपित्थतिन्तिडीकपारावताक्षोडपनसनालिकेरदाडिमामलकान्येवंप्रकाराणि चान्यानि द्रव्याणि सर्वं चाम्लं द्रवमद्रवं च पयसा सह विरुद्धम् ।
तथा कङ्गुवनकमकुष्ठककुलत्थमाषनिष्पावाः पयसा सह विरुद्धाः ।
पद्मोत्तरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं विरुद्धं वातं चातिकोपयति ।
हारिद्रकः सर्षपतैलभृष्टो विरुद्धः पित्तं चातिकोपयति ।
पायसो मन्थानुपानो विरुद्धः श्लेष्माणं चातिकोपयति ।
उपोदिका तिलकल्कसिद्धा हेतुरतीसारस्य ।
बलाका वारुण्या सह कुल्माषैरपि विरुद्धा सैव शूकरवसापरिभृष्टा सद्यो व्यापादयति ।
मयूरमांसम् एरण्डसीसकावसक्तम् एरण्डाग्निप्लुष्टम् एरण्डतैलयुक्तं सद्यो व्यापादयति ।
हारिद्रकमांसं हारिद्रसीसकावसक्तं हारिद्राग्निप्लुष्टं सद्यो व्यापादयति तदेव भस्मपांशुपरिध्वस्तं सक्षौद्रं सद्यो मरणाय ।
मत्स्यनिस्तालनसिद्धाः पिप्पल्यस्तथा काकमाची मधु च मरणाय ।
मधु चोष्णम् उष्णार्तस्य च मधु मरणाय ।
मधुसर्पिषी समधृते चान्तरिक्षं समधृतं मधु पुष्करबीजं मधु पीत्वोष्णोदकं भल्लातकोष्णोदकं तक्रसिद्धः कम्पिल्लकः पर्युषिता काकमाची अङ्गारशूल्यो भासश्चेति विरुद्धानि ।
इत्येतद्यथाप्रश्नम् अभिनिर्दिष्टं भवतीति ॥ चर्_1,26.84
[{आयुर्वेददीपिका}
ग्राम्यपिशितादीनि मध्वादीनामन्यतरेणापि विरुद्धानि ॥ 1
कलमूकतेति कलमूकता अव्यक्तवचनता ॥ 2
पौष्करादीनां मधुपयोभ्यां सहाभ्यवहारो विरुद्धः पौष्करं पुष्करत्रत्ररूपं शाकं रोहिणी कटुरोहिणी ॥ 3
धमनीप्रतिचयः सिराजग्रन्थिः ॥ 4
जातुशाकं वंशपत्त्रिका ॥ 5
वैरोधिकत्वादित्यनेन प्रकरणलब्धस्यापि वैरोधिकत्वस्य पुनरभिधानं सामान्योक्तषाण्ढ्यादिव्याधिकर्तृतोपदर्शनार्थम् एवमन्यत्रापि सामान्येऽपि वैरोधिकत्वमात्राभिधाने वक्तव्यम् ।
तथाम्लेत्यादौ अम्लग्रहणेन लब्धानाप्य् अम्लाम्रातकादीनाम् अभिधानं विशेषविरोधसूचनार्थम् ॥ 6
सर्वग्रहणेनैव द्रवाद्रवाम्ले प्राप्ते पुनर्द्रवाद्रववचनं सर्वशब्दस्य द्रवाद्रवाम्लकार्त्स्न्यार्थताप्रतिषेधार्थं भवति हि प्रकरणाद् एकदेशे ऽपि सर्वव्यपदेशः यथा सर्वान् भोजयेदिति किंवा सर्वग्रहणम् अम्लविपाकानां व्रीह्यादीनां ग्रहणार्थम् ॥ 7
पयसेति तृतीययेव सहार्थे लब्धे पुनः सहेत्यभिधानं केवलाम्लादियुक्तस्यैव विरोधितोपदर्शनार्थं तेन अम्लपयःसंयोगे गुडादिसंयोगे सति विरुद्धत्वं न दुग्धाम्रादीनाम् ॥ 8
वनको वनकोद्रवः ॥ 9
पद्मोत्तरिका कुसुम्भः ॥ 10
शार्कर इति मैरेयविशेषणम् ॥ 11
वातं चातिकोपयतीति वचनेन पित्तकफाव् अल्पं कोपयतीति बोधयति एवं पित्तं चातिकोपयति कफं चातिकोपयतीत्येतयोरपि वाच्यम् ॥ 12
हारिद्रको हरिताल इति ख्यातः पक्षी ॥ 13
बलाका वारुण्या सह विरुद्धा तथा कुल्माषैश्च बलाका विरुद्धा ॥ 14
एरण्डसीसकावसक्तमिति एरण्डकाष्ठावसक्तं सीसको हि भटित्रकरणकाष्ठम् उच्यते ॥ 15
तदेवेति हारिद्रकमांसम् ॥ 16
मत्स्या निस्ताल्यन्ते पच्यन्ते यस्मिन् तन्मत्स्यनिस्तालनं किंवा निस्तालनं वसा जतूकर्णेऽप्युक्तं मत्स्यवसा सिद्धाः पिप्पल्यः इति ॥ 17
काकमाची मधु चेति संयोगविरुद्धम् ॥ 18
भासो गोष्ठकुक्कुटः ॥ 19]
यत् किंचिद् दोषमास्राव्य न निर्हरति कायतः ।
आहारजातं तत् सर्वमहितायोपपद्यते ॥ चर्_1,26.85
[{आयुर्वेददीपिका}
अनुक्तवैरोधिकसंग्रहार्थमाह यत् किंचिदित्यादि ॥ 1
आह्रियत इत्याहारो भेषजमपि ॥ 2
दोषमास्राव्येति दोषानुत्क्लिष्टरूपान् जनयित्वा न निर्हरतीति ॥ 3
अनेन वमनविरेचनद्रव्याणि निराकरोति तानि हि दोषानास्राव्य निर्हरन्ति ॥ 4]
यच्चापि देशकालाग्निमात्रासात्म्यानिलादिभिः ।
संस्कारतो वीर्यतश्च कोष्ठावस्थाक्रमैरपि ॥ चर्_1,26.86
परिहारोपचाराभ्यां पाकात् संयोगतोऽपि च ।
विरुद्धं तच्च न हितं हृत्सम्पद्विधिभिश्च यत् ॥ चर्_1,26.87
विरुद्धं देशतस्तावद् रूक्षतीक्ष्णादि धन्वनि ।
आनूपे स्निग्धशीतादि भेषजं यन्निषेव्यते ॥ चर्_1,26.88
कालतोऽपि विरुद्धं यच्छीतरूक्षादिसेवनम् ।
शीते काले तथोष्णे च कटुकोष्णादिसेवनम् ॥ चर्_1,26.89
विरुद्धमनले तद्वदन्नपानं चतुर्विधे ।
मधुसर्पिः समधृतं मात्रया तद्विरुध्यते ॥ चर्_1,26.90
कटुकोष्णादिसात्म्यस्य स्वादुशीतादिसेवनम् ।
यत्तत्सात्म्यविरुद्धं तु विरुद्धं त्व् अनिलादिभिः ॥ चर्_1,26.91
या समानगुणाभ्यासविरुद्धान्नौषधक्रिया ।
संस्कारतो विरुद्धं तद्यद्भोज्यं विषवद्भवेत् ॥ चर्_1,26.92
एरण्डसीसकासक्तं शिखिमांसं यथैव हि ।
विरुद्धं वीर्यतो ज्ञेयं वीर्यतः शीतलात्मकम् ॥ चर्_1,26.93
तत्संयोज्योष्णवीर्येण द्रव्येण सह सेव्यते ।
क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यम् अभेदनम् ॥ चर्_1,26.94
मृदुकोष्ठस्य गुरु च भेदनीयं तथा बहु ।
एतत्कोष्ठविरुद्धं तु विरुद्धं स्यादवस्थया ॥ चर्_1,26.95
श्रमव्यवायव्यायामसक्तस्यानिलकोपनम् ।
निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम् ॥ चर्_1,26.96
यच्चानुत्सृज्य विण्मूत्रं भुङ्क्ते यश् चाबुभुक्षितः ।
तच्च क्रमविरुद्धं स्याद्यच् चातिक्षुद्वशानुगः ॥ चर्_1,26.97
परिहारविरुद्धं तु वराहादीन्निषेव्य यत् ।
सेवेतोष्णं घृतादींश्च पीत्वा शीतं निषेवते ॥ चर्_1,26.98
विरुद्धं पाकतश्चापि दुष्टदुर्दारुसाधितम् ।
अपक्वतण्डुलात्यर्थपक्वदग्धं च यद्भवेत् ।
संयोगतो विरुद्धं तद्यथाम्लं पयसा सह ॥ चर्_1,26.99
अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते ।
सम्पद्विरुद्धं तद्विद्याद् असंजातरसं तु यत् ॥ चर्_1,26.100
अतिक्रान्तरसं वापि विपन्नरसमेव वा ।
ज्ञेयं विधिविरुद्धं तु भुज्यते निभृते न यत् ।
तदेवंविधमन्नं स्याद्विरुद्धमुपयोजितम् ॥ चर्_1,26.101
[{आयुर्वेददीपिका}
यच्चापि देशकालाग्नीत्यादिग्रन्थं केचित् पठन्ति स च व्यक्त एव ॥ 1]
षाण्ढ्यान्ध्यवीसर्पदकोदराणां विस्फोटकोन्मादभगंदराणाम् ।
मूर्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्यामविषस्य चैव ॥ चर्_1,26.102
किलासकुष्ठग्रहणीगदानां शोथाम्लपित्तज्वरपीनसानाम् ।
संतानदोषस्य तथैव मृत्योर् विरुद्धमन्नं प्रवदन्ति हेतुम् ॥ चर्_1,26.103
[{आयुर्वेददीपिका}
षाण्ढ्यं नपुंसकता ॥ 1
संतानदोषो मृतवत्सत्वादिः ॥ 2
एतच्च वैरोधिककथनं विशेषवचनेन बाध्यते तेन लशुनस्य क्षीरेण पानं क्वचिन् न विरोधि यदुक्तं साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम् ॥ 3
क्षीरोदकेऽष्टगुणिते क्षीरशेषं च पाययेत् तथा मूलकस्वरसं क्षीरम् इत्यादिप्रयोगेषून्नेयम् ॥ 4
किंवा अनेकद्रव्यसंयोगाद् अत्र विरोधिनाम् अविरोधः विरोधिमात्रसंयोग एव विरोधी भवति ॥ 5
यत्तु मधुन उष्णेन वमनेन संयुक्तस्य सत्यपि मदनफलादिद्रव्यसंयोगे ऽविरोधार्थमुक्तम् अपक्वगमनादि तन्मधुनो द्रव्यान्तरसंयोगे ऽप्युष्णसम्बन्धत्वे विरोधित्वोपदर्शनार्थं यतो विषान्वयं मधु विषस्य चोष्णविरोधि ॥ 6
लशुनादीनां तु द्रव्यान्तरासंयोगे सत्येव मेलको विरुद्ध इति शास्त्रवचनादुन्नीयते ॥ 7]
एषां खल्वपरेषां च वैरोधिकनिमित्तानां व्याधीनामिमे भावाः प्रतिकारा भवन्ति ।
तद्यथा वमनं विरेचनं च तद्विरोधिनां च द्रव्याणां संशमनार्थम् उपयोगः तथाविधैश्च द्रव्यैः पूर्वम् अभिसंस्कारः शरीरस्येति ॥ चर्_1,26.104
विरुद्धाशनजान् रोगान् प्रतिहन्ति विवेचनम् ।
वमनं शमनं चैव पूर्वं वा हितसेवनम् ॥ चर्_1,26.105
सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरुणस्य च ।
स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् ॥ चर्_1,26.106
[{आयुर्वेददीपिका}
तद्विरोधिनामिति षाण्ढ्यादिहराणाम् ॥ 1
तथाविधैरिति विरुद्धाहारजव्याधिविरुद्धैः ॥ 2
अभिसंस्कार इति सततोपयोगेन शरीरभावनम् ॥ 3
किंवा तथाविधैर् इति रसायनप्रयोगैः ॥ 4
एतच्चानागताबाधचिकित्सितं ज्ञेयम् ॥ 5]
मतिरासीन्महर्षीणां या या रसविनिश्चये ।
द्रव्याणि गुणकर्मभ्यां द्रव्यसंख्या रसाश्रया ॥ चर्_1,26.107
कारणं रससंख्याया रसानुरसलक्षणम् ।
परादीनां गुणानां च लक्षणानि पृथक्पृथक् ॥ चर्_1,26.108
पञ्चात्मकानां षट्त्वं च रसानां येन हेतुना ।
ऊर्ध्वानुलोमभाजश्च यद्गुणातिशयाद्रसाः ॥ चर्_1,26.109
षण्णां रसानां षट्त्वे च सविभक्ता विभक्तयः ।
उद्देशश्चापवादश्च द्रव्याणां गुणकर्मणि ॥ चर्_1,26.110
प्रवरावरमध्यत्वं रसानां गौरवादिषु ।
पाकप्रभावयोर्लिङ्गं वीर्यसंख्याविनिश्चयः ॥ चर्_1,26.111
षण्णामास्वाद्यमानानां रसानां यत्स्वलक्षणम् ।
यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत् ॥ चर्_1,26.112
वैरोधिकनिमित्तानां व्याधीनामौषधं च यत् ।
आत्रेयभद्रकाप्यीये तत् सर्वमवदन्मुनिः ॥ चर्_1,26.113
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आत्रेयभद्रकाप्यीयो नाम षड्विंशोऽध्यायः ॥ चर्_1,26.114
[{आयुर्वेददीपिका}
संग्रहे द्रव्यसंख्या रसाश्रया इति भेदश्चैषाम् इत्यादिना रससंख्या हि परमार्थतो द्रव्यसंख्यैव निर्गुणत्वाद् रसानाम् इति भावः ॥ 1
कारणं रससंख्याया इति रसानां तत्र योग्यत्वाद् इत्यादिना विभक्तयो भेदः तत्र मधुर इत्यादिना ॥ 2
उद्देशो द्रव्याणां शीतं वीर्येण इत्यादिना अपवादो द्रव्याणां मधुरं किंचित् इत्यादिना ॥ 3]
चरकसंहिता, सूत्रस्थान, 27 [अन्नपानविधि]
अथातोऽन्नपानविधिम् अध्यायं व्याख्यास्यामः ॥ चर्_1,27.1
इति ह स्माह भगवानात्रेयः ॥ चर्_1,27.2
[{आयुर्वेददीपिका}
सम्प्रति सामान्येनोक्तानां गुणकर्मभ्यां प्रतिव्यक्त्यनुक्तानां प्रतिव्यक्तिप्राय उपयोगिद्रव्यस्य विशिष्टगुणकर्मकथनार्थम् अन्नपानविधिर् अध्यायोऽभिधीयते ॥ 1
अत्रोत्पन्नस्य छप्रत्ययस्य लुक् ॥ 2
अत्रान्ने काठिन्यसामान्यात् खाद्यं पाने च द्रवत्वसामान्याल्लेह्यम् अवरुद्धं ज्ञेयम् ॥ 3
अन्नपानं विधीयते विशिष्टगुणकर्मयोगितया प्रतिपाद्यते ऽनेनेत्यन्नपानविधिः द्रव्याणां गुणकर्मकथनम् एव चान्नपानविधिः यतस्तद्धि ज्ञात्वान्नपानं विधीयते ॥ 4]
इष्टवर्णगन्धरसस्पर्शं विधिविहितमन्नपानं प्राणिनां प्राणिसंज्ञकानां प्राणमाचक्षते कुशलाः प्रत्यक्षफलदर्शनात् तदिन्धना ह्य् अन्तरग्नेः स्थितिः तत् सत्त्वम् ऊर्जयति तच्छरीरधातुव्यूहबलवर्णेन्द्रियप्रसादकरं यथोक्तमुपसेव्यमानं विपरीतमहिताय सम्पद्यते ॥ चर्_1,27.3
[{आयुर्वेददीपिका}
किं तदन्नपानं करोतीत्याह इष्टेत्यादि ॥ 1
इष्टमिति अभिमतं हितं च किंवा इष्टं प्रियं हितं तु विधिविहितशब्देनैव प्राप्यते ॥ 2
विधिर् वक्ष्यमाणरसविमाने तदेतदाहारविधानम् इत्यादिग्रन्थवाच्यः तथेन्द्रियोपक्रमणीये नारत्नपाणिः इत्यादिनोक्तं विधानं तेन विधिना विहितं विधिविहितम् ॥ 3
अत्र वर्णादिषु शब्दाग्रहणमन्नपाने प्रायः शब्दस्याविद्यमानत्वात् ॥ 4
वर्णादिषु यद्यत् प्रथमम् अन्नपाने गृह्यते तत्तत् पूर्वम् उक्तम् ॥ 5
रसस्तु स्पर्शस्य पश्चाद्गृह्यमाणोऽपि प्राधान्यख्यापनार्थं स्पर्शस्याग्रे कृतः ॥ 6
प्राणिनाम् इत्यनेनैव लब्धेऽपि प्राणिसंज्ञकानाम् इति वचनं स्थावरप्राणिप्रतिषेधार्थं वृक्षादयो हि वनस्पतिसत्त्वानुकारोपदेशाच्छस्त्रे प्राणिन उक्ताः न तु लोके प्राणिसंज्ञकाः किंतर्हि जङ्गमा एव ॥ 7
इह च मनुष्यस्यैवाधिकृतत्वेऽपि सामान्येन सकलप्राणिप्राणहेतुतयाहारकथनं मनुषव्यतिरिक्तेऽपि प्राणिन्याहारस्य प्राणजनकत्वोपदर्शनार्थम् ॥ 8
प्राणमिति प्राणहेतुत्वात् यथायुर् घृतम् ॥ 9
अथ कथं तत् प्राणमाचक्षत इत्याह प्रत्यक्षफलदर्शनादिति ॥ 10
प्रत्यक्षेणैव ह्य् आहारं विधिना कुर्वतां प्राणा अनुवर्तन्त इति तथा निराहाराणां प्राणा नह्य् अवतिष्ठन्त इति दृश्यत इत्यर्थः ॥ 11
प्रत्यक्षशब्दश् चेह स्फुटप्रमाणे वर्तते यतः प्राणानाम् अन्नकार्यत्वम् अनुमानगम्यमेव ॥ 12
आन्नकार्यत्व एव प्राणानां हेतुमाह तदिन्धना हीत्यादिना ॥ 13
यस्माद् अन्तरग्निस्थितिश् चान्नपानहेतुना अग्निस्थितिश्च प्राणहेतुः ततोऽन्नं प्राणा इति भावः उक्तं हि बलम् आरोग्यमायुश्च प्राणाश्चाग्नौ प्रतिष्ठिताः ॥ 14
किंवा पूर्वमन्नपानस्य प्राणहेतुत्वमुक्तं तदिन्धना हीत्यादिनाग्निहेतुत्वं वर्ण्यते ॥ 15
सत्त्वमूर्जयतीति मनोबलं करोति ॥ 16
धातुव्यूहो धातुसंघातः ॥ 17
विपरीतम् अविधिसेवितम् ॥ 18]
तस्माद्धिताहितावबोधनार्थम् अन्नपानविधिम् अखिले नोपदेक्ष्यामो ऽग्निवेश ।
तत् स्वभावाद् उदक्तं क्लेदयति लवणं विष्यन्दयति क्षारः पाचयति मधु संदधाति सर्पिः स्नेहयति क्षीरं जीवयति मांसं बृंहयति रसः प्रीणयति सुरा जर्जरीकरोति सीधुर् अवधमति द्राक्षासवो दीपयति फाणितमाचिनोति दधि शोफं जनयति पिण्याकशाकं ग्लपयति प्रभूतान्तर्मलो माषसूपः दृष्टिशुक्रघ्नः क्षारः प्रायः पित्तलम् अम्लम् अन्यत्र दाडिमामलकात् प्रायः श्लेष्मलं मधुरम् अन्यत्र मधुनः पुराणाच्च शालिषष्टिकयवगोधूमात् प्रायस्तिकं वातलमवृष्यं चान्यत्र वेगाग्रामृतापटोलपत्त्रात् प्रायः कटुकं वातलम् अवृष्यं चान्यत्र पिप्पलीविश्वभेषजात् ॥ चर्_1,27.4
[{आयुर्वेददीपिका}
अन्नपानं विधीयते येन तं विधिं द्रव्यगुणकर्मरूपं तथा चरशरीरावयवादिरूपं चाखिलेन कार्त्स्न्येनोपदेक्ष्यामः ॥ 1
यद्यपि चेह द्रव्यं प्रति प्रति गुणकर्मभ्यां न निर्देक्ष्यति वक्ष्यति हि अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः इति तथाप्यनुक्तानाम् अपि द्रव्याणां चरशरीरावयवाद्युपदेशेन तथा पूर्वाध्यायोक्तपार्थिवादिद्रव्यगुणकर्मकथनेन च तद्विधानमप्युक्तं भवतीत्यत उक्तमखिलेनेति वक्ष्यति हि यथा नानौषधं किंचिद् देशजानां वचो यथा ॥ 2
द्रव्यं तु तत्तथा वाच्यमनुक्तमिह यद् भवेत् तथा चरः शरीरावयवाः इत्यादि किंवा विधिशब्दो ऽशितपीतलीढखादितप्रकारवाची तेन चाशितादयः सर्व एवाखिलेन वाच्यः तत्कारणभूतानि तु द्रव्याणि रक्तशाल्यादीन्येकदेशेनोक्तानि अतो वक्ष्यति अन्नपानैकदेशोऽयमुक्तः इति ॥ 3
अन्नपाने च वक्तव्ये यद्द्रव्यं प्राय उपयुज्यते तस्य सामान्यगुणमभिधाय वर्गसंग्रहेण गुणमुपदेक्ष्यति ॥ 4
उदकाभिधानं चाग्रे कृतम् उदकस्यान्ने पाने च व्याप्रियमाणत्वात् ॥ 5
तद् इत्युदाहरणं किंवा स स्वभावो यस्य स तत्स्वभावः तस्मात् क्लेदनस्वभावाद् इत्यर्थः ॥ 6
यद्यपि उदकमाश्वासकराणां जलं स्तम्भनानाम् इत्युक्तं तथापीहानुक्तक्लेदनकर्माभिधानार्थं पुनरुच्यते ॥ 7
इह जललवणादीनां यत् कर्मोच्यते तत्तेषामितरकर्मभ्यः प्रधानं ज्ञेयम् अग्र्याधिकारे तु तत्कर्मकर्तृद्रव्यान्तरप्रशस्तता ज्ञेया ॥ 8
क्षारः पचन्तमग्निं पाचयति तेन पाचयतीति हेतौ णिच् ॥ 9
स्नेहयतीत्यादौ तु तत्करोति तदाचष्टे इति णिच् ॥ 10
संदधातीति विश्लिष्टानि त्वङ्मांसादीनि संश्लेषयति ॥ 11
रसः मांसरसः ॥ 12
प्रीणयतीति क्षीणान् पुष्णाति न त्व् अतिबृहत्त्वं करोति तेन मांसकर्मणा बृंहणेन समं नैक्यम् ॥ 13
जर्जरीकरोतीति श्लथमांसाद्युपचयं करोति यद् उक्तं हारीते सुरा जर्जरीकरोत्यसृङ्मेदोबाहुल्यात् इति तथा ह्य् अत्रैवोक्तं सुरा कृशानां पुष्ट्यर्थम् इति ॥ 14
अवधमयतीति विलिखतीत्यर्थः अनेकार्थत्वाद् धातूनां वचनं हि लेखनः शीतरसिकः इति तथा हारीते ऽप्युक्तं सीधुर् अवधमयति वाय्वग्निप्रबोधनात् इति ॥ 15
आचिनोति दोषान् इति शेषः तन्त्रान्तरवचनं हि वातपित्तकफांस्तस्मादाचिनोति च फाणितम् इति ॥ 16
पिण्याकः तिलकल्कः निघण्टुकारस् त्व् आह पिण्याको हरितशिग्रुः ॥ 17
ग्लपयति हर्षक्षयं करोति ॥ 18
प्रभूतान्तर्मलस्य पुरीषस्य कर्ता प्रभूतान्तर्मलः यद्यपि माषो बहुमलः इति वक्ष्यति तथापि माषविकृतेः सूपस्येह गुणकथनं तेन न पुनरुक्तं न चावश्यं प्रकृतिधर्मो विकृतिमनुगच्छति यतः सक्तूनां सिद्धपिण्डिका गुर्वी एव भवति तस्मान् माषविकृताव् अपि मलवृद्धिदर्शनार्थम् एतदभिधानम् ॥ 19
क्षारस्य पाचनत्वं गुणोऽभिहितः इह तु दृष्टिशुक्रघ्नत्वं दोष इति पृथगुच्यते ॥ 20
प्रायः पित्तलमिति विशेषेणान्येभ्यो लवणकटुकेभ्योऽम्लं पित्तलम् ॥ 21
एवमन्यत्रापि प्रायःशब्दो विशेषार्थो वाच्यः किंवा प्रायःशब्दोऽम्लेन सम्बध्यते ॥ 22
अत्र पित्तम् आदाव् अम्लजन्यतयोक्तं दोषप्राधान्यस्यानियतत्वात् उक्तं हि न ते पृथक् पित्तकफानिलेभ्य इति तथा समपित्तानिलकफा इति किंवा पित्तोष्मा वह्निः स चेहान्नपानपचने प्रधानं यदुक्तं यदन्नं देहधात्वोजोबलवर्णादिपोषकम् ॥ 23
तत्राग्निर् हेतुर् आहारान् नह्य् अपक्वाद् रसादयः इति तेनेह वह्निकारणपित्तजनकम् एवादाव् उच्यते यतश्च पित्तजनकमग्रे वक्तव्यम् अतो रसप्रधानमपि मधुरो नादाव् उक्तः ॥ 24
मधुन इति विच्छेदपाठेन नवानवस्य मधुनः कफाकर्तृत्वं दर्शयति ॥ 25
इह च षड्रसस्यैव कथनमेतत्त्रयेणैव अनुक्तानां लवणतिक्तकषायाणाम् अपि पाकद्वारा ग्रहणात् यतो लवणः पाकात् प्रायो मधुरः तिक्तकषायौ कटुकौ पाकतो भवतः ॥ 26
प्रायः सर्वं तिक्तम् इत्यादिस्तु ग्रन्थो हारीतीयः इह केनापि प्रमादाल् लिखितः ॥ 27]
परमतो वर्गसंग्रहेणाहारद्रव्याण्य् अनुव्याख्यास्यामः ॥ चर्_1,27.5
शूकधान्यशमीधान्यमांसशाकफलाश्रयान् ।
वर्गान् हरितमद्याम्बुगोरसेक्षुविकारिकान् ॥ चर्_1,27.6
दश द्वौ चापरौ वर्गौ कृतान्नाहारयोगिनाम् ।
रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे ॥ चर्_1,27.7
[{आयुर्वेददीपिका}
वर्गेण शूकधान्यादीनाम् आहारद्रव्याणां संग्रहो वर्गसंग्रहः ॥ 1
रसवीर्येत्यादौ प्रभावोऽल्पविषयतया पृथक्पठितः ॥ 2
रसादिनिर्देशश्च यथायोग्यतया ज्ञेयः तेन न सर्वद्रव्ये सर्वरसाद्यभिधानं भविष्यति ॥ 3
अत्र शूकधान्यम् आदाव् आहारप्रधानत्वात् शूकवन्ति धान्यानि शूकधान्यानि ॥ 4]
रक्तशालिर् महाशालिः कलमः शकुनाहृतः ।
तूर्णको दीर्घशूकश् च गौरः पाण्डुकलाङ्गुलौ ॥ चर्_1,27.8
सुगन्धको लोहवालः सारिवाख्यः प्रमोदकः ।
पतंगस् तपनीयश्च ये चान्ये शालयः शुभाः ॥ चर्_1,27.9
शीता रसे विपाके च मधुराश्चाल्पमारुताः ।
बद्धाल्पवर्चसः स्निग्धा बृंहणाः शुक्रलाः ॥ चर्_1,27.10
रक्तशालिर्वरस्तेषां तृष्णाघ्नस् त्रिमलापहः ।
महांस्तस्यानु कलमस्तस्याप्यनु ततः परे ॥ चर्_1,27.11
यवका हायनाः पांसुवाप्यनैषधकादयः ।
शालीनां शालयः कुर्वन्त्यनुकारं गुणागुणैः ॥ चर्_1,27.12
[{आयुर्वेददीपिका}
इह च द्रव्यनामानि नानादेशप्रसिद्धानि तेन नामज्ञाने सामर्थ्यं तथाभूतं नास्त्येवान्येषाम् अपि टीकाकृतां तेन देशान्तरिभ्यो नाम प्रायशो ज्ञेयं यत्तु प्रचरति गौडे तल् लिखिष्यामो ऽन्यदेशप्रसिद्धं च किंचित् ॥ 1
कलमो वेदाग्रहारेषु स्वनामप्रसिद्धः ॥ 2
शकुनाहृतः श्रावस्त्यां वक्रनाम्ना प्रसिद्धः ॥ 3
रक्तशालिः प्रसिद्ध एव ॥ 4
महाशालिर्मगधे प्रसिद्धः ॥ 5
अत्र च शालिर्हैमन्तिकं धान्यं षष्टिकादयश्च ग्रैष्मिकाः व्रीहयः शारदा इति व्यवस्था ॥ 6
रक्तशाल्यादीनां मधुरपाकित्वेऽपि बद्धवर्चस्त्वं प्रभावादेव ॥ 7
महांस्तस्यान्विति रक्तशालेरनु तेन रक्तशालिगुणा महाशालेर् मनागल्पाः एवं तस्यानु कलम इत्यत्रापि वाच्यम् ॥ 8
तस्येति महाशालेः ॥ 9
ततः परे इति शकुनाहृतादयः उत्तरोत्तरमल्पगुणा इत्यर्थः ॥ 10
गुणागुणैर् इति शालीनां रक्तशाल्यादीनां ये गुणास् तृष्णाघ्नत्वत्रिमलापहत्वादयः तेषाम् अगुणैस् तद्गुणविपरीतैर् दोषैर् यवकादयो ऽनुकारं कुर्वन्ति ततश्च यवकास् तृष्णात्रिमलादिकरा इति ॥ 11
गुणशब्दश्चेह प्रशंसायाम् ॥ 12]
शीतः स्निग्धोऽगुरुः स्वादुस् त्रिदोषघ्नः स्थिरात्मकः ।
षष्टिकः प्रवरो गौरः कृष्णगौरस्ततोऽनु च ॥ चर्_1,27.13
वरकोद्दालकौ चीनशारदोज्ज्वलदर्दुराः ।
गन्धनाः कुरुविन्दाश्च षष्टिकाल्पान्तरा गुणैः ॥ चर्_1,27.14
मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः ।
बहुपुरीषोष्मा त्रिदोषस् त्व् एव पाटलः ॥ चर्_1,27.15
[{आयुर्वेददीपिका}
षष्टिकगुणे ऽकारप्रश्लेषाद् अगुरुरिति बोद्धव्यं मात्राशितीये षष्टिको लघुः पठितः ॥ 1
ततोऽनु चेति गौरषष्टिकाद् अल्पान्तरगुणः ॥ 2
वरकोद्दालकादयः षष्टिकविशेषाः केचित् कुधान्यानि वरकादीनि वदन्ति ॥ 3
व्रीहिरिति शारदाशुधान्यस्य संज्ञा ॥ 4
पाटलो व्रीहिविशेषः ॥ 5
तन्त्रान्तरेऽपि पठ्यते त्रिदोषस्त्वेव पाटलः इति सुश्रुते पाटलशब्देनैतद्व्यतिरिक्तो धान्यविशेषो ज्ञेयः तेन तद्गुणकथनेन नेह विरोधः ॥ 6]
सकोरदूषः श्यामाकः कषायमधुरो लघुः ।
वातलः कफपित्तघ्नः शीतः संग्राहिशोषणः ॥ चर्_1,27.16
हस्तिश्यामाकनीवारतोयपर्णीगवेधुकाः ।
प्रशान्तिकाम्भःस्यामाकलौहित्याणुप्रियङ्गवः ॥ चर्_1,27.17
मुकुन्दो झिण्टिगर्मूटी वरुका वरकास्तथा ।
शिबिरोत्कटजूर्णाह्वाः श्यामाकसदृशा गुणैः ॥ चर्_1,27.18
[{आयुर्वेददीपिका}
कोरदूषादयः कुधान्यविशेषाः ॥ 1
कोरदूषः कोद्रवः कोरदूषस्य केवलस्य श्लेष्मपित्तघ्नत्वं तेन यदुक्तं रक्तपित्तनिदाने यदा जन्तुर्यवकोद्दालककोरदूषप्रायाण्य् अन्नानि भुङ्क्ते इत्यादिना पित्तकर्तृत्वं कोरदूषस्य तत् तत्रैवोक्तनिष्पावकाञ्जिकादियुक्तस्य संयोगमहिम्ना बोद्धव्यम् ॥ 2
श्यामाकादयोऽपि तृणधान्यविशेषाः ॥ 3
हस्तिश्यामाकः श्यामाकभेद एव नीवार उडिका गवेधुको घुलुञ्चः स ग्राम्यारण्यभेदेन द्विविधः ॥ 4
प्रशान्तिका उडिकैव स्थलजा रक्तशूका अम्भःश्यामाका जलजा ओडिका लोके डे इत्युच्यते प्रियङ्गुः काङ्गनी इति प्रसिद्धा ॥ 5
मुकुन्दो वाकसतृण इति वरुकः शणबीजं वरकः श्यामबीजं शिबिरस् तीरभुक्तौ सिद्धक इत्युच्यते जूर्णाह्वो जोनार इति ख्यातः ॥ 6]
रूक्षः शीतोऽगुरुः स्वादुर्बहुवातशकृद्यवः ।
स्थैर्यकृत्सकषायश्च बल्यः श्लेष्मविकारनुत् ॥ चर्_1,27.19
रूक्षः कषायानुरसो मधुरः कफपित्तहा ।
मेदःक्रिमिविषघ्नश्च बल्यो वेणुयवो मतः ॥ चर्_1,27.20
[{आयुर्वेददीपिका}
यवस्य गुरोरपि बहुवातत्वं रूक्षत्वात् किंवा सुश्रुते यवो लघुः पठितः तेनात्राप्यगुरुरिति मन्तव्यं बल्यश्च स्रोतःशुद्धिकरत्वात् प्रभावाद्वा ॥ 1
अस्य च शीतमधुरकषायत्वेनानुक्तमपि पित्तहन्तृत्वं लभ्यत एव तेन सुश्रुते कफपित्तहन्ता इत्युक्तमुपपन्नम् ॥ 2]
संधानकृद् वातहरो गोधूमः स्वादुशीतलः ।
जीवनो बृंहणो वृष्यः स्निग्धः स्थैर्यकरो गुरुः ॥ चर्_1,27.21
नान्दीमुखी मधूली च मधुरस्निग्धशीतले ।
इत्ययं शूकधान्यानां पूर्वो वर्गः समाप्यते ॥ चर्_1,27.22
[{आयुर्वेददीपिका}
गोधूमस्य स्वादुशीतस्निग्धादिगुणोपयोगाच् छ्लेष्मकर्तृत्वं भवत्येव अत एव सुश्रुते श्लेष्मकर इत्युक्तम् ॥ 1
यत्तु वसन्ते कफप्रधाने यवगोधूमभोजनः इत्युक्तं तत् पुराणगोधूमाभिप्रायेण पुराणश्च गोधूमः कफं न करोतीत्युक्तम् एव प्रायः श्लेष्मलं मधुरम् इत्यादिना ग्रन्थेनात्रैवाध्याये ॥ 2
नन्दीमुखी यविका मधूली गोधूमभेदः ।
इत्ययमत्र ॥ 3
इति प्रकारार्थः ॥ 4
समाप्त इति वक्तव्ये समाप्यत इति यत् करोति तेन ज्ञापयति यत् बहुद्रव्यत्वान् नायं समाप्तो गणः किंतु यथा कथंचित् प्रसिद्धगुणकथनेन समाप्यते ॥ 5
एवमन्यत्रापि षष्ठो वर्गः समाप्यत इत्यादौ व्याख्येयम् ॥ 6]
कषायमधुरो रूक्षः शीतः पाके कटुर् लघुः ।
विशदः श्लेष्मपित्तघ्नो मुद्गः सूप्योत्तमो मतः ॥ चर्_1,27.23
वृष्यः परं वातहरः स्निग्धोष्णो मधुरो गुरुः ।
बल्यो बहुमलः पुंस्त्वं माषः शीघ्रं ददाति च ॥ चर्_1,27.24
राजमाषः सरो रुच्यः कफशुक्राम्लपित्तनुत् ।
तत्स्वादुर्वातलो रूक्षः कषायो विशदो गुरुः ॥ चर्_1,27.25
उष्णाः कषायाः पाकेऽम्लाः कफशुक्रानिलापहाः ।
कुलत्था ग्राहिणः कासहिक्काश्वासार्शसां हिताः ॥ चर्_1,27.26
मधुरा मधुराः पाके ग्राहिणो रूक्षशीतलाः ।
मकुष्ठकाः प्रशस्यन्ते रक्तपित्तज्वरादिषु ॥ चर्_1,27.27
चणकाश्च मसूराश्च खण्डिकाः सहरेणवः ।
लघवः शीतमधुराः सकषाया विरूक्षणाः ॥ चर्_1,27.28
पित्तश्लेष्मणि शस्यन्ते सूपेष्वालेपनेषु च ।
तेषां मसूरः संग्राही कलायो वातलः परम् ॥ चर्_1,27.29
स्निग्धोष्णो मधुरस्तिक्तः कषायः कटुकस्तिलः ।
त्वच्यः केश्यश्च बल्यश्च वातघ्नः कफपित्तकृत् ॥ चर्_1,27.30
मधुराः शीतला गुर्व्यो बलघ्न्यो रूक्षणात्मिकाः ।
सस्नेहा बलिभिर् भोज्या विविधाः शिम्बिजातयः ॥ चर्_1,27.31
शिम्बी रूक्षा कषाया च कोष्ठे वातप्रकोपिनी ।
न च वृष्या न चक्षुष्या विष्टभ्य च विपच्यते ॥ चर्_1,27.32
आढकी कफपित्तघ्नी वातला कफवातनुत् ।
अवल्गुजः सैडगजो निष्पावा वातपित्तलाः ॥ चर्_1,27.33
काकाण्डोमात्मगुप्तानां माषवत् फलम् आदिशेत् ।
द्वितीयोऽयं शमीधान्यवर्गः प्रोक्तो महर्षिणा ॥ चर्_1,27.34
[{आयुर्वेददीपिका}
धान्यत्वेन शमीधान्यवर्गेऽभिधातव्ये प्रधानत्वान्मुद्गो निरुच्यते ॥ 1
सूप्यं सूपयोग्यं शमीधान्यं तत्रोत्तमः सूप्योत्तमः ॥ 2
वृष्य इत्यादिमाषगुणे स्निग्धोष्णमधुरत्वादिगुणयोगादेव वातहरत्वे लब्धे पुनस्तदभिधानं विशेषवातहन्तृत्वप्रतिपादनार्थम् एवमन्यत्राप्येवंजातीये व्याख्येयम् ॥ 3
पुंस्त्वं शुक्रम् ॥ 4
शीघ्रमिति वचनेन शुक्रस्रुतिकरत्वलक्षणमपि वृष्यत्वं माषस्य दर्शयति शुक्रस्रुतिकरं च वृष्यशब्देनोच्यत एव वचनं हि शुक्रस्रुतिकरं किंचित् किंचित् शुक्रविवर्धनम् ॥ 5
स्रुतिवृद्धिकरं किंचित्त्रिविधं वृष्यमुच्यते इति तदेवं सम्पूर्णवृष्यत्वं माषे बोद्धव्यम् ॥ 6
राजमाषगुणकथने तत्स्वादुरिति माषवत्स्वादुः किंवा रूक्षश्चेत्यादि पाठान्तरम् ॥ 7
उष्ण इत्यादिना कुलत्थगुणः कुलत्थश्च शुक्लकृष्णचित्रलोहितभेदेन चतुर्विधो भवति तथा ग्राम्यवन्यभेदेन च द्विविधोऽपि अत एव तन्त्रान्तरे वन्यः कुलत्थस्तद्वच्च विशेषान् नेत्ररोगनुत् इत्युक्तम् ॥ 8
मकुष्टको मोठ इति ख्यातः ॥ 9
चणकः प्रसिद्धः ॥ 10
खण्डिका त्रिपुटकलायः हरेणुः वर्तुलकलायः ॥ 11
कलायो वातल इति त्रिपुटकलायः ॥ 12
तिलगुणो यद्यपि विशेषेण नोक्तः तथापि प्रधाने कृष्णतिले ज्ञेयः उक्तं हि सुश्रुते तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास् ततोऽन्ये इति ॥ 13
विविधाः शिम्बीजातय इति कृष्णपीतरक्तश्वेतकुशिम्बीभेदा इत्यर्थः ।
शिम्बी रूक्षा इत्यादि केचित् पठन्ति ॥ 14
आढकी तुवरी वातलेति छेदः ॥ 15
कफवातनुद् अवल्गुजैडगजयोर् बीजस्य गुणः ॥ 16
निष्पावो वल्लः ॥ 17
काकाण्डः शूकरशिम्बिः उमा अतसी ऊर्णांपाठपक्षे तस्यैवोर्णा ॥ 18
शमीधान्यवर्ग इत्यत्र शमी शिम्बिः तदन्तर्गतं धान्यम् ॥ 19]
गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः ।
वृको व्याघ्रस्तरक्षुश्च बभ्रुमार्जारमूषिकाः ॥ चर्_1,27.35
लोपाको जम्बुकः श्येनो वान्तादश्चाषवायसौ ।
शशघ्नी मधुहा भासो गृध्रोलूककुलिङ्गकाः ॥ चर्_1,27.36
धूमिका कुररश्चेति प्रसहा मृगपक्षिणः ।
[{आयुर्वेददीपिका}
सूप्यानन्तरं मांसस्य व्यञ्जनत्वेन प्राधान्यान् मांसवर्गाभिधानम् ॥ 1
खरः गर्दभः अश्वतरः वेगसरः स चाश्वायां खराज्जातः द्वीपी चित्रव्याघ्रः ऋक्षः भल्लूकः ॥ 2
वृकः कुक्कुरानुकारी पशुशत्रुः तरक्षुः व्याघ्रभेदः तरच्छ इति ख्यातः बभ्रुः अतिलोमशः कुक्कुरः पर्वतोपकण्ठे भवति केचिद् बृहन्नकुलम् आहुः ॥ 3
लोपाकः स्वल्पशृगालो महालाङ्गूलः ॥ 4
श्येनः पक्षी प्रसिद्धः ॥ 5
वान्तादः कुक्कुरः ॥ 6
चाषः कनकवायस इति ख्यातः ॥ 7
शशघ्नी पाञ्जिः इति ख्याता ॥ 8
भासः भस्मवर्णः पक्षी शिखावान् प्रसहवर्गे ॥ 9
कुलिङ्गः कालचटकः ॥ 10]
श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुलीमृगः ॥ चर्_1,27.37
कूर्चिका चिल्लटो भेको गोधा शल्लकगण्डकौ ।
कदली नकुलः श्वाविदिति भूमिशयाः स्मृताः ॥ चर्_1,27.38
[{आयुर्वेददीपिका}
काकुलीमृगः मालुयासर्प इति ख्यातः तस्य श्वेत इत्यादयश् चत्वारो भेदाः ॥ 1
कूर्चिका संकुचः ॥ 2
चिल्लटः चियारः ॥ 3
शल्लको महाशकली शलक इति ख्यातः गण्डकः गोधाभेदः ॥ 4
कदली कदलीहट्ट इति ख्यातः ॥ 5
श्वावित् सेज्जक इति ख्यातः ॥ 6
भूमिशया बिलेशयाः ॥ 7]
सृमरश्चमरः खड्गो महिषो गवयो गजः ।
न्यङ्कुर् वराहश्चानूपा मृगाः सर्वे रुरुस्तथा ॥ चर्_1,27.39
[{आयुर्वेददीपिका}
सृमरः महाशूकरः ॥ 1
चमरः केशमृत्युः ॥ 2
खड्गः गण्डकः ॥ 3
गवयः गवाकारः ॥ 4
न्यङ्कुः न्यङ्कुशो हरिणः ॥ 5
रुरुः बहुशृङ्गो हरिणः ॥ 6]
कूर्मः कर्कटको मत्स्यः शिशुमारस् तिमिङ्गिलः ।
शुक्तिशङ्खोद्रकुम्भीरचुलुकीमकरादयः ॥ चर्_1,27.40
[{आयुर्वेददीपिका}
शिशुमारः गोतुण्डनक्रः ॥ 1
तिमिङ्गिलः सामुद्रो महामत्स्यः ॥ 2
शुक्तिः मुक्ताप्रभवो जन्तुः ऊद्रः जलबिडालः कुम्भीरः घटिकावान् चुलुकी शुशु इति ख्यातः ॥ 3
शिशुमारादीनां मत्स्यग्रहणेन ग्रहणे प्राप्ते विशेषव्यवहारार्थं पुनरभिधानम् ॥ 4]
इति वारिशयाः प्रोक्ता वक्ष्यन्ते वारिचारिणः ।
हंसः क्रौञ्चो बलाका च बकः कारण्डवः प्लवः ॥ चर्_1,27.41
शरारिः पुष्कराह्वश्च केसरी मणितुण्डकः ।
मृणालकण्ठो मद्गुश्च कादम्बः काकतुण्डकः ॥ चर्_1,27.42
उत्क्रोशः पुण्डरीकाक्षो मेघरावो ऽम्बुकुक्कुटी ।
आरा नन्दीमुखी वाटी सुमुखाः सहचारिणः ॥ चर्_1,27.43
रोहिणी कामकाली च सारसो रक्तशीर्षकः ।
चक्रवाकस्तथान्ये च खगाः सन्त्यम्बुचारिणः ॥ चर्_1,27.44
[{आयुर्वेददीपिका}
हंसश् चतुर्विधो ऽपि राजहंसादिर् ग्राह्यः ॥ 1
क्रौञ्चः कोञ्च इति ख्यातः ॥ 2
बकः पाण्डुरपक्षः ॥ 3
बलाका शुक्ला ॥ 4
कारण्डवः काकवक्त्रः ॥ 5
प्लवः स्वनामप्रसिद्धः प्रसेवगलः ॥ 6
शरारिः शराली इति लोके ॥ 7
मद्गुः पानीयकाकः ॥ 8
कादम्बः कलहंसः ॥ 9
काकतुण्डकः श्वेतकारण्डवः ॥ 10
उत्क्रोशः कुरल इति ख्यातः ॥ 11
पुण्डरीकाक्षः पुण्डरः ॥ 12
मेघरावः मेघनादः ॥ 13
मेघरावश्चातक इत्यन्ये तन्न तस्य वारिचरत्वाभावात् ॥ 14
अम्बुकुक्कुटी जलकुक्कुटी ॥ 15
आरा स्वनामख्याता ॥ 16
नन्दीमुखी पत्राटी ॥ 17
सारसः प्रसिद्धः ॥ 18
रक्तशीर्षकः सारसभेदो लोहितशिराः ॥ 19
अम्बुचारिण इति जले प्लवन्त इत्यर्थः ॥ 20]
पृषतः शरभो रामः श्वदंष्ट्रो मृगमातृका ।
शशोरणौ कुरङ्गश्च गोकर्णः कोट्टकारकः ॥ चर्_1,27.45
चारुष्को हरिणैणौ च शम्बरः कालपुच्छकः ।
ऋष्यश्च वरपोतश्च विज्ञेया जाङ्गला मृगाः ॥ चर्_1,27.46
[{आयुर्वेददीपिका}
पृषतः चित्रहरिणः ॥ 1
शरभः अष्टापद उष्ट्रप्रमाणो महाशृङ्गः पृष्ठगतचतुष्पादः काश्मीरे प्रसिद्धः ॥ 2
रामः हिमालये महामृगः ॥ 3
श्वदंष्ट्रः चतुर्दंष्ट्रः कार्त्तिकपुरे प्रसिद्धः ॥ 4
मृगमातृका स्वल्पा पृथूदरा हरिणजातिः ॥ 5
कुरङ्गः हरिणभेदः ॥ 6
गोकर्णः गोमुखहरिणविशेषः ॥ 7
हरिणः ताम्रवर्णः एणः कृष्णसारः ॥ 8
ऋष्यः नीलाण्डो हरिणः ॥ 9
चारुष्कादयोऽपि हरिणभेदा एव ॥ 10
शशस्तु सुश्रुते बिलेशयेषु पठितः तददूरान्तरार्थम् ॥ 11]
लावो वर्तीरकश्चैव वार्तीकः सकपिञ्जलः ।
चकोरश्चोपचक्रश्च कुक्कुभो रक्तवर्त्मकः ॥ चर्_1,27.47
लावाद्या विष्किरास्त्वेते वक्ष्यन्ते वर्तकादयः ।
वर्तको वर्तिका चैव बर्ही तित्तिरिकुक्कुटौ ॥ चर्_1,27.48
कङ्कशारपदेन्द्राभगोनर्दगिरिवर्तकाः ।
क्रकरोऽवकरश्चैव वारडश्चेति विष्किराः ॥ चर्_1,27.49
[{आयुर्वेददीपिका}
लावः प्रसिद्धः ॥ 1
वर्तीरः कपिञ्जलभेदः ॥ 2
कपिञ्जलो गौरतित्तिरिः ॥ 3
वार्तीकः चटकभेदः संघातचारी ॥ 4
उपचक्रः चकोरभेदः ॥ 5
कुक्कुभः प्रसिद्धः रक्तवर्त्मक इति कुक्कुभविशेषणं तेन स्थूलकुक्कुभो गृह्यते ॥ 6
वर्तकः वट्टही इति ख्यातः ॥ 7
वार्तिका स्वल्पप्रमाणा जात्यन्तरमेव केचित् तु वर्तकस्त्रियं वर्तिकां वदन्ति अस्याश्च ग्रहणं स्त्रीलिङ्गभेदेऽपि विशेषलाघवप्रतिषेधार्थम् अन्यथा स्त्रीत्वेन वर्तिकाद्वर्तिकाया लाघवं स्यात् ॥ 8
बर्ही मयूरः ॥ 9
शारपदेन्द्राभः मल्लकङ्कः ॥ 10
गोनर्दो घोडाकङ्क इति ख्यातः ॥ 11
क्रकरः प्रसिद्धः ॥ 12
लावादिवर्तिकादिविष्किरगणद्वयकरणं गुणभेदकथनार्थम् ॥ 13]
शतपत्त्रो भृङ्गराजः कोयष्टिर् जीवजीवकः ।
कैरातः कोकिलोऽत्यूहो गोपापुत्रः प्रियात्मजः ॥ चर्_1,27.50
लट्टा लटूषको बभ्रुर् वटहा डिण्डिमानकः ।
जटी दुन्दुभिपाक्कारलोहपृष्ठकुलिङ्गकाः ॥ चर्_1,27.51
कपोतशुकसारङ्गाश् चिरटीकङ्कुयष्टिकाः ।
सारिका कलविङ्कश्च चटकोऽङ्गारचूडकः ॥ चर्_1,27.52
पारावतः पाण्डविक इत्युक्ताः प्रतुदा द्विजाः ।
[{आयुर्वेददीपिका}
शतपत्त्रः काष्ठकुक्कुटकः ॥ 1
भृङ्गराजः प्रसिद्धो भ्रमरवर्णः कोयष्टिः कोडा इति ख्यातः ॥ 2
जीवञ्जीवकः विषदर्शनमृत्युः ॥ 3
अत्यूहः डाहुकः दात्यूह इति वा पाठः स च प्रसिद्धः ॥ 4
लट्टा फेञ्चाको रक्तपुच्छाधोभागः लटूषकोऽपि तद्भेदः ॥ 5
डिण्डिमानकः डिण्डिमवद् उत्कटध्वनिः ॥ 6
कुलिङ्ग इति वनचटकाकारः पीतमस्तकः वाए इति लोके ॥ 7
कलविङ्कः ग्राम्यचटकः ॥ 8
चटकस्तु देवकुलचटकः स्वल्पप्रमाणः ॥ 9
यान्यत्रानुक्तान्यप्रसिद्धानि तानि तद्विद्भ्यो देशान्तरेभ्यश्च ज्ञेयानि ॥ 10]
प्रसह्य भक्षयन्तीति प्रसहास्तेन संज्ञिताः ॥ चर्_1,27.53
भूशया बिलवासित्वाद् आनूपानूपसंश्रयात् ।
जले निवासाज्जलजा जलेचर्याज् जलेचराः ॥ चर्_1,27.54
स्थलजा जाङ्गलाः प्रोक्ता मृगा जाङ्गलचारिणः ।
विकीर्य विष्किराश्चेति प्रतुद्य प्रतुदाः स्मृताः ॥ चर्_1,27.55
योनिरष्टविधा त्व् एषा मांसानां परिकीर्तिता ।
[{आयुर्वेददीपिका}
प्रसहादिसंज्ञानिरुक्त्या लक्षणमाह ॥ 1
प्रसह्येति हठात् ॥ 2
आनूपानूपसंश्रयादिति पूर्वत्रासिद्धविधेर् अनित्यत्वेनानूपा इत्यत्र यलोपस्य सिद्धत्वेनैव संहिता ज्ञेया ॥ 3
जलेचर्यादिति जलवासिनाम् एव हंसादीनां जले चरणमात्रत्वं बोद्धव्यम् ॥ 4
स्थलजा इत्युक्ते गजादिष्वपि स्थलजातेषु प्रसक्तिः स्यादित्याह जाङ्गलचारिण इति ॥ 5
विकीर्येत्यत्र भक्षयन्ति इति शेषः एवं प्रतुद्येत्यत्रापि प्रतुद्येति बहुधाभिहत्य ॥ 6]
प्रसहा भूशयानूपवारिजा वारिचारिणः ॥ चर्_1,27.56
गुरूष्णस्निग्धमधुरा बलोपचयवर्धनाः ।
वृष्याः परं वातहराः कफपित्तविवर्धनाः ॥ चर्_1,27.57
हिता व्यायामनित्येभ्यो नरा दीप्ताग्नयश्च ये ।
प्रसहानां विशेषेण मांसं मांसाशिनां भिषक् ॥ चर्_1,27.58
जीर्णार्शोग्रहणीदोषशोषार्तानां प्रयोजयेत् ।
लावाद्यो वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः ॥ चर्_1,27.59
लघवः शीतमधुराः सकषाया हिता नृणाम् ।
पित्तोत्तरे वातमध्ये संनिपाते कफानुगे ॥ चर्_1,27.60
विष्किरा वर्तकाद्यास्तु प्रसहाल्पान्तरा गुणैः ।
[{आयुर्वेददीपिका}
प्रसहा द्विविधा मांसादा व्याघ्रश्येनादयः तथा अमांसादाश्च गवादयः तेन मांसादानां विशेषमाह प्रसहानाम् इत्यादि ॥ 1
जीर्णत्वेनार्शःप्रभृतीनां चिरानुबन्धं दर्शयति ॥ 2
प्रतुदा इत्यत्र तथा जाङ्गला इत्यत्र चकारो लुप्तनिर्दिष्टः ॥ 3
कफानुगे इति छेदः ॥ 4]
नातिशीतगुरुस्निग्धं मांसम् आजम् अदोषलम् ॥ चर्_1,27.61
शरीरधातुसामान्याद् अनभिष्यन्दि बृंहणम् ।
मांसं मधुरशीतत्वाद् गुरु बृंहणमाविकम् ॥ चर्_1,27.62
योनाव् अजाविके मिश्रगोचरत्वादनिश्चिते ।
[{आयुर्वेददीपिका}
शरीरधातुसामान्यादिति मनुष्यमांससमानत्वात् ॥ 1
एतेन शीतगुरुस्निग्धत्वेन युक्तम् अप्याजमांसं शरीरधातुसाम्यात् कफं न करोतीत्युक्तं भवति ॥ 2
आविकं मांसं मधुरशीतत्वेन पित्तहरमपि बोद्धव्यम् अत एव शरद्विधाव् अप्युक्तम् उरभ्रशरभान् इति ॥ 3
रक्तपित्तनिदाने तु वराहमहिषेत्यादिना द्रव्यान्तरसंयुक्तस्यैवाविकमांसस्य रक्तपित्तकर्तृत्वं ज्ञेयम् ॥ 4
योनाव् इति प्रसहाद्यष्टविधजातौ ॥ 5
मिश्रगोचरत्वादिति कदाचिदनूपसेवनात् कदाचिद् धन्वसेवनात् कदाचिद् उभयसेवनाद् अजाव्योर् अनिश्चितयोनित्वम् इत्यर्थः ॥ 6
अत्र अनिश्चिते इति योनिविशेषणं किंवा अजा च अवी च एते अनिश्चिते ॥ 7
ननु यद्येवं तदा तित्तिरिरपि धन्वानूपसेवनान्न विष्किरगणे पठनीयः ॥ 8
नैवं तित्तिरिजातिविशेषस्य धन्वानूपयोर् नियमेन निषेवणाद् गुणनियमः पार्यते कर्तुम् अव्यजयोस्तु नियमोऽयं नास्ति यतः केचिदजावी धन्वमात्रचरे केचिच्चानूपमात्रचरे केचिच्चोभयमात्रचरे तेन तयोर् नियमचरकृतो योनिभेदः कर्तुं न पार्यते ॥ 9]
सामान्येनोपदिष्टानां मांसानां स्वगुणैः पृथक् ॥ चर्_1,27.63
केषांचिद् गुणवैशेष्याद् विशेष उपदेक्ष्यते ।
दर्शनश्रोत्रमेधाग्निवयोवर्णस्वरायुषाम् ॥ चर्_1,27.64
बर्ही हिततमो बल्यो वातघ्नो मांसशुक्रलः ।
गुरूष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः ॥ चर्_1,27.65
बृंहणाः शुक्रलाश्चोक्ता हंसा मारुतनाशनाः ।
स्निग्धाश्चोष्णाश्चवृष्याश् च बृंहणाः स्वरबोधनाः ॥ चर्_1,27.66
बल्याः परं वातहराः स्वेदनाश्चरणायुधाः ।
गुरूष्णो मधुरो नातिधन्वानूपनिषेवणात् ॥ चर्_1,27.67
तित्तिरिः संजयेच्छीघ्रं त्रीन् दोषाननिलोल्बणान् ।
पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः ॥ चर्_1,27.68
मन्दवातेषु शस्यन्ते शैत्यमाधुर्यलाघवात् ।
लावाः कषायमधुरा लघवोऽग्निविवर्धनाः ॥ चर्_1,27.69
संनिपातप्रशमनाः कटुकाश्च विपाकतः ।
गोधा विपाके मधुरा कषायकटुका रसे ॥ चर्_1,27.70
वातपित्तप्रशमनी बृंहणी बलवर्धनी ।
शल्लको मधुराम्लश्च विपाके कटुकः स्मृतः ॥ चर्_1,27.71
वातपित्तकफघ्नश्च कासश्वासहरस्तथा ।
कषायविशदाः शीता रक्तपित्तनिबर्हणाः ॥ चर्_1,27.72
विपाके मधुराश्चैव कपोता गृहवासिनः ।
तेभ्यो लघुतराः किंचित्कपोता वनवासिनः ॥ चर्_1,27.73
शीताः संग्राहिणश्चैव स्वल्पमूत्रकराश्च ते ।
शुकमांसं कषायाम्लं विपाके रूक्षशीतलम् ॥ चर्_1,27.74
शोषकासक्षयहितं संग्राहि लघु दीपनम् ।
चटका मधुराः स्निग्धा बलशुक्रविवर्धनाः ॥ चर्_1,27.75
संनिपातप्रशमनाः शमना मारुतस्य च ।
कषायो विशदो रूक्षः शीतः पाके कटुर्लघुः ॥ चर्_1,27.76
शशः स्वादुः प्रशस्तश्च संनिपाते ऽनिलावरे ।
मधुरा मधुराः पाके त्रिदोषशमनाः शिवाः ॥ चर्_1,27.77
लघवो बद्धविण्मूत्राः शीताश्चैणाः प्रकीर्तिताः ।
स्नेहनं बृंहणं वृष्यं श्रमघ्नमनिलापहम् ॥ चर्_1,27.78
वराहपिशितं बल्यं रोचनं स्वेदनं गुरु ।
गव्यं केवलवातेषु पीनसे विषमज्वरे ॥ चर्_1,27.79
शुष्ककासश्रमात्यग्निमांसक्षयहितं च तत् ।
स्निग्धोष्णं मधुरं वृष्यं माहिषं गुरु तर्पणम् ॥ चर्_1,27.80
दार्ढ्यं बृहत्त्वमुत्साहं स्वप्नं च जनयत्यपि ।
गुरूष्णा मधुरा बल्या बृंहणाः पवनापहाः ॥ चर्_1,27.81
मत्स्याः स्निग्धाश्च वृष्याश्च बहुदोषाः प्रकीर्तिताः ।
शैवालशष्पभोजित्वात्स्वप्नस्य च विवर्जनात् ॥ चर्_1,27.82
रोहितो दीपनीयश्च लघुपाको महाबलः ।
वर्ण्यो वातहरो वृष्यश्चक्षुष्यो बलवर्धनः ॥ चर्_1,27.83
मेधास्मृतिकरः पथ्यः शोषघ्नः कूर्म उच्यते ।
खड्गमांसम् अभिष्यन्दि बलकृन्मधुरं स्मृतम् ॥ चर्_1,27.84
स्नेहनं बृंहणं वर्ण्यं श्रमघ्नमनिलापहम् ।
धार्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि ॥ चर्_1,27.85
चटकानां च यानि स्युर् अण्डानि च हितानि च ।
क्षीणरेतःसु कासेषु हृद्रोगेषु क्षतेषु च ॥ चर्_1,27.86
मधुराण्यविदाहीनि सद्योबलकराणि च ।
शरीरबृंहणे नान्यत्खाद्यं मांसाद्विशिष्यते ॥ चर्_1,27.87
इति वर्गस्तृतीयोऽयं मांसानां परिकीर्तितः ।
[{आयुर्वेददीपिका}
केषांचिदिति वक्ष्यमाणमयूरादीनाम् ॥ 1
गुणवैशेष्यादिति विशिष्टगुणशालित्वात् ॥ 2
मयूरस्य गुरुत्वस्निग्धत्वं वर्तकादिगणपठितत्वेनैव लब्धं सत् पुनरुच्यते विशेषार्थम् ॥ 3
एवमन्यत्रापि गणोक्तगुणकथनेन लब्धस्य पुनः कथने व्याख्येयम् ॥ 4
चरणायुधः कुक्कुटः ॥ 5
धन्वानूपनिषेवणादिति हेतुकथनेन य एव धन्वानूपनिषेवी तित्तिरिः स एव यथोक्तगुण इति ज्ञेयम् ॥ 6
एवमन्ये ऽपि ये गवादयो धन्वानूपनिषेविणस् ते ऽपि तित्तिरिसमानगुणा भवन्ति तित्तिरिस्तु विशेषेणेति तित्तिरिः साक्षादुक्तः ॥ 7
किंवा तित्तिरेरेव एवंगुणत्वे धन्वानूपनिषेवणं हेतुः नान्यत्र गवादेर् अनूपदेशादेर् इति ज्ञेयम् ॥ 8
कपोता गृहवासिन इति पारावताः ॥ 9
चटका मधुरा इत्यादि केचित् पठन्त्येव ये तु न पठन्ति तेषां मते चटकस्य प्रतुदसामान्यगुणलब्धं वृष्यत्वं तृप्तिं चटकमांसानां गत्वा यो ऽनुपिबेत् पयः इत्यादिवृष्यप्रयोगादेव लभ्यते ॥ 10
मयूरादीनां तु बहवो गुणा गणोक्तगुणाधिका इति पृथक् पाठः कृतः ॥ 11
मांसं बृंहणानाम् इत्यनेनैवाग्र्याधिकारवचनेन मांसस्य बृंहणत्वे लब्धे शरीरबृंहणे नान्य इत्यादिवचनं प्रकरणप्राप्तत्वेन तथा तस्यैवार्थस्य दार्ढ्यार्थं च ज्ञेयम् ॥ 12]
पाठाशुषाशटीशाकं वास्तुकं सुनिषण्णकम् ॥ चर्_1,27.88
विद्याद्ग्राहि त्रिदोषघ्नं भिन्नवर्चस्तु वास्तुकम् ।
त्रिदोषशमनी वृष्या काकमाची रसायनी ॥ चर्_1,27.89
नात्युष्णशीतवीर्या च भेदिनी कुष्ठनाशिनी ।
राजक्षवकशाकं तु त्रिदोषशमनं लघु ॥ चर्_1,27.90
ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम् ।
कालशाकं तु कटुकं दीपनं गरशोफजित् ॥ चर्_1,27.91
लघूष्णं वातलं रूक्षं कालायं शाकमुच्यते ।
दीपनी चोष्णवीर्या च ग्राहिणी कफमारुते ॥ चर्_1,27.92
प्रशस्यतेऽम्लचाङ्गेरी ग्रहण्यर्शोहिता च सा ।
मधुरा मधुरा पाके भेदिनी श्लेष्मवर्धनी ॥ चर्_1,27.93
वृष्या स्निग्धा च शीता च मदघ्नी चाप्युपोदिका ।
रूक्षो मदविषघ्नश्च प्रशस्तो रक्तपित्तिनाम् ॥ चर्_1,27.94
मधुरो मधुरः पाके शीतलस्तण्डुलीयकः ।
मण्डूकपर्णी वेत्राग्रं कुचेला वनतिक्तकम् ॥ चर्_1,27.95
कर्कोटकावल्गुजकौ पटोलं शकुलादनी ।
वृषपुष्पाणि शार्ङ्गेष्टा केम्बूकं सकठिल्लकम् ॥ चर्_1,27.96
नाडी कलायं गोजिह्वा वार्ताकं तिलपर्णिका ।
कौलकं कार्कशं नैम्बं शाकं पार्पटकं च यत् ॥ चर्_1,27.97
कफपित्तहरं तिक्तं शीतं कटु विपच्यते ।
[{आयुर्वेददीपिका}
शाकानामपि व्यञ्जनत्वेनानन्तरमुपदेशः ॥ 1
शुषा कासमर्दः ॥ 2
शटी स्वनामप्रसिद्धा ॥ 3
वास्तुकं टङ्कवास्तुकम् ॥ 4
नात्युष्णशीतवीर्येति नोष्णत्वं प्रकर्षप्राप्तमस्या नापि शीतत्वम् इत्यर्थः ॥ 5
यत्तु सुश्रुते तिक्ता काकमाची वातं शमयति उष्णवीर्यत्वात् इत्युक्तं तद्वीर्यवादिमतेन अत एव द्रव्यगुणे सुश्रुतेऽपि नात्युष्णशीता इत्येवमेव पठितम् ॥ 6
राजक्षवकः दुग्धिका ॥ 7
कालशाकं कालिया इति ख्यातं कालाख्यम् इति कालशाकम् एवोच्यते पुनः अन्ये तु कालायम् इति पठन्ति ॥ 8
मण्डूकपर्णी मणिमणीति ख्याता ॥ 9
कुचेला अकर्णविद्धिकाभेदः ॥ 10
वनतिक्तकं पथ्यसुन्दरम् ॥ 11
अवल्गुजो वाल्गुजी ॥ 12
शकुलादनी कटुरोहिणी ॥ 13
शार्ङ्गेष्टा काकतिक्ता ॥ 14
कठिल्लकः पुनर्नवा ॥ 15
नाडी नाडीचः ॥ 16
कलायो वर्तुलकलायः ॥ 17
तिलपर्णिका हुलहुलिका ॥ 18
गोजिह्वा दार्विपत्त्रिका ॥ 19
कुलकः कारवेल्लकः केचित् तु कुलकं पटोलभेदम् आहुः ॥ 20
कर्कशः स्वल्पकर्कोटकः ॥ 21]
सर्वाणि सूप्यशाकानि फञ्जी चिल्ली कुतुम्बकः ॥ चर्_1,27.98
आलुकानि च सर्वाणि सपत्त्राणि कुटिञ्जरम् ।
शणशाल्मलिपुष्पाणि कर्बुदारः सुवर्चला ॥ चर्_1,27.99
निष्पावः कोविदारश्च पत्तूरश् चुच्चुपर्णिका ।
कुमारजीवो लोट्टाकः पालङ्क्या मारिषस् तथा ॥ चर्_1,27.100
कलम्बनालिकासूर्यः कुसुम्भवृकधूमकौ ।
लक्ष्मणा च प्रपुन्नाटो नलिनीका कुठेरकः ॥ चर्_1,27.101
लोणिका यवशाकं च कुष्माण्डकम् अवल्गुजम् यातुकः शालकल्याणी त्रिपर्णी पीलुपर्णिका ॥ चर्_1,27.102
शाकं गुरु च रूक्षं च प्रायो विष्टभ्य जीर्यति ।
मधुरं शीतवीर्यं च पुरीषस्य च भेदनम् ॥ चर्_1,27.103
स्विन्नं निष्पीडितरसं स्नेहाढ्यं तत् प्रशस्यते ।
शणस्य कोविदारस्य कर्बुदारस्य शाल्मलेः ॥ चर्_1,27.104
पुष्पं ग्राहि प्रशस्तं च रक्तपित्ते विशेषतः ।
न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः ॥ चर्_1,27.105
कषायाः स्तम्भनाः शीता हिताः पित्तातिसारिणाम् ।
वायुं वत्सादनी हन्यात्कफं गण्डीरचित्रकौ ॥ चर्_1,27.106
श्रेयसी बिल्वपर्णी च बिल्वपत्त्रं तु वातनुत् ।
भण्डी शतावरीशाकं बला जीवन्तिकं च यत् ॥ चर्_1,27.107
पर्वण्याः पर्वपुष्प्याश्च वातपित्तहरं स्मृतम् ।
लघु भिन्नशकृत्तिक्तं लाङ्गलक्युरुवूकयोः ॥ चर्_1,27.108
तिलवेतसशाकं च शाकं पञ्चाङ्गुलस्य च ।
वातलं कटुतिक्ताम्लमधोमार्गप्रवर्तनम् ॥ चर्_1,27.109
रूक्षाम्लमुष्णं कौसुम्भं कफघ्नं पित्तवर्धनम् ।
त्रपुसैर्वारुकं स्वादु गुरु विष्टम्भि शीतलम् ॥ चर्_1,27.110
मुखप्रियं च रूक्षं च मूत्रलं त्रपुसं त्व् अति ।
एर्वारुकं च सम्पक्वं दाहतृष्णाक्लमार्तिनुत् ॥ चर्_1,27.111
वर्चोभेदीन्यलाबूनि रूक्षशीतगुरूणि च ।
चिर्भटैर्वारुके तद्वद्वर्चोभेदहिते तु ते ॥ चर्_1,27.112
सक्षारं पक्वकूष्माण्डं मधुराम्लं तथा लघु ।
सृष्टमूत्रपुरीषं च सर्वदोषनिबर्हणम् ॥ चर्_1,27.113
[{आयुर्वेददीपिका}
सूप्यशाकानि माषपर्ण्यादीनि ॥ 1
फञ्जी ब्राह्मणयष्टिका ॥ 2
चिल्ली गौडवास्तुकः ॥ 3
मूल पाठ: Carakasaṃhitā-parts with the Āyurvedadīpikā · Edition: J. Trikamji Varanasi: Chaukhambha Sanskrit Sansthan, 1994 (Kashi Sanskrit Series, 228) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0