भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.7

8.7.1

छुप्भ्_8,6.6 तदेतस्मिन्यथोक्तेर्ऽथ एष श्लोको मन्त्रो भवति ।
शतं चैका चैकोत्तरशतं नाड्यो हृदयस्य मांसपिण्डभूतस्य संबन्धिन्यः प्रधानतो भवन्ति ।
आनन्त्याद्देहनाडीनाम् ।
तासामेका मूर्धानमभिनिःसृता विनिर्गता तयोर्ध्वमायन्गच्छन्नमृतत्वममृतभावमेति विष्वङ्नानागतयस्तिर्यग्विसर्पिण्य ऊर्ध्वगाश्चान्या नाड्यो भवन्ति संसारगमनद्वारभूता न त्वमृतत्वाय किं तर्ह्यत्कमण एवोत्क्रान्त्यर्थमेव भवन्तीत्यर्थः ।
द्विरभ्यासः प्रकरणसमाप्त्यर्थः ॥6॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य षष्ठः खण्डः
=======================================================================
स्तर्त् छुप् 8,7.1
य आत्मा अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः ।
स सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानातीति ह प्रजापतिर् उवाच

8.7.2

छुप्भ्_8,7.1 "अथ य एष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म"इत्युक्तम् ।
तत्र को ऽसौ संप्रसादः, कथं वा तस्याधिगमो यथा सो ऽस्माच्छरीरात्सविजिज्ञासितव्य इति चैष नियमविधिरेव नापूर्वविधिः ।
एवमन्वेष्टव्यो विजिज्ञासितव्य इत्यर्थः ।
दृष्टार्थत्वादन्वेषणविजिज्ञासनयोः ।
दृष्टार्थत्वं च दर्शयिष्यति नाहमात्र भोग्यं पश्यामीत्यनेनासकृत् ।
पररूपेण च देहादिधर्भैरवगन्यमानस्याऽत्मनः स्वरूपाधिगमे विपरीताधिगमनिवृत्तिर्दृष्टं फलमिति नियमार्थतैवास्य विधेर्युक्ता न त्वाग्निहोत्रादीनामिबापूर्वविधित्वमिह संभवति ॥1 ॥
स्तर्त् छुप् 8,7.2
तद् धोभये देवासुरा अनुबुबुधिरे ।
ते होचुर् हन्त तम् आत्मआनम् अन्वेच्छामो यम् आत्मानम् अन्विष्य सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् इति ।
इन्द्रो हैव देवानाम् अभिप्रवव्राज विरोचनो ऽसुराणाम् ।
तौ हासंविदानाव् एव समित्पाणी प्रजापतिसकाशम् आजग्मतुः

8.7.3

छुप्भ्_8,7.2 तद्धोभय इत्याद्याख्यायिकाप्रयोजनमुक्तम् ।
तद्ध किल प्रजापतेर्वचनमुभये देवासुरा देवाश्चासुराश्च देवासुरा अनु परम्परागतं स्वकर्णगोचरापन्नमनुबुबुधिरे ऽनुबुद्धवन्तः ।
ते चैतत्प्रजापतिवचो बुद्ध्वा किमकुर्वन्नित्युच्यते-ते होचुरुक्तवन्तो ऽन्योन्यं देवाः स्वपरिषद्यसुराश्च हन्त यद्यनुमतिर्भवतां प्रजापतिनोक्तं तमात्मानमन्विच्छामो ऽन्वेषणं कुर्मो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वाश्च कामानित्युक्त्वेन्द्रो हैव राजैव स्वयं देवानामितरान्देवांश्च भोगपरिच्छदं च सर्वं स्थापयित्वा शरीरमात्रेणैव प्रजापतिं प्रत्यभिप्रवव्राज प्रगतवांस्तथा विरोचनो ऽसुराणाम् ।
विनयेन गुरवो ऽभिगन्तव्या इत्येतद्दर्शयति ।
त्रैलोक्यराज्याच्च गुरुतरा विद्यते ।
यतो देवासुरराजौ महार्हभोगार्है सन्तौ तथा गुरुमभ्युपगतवन्तौ ।
तौ ह किलासंविदानावेवान्योन्यं संविदमकुर्वाणौ विद्याफलं प्रत्यन्योन्यमीर्ष्यां दर्शयन्तौ समित्पाणी समिद्भारहस्तौ प्रजापतिसकाशमाजग्मतुरागतवन्तौ ॥2 ॥
स्तर्त् छुप् 8,7.3
तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम् ऊषतुः ।
तौ ह प्रजापतिर् उवाच ।
किम् इच्छन्ताव् अवास्तम् इति ।
तौ होचतुर् य आत्मा अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः ।
स सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानातीति भगवतो वचो वेदयन्ते ।
तम् इच्छन्ताव् अवास्तम् इति

8.7.4

छुप्भ्_8,7.3 तौ ह गत्वा द्वात्रिंशतं वर्षाणि शुश्रूषापरौ भूत्वा ब्रह्मचर्यमूषतुरुषितवन्तौ ।
अभिप्रायज्ञः प्रजापतिस्तावुवाच किमिच्छन्तौ किं प्रयोजनमभिप्रेत्येच्छन्ताववास्तमुषितवन्तौ युवामितीत्युक्तौ तौ होचतुः ।
य आत्मेत्यादि भगवतो वचो वेदयन्ते शिष्टा अतस्तमात्मानं ज्ञातुमिच्छन्ताववास्तमिति ।
यद्यपि प्राक्प्रजापतेः समीपागमनादन्योन्यमीर्ष्यायुक्तावबूतां तथापि विद्याप्राप्तिप्रयोजनगौरवात्त्यक्तरागद्वेषमोहेर्ष्यादि दोषावेव भूत्वोषतुर्ब्रह्मचर्यं प्रजापतौ ।
तेनेदं प्रख्यापितमात्मविद्यागौरवम् ॥3 ॥
स्तर्त् छुप् 8,7.4
तौ ह प्रजापतिर् उवाच य एषो ऽक्षिणि पुरुषो दृष्यत एष आत्मेति होवाच ।
एतद् अमृतम् अभयम् एतद् ब्रह्मेति ।
अथ यो ऽयं भगवो ऽप्सु परिख्यायते यश् चायम् आदर्शे कतम एष इति ।
एष उ एवैषु सर्वेष्वन्न्तेषु परिख्यायत इति होवाच

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc