भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.8

8.8.1

छुप्भ्_8,7.4 तावेवं तपस्विनौ शुद्धकल्मषौ योग्यावुपलभ्य प्रजापतिरुवाचह-य एषो ऽक्षिणि पुरुषो निवृत्तचक्षुर्भिर्मृदितकषायैर्दृश्यते योगिभिर्द्रष्टा, एष आत्मापहतपाप्मादिगुणो यमवोचं पुराहं यद्विज्ञानात्सर्वलोककामावाप्तिरेतदमृतं भमाख्यमत एवाभयमत एव ब्रह्म वृद्धतममिति ।
अथैतत्प्रजापतिनोक्तमक्षिणि पुरुषो दृश्यत इति वचः श्रुत्वा छायारूपं पुरुषं जगृहतुः ।
गृहीत्वा च दृढीकरणाय प्रजापतिं पृष्टवन्तौ ।
अथ यो ऽयं हे भगवो ऽप्सु परिख्यायते परिसमन्ताज्ज्ञायते यश्चायमादर्श आत्मनः प्रतिबिम्बाकारः परिख्यायते खड्गादौ च कतम एष एषां भगवद्भिरुक्तः किंवैक एव सर्वेष्विति ।
एवं पृष्टः प्रजापतिरुवाच-एष उ एव यश्चक्षुषि द्रष्टा मयोक्त इति ।
एतन्मनसि कृत्वैषु सर्वेष्वन्तेषु मध्येषु परिख्यायत इति होवाच ।
ननु कथं युक्तं शिष्योर्विपरीतग्रहणमनुज्ञातुं प्रजापतेर्विगतदोषस्याऽचार्यस्य सतः ।
सत्यमेव, नानुज्ञातम् ।
कथम् ।
आत्मन्यध्यारोपितपाण्डित्यमहत्त्वबोद्धृत्वौ हीन्द्रविरोचनौ तथैव च प्रथितौ लोके ।
तौ यदि प्रजापतिना मूढौ युवां विपरीतग्राहिणावित्युक्तौ स्यातां ततस्तस्तयोश्चित्ते दुःखं स्यात्तज्जनिताच्च चित्तावसादात्पुनः प्रश्नश्रवणग्रहणावधारणं प्रत्युत्साहविधातः स्यादतो रक्षणीयौ शिष्याविति मन्यते प्रजापतिः ।
गृह्णीतां तावत्तदुदशरावदृष्टान्तेनापनेष्यामीति च ।
ननु न युक्तमेष उ एवेत्यनृतं वक्तुम् ।
न चानृतमुक्तम् ।
कथम् ।
आत्मनोक्तो ऽक्षिपुरुषो मनसि संनिहिततरः शिष्यगृहीताच्छायात्मनः सर्वेषां चाभ्यन्तरः"सर्वान्तरः"इति श्रुतेः ।
तमेवावोचदेष उ एवेत्यतो नानृतमुक्तं प्रजापतिना ।
तथा च तयोर्विपरीतग्रहणनिवृत्त्यर्थं ह्याह ॥4॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य सप्तमः खण्डः
=======================================================================
स्तर्त् छुप् 8,8.1
उदशराव आत्मानम् अवेक्ष्य यद् आत्मनो न विजानीथस् तन् मे प्रब्रूतम् इति ।
तौ होदशरावे ऽवेक्षां चक्राते ।
तौ ह प्रजापतिर् उवाच किं पश्यथ इति ।
तौ होचतुः सर्वम् एवेदम् आवां भगव आत्मानं पश्याव आ लोमभ्यः आ नखेभ्यः प्रतिरूपम् इति

8.8.2

छुप्भ्_8,8.1 उदशराव उदकपूर्णे शरावादावात्मानमवेक्ष्यानन्तरं यत्तत्राऽत्मानं पश्यन्तौ न विजानीथस्तन्मे मम प्रब्रूतमाचक्षीयाथामित्युक्तौ तौ ह तथैवोदशरावे ऽवेक्षाञ्चक्राते ऽवेक्षणं चक्रतुः ।
तथा कृतवन्तौ तौ ह प्रजापतिरुवाच किं पश्यथ इति ।
ननु तन्मे प्रब्रूतमित्युक्ताभ्यामुदशरावे ऽवेक्षणं कृत्वा प्रजापतये न निवेदितमिदमावाभ्यां न विदितमित्यनिवेदिते चाज्ञानहेतौ ह प्रजापतिरुवाच किं पश्यथ इति तत्र को ऽभिप्राय इति ।
उच्यते-नैव तयोरिदमावयोरविदितमित्याशङ्काभूच्छायात्मन्यात्मप्रत्ययो निश्चित एवाऽसीत् ।
येन वक्ष्यति तौ ह शान्तहृदयौ प्रवव्रजतुरिति ।
न ह्यनिश्चिते ऽभिप्रेतार्थे प्रशान्तहृदयत्वमुपपद्यते ।
तेन नोचतुरिदमावाभ्यामविदितमिति ।
विपरीतग्राहिणौ च शिष्यावनुपेक्षणीयाविति स्वयमेष पप्रच्छ किं पश्यथ इति, विपरीतनिश्चयापनयाय च वक्ष्यति साध्वलकृतावित्येवमादि ।
तौ होचतुः-सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति, यथैवाऽवां हे भगवो लोमनखादिमन्तौ स्व एवमेवेदं लोमनखादिसहितमावयोः प्रतिरूपमुदशरावे पश्याव इति ॥1 ॥
स्तर्त् छुप् 8,8.2
तौ ह प्रजापतिर् उवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावे ऽवेक्षेथाम् इति ।
तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावे ऽवेक्षां चक्राते ।
तौ ह प्रजापतिर् उवाच किं पश्यथ इति

8.8.3

छुप्भ्_8,8.2 तौ ह पुनः प्रजापतिरुवाच च्छायात्मनिश्चयापनयाय, साध्वलङ्कृतौ यथा स्वगृहे सुवसनौ महार्हवस्त्रपरिधानौ परिष्कृतौ छिन्नलोमनखौ च भूत्वोदशरावे तयोश्छायात्मग्रहो ऽपनीतः स्यात् ।
साध्वलङ्कारसुवसनादीनामागन्तुकानां छायाकरत्वमुदशरावे यथा शरीरसंबद्धानामेवं शरीरस्यापि च्छायाकरत्वं पूर्वं बभूवेति गम्यते ।
शरीरैकदेशानां च लोमनखादीनां नित्यत्वेनाभिप्रेतानामखण्डितानां छायाकरत्वं पूर्वमासीत् ।
छिन्नेषु च तेषु नैव लोमनखादिच्छाया दृश्यते ऽतो लोमनखादिवच्छरीरस्याप्यागमापायित्वं सिद्धमित्युदशरावादौ दृश्यमानस्य तन्निमित्तस्य च देहस्यानात्मत्वं सिद्धम् उदशारावादौ छायाकरत्वाद्देहसंबद्धालङ्कारादिवत् ।
न केवलमेतावदेतेन यावत्किञ्चिदात्मीयत्वाभिमतं सुखदुःखरागद्वेषमोहादि च कादाचित्कत्वान्नखलोमादिवदनात्मेति प्रत्येतव्यम् ।
एवमशेषमिथ्याग्रहापनयनिमित्ते साध्वलङ्कारादिदृष्टान्ते प्रजापतिनोक्ते श्रुत्वा तथा कृतवतोरपि च्छायात्मविपरीतग्रहो नापजगाम यस्मात्तस्मात्स्वदोषेणैव केनचित्प्रतिबद्धविवेकविज्ञानाविन्द्रविरोचनावभूतामित् इ गम्यते ।
तौ पूर्ववदेव दृढनिश्चयौ पप्रच्छ किं पश्यथ इति ॥2 ॥
स्तर्त् छुप् 8,8.3
तौ होचतुर् यथैवेदम् आवां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवम् एवेमौ भगवः साध्वल्लंकृतौ सुवसनौ परिष्कृताव् इति ।
एष आत्मेति होवाच ।
एतद् अमृतम् अभयम् एतद् ब्रह्मेति ।
तौ ह शान्तहृदयौ प्रवव्रजतुः

8.8.4

छुप्भ्_8,8.3 तौ तथैव प्रतिपन्नो यथैवेदमिति पूर्ववद्यथा साध्वलङ्कारादिविशिष्टावावां स्व एवमेवेमौ छायात्मानाविति सुतरां विपरीतनिश्चयौ बभूवतुः ।
यस्याऽत्मनो लक्षणं य आत्मापहतपाप्मेत्युक्तवा पुनस्तद्विशेषमन्विष्यमाणयोर्य एषो ऽक्षिणि पुरुषो दृश्यत इति साक्षादात्मनि निर्दिष्टे तद्विपरीतग्रहापनयायोदशरावसाध्वलङ्कारदृष्टान्ते ऽप्यभिहित आत्मस्वरूपबोधाद्विपरीतग्रहो नापगतः ।
अतः स्वदोषेण केनचित्प्रतिबद्धविवेकविज्ञानसामर्थ्याविति मत्वा यथाभिप्रेतमेवाऽत्मानं मनसि निधायैष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति प्रजापतिः पूर्ववत् ।
न तु तदभिप्रेतमात्मानम् ।
य आत्मेत्याद्यात्मलक्षणश्रवणेनाक्षिपुरुषश्रुत्या चोदशरावाद्युपपत्त्या च संस्कृतौ तावत् ।
मद्वचनं सर्वं पुनः पुनः स्मरतोः प्रतिबन्धक्षयाच्च स्वयमेवाऽत्मविषये विवेको भविष्यतीति मन्वानः पुनर्ब्रह्मचर्यादेशे च तयोश्चित्तदुखोत्पत्तिं परिजिहीर्षन्कृतार्थबुद्धितया गच्छन्तावप्युपेक्षितवान्प्रजापतिः ।
तौ हेन्द्रविरोचनौ शान्तहृदयौ तुष्टहृदयौ कृतार्थबुद्धी इत्यर्थः ।
न तु शम एव, शमश्चेत्तयोर्जातो विपरीतग्रहो विगतो ऽभविष्यत्प्रवव्रजतुर्गतवन्तौ ॥3 ॥
स्तर्त् छुप् 8,8.4
तौ हान्वीक्ष्य प्रजापतिर् उवाच ।
अनुपलभ्यात्मानम् अननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वा असुरा वा ते पराभविष्यन्तीति ।
स ह शान्तहृदय एव विरोचनो ऽसुराञ् जगाम ।
तेभ्यो हैताम् उपनिषदं प्रोवाच आत्मैवेह महय्य आत्मा परिचर्यः ।
आत्मानम् एवेह महयन्न् आत्मानं परिचरन्न् उभौ लोकाव् आप्नोतीमं चामुं चेति

8.8.5

छुप्भ्_8,8.4 एवं तयोर्गतयोरिन्द्रविरोचनयो राज्ञोर्भोगासक्तयोर्यथोक्तविस्मरणं स्यादित्याशङ्क्याप्रत्यक्षं प्रत्यक्षवचनेन च चित्तदुःखं परिजिहीर्षुस्तौ दूरं गच्छन्तावन्वीक्ष्य य आत्मापहतपाप्मेत्यादिवचनवदेतदप्यनयोः श्रवणगोचरत्वमेष्यतीति मत्वोवाच प्रजापतिः ।
अनुपलभ्य यथोक्तलक्षणमात्मानमननुविद्य स्वात्मप्रत्यक्षं चाकृत्वा विपरीतनिश्चयौ च भूत्वेन्द्रविरोचनावेतौ व्रजतो गच्छेयाताम् ।
अतो यतरे देवा वासुरा वा किं विशेषितेनैतदुपनिषद आभ्यां या गृहीताऽत्मविद्या सेयमुपनिषद्येषां देवानामसुराणां वा त एतदुपनिषद एवंविज्ञाना एतन्निश्चया भविष्यन्तीत्यर्थः ।
ते किं, पराभविष्यन्ति श्रेयोमार्गात्पराभूता बहिर्भूता विनष्टा भविष्यन्तीत्यर्थः ।
स्वगृहं गच्छतोः सुरासुरराजयोर्यो ऽसुरराजः स ह शान्तहृदय एव सन्विरोचनो ऽसुराञ्जगाम ।
गत्वा च तेभ्यो ऽसुरेभ्यः शरीरात्मबुद्धिर्योपनिषत्तामेतामुपनिषदं प्रोवाचोक्तवान् ।
देहमात्रमेवाऽत्मा पित्रोक्त इति ।
तस्मादात्मैव देह इह लोक महय्यः पूजनीयस्तथा परिचर्यः परिचरणीयस्तथाऽत्मानमेवेह लोके देहं महयन्परिचरंश्चोभौ लोकाववाप्नोतीमं चामुं च ।
इहलोकपरलोकयोरेव सर्वे लोकाः कामाश्चान्तर्भवन्तीति राज्ञो ऽभिप्रायः ॥4 ॥
स्तर्त् छुप् 8,8.5
तस्माद् अप्यद्द्येहाददानम् अश्रद्दधानम् अयजमानम् आहुर् आसुरो बतेति ।
असुराणां ह्य् एषोपनिषत् ।
प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति संस्कुर्वन्ति ।
एतेन ह्य् अम्मुं लोकं जेष्यन्तो मन्यन्ते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc