छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.6
छुप्भ्_8,5.4 तत्तत्र हि ब्रह्मलोक एतावर्णवौ यावरण्याख्यावुक्तौ ब्रह्मचर्येण साधनेनानुविन्दन्ति ये तेषामेवैष यो व्याख्यातो ब्रह्मलोकस्तेषां च ब्रह्मचर्यसाधवनतां ब्रह्मविदां सर्वेषु लोकेषु कामचारो भवति ।
नान्येषामब्रह्मचर्यपराणां बाह्यविषयासक्तबुद्धीनां कदाचिदपीत्यर्थः ।
नन्वत्र त्वमिन्द्रस्त्वं यमस्त्वं वरुण इत्यादिभिर्यथा कश्चित्स्तूयते महार्ह एवमिष्टादिभिः शब्दैर्न स्त्र्यादिविषयतृष्णानिवृत्तिमात्रं स्तुत्यर्हं किं तर्हि ज्ञानस्य मोक्षसाधनत्वात्तदेवेष्टादिभिः स्तूयत इति केचित् ।
न ।
स्त्र्यादिबाह्यविषयतृष्णापहृतचित्तानां प्रत्यगात्मविवेकविज्ञानानुपपत्तेः ।
"पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्"इत्यादिश्रुतिस्मृतिशतेभ्यः ।
ज्ञानसहकारिकारणं स्त्र्यादिविषयतृष्णानिवृत्तिसाधनं विधातव्यमेवेति युक्तैव तत्स्तुतिः ।
ननु च यज्ञादिभिः स्तुतं ब्रह्मचर्यमिति यज्ञादीनां पुरुषार्थसाधनत्वं गम्यते ।
सत्यं गम्यते ।
न त्विह ब्रह्मलोकं प्रति यज्ञादीनां साधनत्वमभिप्रेत्य यज्ञादिभिर्ब्रह्मचर्यं स्तूयते किं तर्हि तेषां प्रसिद्धं पुरुषार्थसाधनत्वमपेक्ष्य ।
यथेन्द्रादिभी राजा न तु यत्रेन्द्रादीनां व्यापारस्तत्रैव राज्ञ इति तद्वत् ।
य इमेर्ऽणवादयो ब्राह्मलौकिकाः संकल्पजाश्च पित्रादयो भोगास्ते किं पार्थिवा आप्याश्च यथेह लोके दृश्यन्ते तद्धदर्णववृक्षपूःस्वर्णमण्डपान्याहोस्विन्मानसप्रत्ययमात्राणीति ।
किञ्चातः, यदि पार्थिवा आप्याश्च स्थूलाः स्युर्हृद्याकाशे समाधानानुपपत्तिः ।
पुराणे च"मनोमयानि ब्रह्मलोके शरीरादीनी"ति वाक्यं विरुध्येत ।
"अशोकमहिमम्"इत्याद्याश्च श्रुतयः ।
ननु"समुद्राः सरितः सरांसि वाप्यः कूपा यज्ञा वेदा मन्त्रादयश्च मूर्तिमन्तो ब्रह्माणमुपतिष्ठन्त"इति मानसत्वै विरुध्येत पुराणस्मृतिः ।
न ।
मूर्तिमत्त्वे प्रसिद्धरूपाणामेव तत्र गमनानुपपत्तेः ।
तस्मात्प्रसिद्धमूर्तिव्यतिरेकेण सागरादीनां मूर्त्यन्तरं सागरादिभिरुपात्तं ब्रह्मलोकगन्तृ कल्पनायां यथाप्रसिद्धा एव मानस्य आकारवत्यः पुंस्त्र्याद्या मूर्तयो युक्ताः कल्पयितुं मानसदेहानुरूप्यसंबन्धोपपत्तेः ।
दृष्टा हि मानस्य एवाऽकारवत्यः पुंस्त्र्याद्या मूर्तयः स्वप्ने ।
ननु ता अनृता एव ।
त इमे सत्याः कामा इति श्रुतिस्तथा सति विरुध्येत ।
न ।
मानसप्रत्ययस्य सत्त्वोपपत्तेः ।
मानसा हि प्रत्ययाः स्रीपुरुषाद्याकाराः स्वप्ने दृश्यन्ते ।
ननु जाग्रद्वासनारूपाः स्वप्नदृश्या न तु तत्र स्त्र्यादयः स्वप्ने विद्यन्ते ।
अत्यल्पमिदमुच्यते ।
जाग्रद्विषया अपि मानसप्रत्ययाभिनिर्वृत्ता एव सदीक्षाभिनिर्वृत्ततेजो ऽबन्नमयत्वाज्जाग्रद्विषयाणाम् ।
संकल्पमूला हि लोका इति चोक्तम्"समकॢपतां द्यावापृथिवी"इत्यत्र ।
सर्वश्रुतिषु च प्रत्यगात्मन उत्पत्तिः प्रलयश्च तत्रैव स्थितिश्च"यथा वा अरा नाभौ"इत्यादिनोच्यते ।
तस्मान्मानसानां बाह्यानां च विषयाणामितरेतरकार्यकारणमिष्यत एव बीजाङ्कुरवत् ।
यद्यपि बाह्या एव मानसा मानसा एव च बाह्या नानृतत्वं तेषां कदाचिदपि स्वात्मनि भवति ।
ननु स्वप्ने दृष्टाः प्रतिबुद्धस्यानृता भवन्ति विषयाः ।
सत्यमेव ।
जाग्रद्बोधापेक्षं तु तदनृतत्वं न स्वतः ।
तथा स्वप्नबोधापेक्षं च जाग्रद्दृष्टविषयानृतत्वं न स्वतः ।
विशेषाकारमात्रं तु सर्वेषां मिथ्याप्रत्ययनिमित्तमिति वाचाऽरम्भणं विकारो नामधेयमनृतं त्रीणि रूपाणीत्येव सत्यम् ।
तान्यप्याकारविशेषतो ऽनृतं स्वतः सन्मात्ररूपतया सत्यम् प्राक्सदात्मप्रतिबोधात्स्वविषये ऽपि सर्वं स्त्यमेव स्वप्नदृश्या इवेति न कश्चिद्विरोधः ।
तस्मान्मानसा एव ब्राह्मलौकिका अरण्यादयः पित्रादयः कामाः ।
बाह्यविषयभोगवदशुद्धिरहितत्वाच्छुद्धसत्त्वसंकल्पजन्या इति निरतिशयसुखाः सत्याश्चेश्वराणां भवन्तीत्यर्थः ।
सत्सत्यात्मप्रतिबोधे ऽपि रज्ज्वामिव कल्पिताः सर्पादयः सदात्मस्वरूपतामेव प्रतिपद्यन्त इति सदात्मना सत्या एव भवन्ति ॥4॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य पञ्चमः खण्डः
=======================================================================
स्तर्त् छुप् 8,6.1
अथ या एता हृदयस्य नाड्यस् ताः पिङ्गलस्याणिम्नस् तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येति ।
असौ वादित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः
छुप्भ्_8,6.1 यस्तु हृदयपुण्डरीकगतं यथोक्तगुणविशिष्टं ब्रह्म ब्रह्मचर्यादिसाधनसंपन्नस्त्यक्तबाह्यविषयानृततृष्णः सन्नुपास्ते तस्येयं मूर्धन्यया नाड्या गतिर्वक्तव्येति नाडीखण्ड आरभ्यते- अथ या एता वक्ष्यमाणा हृदयस्य पुण्डरीकाकारस्य ब्रह्मोपासनस्थानस्य संबन्धिन्यो नाड्यो हृदयमांसपिण्डात्सर्वतो विनिःसृता आदित्यमण्डलादिव रश्मयस्ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्टस्याणिम्नः सूक्ष्मरसस्य रसेन पूर्णास्तदाकारा एव तिष्ठन्ति वर्तन्त इत्यर्थः ।
तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्राध्याहार्यम् ।
सौरेण तेजसा पित्ताख्येन पाकाभिनिर्वृत्तेन कफेनाल्पेन संपर्कात्पिङ्गलं भवति सौरं तेजः पित्ताख्याम् तदेव च वातभूयस्त्वान्नीलं भवति ।
तदेव च कफभूयस्त्वाच्छुक्लम् ।
कफेन समतायां पीतम् ।
शोणित बाहुल्येन लोहितम् ।
वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः कथं भवन्तीति ।
श्रुतिस्त्वाहाऽदित्यसंबन्धादेव तत्तेजसो नाडीष्वनुगतस्यैते वर्णविशेषा इति ।
कथम् ।
असौ वा आदित्यः पिङ्गलो वर्णत एष आदित्यः शुक्लो ऽप्येष नील एष पीत एष लोहित आदित्य एव ॥1 ॥
स्तर्त् छुप् 8,6.2
तद् यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवम् एवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं च ।
अमुष्माद् आदित्यात् प्रतायन्ते ता आसु नाडीषु सृप्ताः ।
आभ्यो नाडीभ्यः प्रतायन्ते ते ऽमुष्मिन्न् आदित्ये सृप्ताः
छुप्भ्_8,6.2 तस्याध्यात्मं नाडीभिः कथं संबन्ध इत्यत्र दृष्टान्तमाह-तत्तत्र यथा लोके महान्विस्तीर्णः पन्था महापथ आततो व्याप्त उभौ गच्छतीमं च संनिहितममुं च विप्रकृष्टं दूरस्थमेवं यथा दृष्टान्तो महापथ उभौ ग्रामौ प्रविष्ट एवमेवैता आदित्यस्य रश्मय उभौ लोकावमुं चाऽदित्यमण्डलमिमं च पुरुषं गच्छन्त्युभयत्र प्रविष्टाः ।
यथा महापथः ।
कथम् ।
अमुष्मादादित्यमण्डलात्प्रतायन्ते संतता भवन्ति ।
ता अध्यात्ममासु पिङ्गलादिवर्णासु यथोक्तासु नाडीषु सृप्ता गताः प्रविष्टा इत्यर्थः ।
आभ्यो नाडीभ्यः प्रतायन्ते प्रवृत्ताः सन्तानभूताः सत्यस्ते ऽमुष्मिन् ।
रश्मीनामुभयलिङ्गत्वात्त इत्युच्यन्ते ॥2 ॥
स्तर्त् छुप् 8,6.3
तद् यत्रैतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति ।
आसु तदा नाडीषु सृप्तो भवति ।
तं न कश्चन पाप्मा स्पृशति ।
तेजसा हि तदा संपन्नो भवति
छुप्भ्_8,6.3 तत्तत्रैवं सति यत्र यस्मिन्काल एतत्स्वपनमयं जीवः सुप्तो भवति ।
स्वापस्य द्विप्रकारत्वाद्विशेषणं समस्त इति ।
उपसंहृतसर्वकरणवृत्तिरित्येतत् ।
अतो बाह्यविषयसंपर्कजनितकालुष्याभावात्सम्यक् ।
प्रसन्नः संप्रसन्नो भवति ।
अत एव स्वप्नं विषयाकाराभासं मानसं स्वप्नप्रत्ययं न विजानाति नानुभवतीत्यर्थः ।
यदैवं सुप्तो भवत्यासु सौरतेजःपूर्णासु यथोक्तासु नाडीषु तदा सृप्तः प्रविष्टो नाडीभिर्द्वारभूताभिर्हृदयाकाशं गतो भवतीत्यर्थः ।
न ह्यन्यत्र सत्संपत्तेः स्वप्नादर्शनमस्तीति सामर्थ्यान्नाडीष्विति सप्तमी तृतीयया परिणम्यते ।
तं सता संपन्नं न कश्चन न कश्चिदपि धर्माधर्मरूपः पाप्मा स्पृशतीति स्वरूपावस्थितत्वात्तदाऽत्मनः ।
देहेन्द्रियविशिष्टं हि सुखदुःखकार्यप्रदानेन पाप्मा स्पृशतीति न तु सत्संपन्नं स्वरूपावस्थं कश्चिदपि पाप्मा स्प्रष्टुमुत्सहते ।
अविषयत्वात् ।
अन्यो ह्यन्यस्य विषयो भवति न त्वन्यत्वं केनचित्कुतश्चिदपि सत्संपन्नस्य ।
स्वरूपप्रच्यवनं त्वात्मनो जाग्रत्स्वप्नावस्थां प्रति गमनं बाह्यविषयप्रतिबोधो ऽविद्याकामकर्मबीजस्य ब्रह्मविद्याहुताशादाहनिमित्तमित्यवोचाम षष्ठ एव तदिहापि प्रत्येतव्यम् ।
यदैवं सुप्तः सौरेण तेजसा हि नाड्यन्तर्गतेन सर्वतः संपन्नो व्याप्तो भवति ।
अतो विशेषेण चक्षुरादिनाडीद्वारैर्बाह्यविषयभोगायाप्रसृतानि करणान्यस्य तदा भवन्ति ।
तस्मादयं करणानां निरोधात्स्वात्मन्येवावस्थितः स्वप्नं न विजानातीति युक्तम् ॥3 ॥
स्तर्त् छुप् 8,6.4
अथ यत्रैतद् अबलिमानं नीतो भवति ।
तम् अभित आसीना आहुर् जानासि मां जानासि माम् इति ।
स यावद् अस्माच् छरीराद् अनुत्क्रान्तो भवति ।
तावज् जानाति
छुप्भ्_8,6.4 तत्रैवं सत्यथ यत्र यस्मिन्काले ऽबलिमानमबलभावं देहस्य रोगादिनिमित्तं जरादिनिमित्तं वा कृशीभावमेतन्नयनं नीतः प्रापितो देवदत्तो भवति मुमूर्षर्यदा भवतीत्यर्थः ।
तमभितः सर्वतो वेष्टयित्वाऽसीना ज्ञातय आहुर्जानासि मां तव पुत्रं जानासि मां पितरं चेत्यादि ।
स मुमूर्षुर्यावदस्माच्छरीरादनुत्क्रान्तो ऽनिर्गतो भवति तावत्पुत्रादीञ्जानाति ॥4 ॥
स्तर्त् छुप् 8,6.5
अथ यत्रैतद् अस्माच् छरीराद् उत्क्रामति ।
अथैतैर् एव रश्मिभिर् ऊर्ध्वम् आक्रमते ।
स ओम् इति वा होद् वा मीयते ।
स यावत् क्षिप्येन् मनस् तावद् आदित्यं गच्छति ।
एतद् वै खलु लोकद्वारं विदुषां प्रपदनं निरोधो ऽविदुषाम्
छुप्भ्_8,6.5 अथ यत्र यदैतत्क्रियाविशेषणमित्यस्माच्छरीरादुत्क्रामति ।
अथ तदैतैरेव यथोक्ताभी रश्मिभिरूर्ध्वमाक्रमते यथाकर्मार्जितं लोकं प्रत्यविद्वान् ।
इतरस्तु विद्वान्यथोक्तसाधनसंपन्नः स ओमित्योङ्कारेणाऽत्मानं ध्यायन्यथापूर्वं वा हैव, उद्वोर्ध्वं वा विद्वांश्चेदितरस्तिर्यङ्वेत्यभिप्रायः ।
मीयते प्रमीयते गच्छतीत्यर्थः ।
स विद्वानुत्क्रमिष्यन्यावत्क्षिप्येन्मनो यावता कालेन मनसः क्षेपः स्यात्तावता कालेनाऽदित्यं गच्छति प्रप्नोति क्षिप्रं गच्छतीत्यर्थो न तु तावतैव कालेनेति विवक्षितम् ।
किमर्थमादित्यं गच्छतीत्युच्यते-एतद्वै खलु प्रसिद्धं ब्रह्मलोकस्य द्वारं य आदित्यस्तेन द्वारभूतेन ब्रह्मलोक गच्छति विद्वान् ।
अतो विदुषां प्रपदनं प्रपद्यते ब्रह्मलोकमनेन द्वारेणेति प्रपदनम् ।
निरोधनं निरोधो ऽस्मादादित्यादविदुषां भवतीति निरोधः ।
सौरेण तेजसा देह एव निरुद्धाः सन्तो मूर्धन्यया नाड्या नोत्क्रमन्त एवेत्यर्थः ।
विष्वङ्ङन्या इति श्लोकात् ॥5 ॥
स्तर्त् छुप् 8,6.6
तद् एष श्लोकः ।
शतं चैका च हृदयस्य नाड्यस् तासां मूर्धानम् अभिनिःसृतैका ।
तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवन्त्य् उत्क्रमणे भवन्ति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0