भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.5

8.5.1

छुप्भ्_8,4.3 तत्तत्रैवं सत्येतं यथोक्तं ब्रह्मलोकं ब्रह्मचर्येण स्रीविषयतृष्णात्यागेन शास्राचार्योपदेशमनुविन्दन्ति स्वात्मसंवेद्यतामापादयन्ति ये तेषामेव ब्रह्मचर्यसाधनवतां ब्रह्मविदामेष ब्रह्मलोकः नान्येषां स्रीविषयसंपर्कजाततृष्णानां ब्रह्मविदामपीत्यर्थः ।
तेषां सर्वेषु लोकेषु कामचारो भवतीत्युक्तार्थम् ।
तस्मात्परममेतत्साधनं ब्रह्मचर्यं ब्रह्मविदामित्यभिप्रायः ॥3॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य चतुर्थः खण्डः
=======================================================================
स्तर्त् छुप् 8,5.1
अथ यद् यज्ञ इत्य् आचक्षते ब्रह्मचर्यम् एव तत् ।
ब्रह्मचर्येण ह्य् एव यो ज्ञाता तं विन्दते ।
अथ यद् इष्टम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् ।
ब्रह्मचर्येण ह्य् एवेष्ट्वात्मानम् अनुविन्दते

8.5.2

छुप्भ्_8,5.1 य आत्मा सेतुत्वादिगुणैः स्तुतस्तत्प्राप्तये ज्ञानसहकारिसाधनान्तरं ब्रह्मचर्याख्यं विदातव्यमित्याह ।
यज्ञादिभिश्च तत्स्तौति कर्तव्यार्थम्- अथ यद्यज्ञ इत्याचक्षते लोके परमपुरुषार्थसाधनं कथयन्ति शिष्टास्तद्ब्रह्मचर्यमेव ।
यज्ञस्यापि यत्फलं तद्ब्रह्मचर्यवाल्लंभते ऽतो यज्ञो ऽपि ब्रह्मचर्यं भवति प्रतिपत्तव्यम् ।
कथं ब्रह्मचर्यं यज्ञ इत्याह-ब्रह्मचर्येणैव हि यस्माद्यो ज्ञातास तं ब्रह्मलोकं यज्ञस्यापि पारम्पर्येण फलभूतं विन्दते लभते ततो यज्ञो ऽपि ब्रह्मचर्यमेवेति ।
यो ज्ञातेत्यक्षरानुवृत्तेर्यज्ञो ब्रह्मचर्यमेव ।
अथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तत् ।
कथम् ।
ब्रह्मचर्येणैव साधनेन तमीश्वरमिष्ट्वा पूजयित्वाथवैषणामात्मविषयां कृत्वा तमात्मानमनुविन्दते ।
एषणादिष्टमपि ब्रह्मचर्यमेव ॥1 ॥
स्तर्त् छुप् 8,5.2
अथ यत् सत्त्रायणम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् ।
ब्रह्मचर्येण ह्य् एव सत आत्मनस् त्राणं विन्दते ।
अथ यन् मौनम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् ।
ब्रह्मचर्येण ह्य् एवात्मानम् अनुविद्य मनुते

8.5.3

छुप्भ्_8,5.2 अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तत्तथा सतः परस्मादात्मन आत्मनस्राणं रक्षणं ब्रह्मचर्यसाधनेन विन्दते ।
अतः सत्त्रायणशब्दमपि ब्रह्मचर्यमेव सत् ।
अथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येणैव साधनेन युक्तः सन्नात्मानं शास्राचार्याभ्यामनुविद्य पश्चान्मनुते ध्यायति ।
अतो मौनशब्दमपि ब्रह्मचर्यमेव ॥2 ॥
स्तर्त् छुप् 8,5.3
अथ यद् अनाशकायनम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् ।
एष ह्य् आत्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते ।
अथ यद् अरण्यायनम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् ।
तत् अरश् च ह वै ण्यश् चार्णवौ ब्रह्मलोके तृतीयस्याम् इतो दिवि ।
तद् ऐरंमदीयं सरः ।
तद् अश्वत्थः सोमसवनः ।
तद् अपराजिता पूर् ब्रह्मणः प्रभुविमितं हिरण्मयम्

8.5.4

छुप्भ्_8,5.3 अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
यमात्मानं ब्रह्मचर्येणानुविन्दते स एष ह्यात्मा ब्रह्मचर्यसाधनवतो न नश्यति तस्मादनाशकायनमपि ब्रह्मचर्यमेव ।
अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
अरण्यशब्दयोरर्णवयोर्ब्रह्मचर्यवतो ऽयनादरण्यायनं ब्रह्मचर्यम् ।
यो ज्ञानाद्यज्ञ एषणादिष्टं सतस्राणात्सत्त्रायणं मननान्मौनमनशनादनाशकायनमरण्ययोर्गमनादरण्यायनमित्यादिभिर्महद्भिः पुरुषार्थसाधनैः स्तुतत्वाद्ब्रह्मचर्यं परमं ज्ञानस्य सहकारिकारणं साधनमित्यतो ब्रह्मविदा यत्नतो रक्षणीयमित्यर्थः ।
तत्तत्र हि ब्रह्मलोके ऽरश्च ह वै प्रसिद्धो ण्यश्चार्णवौ समुद्रोपमे वा सरसी तृतीयस्यां भुवमन्तरिक्षं चापेक्ष्य तृतीया द्यौस्तस्यां तृतीयस्यामितो ऽस्माल्लोकादारभ्य गण्यमानायां दिवि ।
तत्तत्रैव चैरमिरान्नं तन्मय ऐरो मण्डस्तेन पूर्णमैरं मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकं सरः ।
तत्रैव चाश्वत्थो वृक्षः सोमसवनो नामतः सोमो ऽमृतं तन्निःस्रवो ऽमृतस्रव इति वा ।
तत्रैव च ब्रह्मलोके ब्रह्मचर्यसाधनरहितैर्ब्रह्मचर्यसाधनवद्भ्यो ऽन्यैर्न जीयत इत्यपराजिता नाम पूः पुरी ब्रह्मणो हिरण्यगर्भस्य ।
ब्रह्मणा च प्रभुणा विशेषेण मितं निर्मितं तच्च हिरण्मयं सौवर्णं प्रभुविमितं मण्डपमिति वाक्यशेषः ॥3 ॥
स्तर्त् छुप् 8,5.4
तद् य एवैताव् अरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषाम् एवैष ब्रह्मलोकः ।
तेषां सर्वेषु लोकेषु कामचारो भवति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc