छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.4
छुप्भ्_8,3.4 सुषुप्तकाले स्वेनाऽमना सता संपन्नः सन्सम्यक्प्रसीदतीति जाग्रत्स्वप्नयोर्विषयेन्द्रियसंयोगजातं कालुष्यं जहातीति संप्रसादशब्दो यद्यपि सर्वजन्तूनां साधारणस्तथाप्येवंवित्स्वर्गं लोकमेतीति प्रकृतत्वादेष संप्रसाद इति संनिहितवद्यत्नविशेषात्सो ऽथेदं शरीरं हित्वास्माच्छरीरात्समुत्थाय शरीरात्मभावनां परित्यज्येत्यर्थः ।
न त्वासनादिव समुत्थायेतीह युक्तम् ।
स्वेन रूपेणेति विशेषणात् ।
न ह्यन्यत उत्थाय स्वरूपं संपत्तव्यम् ।
स्वरूपमेव हि तन्न भवति प्रतिपत्तव्यं चेत्स्यात् ।
परं परमात्मलक्षणं विज्ञप्तिस्वभावं ज्योतिरुपसंपद्य स्वास्थ्यमुपगम्येत्येतत् ।
स्वेन आत्मीयेन रूपेणाभिनिष्पद्यते प्रागेतस्याः स्वरूपसंपत्तेरविद्यया देहमेवापरं रूपमात्मत्वेनोपगत इति तदपेक्षयेदमुच्यते स्वेन रूपेणेति ।
अशरीरता ह्यात्मनः स्वरूपं यत्स्वं परं ज्योतिःस्वरूपमापद्ये संप्रसाद एष आत्मेति होवाच ।
स ब्रूयादिति यः श्रुत्या नियुक्तो ऽन्तेवासिभ्यः ।
किञ्चैतदमृतमविनाशि भूमा यो वै भूमा तदमृतमित्युक्तम् ।
अत एवाभयं भूम्नो द्वितीयाभावादत एतद्ब्रह्मेति ।
तस्य ह वा एतस्य ब्रह्मणो नामाभिधानम् ।
किं तत्सत्यमिति ।
सत्यं ह्यवितथं ब्रह्म ।
तत्सत्यं स आत्मेति ह्युक्तम् ।
अथ किमर्थमिदं नाम पुनरुच्यते ।
तदुपासनविधिस्तुत्यर्थम् ॥4॥
8.3.5 तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्त्दमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥5॥
छुप्भ्_8,3.5 तानि ह वा एतानि ब्रह्मणो नामाक्षराणि त्रीण्येतानि सतीयामति सकारस्तकारो यमिति च ।
तकार ईकारः उच्चारणार्थो ऽनुबन्धः ।
ह्रस्वेनैवाक्षरेण पुनः प्रतिनिर्देशात्तेषाम् ।
तत्तत्र यत्सत्सकारस्तदमृतं सद्ब्रह्मामृतवाचकत्वादमृत एव सकारस्तकारन्तो निर्दिष्टः ।
अथ यत्तितकारस्तन्मर्त्यम् ।
अथ यद्यमक्षरं तेनाक्षरेणामृतमर्त्याख्ये पूर्वे उभे ऽक्षरे यच्छति यमयति नियमयति वशीकरोत्यात्मन इत्यर्थः ।
यद्यस्मादनेन यमित्येतेनोभे यच्छति तस्माद्याम् ।
संयते इव ह्येतेन यमा लक्ष्येते ।
ब्रङ्मनामाक्षरस्यापीदममृतत्वादिधर्मवत्त्वं महाभाग्यं किमुत नामवत इत्युपास्यत्वाय स्तूयते ।
ब्रह्मनामनिर्वचनेनैव नामवतो वेत्तैवंवित् ।
अहरहर्वा एवंवित्स्वर्गं लोकमेतीत्युक्तार्थम् ॥5॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य तृतीयः खण्डः
=======================================================================
स्तर्त् छुप् 8,4.1
अथ य आत्मा स सेतुर् धृतिर् एषां लोकानाम् असंभेदाय ।
नैतं सेतुम् अहोरात्रे तरतो न जरा न मृत्युर् न शोको न सुकृतम् ।
सर्वे पाप्मानो ऽतो निवर्तन्ते ।
अपहतपाप्मा ह्य् एष ब्रह्मलोकः
छुप्भ्_8,4.1 अथ य आत्मेति ।
उक्तलक्षणो यः संप्रसादस्तस्य स्वरूपं वक्ष्यमाणैरुक्तैश्च गुणैः पुनः स्तूयते ब्रह्मचर्यसाधनसंबन्धार्थम् ।
य एष यथोक्तलक्षण आत्मा स सेतुरिव सेतुः ।
विधृतिर्विधरणः ।
अनेन हि सर्वं जगद्वर्णाश्रमादिक्रियाकारकफलादिभेदनियमैः कर्तुरनुरूपं विदधता विधृतम् ।
अध्रियमाणं हीश्वरेणेदं विश्वं विनश्येद्यतस्तस्मात्स सेतुर्विधृतिः ।
किमर्थं स सेतुरित्याह-एषां भूरादीनां कर्तृकर्मलाश्रयाणामसंभेदायाविदारणायाविनाशायेत्येतत् ।
किंविश्ष्टश्चासौ सेतुरित्याह-नैतम् सेतुमात्मानमहोरात्रे सर्वस्य जनिमतः परिच्छेदके सती नैतं तरतः ।
यथान्ये संसारिणः कालेनाहोरात्रादिलक्षणेन परिच्छेद्या न तथायं कालपरिच्छेद्य इत्यभिप्रायः ।
"यस्मादर्वाक्संवत्सरो ऽहोभिः परिवर्तत"इति श्रुत्यन्तरात् ।
अत एवैनं न जरा तरति न प्राप्नोति ।
तथा न मृत्युर्न शोको न सुकृतं न दृष्कृतं सुकृतदुष्कृते धर्माधर्मै ।
प्राप्तिरत्र तरणशब्देनाभिप्रेता नातिक्रमणम् ।
कारणं ह्यात्मा ।
न शक्यं हि कारणातिक्रमणं कर्तुं कार्येण ।
अहोरात्रादि च सर्वं सतः कार्यम् ।
अन्येन ह्यन्यस्य प्राप्तिरतिक्रमणं वा क्रियेत ।
न तु तेनैव तस्य ।
न हि घटेन मृत्प्राप्यते ऽतिक्रम्यते वा ।
यद्यपि पूर्वं य आत्मापहतपाप्मेत्यादिना पाप्मादिप्रतिषेध उक्त एव तथापीहायं विशेषो न तरतीति प्राप्तिविषयत्वं प्रतिषिध्यते ।
तत्रा विशेषेण जराद्यभावमात्रमुक्तम् ।
अहोरात्राद्या उक्ता अनुक्ताश्चान्ये सर्वे पाप्मान उच्यन्ते ऽतो ऽस्मादात्मनः सेतोर्निवर्तन्ते ऽप्राप्यैवेत्यर्थः ।
अपहतपाप्मा ह्येष ब्रह्मैव लोको ब्रह्मलोक उक्तः ॥1 ॥
स्तर्त् छुप् 8,4.2
तस्माद् वा एतं सेतुं तीर्त्वा अन्धः सन्न् अनन्धो भवति ।
विद्धः सन्न् अविद्धो भवति ।
उपतापी सन्न् अनुपतापी भवति ।
तस्माद् वा एतं सेतुं तीर्त्वा अपि नक्तम् अहर् एवाभिनिष्पद्यते ।
सकृद् विभातो ह्य् एवैष ब्रह्मलोकः
छुप्भ्_8,4.2 यस्माच्च पाप्मकार्य मान्ध्यादि शरीरवतः स्यान्न त्वशरीरस्य तस्माद्वा एतमात्मानं सेतुं तीर्वा प्राप्यानन्धो भवति देहवत्त्वे पूर्वमन्धो ऽपि सन् ।
तता विद्धः सन्देहवत्त्वे स देहवियोगे सेतुं तीर्त्वा प्राप्यानन्धो भवति देहवत्त्वे पूर्वमन्धो ऽपि सन् ।
तथा विद्धः सन्देहवत्त्वे स देहवियोगो सेतुं प्राप्याविद्धो भवति ।
तथोपतापी रोगाद्युपतापवान्सन्ननुपतापी भवति ।
किञ्च यस्मादहोरात्रे न स्तः सेतौ तस्माद्वा एतं सेतुं तीर्त्वा प्राप्य नक्तमपि तमोरूपं रात्रिरपि सर्वमहरेवाभिनिष्पद्यते ।
विज्ञप्त्यात्मज्योतिः स्वरूपमहरिवाहः सदैकरूपं विदुषः संपद्यत इत्यर्थः ।
सकृद्विभातः सदा विभातः सदैकरूपः स्वेन रूपेणैष ब्रह्मलोकः ॥2 ॥
स्तर्त् छुप् 8,4.3
तद् य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषाम् एवैष ब्रह्मलोकः ।
तेषां सर्वेषु लोकेषु कामचारो भवति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0