छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.3
छुप्भ्_8,2.10 यं यनम्तं प्रदेशमभिकामो भवति ।
यं च कामं कामयते यथोक्तव्यतिरेकेणापि सो ऽस्यान्तः प्राप्तुमिष्टः कामश्च संकल्पादेव समुत्तिष्ठत्यस्य ।
तेनेच्छाविघाततयाभिप्रेतार्थप्राप्त्या च संपन्नो महीयत इत्युक्तार्थम् ॥10॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य द्वितीयः खण्डः
=======================================================================
स्तर्त् छुप् 8,3.1
त इमे सत्याः कामा अनृतापिधानाः ।
तेषां सत्यानां सताम् अनृतम् अपिधानम् ।
यो यो ह्य् अस्येतः प्रैति न तम् इह दर्शनाय लभते
छुप्भ्_8,3.1 यथोक्तात्मध्यानसाधनानुष्ठानं प्रति साधकानामुत्साहजननार्थमनुक्रोशन्त्याह-कष्टमिदं खलु वर्तते यत्स्वात्मस्थाः शक्यप्राप्या अपि त इमे सत्याः कामा अनृतापिधानास्तेषामात्मस्थानां स्वाश्रयाणामेव सतामनृतं ब3ह्यविषयेषु स्त्र्यन्नभोजनाच्छादनादिषु तृष्णा तन्निमित्तं च स्वेच्छाप्रचारत्वं मिथ्याज्ञाननिमित्तत्वादनृतमित्युच्यते ।
तन्निमित्तं सत्यानां कामानामप्राप्तिरित्यपिधानमिवापिधानम् ।
कथमनृतापिधाननिमित्तं तेषामलाभ इति, उच्यते-यो यो हि यस्मादस्य जन्तोः पुत्रो भ्राता वेष्ट इतो ऽस्माल्लोकात्प्रैति प्रगच्छति म्रियते तमिष्टं पुत्रं भ्रातरं वा स्वहृदयाकाशे विद्यमानमपीह पुनर्दर्शनायेच्छन्नपि न लभते ॥1 ॥
स्तर्त् छुप् 8,3.2
अथ ये चास्येह जीवा ये च प्रेता यच् चान्यद् इच्छन् न लभते सर्वं तद् अत्र गत्वा विन्दते ।
अत्र ह्य् अस्यैते सत्याः कामा अनृतापिधानाः ।
तद् यथापि हिरण्यनिधिं निहितम् अक्षेत्रज्ञा उपर्य् उपरि सञ्चरन्तो न विन्देयुः ।
एवम् एवेमाः सर्वाः प्रजा अहर् अहर् गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्य् अनृतेन हि प्रत्यूढाः
छुप्भ्_8,3.2 अथ पुनर्ये चास्य विदुषो जन्तोर्जीवा जीवन्तीह पुत्रा भ्रात्रादयो वा ये च प्रेता मृता इष्टाः संबन्धिनो यच्चान्यदिह लोके वस्त्रान्नपानादि रत्नादि वा वस्त्विच्छन्न लभते तत्सर्वमत्र हृदयाकाशाख्ये ब्रह्मणि गत्वा यथोक्तेन विधिना विन्दते लभते ।
अत्रास्मिन्हार्दाकाशे हि यस्मादस्यैते यथोक्ताः सत्याः कामा वर्तन्ते ऽनतापिधानाः ।
कथमिव तदन्याय्यमित्युच्यते-तत्तत्र यथा हिरण्यनिधिं हिरण्यमेव पुनर्ग्रहणाय निधातृभिर्निधीयत इति निधिस्तं हिरण्यनिधिं निहितं भूमेरधस्तान्निक्षिप्तमक्षेत्रज्ञा निधिशास्रैर्निधिक्षेत्रमजानन्तस्ते निधेरुपर्युपरि संचरन्तो ऽपि निधिं न विन्देयुः शक्यवेदनमपि ।
एवमेवेमा अविद्यवत्यः सर्वा इमाः प्रजा यथोक्तं हृदयाकाशाख्यं ब्रह्मलोकं ब्रह्मैव लोको ब्रह्मलोकस्तमहरहः प्रत्यहं गच्छन्त्यो ऽपि सुषुप्तकाले न विदन्दन्ति न लभन्त एषो ऽहं ब्रह्मलोकभावमापन्नो ऽस्म्यद्येति ।
अनृतेन हि यथोक्तेन हि यस्मात्प्रत्यूढा हृताः स्वरूपादविद्यादिदोषैर्बहिपकृष्टा इत्यर्थः ।
अतः कष्टमिदं वर्तते जन्तूनां यत्स्वायत्तमपि ब्रह्म न लभ्यत इत्यभिप्रायः ॥2 ॥
स्तर्त् छुप् 8,3.3
स वा एष आत्मा हृदि ।
तस्यैतद् एव निरुक्तं हृद्य् अयम् इति तस्माद् धृद् अयम् ।
अहर् अहर् वा एवंवित् स्वर्गं लोकम् एति
छुप्भ्_8,3.3 स वै य आत्मापहतपाप्मेति प्रकृतो वैशब्देन तं स्मारयत्येष विवक्षित आत्मा हृदि हृदयपुण्डरीक आकाशशब्देनाभिहितः ।
तस्यैतस्य हृदयस्यैतदेव निरुक्तं निर्वचनं नान्यत ।
हृद्ययमात्मा वर्तत इति यस्मात् तस्माद्धृदयं हृदयनामनिर्वचनप्रसिद्ध्यापि स्वहृदय आत्मेत्यवगन्तव्यमित्यभिप्रायः ।
अहरहर्वै प्रत्यहमेवंविद्धृद्ययमात्मेति जानन्स्वर्गं लोकं हार्दं ब्रह्मैति प्रतिपद्यते ।
नन्वनेवंविदपि सुषुप्तकाले हार्दं ब्रह्म प्रतिपद्यत एव सुषुप्तकाले सता सोम्य तदा संपन्न इत्युक्तत्वात् ।
बाढमेवं तथाप्यस्ति विशेषः ।
यथा जानन्नजानंश्च सर्वो जन्तुः सद्ब्रह्मैव तथापि तत्त्वमसीति प्रतिबोधितो विद्वान्सदेव नान्यो ऽस्मीति जानन्सदेव भवति ।
एवमेव विद्वानविद्वांश्चसुषुप्ते यद्यपि सत्संपद्यते तथाप्येवंविदेव स्वर्गं लोकमेतीत्युच्यते ।
देहपाते ऽपि विद्याफलस्यावश्यंभावित्वादित्येष विशेषः ॥3 ॥
स्तर्त् छुप् 8,3.4
अथ य एष संप्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेनाभिनिष्पद्यत एष आत्मेति होवाच ।
एतद् अमृतम् अभयम् एतद् ब्रह्मेति ।
तस्य ह वा एतस्य ब्रह्मणो नाम सत्यम् इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0