छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.11
छुप्भ्_8,10.2-3-4 नाप्यस्य वधेन स हन्यते छायात्मवन्न चास्य स्राम्येण स्रामः स्वप्नात्मा भवति ।
यदध्यायादावागममात्रेणोपन्यस्तं नास्य जरयैतज्जीर्यतीत्यादि तदिह न्यायेनोपपादयितुमुपन्यस्तम् ।
न तावदयं छायात्मवद्देहदोषयुक्तः किन्तु ध्नन्ति त्वेवैनम् ।
एवशब्द इवार्थे ।
घ्नन्तीवैनं केचनेति द्रष्टव्यम् ।
प्रजापतिं प्रमाणीकुर्वतो ऽनृतवादित्वापादनानुपपत्तेः ।
एतदमृतमित्येतत्प्रजापतिवचनं कथं मृषा कुर्यादिन्द्रस्तं प्रमाणीकुर्वन् ।
ननु च्छायापुरुषे प्रजापतिनोक्ते ऽस्य शरीरस्य नाशमन्वेष नश्यतीति दोषमभ्यधात्तथेहापि स्यात् ।
नैवम् ।
कस्मात् ।
य एषो ऽक्षिणि पुरुषो दृश्यत इति मन्यते तदा कथं प्रजापतिं प्रमाणीकृत्य पुनः श्रवणाय समित्पाणिर्गच्छेत् ।
जगाम च ।
तस्मान्न च्छायात्मा प्रजापतिनोक्त इति मन्यते ।
तथा च व्याख्यातं द्रष्टाक्षिणि दृश्यत इति ।
तथा विच्छादयन्तीव विद्रावयन्तीव तथा च पुत्रादिमरणनिमित्तमप्रियवेत्तेव भवति ।
अपि च स्वयमपि रोदितीव ।
नन्वप्रियं वेत्त्येव कथं वेत्तेवेति ।
उच्यते-न अमृताभयत्ववचनानुपपत्तेः ।
ध्यायतीवेति च श्रुत्यन्तरात् ।
ननु प्रत्यक्षविरोध इति चेत् ।
न ।
शरीरात्मत्वप्रत्यक्षवद्भ्रान्तिसंभवात् ।
तिष्ठतु तावदप्रियवेत्तेव न वेति ।
नाहमत्र भोग्यं पश्यामि ।
स्वप्नात्मज्ञाने ऽपीष्टं फलं नोपलभ इत्यभिप्रायः. एवमेवैष तवाभिप्रायेणेति वाक्यसेषः ।
आत्मनो ऽमृताभयगुणवत्त्वस्याभिप्रेतत्वात् ।
द्विरुक्तमपि न्यायतो मया यथावन्नावधारयति ।
तस्मात्पूर्ववदस्याद्यापि प्रतिबन्धकारणमस्तीति मन्वानस्तत्क्षपणाय वसापराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमित्यादिदेश प्रजापतिः ।
तथोषितवते क्षपितकल्मषायाऽह ॥2-3-4 ॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य दशमः खण्डः
=======================================================================
स्तर्त् छुप् 8,11.1-2
तद् यत्रैतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाच ।
एतद् अमृतम् अभयम् एतद् ब्रह्मेति ।
स ह शान्तहृदयः प्रवव्राज ।
स हाप्राप्यैव देवान् एतद् भयं ददर्श ।
नाह खल्व् अयम् एवं संप्रत्य् आत्मानं जानात्य् अयम् अहम् अस्मीति ।
नो एवेमानि भूतानि ।
विनाशम् एवापीतो भवति ।
नाहम् अत्र भोग्यं पश्यामीति
स समित्पाणिः पुनर् एयाय ।
तं ह प्रजापतिर् उवाच - मघवन् यच् छान्तहृदयः प्राव्राजीः किम् इच्छन् पुनर् आगम इति ।
स होवाच नाह खल्व् अयं भगव एवं संप्रत्य् आत्मानं जानात्य् अयम् अहम् अस्मीति ।
नो एवेमानि भूतानि ।
विनाशम् एवापीतो भवति ।
नाहम् अत्र भोग्यं पश्यामीति
छुप्भ्_8,11.1-2 पूर्ववदेतं त्वेव त इत्याद्युक्त्वा तद्यत्रैतत्सुप्त इत्यदि व्याख्यातं वाक्यम् ।
अक्षिणि यो द्रष्टा स्वप्ने च महीयमानश्चरति स एष सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स्वाभिप्रेतमेव ।
मघवांस्तत्रापि दोषं ददर्श ।
कथम् ।
नाह नैव सुषुप्तस्थो ऽप्यात्मा खल्वयं संप्रति सम्यगिदानीं चाऽत्मानं जानाति नैवं जानाति ।
कथम् ।
अयमहमस्मीति नो एवेमानि भूतानि चेति ।
यथा जाग्रति स्वप्ने वा ।
अतो विनाशमेव विनाशमिवेति पूर्ववद्द्रष्टव्यम् ।
अपीतो ऽपिगतो भवति, विनष्ट इव भवतीत्यभिप्रायः ।
ज्ञाने हि सति ज्ञातुः सद्भावो ऽवगम्यते नासति ज्ञाने ।
न च सुषुप्तस्य ज्ञानं दृश्यते ऽतो विनष्ट इवेत्यभिप्रायः न तु विनाशमेवाऽत्मनो मन्यते ऽमृताभयवचनस्य प्रामाण्यमिच्छन् ॥1-2 ॥
स्तर्त् छुप् 8,11.3
एवम् एवैष मघवन्न् इति होवाच ।
एतं त्व् एव ते भूयो ऽनुव्याख्यास्यामि ।
नो एवान्यत्रैतस्मात् ।
वसापराणि पञ्च वर्षाणीति ।
स हापराणि पञ्च वर्षाण्युवास ।
तान्य् एकशतं संपेदुः ।
एतत् तद् यद् आहुः ।
एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यम् उवास ।
तस्मै होवाच
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0