भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.12

8.12.1

छुप्भ्_8,11.3 पूर्ववदेवमेवेत्युक्त्वा यो मयोक्तस्रिभिः पर्यायैस्तमेवैतं नो एवान्यत्रैतस्मादात्मनो ऽन्यं कञ्चन किं तर्ह्येतमेव व्याख्यास्यामि ।
स्वल्पस्तु दोषस्तवावशिष्टस्तत्क्षपणाय वसापराण्यन्यानि पञ्च वर्षाणीत्युक्तः स तथा चकार ।
तस्मै मृदितकषायादिदोषाय स्थानत्रयदोषसंबन्धरहितमात्मनःस्वरूपमपहतपाप्मत्वादिलक्षणं मघवते तस्मै होवाच ।
तान्येकशतं वर्षाणि संपेदुः संपन्नानि बभूवुः ।
यदाहुर्लोके शिष्टा एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवासेति तदेतद्द्वात्रिंशतमित्यादिना दर्शितमित्याख्यायिकातो ऽपसृत्य श्रुत्योच्यते ।
एवं किलैतदिन्द्रत्वादपि गुरुतरमिन्द्रेणापि महता यत्नेनैकोत्तरवर्षशतकृतायासेन प्राप्तमात्मज्ञानमतो नातः परं पुरुषार्थान्तरमस्तीत्यात्मज्ञानं स्तौति ॥3॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्यैकादशः खण्डः
=======================================================================
स्तर्त् छुप् 8,12.1
मघवन् मर्त्यं वा इदं शरीरम् आत्तं मृत्युना ।
तद् अस्यामृतस्याशरीरस्यात्मनो ऽधिष्ठानम् ।
आत्तो वै सशरीरः प्रियाप्रियाभ्याम् ।
न वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्ति ।
अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः

8.12.2

छुप्भ्_8,12.1 मघवन्मर्त्यं वै मरणधर्मीदं शरीरम् ।
यन्मन्यसे ऽक्ष्याधारादिलक्षणः संप्रसादलक्षण आत्मा मयोक्तो विनाशमेवापीतो भवतीति ।
शृणु तत्र कारणम् ।
यदिदं शरीरं वै तदेतन्मर्त्यं विनाशि ।
तच्चाऽत्तं मृत्युना ग्रस्तं सततमेव ।
कदाचिदेव म्रियत इति मर्त्यमित्युक्ते न तथा संत्रासो भवति यथा ग्रस्तमेव सदा व्याप्तमेव मृत्युनेत्युक्त इति वैराग्यार्थं विशेष इत्युच्यत आत्तं मृत्युनेति ।
कथं नाम देहाभिमानतो विरक्तः सन्निवर्तत इति ।
शरीरमित्यत्र सहेन्द्रियमनोभिरुच्यते ।
तच्छरीरमस्य संप्रसादस्य त्रिस्थानतया गम्यमानस्यामृतस्य मरणादिदेहन्द्रियमनोधर्मवर्जितस्येत्येतत् ।
अमृतस्येत्यनेनैवाशरीरत्वे सिद्धे पुनरशरीरस्येति वचनं वाय्वादिवत्सावयवत्वमूर्तिमत्त्वे मा भूतामित्यात्मनः ।
आत्मनो वा सत ईक्षितुस्तेजोबन्नादिक्रमेणोत्पन्नमधिष्ठानम् ।
जीवरूपेण प्रविश्य सदेवाधितिष्ठत्यस्मिन्निति वाधिष्ठानम् ।
यस्येदमीदृशं नित्यमेव मृत्युग्रस्तं धर्माधर्मजनितत्वात्प्रियाप्रियवदधिष्ठानं तदधिष्ठितस्तद्वान्सशरीरो भवति ।
अशरीरस्वभावस्याऽत्मनस्तदेवाहं शरीरं शरीरमेव चाहमित्यविवेकादात्मभावः सशरीरत्वं अत एव सशरीरः सन्नात्तो ग्रस्तः प्रियाप्रियाभ्याम् ।
प्रसिद्धमेतत् ।
तस्य च न वै सशरीरस्य सतः प्रियाप्रिययोर्बाह्यविषयसंयोगवियोगनिमित्तयोर्बाह्यविषयसंयोगवियोगौ ममेति मन्यमानस्यापहतिर्विनाश उच्छेदः सन्ततिरूपयोर्नास्तीति ।
तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन विनर्तिताविवेकज्ञानशरीरं सन्तं प्रियाप्रिये न स्पृशतः ।
स्पृशिः प्रत्येकं संबध्यत इति प्रियं न स्पृशत्यप्रियं न स्पृशतीति वाक्यद्वयं भवति ।
"न म्लेच्छाशुच्यधार्मिकैः सह संभाषेते"ति यद्वत् ।
धर्माधर्मकार्ये हि ते ।
अशरीरता तु स्वरूपमिति तत्र धर्माधर्मयोरसंभवात्तत्कार्यभावो दूरत एवेत्यतो न प्रियाप्रिये स्पृशतः ।
ननु यदि प्रियमप्यशरीरं न स्पृशतीति यन्मघवतोक्तं सुषुप्तस्थो विनाशमेवापीतो भवतीति तदेवेहाप्यापन्नम् ।
नैष दोषः धर्माधर्मकार्ययोः शरीरसंबन्धिनोः प्रियाप्रिययोः प्रतिषेधस्य विवक्षितत्वात् अशरीरं न प्रियाप्रिये स्पृशत इति ।
आगमापायिनोर्हि स्पर्शशब्दो दृष्टो यथा शीतस्पर्श उष्णस्पर्श इति न त्वग्नेरुष्णप्रकाशयोः स्वभावभूतयोरग्निना स्पर्श इति भवति तथाग्नेः सवितुर्वोष्णप्रकाशवत्स्वरूपभूतस्याऽनन्दस्य प्रियस्यापि नेह प्रतिषेधः"विज्ञानमानन्दं ब्रह्म" "आनन्दो ब्रह्म"इत्यादिश्रुतिभ्यः ।
इहापि भूमैव सुखमित्युक्तत्वात् ।
ननु भूम्नः प्रियस्यैकत्वे ऽसंवेद्यत्वात्स्वरूपेण वा नित्यसंवेद्यत्वान्निर्विशेषतेति नेन्द्रस्य तदिष्टम् ।
"नाह खल्वयं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवोमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि"इत्युक्तत्वात् ।
तद्धोन्द्रस्येष्टं यद्भतानि चाऽत्मानं च जानाति न चाप्रियं किञ्चिद्वेत्ति स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्येन ज्ञानेन सत्यमेतदिष्टमिन्द्रस्येमानि भूतानि मत्तो ऽन्यानि लोकाः कामाश्च सर्वे मत्तो ऽन्ये ऽहमेषां स्वामीति ।
न त्वेतदिन्द्रस्य हितम् ।
हितं चेन्द्रस्य प्रजापतिना वक्तव्यम् ।
व्योमवदशरीरात्मतया सर्वभूतलोककामात्मत्वोपगमेन या प्राप्तिस्तद्धितमिन्द्राय वक्तव्यमिति प्रजापतिनाभिप्रेतम् ।
न तु राज्ञो राज्याप्तिवदन्यत्वेन ।
तत्रैवं सति कं केन विजानीयादात्मैकत्व इमानि भूतान्ययमहमस्मीति ।
नन्वस्मिन्पक्षे"स्त्रीभिर्वा यानैर्वा" "स यदि पितृलोककामः" "स एकधा भवति"इत्याद्यैश्वर्यश्रुतयो ऽनुपपन्नाः ।
न ।
सर्वात्मनः सर्वफलसंबन्धोपपत्तेरविरोधात् ।
मृद इव सर्वघचकरककुण्डाद्याप्तिः ।
ननु सर्वात्मत्वे दुःखसंबन्धो ऽपि स्यादिति चेन्न, दुःखस्याप्यात्मत्वोपगमादविरोधः ।
आत्मन्यविद्याकल्पनानिमित्तानि दुःखानि रज्ज्वामिव सर्पादिकल्पनानिमित्तानि ।
साचाविद्याशरीरात्मैकत्वस्वरूपदर्शनेन दुःखनिमित्तोच्छिन्नेनि दुःखसंबन्धाशङ्का न संभवति ।
शुद्धसत्त्वसंकल्पनिमित्तानां तु कामानामीश्वरदेहसंबन्धः सर्वभूतेषु मानसानां पर एव सर्वसत्त्वोपाधिद्वारेण भोक्तेति सर्वाविद्याकृतसंव्यवहाराणां पर एवाऽत्माऽस्पदं नान्यो ऽस्तीति वेदान्तसिद्धान्तः ।
य एषो ऽक्षिणि पुरुषो दृश्यति इति च्छायापुरुष एव प्रजापतिनोक्तः ।
स्वप्नसुषुप्तयोश्चान्य एव ।
न परो ऽपहतपाप्मत्वादिलक्षणो विरोधादिति केचिन्मन्यन्ते ।
छायाद्यात्मनां चोपदेशे प्रयोजनमाचक्षते ।
आदावेवोच्यमाने किल दुर्विज्ञेयत्वात्परस्याऽत्मनो ऽत्यन्तबाह्यविषयासक्तचेतसो ऽत्यन्तसूक्ष्मवस्तुश्रवणे व्यामोहो मा भूदिति ।
यथा किल द्वितीयायां सूक्ष्मं चन्द्रं दिदर्शयिषुर्वृक्षं कञ्चित्प्रत्यक्षमादौ दर्शयति पश्यामुमेष चन्द्र इति, ततो ऽन्यं ततो ऽप्यन्यं गिरिमूर्धानं च चन्द्रसमीपस्थं एष चन्द्र इति ततो ऽसौ चन्द्रं पश्यति, एवमेतद्य एषो ऽक्षिणीत्याद्युक्तं प्रजापतिना त्रिभिः पर्यायैर्न पर इति ।
चतुर्थे तु पर्याये देहान्मर्त्यात्समुत्थायाशरीरतामापन्नो ज्योतिःस्वरूपम् ।
यस्मिन्नुत्तमपुरुषे स्त्र्यादिभिर्जक्षत्क्रीडन्रममाणो भवति स उत्त्मः पुरुषः पर उक्त इति चाऽहुः ।
सत्यं, रमणीया तावदियं व्याख्या श्रोतुम् ।
न त्वर्थो ऽस्य ग्रन्थस्यैवं संभवति ।
कथम् ।
अक्षिणि पुरुषो दृश्यत इत्युपन्यस्य शिष्याभ्यां छायात्मनि गृहीते तयोस्तद्विपरीतग्रहणं मत्वा तदपनयायोदशरावोपन्यासः किं पश्यथ इति च प्रश्नः साध्वलङ्कारोपदेशश्चानर्थकः स्यात् यदि च्छायात्मैव प्रजापतिनाक्षिणि दृश्यत इत्युपदिष्टः ।
किञ्च यदि स्वयमुपदिष्ट इति ग्रहणस्याप्यपनयकारणं वक्तव्यं स्यात् ।
स्वप्नसुषुप्तात्मग्रहणयोरपि तदपनयकारणं च स्वयं ब्रूयात् न चोक्तं[तेनटतेन मन्यामहे नाक्षिणि च्छायात्मा प्रजापतिनोपदिष्टः ।
किं चान्यदक्षिणि द्रष्टा चेद्दृश्यत इत्युपदिष्टः स्यात्तत इदं युक्तम् ।
एतं त्वेव त इत्युक्त्वा स्वप्ने ऽपि द्रष्टुरेवोपदेशः ।
स्वप्ने न द्रष्टोपदिष्ट इति चेन्न ।
अपि रोदितीवाप्रियवेत्तेवेत्युपदेशात् ।
न च द्रष्टुरन्यः कश्चित्स्वप्ने महीयमानश्चरति ।
अत्रायं पुरुषः स्वयञ्ज्योतिरिति न्यायतः श्रुत्यन्तरे सिद्धत्वात् ।
यद्यपि स्वप्ने सधीर्भवति तथापि न धीः स्वप्नभोगोपलब्धिं प्रति करणत्वं भजते ।
किं तर्हि पटचित्रवज्जाग्रद्वासनाश्रया दृश्यैव धीर्भवतीति न द्रष्टुः स्वयञ्ज्योतिष्ट्वबाधः स्यात् ।
किञ्चान्यत् ।
जाग्रत्स्वप्न्योर्भूतानि चाऽत्मानं च जानातीमानि भूतान्ययमहमस्मीति ।
प्राप्तौ सत्यां प्रतिषेधो युक्तः स्यान्नाह खल्वयमित्यादि ।
तथा चेतनस्यैवाविद्यानिमित्तयोः शरीरत्वे सति प्रियाप्रिययोरपहतिर्नास्तीत्युक्त्वा तस्यैवाशरीरस्य सतो विद्यायां सत्यां सशरीरत्वे प्राप्तयोः प्रतिषेधो युक्तो ऽशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इति ।

एकश्चाऽत्मा स्वप्नबुद्धान्तयोर्महामत्स्यवदसङ्गः संचरतीति श्रुत्यन्तरे सिद्धम् ।
यच्चोक्तं संप्रसादः शरीरात्समुत्थाय यस्मिन्स्त्र्यादिभी रममाणो भवति सो ऽन्यः संप्रसादादधिकरणनिर्दिष्ट उत्तमः पुरुष इति ।
तदप्यसत् ।
चतुर्थे ऽपि पर्याय एत त्वेव त इति वचनात् ।
यदि ततो ऽन्यो ऽभिप्रेतः स्यात्पूर्ववदेतं त्वेव त इति न ब्रूयान्मृषा प्रजापतिः ।
किञ्चान्यत्तेजोबन्नादीनां स्रष्टुः सतः स्वविकारदेहशुङ्गे प्रवेशं दर्शयित्वा प्रविष्टाय पुवस्तत्त्वमसीत्युपदेशो मृषा प्रसज्येत ।
तस्मिंस्त्वं स्त्र्यादिभी रन्ता भविष्यसीति युक्त उपदेशो ऽभविष्यद्यदि संप्रसादादन्य उत्तमः पुरुषो भवेत् ।
तथा भूम्न्यहमेवेत्यादिश्याऽत्मैवेदं सर्वमिति नोपसमहरिष्यद्यदि भूमा जीवादन्यो ऽभविष्यत् ।
"नान्यो ऽतो ऽस्ति द्रष्टा"इत्यादिश्रुत्यन्तराच्च ।
सर्वश्रुतिषु च परस्मिन्नात्मशब्दप्रयोगो नाभविष्यत्प्रत्यगात्मा चेत्सर्वजन्तूनां पर आत्मा न भवेत्तस्मादेक एवाऽत्मा प्रकरणी सिद्धः ।
न चाऽत्मनः संसारित्वम् ।
अविद्याध्यस्तत्वादात्मनि संसारस्य ।
न हि रज्जुशुक्तिकागगनादिषु सर्परजतमलादीनि मिथ्याज्ञानाध्यस्तानि तेषां भवन्तीति ।
एतेन सशरीरस्य प्रियाप्रिययोरपहतिर्नास्तीति व्याख्यातम् ।
यच्चस्थितमप्रियवेत्तेवेति नाप्रियवेत्तैवेति सिद्धम् ।
एवं च सति सर्वपर्यायेष्वेतदमृतभयमेतद्ब्रह्मेति प्रजापतेर्वचनम् ।
यदि वा प्रजापतिच्छद्भरूपायाः श्रुतेर्वचनं सत्यमेव भवेत् ।
न चतत्कुतर्कबुद्ध्या मृषा कर्तुं युक्तम् ।
ततो गुरुतरस्य प्रमाणान्तरस्यानुपपत्तेः ।
ननु प्रत्यक्षं दुःखाद्यप्रियवेत्तृत्वमव्यभिचार्यनुभूयत इति चेन्न ।
जरादिरहितो जीर्णो ऽहं जातो ऽहमायुष्मान्गौरः कृष्णो मृत इत्यादिप्रत्यक्षानुभववत्तदुपपत्तेः ।
सर्वमप्येतत्सत्यमिति चेदस्त्येवैतदेवं दुरवगमं येन देवराजो ऽप्युदशरावादिदर्शिताविनाशयुक्तिरपि मुमोहैवात्र विनाशमेवापीतो भवतीति ।
तथा विरोचनो महाप्राज्ञः प्राजापत्यो ऽपि देहमात्रात्मदर्शनो बभूव ।
तथेन्द्रस्याऽत्मविनाशभयसागर एव वैनाशिका न्यमज्जन् ।
तथा सांख्या द्रष्टारं देहादिव्यतिरिक्तमवगम्यापि त्यक्तागमप्रमाणत्वान्मृत्युविषय एवान्यत्वदर्शने तस्थुः ।
तथान्ये काणादादिदर्शनाः कषायरक्तमिव क्षारादिभिर्वस्रं नवभिरात्मगुणैर्युक्तमात्मद्रव्यं विशोधयितुं प्रवृत्ताः ।
तथान्ये कर्मिणो बाह्यविषयापहृतचेतसो वेदप्रमाणा अपि परमार्थसत्यमात्मैकत्वं विनाशमिवेन्द्रवन्मन्यमाना घटीयन्त्रवदारोहावरोहप्रकारैरनिशं बम्भ्रमति ।
किमन्ये क्षुद्रजन्तवो विवेकहीनाः स्वभावत एव बहिर्विषयापहृतचेतसः ।
तस्मादिदं त्यक्तसर्वबाह्यैषणैरनन्यशरणैः परमहंसपरिव्राजकैरत्याश्रमिभिर्वेदान्तविज्ञानपरैरेव वेदनीयं पूज्यतमैः प्राजापत्यं चेमं संप्रदायमनुसरद्भिरुपनिबद्धं प्रकरणचतुष्टयेन ।
तथानुशासत्यद्यापि त एव नान्य इति ॥1 ॥
स्तर्त् छुप् 8,12.2
अशरीरो वायुः ।
अभ्रं विद्युत् स्तनयित्नुर् अशरीराण्य् एतानि ।
तद् यथैतान्य् अमुष्माद् आकाशात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते

8.12.3

छुप्भ्_8,12.2 तत्राशरीरस्य संप्रसादस्याविद्यया शरीरेणाविशेषतां ससरीरतामेव संप्राप्तस्य शरीरात्समुत्थाय स्वेन रूपेण यथाभिनिष्पत्तिस्तथा वक्तव्येति दृष्टान्त उच्यते-अशरीरो वायुरविद्यमानं शिरःपाण्यादिमच्छरीरमस्येत्यशरीरः ।
किं चाभ्रं विद्युत्स्तनयित्नुरित्येतानि चाशरीराणि ।
तत्तत्रैवं सति वर्षादिप्रयोजनावसाने यथा ।
अमुष्मादिति भूमिष्ठा श्रुतिर्द्युलोकसंबन्धिनमाकाशदेशं व्यपदिशति ।
एतानि यथोक्तान्याकाशसमानरूपतामापन्नानि स्वेन वाय्वादिरूपेणागृह्यमाणान्याकाशाख्यतां गतानि यथा संप्रसादो ऽविद्यावस्थायां शरीरात्मभावमेवापन्नः, तानि च तथाभूतान्यमुष्माद्द्युलोकसम्बन्धिन आकाशदेशात्समुत्तिष्ठन्ति वर्षणादिप्रयोजनाभिनिर्वृत्तये ।
कथम् ।
शिशिरापाये सावित्र परं ज्योतिः प्रकृष्टं ग्रैष्मकमुपसंपद्य सावित्रमभितापं प्राप्येत्यर्थः ।
आदित्याभितापेन पृथग्भावमापादिताः सन्तः स्वेन स्वेन रूपेण पुरोवातादिवायुरूपेण स्तिमितभावं हित्वाभ्रमपि भूमिपर्वतहस्त्यादिरूपेण विद्युदपि स्वेन ज्योतिर्लतादिचपलरूपेण स्तनयित्नुरपि स्वेन गर्जिताशनिरूपेणेत्येवं प्रावृडागमे स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते ॥2 ॥
स्तर्त् छुप् 8,12.3
एवम् एवैष संप्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते ।
स उत्तमपुरुषः ।
स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर् वा यानैर् वा ज्ञातिभिर् वा नोपजनं स्मरन्न् इदं शरीरम् ।
स यथा प्रयोग्य आचरणे युक्त एवम् एवायम् अस्मिञ् छरीरे प्राणो युक्तः

8.12.4

छुप्भ्_8,12.3 यथायं दृष्टान्तो वाय्वादीनामाकाशादिसाम्यगमनवदविद्यया संसारावस्थायां शरीरसाम्यमापन्नो ऽहममुष्य पुत्रो जातो जीर्णो मरिष्य इत्येवंप्रकारं प्रजापतिनेव मघवान्यथोक्तेन क्रमेण नासि त्वं देहेन्द्रियादिधर्मा तत्त्वमसीति प्रतिबोधितः सन्स एष संप्रसादो जीवो ऽस्माच्छरीरादाकाशादिव वाय्वादयः समुत्थाय देहादिवैलक्षण्यमात्मनो रूपमवगम्य देहात्मभावनां हित्वेत्येतत् ।
स्वेन रूपेण सदात्मनैवाभिनिष्पद्यत इति व्याख्यातं पुरस्तात् ।
स येन स्वेन रूपेण संप्रसादो ऽभिनिष्पद्यते प्राक्प्रतिबोधात्तद्भ्रान्तिनिमित्तात्सर्पो भवति यता रज्जुः पश्चात्कृतप्रकाशा रज्ज्वात्मना स्वेन रूपेणाभिनिष्पद्यते ।
एवं च स उत्तमपुरुष उत्तमश्चासौ पुरुषश्चेत्युत्तमपुरुषः स एवोत्तमपुरुषो ऽक्षिस्वप्नपुरुषौ व्यक्तावव्यक्तश्च सुषुप्तः समस्तः संप्रसन्नो ऽशरीरश्च स्वेन रूपेणेति ।
एषामेष स्वेन रूपेणावस्थितः क्षराक्षरौ व्याकृताव्याकृतावपेक्ष्योत्तमपुरुषः कृतनिर्वचनो ह्ययं गीतासु ।
स संप्रसादः स्वेन रूपेण तत्र स्वात्मनि स्वस्थतया सर्वात्मभूतः पर्येति क्वचिदिन्द्राद्यात्मना जक्षद्धसन्भक्षयन्वा भक्ष्यानुच्चावचानीप्सितान्क्वचिन्मनोमात्रैः संकल्पादेव समुत्थितैर्ब्राह्मलौकिकैर्वा क्रीडन्स्त्र्यादिभी रममाणश्च मनसैव नोपजनं स्रीपुंसयोरन्योन्योपगमेन जायत इत्युपजनमात्मभावेन वाऽत्मसामीप्येन जायत इत्युपजनमिदं शरीरं तन्न स्मरन् ।
तत्स्मरणे हि दुःखमेव स्यात् ।
दुःखात्मकत्वात्तस्य ।
नन्वनुभूतं चेन्न स्मरेदसर्वज्ञत्वं मुक्तस्य ।
नैष दोषः ।
येन मिथ्याज्ञानादिना जनितं तच्च मिथ्याज्ञानादि विद्ययोच्छेदितमतस्तन्नानुभूतमेवेति न तदस्मरणे सर्वज्ञत्वहानिः ।
न ह्यु न्मत्तेन ग्रहगृहीतेन वा यदनुभूतं तदुन्मादाद्यपदमे ऽपि स्मर्तव्यं स्यात्तथेहापि संसारिभिरविद्यादोषवद्भिर्यदनुभूयते तत्सर्वात्मानमशरीरं न स्पृशति ।
अविद्यानिमित्ताभावात् ।
ये तूच्छिन्नदोषैर्मृदितकषायैर्मानसाः सत्याः कामा अनृतापिधाना अनुभूयन्ते विद्याभिव्यङ्ग्यत्वात्त एव मुक्तेन सर्वात्मभूतेन संबध्यन्त इत्यात्मज्ञानस्तुतये निर्दिश्यन्ते ऽतः साध्वेतद्विशिनष्टि-य एते ब्रह्मलोक इति ।
यत्र क्वचन भवन्तो ऽपि ब्रह्मण्येव हि ते लोके भवन्तीति सर्वात्मत्वाद्ब्रह्मण उच्यन्ते ।
ननु कथमेकःऽसन्नान्यत्पश्यति नान्यद्विजानाति स भूमाऽकामांश्च ब्राह्मलौकिकान्ऽपश्यन् रमतऽइति च विरुद्धम् ।
यथैको यस्मिन्नेव क्षणे पश्यति स तस्मिन्नेव क्षणे न पश्यति चेति ।
नैष दोषः ।
श्रुत्यन्तरे परिहृतत्वात् ।
द्रष्टुर्दृष्टेरविपरिलोपात्पश्यन्नेव भवति ।
द्रष्टुरन्यत्वेन कामानामभावान्न पश्यति चेति ।
यद्यपि सुषुप्ते तदुक्तं मुक्तस्यापि सर्वैकत्वात्समानो द्वितीयाभावः ।
केन कं पश्येदिति चोक्तमेव ।
अशरीरस्वरूपो ऽपहतपाप्मादिलक्षणः सन्कथमेष पुरुषो ऽक्षिणि दृश्यत इत्युक्तः प्रजापतिना ।
तत्र यथासावक्षिणि साक्षाद्दृश्यते तद्वक्तव्यमितीदमारभ्यते ।
तत्र को हेतुरक्षिणि दर्शन इत्याह-स दृष्टान्तो यथा प्रयोग्यः प्रयोग्यपरो वा सशब्दः ।
प्रयुज्यत इति प्रयोग्यो ऽश्वो बलीवर्दे वा ।
यथा लोक आचरत्यनेनेत्याचरणो रथो ऽनो वा तस्मिन्नाचरणे युक्तस्तदाकर्षणाय, एवमस्मिञ्छरीरे रथस्थानीये प्राणः पञ्चवृत्तिरिन्द्रियमनोबुद्धिसंयुक्तः प्रज्ञात्मा विज्ञानक्रियाशक्तिद्वयसंमूर्छितात्मा युक्तः स्वकर्मफलोपभोगनिमित्तं नियुक्तः ।
कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविसष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ।
ईश्वरेण राज्ञेव सर्वाधिकारी दर्शनश्रवणचेष्टाव्यापारे ऽधिकृतः ।
तस्यैव तु मात्रैकदेशश्चक्षुरिन्द्रियं रूपोपलब्धिद्वारभूतम् ॥3 ॥
स्तर्त् छुप् 8,12.4
अथ यत्रैतद् आकाशम् अनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुः ।
अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् ।
अथ यो वेदेदम् अभिव्याहराणीति स आत्मा अभिव्याहाराय वाक् ।
अथ यो वेदेदं शृण्वानीति स आत्मा श्रवणाय श्रोत्रम्

8.12.5

छुप्भ्_8,12.4 अथ यत्र कृष्णतारोपलक्षितमाकाशं देहच्छिद्रमनुविषण्णमनुषक्तमनुगतं तत्र स प्रकृतो ऽशरीर आत्मा चाक्षुषश्चक्षुषि भव इति चाक्षुषस्तस्य दर्शनाय रूपोपलब्धये चक्षुः करणं यस्य तद्देहादिभिः संहतत्वात्परस्य द्रष्टुरर्थे सो ऽत्र चक्षुषि दर्शनेन लिङ्गेन दृश्यते परो ऽशरीरो ऽसंहतः ।
अक्षिणि दृश्यत इति प्रजापतिनोक्तं सर्वेन्द्रियद्वारोपलक्षणार्थम् ।
सर्वविषयोपलब्धा हि स एवेति ।
स्फुटोपलब्धिहेतुत्वात्त्वक्षिणीति विशेषवचनं सर्वश्रुतिषु ।
"अहमदर्शमिति तत्सत्यं भवती"ति च श्रुतेः ।
अथापि यो ऽस्मिन्देहे वेद कथमिदं सुगन्धि दुर्गन्धि वा जिघ्राणीत्यस्य गन्धं विजानीयामिति स आत्मा तस्य गन्धाय गन्धविज्ञानाय घ्राणम् ।
अथ यो वेदेदं वचनमभिव्याहराणीति वदिष्यामीति स आत्माभिव्यवहरणक्रियासिद्धये करणं वागिन्द्रियम् ।
अथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥4 ॥
स्तर्त् छुप् 8,12.5
अथ यो वेदेदं मन्वानीति स आत्मा ।
मनो ऽस्य दैवं चक्षुः ।
स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके

8.12.6

छुप्भ्_8,12.5 अथ यो वेददं मन्वानीति मननव्यापारमिन्द्रियासंस्पृष्टं केवलं मन्वानीति वेद स आत्मा मननाय मनः ।
यो वेद स आत्मेत्येवं सर्वत्र प्रयोगाद्वेदनमस्य स्वरूपमित्यवगम्यते ।
यथा यः पुरस्तात्प्रकाशयति स आदित्यो यो दक्षिणतो यः पश्चाद्य उत्तरतो य ऊर्ध्वं प्रकाशयति स आदित्य इत्युक्ते प्रकाशस्वरूपः स इति गम्यते ।
दर्शनादि क्रियानिर्वृत्त्यर्थानि तु चक्षुरादिकरणानि ।
इदं चास्याऽत्मनः सामर्थ्यादवगम्यते ।
आत्मनः सत्तामात्र एव ज्ञानकर्तृत्वं न तु व्यापृततया ।
यथा सवितुः सत्तामात्र एव प्रकाशनकर्तृत्वं न तु व्यापृततयेति तद्वत् ।
मनो ऽस्याऽत्मनो दैवमप्राकृतमितरेन्द्रियैरसाधारणं चक्षुश्चष्टे पश्यत्यनेनेति चक्षुः ।
वर्तमानकालविषयाणि चेन्द्रियाण्यतो ऽदैवानि तानि ।
मनस्तु त्रिकालविषयोपलब्धिकरणं मृदितदोषं च सूक्ष्मव्यवहितादिसर्वोपलब्धिकरणं चेति दैवं चक्षुरुच्यते ।
स वै मुक्तः स्वरूपापन्नो ऽविद्याकृतदेहेन्द्रियमनोवियुक्तः सर्वात्मभावमापन्नः सन्नेष व्योमवद्विशुद्धः सर्वेश्वरो मनौपाधिः सन्नेतेनैवेश्वरेण मनसैतान्कामान्सवितृप्रकाशवन्नित्यप्रततेन दर्शनेन पश्यन् रमते ।
कान्कामानिति विशिनष्टि-य एते ब्रह्मणि लोके हिरण्यनिधिवद्बाह्यविषयासङ्गानृतेनापिहिताः संकल्पमात्रलभ्यास्तानित्यर्थः ॥5 ॥
स्तर्त् छुप् 8,12.6
तं वा एतं देवा आत्मानम् उपासते ।
तस्मात् तेषां सर्वे च लोका आत्ताः सर्वे च कामाः ।
स सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानाति ।
इति ह प्रजापतिर् उवाच प्रजापतिर् उवाच

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc