छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.10
छुप्भ्_8,9.3 एवमेवैष मघवन्सम्यक्त्वयावगतं न च्छायात्मेत्युवाच प्रजापतिर्यो मयोक्त आत्मा प्रकृत एतमेवाऽत्मानं तु ते भूयः पूर्वं व्याख्यातमप्यनुव्याख्यास्यामि ।
यस्मात्सकृद्व्याख्यातं दोषरहितानामवधारणविषयं प्राप्तमपि नाग्रहीरतः केनचिद्दोषेण प्रतिबद्धग्रहणसामर्थस्त्वमतस्तत्क्षपणाय वसापराणि द्वात्रिंशतं वर्षाणीत्युक्त्वा तथोषितवते क्षपितदोषाय तस्मै होवाच ॥3॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य नवमः खण्डः
=======================================================================
स्तर्त् छुप् 8,10.1
य एष स्वप्ने महीयमानश् चरत्य् एष आत्मेति होवाच ।
एतद् अमृतम् अभयम् एतद् ब्रह्मेति ।
स ह शान्तहृदयः प्रवव्राज ।
स हाप्राप्यैव देवान् एतद् भयं ददर्श ।
तद् यद्य् अपीदं शरीरम् अन्धं भवत्य् अनन्धः स भवति यदि स्रामम् अस्रामः ।
नैवैषो ऽस्य दोषेण दुष्यति
छुप्भ्_8,10.1 य आत्मापहतपाप्मादिलक्षणो य एषो ऽक्षिणीत्यादिना व्याख्यात एष सः ।
को ऽसौ ।
यः स्वप्ने महीयमानः स्त्र्यादिभिः पूज्यमानश्चरत्यनेकविधान्स्वप्नभोगाननुभवतीत्यर्थः ।
एष आत्मेति होवाचेत्यादि समानम् ।
स हैवमुक्त इन्द्रः शान्तहृदयः प्रवव्राज ।
स हाप्राप्यैव देवान्पूर्ववदस्मिन्नप्यात्मनि भयं ददर्श ।
कथम् ।
तदिदं शरीरं यद्यप्यन्धं धवति स्वप्नात्मा यो ऽनन्धः स भवति ।
यदि स्राममिदं शरीरमस्रामश्च स भवति नैवैष स्वप्नात्मास्य देहस्य दोषेण दुष्यति ॥1 ॥
स्तर्त् छुप् 8,10.2-4
न वधेनास्य हन्यते ।
नास्य स्राम्येण स्रामः ।
घ्नन्ति त्व् एवैनम् ।
विच्छादयन्तीव ।
अप्रियवेत्तेव भवति ।
अपि रोदितीव नाहम् अत्र भोग्यं पश्यामीति
स समित्पाणिः पुनर् एयाय ।
तं ह प्रजापतिर् उवाच ।
मघवन् यच् छान्तहृदयः प्राव्राजीः किम् इच्छन् पुनर् आगम इति ।
स होवाच ।
तद् यद्य् अपीदं भगवः शरीरम् अन्धं भवत्य् अनन्धः स भवति यदि स्रामम् अस्रामः ।
नैवैषो ऽस्य दोषेण दुष्यति
न वधेनास्य हन्यते ।
नास्य स्राम्येण स्रामः ।
घ्नन्ति त्व् इवैनम् ।
विच्छादयन्तीव ।
अप्रियवेत्तेव भवति ।
अपि रोदितीव ।
नाहम् अत्र भोग्यं पश्यामीति ।
एवम् एवैष मघवन्न् इति होवाच ।
एतं त्व् एव ते भूयो ऽनुव्याख्यास्यामि ।
वसापराणि द्वात्रिंशतं वर्षाणीति ।
स हापराणि द्वात्रिंशतं वर्षाण्युवास ।
तस्मै होवाच
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0