छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.7
छुप्भ्_7,6.1-2 ध्यानं वाव चित्ताद्भूयः ।
ध्यानं नाम शास्रोक्तदेवताद्यालम्बनेष्वचलो भिन्नजातीयैरनन्तरितः प्रत्ययसंतानः ।
एकाग्रतेति यमाहुः ।
दृश्यते च ध्यानस्य माहात्म्यं फलतः ।
कथम् ।
यथा योगी ध्यायन्निश्चलो भवति ध्यानफललाभे ।
एवं ध्यायतीव निश्चला दृश्यते पृथिवी ।
ध्यायतीवान्तरिक्षमित्यादि समानमन्यत् ।
देवाश्च मनुष्याश्च देवमनुष्या मनुष्या एव वा देवसमा देवमनुष्याः शमादिगुणसंपन्ना मनुष्या देवस्वरूपं न जहतीत्यर्थः ।
यस्मादेवं विशिष्टं ध्यानं तस्माद्य इह लोके मनुष्याणामेव धनैर्विद्यया गुणैर्वा महत्तां महत्त्वं प्राप्नुवन्ति धनादिमहत्त्वहेतुं लभन्त इत्यर्थः ।
ध्यानापादांशा इव ध्यानस्याऽपादनमापादो ध्यानफललाभ इत्येतत्तस्यांशो ऽवयवः कला काचिद्ध्यानफललाभकलावन्त इवैवेत्यर्थः ।
ते भवन्ति निश्चला इव लक्ष्यन्ते न क्षुद्रा इव ।
अथ ये पुनरल्पाः क्षुद्राः किञ्चिदपि धनादिमहत्त्वैकदेशमप्राप्तास्ते पूर्वोक्तविपरीताः कलहिनः कलहशीलाः पिशुनाः परदोषोद्भासका उपवादिनः परदोषं सामीप्ययुक्तमेव वदितुं शीलं योषां त उपवादिनश्च भवन्ति ।
अथ ये महत्त्वं प्राप्ता धनादिनिमित्तं ते ऽन्यान्प्रति प्रभवन्तीति प्रभवो विद्याचार्यराजेश्वरादयो ध्यानापादांशा इवेत्याद्युक्तार्थम् ।
अतो दृश्यते ध्यानस्य महत्त्वं फलतो ऽतो भूयश्चित्तादतस्तदुपाःस्वेत्याद्युक्तार्थम् ॥1-2 ॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य षष्ठः खण्डः
=======================================================================
स्तर्त् छुप् 7,7.1
विज्ञानं वाव ध्यानाद् भूयः ।
विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदं सामवेदम् आथर्वणं चतुर्थम् इतिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यम् एकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश् च तेजश् च देवांश् च मनुष्यांश् च पशूंश् च वयांसि च तृणवनस्पतीञ् छ्वापदान्य् आकीटपतङ्गपिपीलकम् ।
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकम् अमुं च विज्ञानेनैव विजानाति ।
विज्ञानम् उपास्स्वेति
छुप्भ्_7,7.1 विज्ञानं वाव ध्यानाद्भूयः ।
विज्ञानं शास्रार्थविषयं ज्ञानं तस्य ध्यानकारणत्वाद्ध्यानाद्भूयस्त्वम् ।
कथं च तस्य भूयस्त्वमित्याह-विज्ञानेन वा ऋग्वेदं विजानात्ययमृग्वेद इति प्रमाणतया यस्यार्थज्ञानं ध्यानकारणम् ।
तथा यजुर्वेदमित्यादि ।
किञ्च पश्वादींश्च धर्माधर्मौ शास्रसिद्धौ ।
साध्वसाधुनी लोकतः सिद्धे, स्मार्ते वा दृष्टादृष्टाविषयं च सर्वं विज्ञानेनैव विजानातीत्यर्थः ।
तस्माद्युक्तं ध्यानादिज्ञानस्य भूयस्त्वम् अतो विज्ञानमुपाःस्वेति ॥1 ॥
स्तर्त् छुप् 7,7.2
स यो विज्ञानं ब्रह्मेत्य् उपास्ते ।
विज्ञानवतो वै स लोकाञ् ज्ञानवतो ऽभिसिध्यति ।
यावद् विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्य् उपास्ते ।
अस्ति भगवो विज्ञानाद् भूय इति ।
विज्ञानाद् वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0