भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.8

7.8.1

छुप्भ्_7,7.2 शृणूपासनफलं विज्ञानवतो विज्ञानं येषु लोकेषु तान्विज्ञानवतो लोकाञ्ज्ञानवतश्चाभिसिध्यत्यभिप्राप्नोति ।
विज्ञानं शास्रार्थविषयं ज्ञानमन्यविषयं नैपुण्यं तद्वद्भिर्युक्तांल्लोकान्नाप्राप्नोतीत्यर्थः ।
यावद्विज्ञानस्येत्यादि पूर्ववत् ॥2॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य सप्तमः खण्डः
=======================================================================
स्तर्त् छुप् 7,8.1-2
बलं वाव विज्ञानाद् भूयः ।
अपि ह शतं विज्ञानवताम् एको बलवान् आकम्पयते ।
स यदा बली भवत्य् अथोत्थाता भवति ।
उत्तिष्ठन् परिचरिता भवति ।
परिचरन्न् उपसत्ता भवति ।
उपसीदन् द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति ।
बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर् बलेन पर्वता बलेन देवमनुष्या बलेन पशवश् च वयांसि च तृणवनस्पतयः श्वापदान्य् आकीटपतङ्गपिपीलकम् ।
बलेन लोकस् तिष्ठति ।
बलम् उपास्स्वेति

7.8.2

स यो बलम् उपास्ते ।
यावद् बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्य् उपास्ते ।
अस्ति भगवो बलाद् भूय इति ।
बलाद् वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc