भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.6

7.6.1

छुप्भ्_7,5.3 चित्तानुपचितान्हुद्धिमद्गुणैः स चित्तोपासको ध्रुवानित्यादि चोक्तार्थम् ॥3॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य पञ्चमः खण्डः
=======================================================================
स्तर्त् छुप् 7,6.1-2
ध्यानं वाव चित्ताद् भूयः ।
ध्यायतीव पृथिवी ।
ध्यायतीवान्तरिक्षम् ।
ध्यायतीव द्यौः ।
ध्यायन्तीवापः ।
ध्यायन्तीव पर्वताः ।
ध्यायन्तीव देवमनुष्याः ।
तस्माद् य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादांशा इवैव ते भवन्ति ।
अथ ये ऽल्पाः कलहिनः पिशुना उपवादिनस् ते ।
अथ ये प्रभवो ध्यानापादांशा इवैव ते भवन्ति ।
ध्यानम् उपास्स्वेति

7.6.2

स यो ध्यानं ब्रह्मेत्य् उपास्ते ।
यावद् ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्य् उपास्ते ।
अस्ति भगवो द्यानाद् भूय इति ।
ध्यानाद् वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc