छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.4
छुप्भ्_7,3.2 स यो इत्यादि समानम् ॥2॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य तृतीयः खण्डः
=======================================================================
स्तर्त् छुप् 7,4.1
संकल्पो वाव मनसो भूयान् ।
यदा वै संकल्पयते ऽथ मनस्यति ।
अथ वाचम् ईरयति ।
ताम् उ नाम्नीयूअति ।
नाम्नि मन्त्रा एकं भवन्ति ।
मन्त्रेषु कर्माणि
छुप्भ्_7,4.1 संकल्पो वाव मनसो भूयान् ।
संकल्पो ऽपि मनस्यनवदन्तःकरणवृत्तिः कर्तव्याकर्तव्यविषयविभागेन समर्थनम् ।
विभागेन हि समर्थिते विषये चिकीर्षाबुद्धिर्मनस्यनानन्तरं भवति ।
कथम् ।
यदा वै संकल्पयते कर्तव्यादिविषयान्विभजत इदं कर्तुं युक्तमिति, अथ मनस्यति मन्त्रानधीयीयेत्यादि ।
अथानन्तरं वाचमीरयति मन्त्राद्युच्चारणे ।
तां च वाचमु नाम्नि नामोच्चारणनिमित्तं विवक्षां कृत्वेरयति नाम्नि नामसामान्ये मन्त्राः शब्दविशेषाः सन्त एकं भवन्त्यन्तर्भवन्तीत्यर्थः ।
सामान्ये हि विशेषो ऽन्तभवति ।
मन्त्रेषु कर्माण्येकं भवन्ति ।
मन्त्रप्रकाशितानि कर्माणि क्रियन्ते नामन्त्रकमस्ति कर्म ।
यद्धि मन्त्रप्रकाशनेन लब्धसत्ताकं सत्कर्म ब्राह्मणेनेदं कर्तव्यमस्मै फलायेति विधीयते ।
याप्युत्पत्तिर्ब्राह्मणेषु कर्मणां दृश्यते सापि मन्त्रेषु लब्धसत्ताकानामेव कर्मणां स्पष्टीकरणम् ।
न हि मन्त्राप्रकाशितं कर्म किञ्चिद्ब्राह्मण उत्पन्नं दृश्यते ।
त्रयीविहितं कर्मेति प्रसिद्धम् लोके ।
त्रयीशब्दश्च ॠग्यजुःसामसमाख्या ।
मन्त्रेषु कर्माणि कवयो यान्यपश्यन्निति चाऽथर्वणे ।
तस्माद्युक्तं मन्त्रेषु कर्माण्येकं भवन्तीति ॥1 ॥
स्तर्त् छुप् 7,4.2
तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि संकल्पे प्रतिष्ठितानि ।
समकॢपतां द्यावापृथिवी ।
समकल्पेतां वायुश् चाकाशं च ।
समकल्पन्तापश् च तेजश् च ।
तेषां संकॢप्त्यै वर्षं संकल्पते ।
वर्षस्य संकॢप्त्या अन्नं संकल्पते ।
अन्नस्य संकॢप्त्यै प्राणाः संकल्पन्ते ।
प्राणानां संकॢप्त्यै मन्त्राः संकल्पन्ते ।
मन्त्राणां संकॢप्त्यै कर्माणि संकल्पन्ते ।
कर्मणां संकॢप्त्यै लोकः संकल्पते ।
लोकस्य संकॢप्त्यै सर्वं संकल्पते ।
स एष संकल्पः ।
संकल्पम् उपास्स्वेति
छुप्भ्_7,4.2 तानि ह वा एतानि मन आदीनि संकल्पैकायनानि संकल्प एको ऽयनं गमनं प्रलयो येषां तानि संकल्पैकायनानि संकल्पात्मकान्युत्पत्तौ संकल्पे प्रतिष्ठितानि स्थितौ समकॢपतां संकल्पं कृतवत्याविव हि द्यौश्च पृथिवी च द्यावापृथिव्यौ निश्चले लक्ष्येते ।
तथा समकल्पेतां वायुश्चाऽकाशं चैतावपि संकल्पं कृतवन्ताविव तथा समकल्पन्तामापश्च तेजश्च स्वेन रूपेम निश्चलानि लक्ष्यन्ते ।
यतस्तेषां द्यावापृथिव्यादीनां संकॢप्त्यै संकल्पनिमित्तं वर्षं संकल्पन्ते ।
अन्नमया हि प्राणा अन्नोपष्टम्भकाः ।
"अन्नं दाम"इति हि श्रुतिः ।
तेषां संकॢप्त्यै मन्त्राः संकल्पन्ते ।
प्राणावान्हि मन्त्रानधीते नाबलः ।
मन्त्राणां हि संकॢप्त्यै कर्माण्यग्निहोत्रादीनि संकल्पन्ते ऽनुष्ठीयमानानि मन्त्रप्रकाशितानि समर्थीभवन्ति फलाय ।
ततो लोकः फलं संकल्पते कर्मकर्तृसमवायितया समर्थीभवतीत्यर्थः ।
लोकस्य संकॢप्त्यै सर्वं जगत्संकल्पते स्वरूपावैकल्याय ।
एतद्धीदं सर्वं जगद्यत्फलावसानं तत्सर्वं संकल्पमूलम् ।
अतो विशिष्टः स एष संकल्पः ।
अतः संकल्पमुपाःस्वेत्युक्त्वा फलमाह तदुपासकस्य ॥2 ॥
स्तर्त् छुप् 7,4.3
स यः संकल्पं ब्रह्मेत्य् उपास्ते ।
कॢप्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो ऽव्यथमानान् अव्यथमानो ऽभिसिध्यति ।
यावत् संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः संकल्पं ब्रह्मेत्य् उपास्ते ।
अस्ति भगवः संकल्पाद् भूय इति ।
संकल्पाद् वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0