छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.3
छुप्भ्_7,2.2 समानमन्यत् ॥2॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य द्वितीयः खण्डः
=======================================================================
स्तर्त् छुप् 7,3.1
मनो वाव वाचो भूयः ।
यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिर् अनुभवत्य् एवं वाचं च नाम च मनो ऽनुभवति ।
स यदा मनसा मनस्यति मन्त्रान् अधीयीयेत्य् अथाधीते ।
कर्माणि कुर्वीयेत्य् अथ कुरुते ।
पुत्रांश् च पशूंश् चेच्छेयेत्य् अथेच्छते ।
इमं च लोकम् अमुं चेच्छेयेत्य् अथेच्छते ।
मनो ह्य् आत्मा ।
मनो हि लोकः ।
मनो हि ब्रह्म ।
मन उपास्स्वेति
छुप्भ्_7,3.1 मनो मनस्यनविशिष्टमन्तःकरणं वाचो भूयः ।
तद्धि मनस्यनव्यापारवद्वाचं वक्तव्ये प्रेरयति ।
तेन वाङ्मनस्यन्तर्भवति ।
यच्च यस्मिन्नन्तर्भवति तत्तस्य व्यापकत्वात्ततो भूयो भवति ।
यथा वै लोके द्वे वाऽमलके फले द्वे वा कोले बदरफले द्वौ वाक्षौ विभीतकफले मुष्टिरनुभवति मुष्टिस्ते फले व्याप्नोति मुष्टौ हि ते अन्तर्भवतः ।
एवं वाचं च नाम चाऽमलकादिवन्मनो ऽनुभवति ।
स यदा पुरुषे यस्मिन्काले मनसान्तःकरणेन मनस्यति मनस्यनं विवक्षाबुद्धिः कथं?मन्त्रानधीयीयोच्चारयेयमित्येवं विवक्षां कृत्वाथाधीते तथा कर्माणि कुर्वीयेति चिकीर्षाबुद्धिं कृत्वाथ कुरुते पुत्रांश्च पशूंश्चेच्छेयेति प्राप्तीच्छां कृत्वा तत्प्राप्त्युपायानुष्ठानेनाथेच्छते पुत्रादीन्प्राप्नोतीत्यर्थः ।
तथेमं च लोकममुं चोपायेनेच्छेयेति तत्प्रप्त्युपायानुष्ठानेनाथेच्छचे प्राप्नोति ।
मनो ह्यात्माऽत्मनः कर्तृत्वं भोक्तृत्वं च सति मनसि नान्यथेति मनो ह्यात्मेत्युच्यते ।
मनो हि लोकः सत्येव हि मनसि लोको भवति तत्प्राप्त्युपायानुष्ठानं चेति मनो हि लोको यस्मात्तस्मान्मनो हि ब्रह्म ।
यत एवं तस्मान्मन उपाःस्वेति ॥1 ॥
स्तर्त् छुप् 7,3.2
स यो मनो ब्रह्मेत्य् उपास्ते ।
यावन् मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्य् उपास्ते ।
अस्ति भगवो मनसो भूय इति ।
मनसो वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0