छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.5
छुप्भ्_7,4.3 स यः संकल्पं ब्रह्मेति ब्रह्मबुद्ध्योपास्तेकॢप्तान्वै धात्रास्येमे लोकाः फलमिति कॢप्तान्समर्थितान्संकल्पितान्स विद्वान्ध्रुवान्नित्यानत्यन्ताध्रुवापेक्षया ध्रुवश्च स्वयम् ।
लोकिनो ह्यध्रुवत्वे लोके ध्रुवकॢप्तिव्यर्थेति ध्रुवः सन्प्रतिष्ठितानुपकरणसंपन्नानित्यर्थः ।
पशुपुत्रादिभिः प्रतितिष्ठतीति दर्शनात्स्वयं च प्रतिष्ठित आत्मीयोपकरणसंपन्नो ऽव्यथमानानमित्रादित्रासरह् इतानव्यथमानश्च स्वयमभिसिध्यत्यभिप्राप्नोतीत्यर्थः ।
यावत्संकल्पस्य गतं संकल्पगोचरस्तत्रास्य यथाकामचारो भवति आत्मनः संकल्पस्य न तु सर्वेषां संकल्पस्येति ।
उत्तरफलविरोधात् ।
यः संकल्पं ब्रह्मेत्युपास्त इत्यादि पूर्ववत् ॥3॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य चतुर्थः खण्डः
=======================================================================
स्तर्त् छुप् 7,5.1
चित्तं वाव संकल्पाद् भूयः ।
यदा वै चेतयते ऽथ संकल्पयते ।
अथ मनस्यति ।
अथ वाचम् ईरयति ।
ताम् उ नाम्नीयूअति ।
नाम्नि मन्त्रा एकं भवन्ति ।
मन्त्रेषु कर्माणि
छुप्भ्_7,5.1 चित्तं वाव संकल्पाद्भूयः ।
चित्तं चेतयितृत्वं प्राप्तकालानुरूपबोधवत्त्वमतीतान गतविषयप्रयोजननिरूपणसामर्थ्यं च तत्संकल्पादपि भूयः ।
कथम् ।
यदा वै प्राप्तमिति चेतयते तदा दानाय वापोहाय वाथ संकल्पयते ऽथ मनस्यतीत्यादि पूर्ववत् ॥1 ॥
स्तर्त् छुप् 7,5.2
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि ।
तस्माद् यद्य् अपि बहुविद् अचित्तो भवति नायम् अस्तीत्य् एवैनम् आहुः ।
यद् अयं वेद यद् वा अयं विद्वान् नेत्थम् अचित्तः स्याद् इति ।
अथ यद्य् अल्पविच् चित्तवान् भवति तस्मा एवोत शुश्रूषन्ते ।
चित्तं ह्य् एवैषाम् एकायनम् ।
चित्तम् आत्मा ।
चित्तं प्रतिष्ठा ।
चित्तम् उपास्स्वेति
छुप्भ्_7,5.2 तानि संकल्पादीनि कर्मफलान्तानि चित्तैकायनानि चित्तात्मानि चित्तोत्पत्तीनि चित्ते प्रतिष्ठितानि चित्तस्थितानीत्यपि पूर्ववत् ।
किञ्च चित्तस्य माहात्म्यम् ।
यस्माच्चित्तं संकल्पादिमूलं तस्माद्यद्यपि बहुविद्बहुशास्रादिपरिज्ञानवान्सन्नचित्तो भवति प्राप्तादिचेतयितृत्वसामर्थ्यविरहितो भवति तं निपुणा लौकिकानायमस्ति विद्यमानो ऽप्यसत्सम एवेत्येनमाहुः ।
यच्चायं किञ्चिच्छास्रादि वेद श्रुतवांस्तदप्यस्य वृथैवेति कथयन्ति ।
कस्मात् ।
यद्ययं विद्वान्स्यादित्थमेवमचित्तो न स्यात्तस्मादस्य श्रुतमप्यश्रुतमेवेत्याहुरित्यर्थः ।
अथाल्पविदपि यदि चित्तवान्भवति तस्मा एतस्मै तदुक्तार्थग्रहणायैवोतापि शुश्रूषन्ते श्रोतुमिच्छन्ति ।
तस्माच्च चित्तं ह्येवैषां संकल्पादीनामेकायनमित्यादि पूर्ववत् ॥2 ॥
स्तर्त् छुप् 7,5.3
स यश् चित्तं ब्रह्मेत्य् उपास्ते ।
चित्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो ऽव्यथमानान् अव्यथमानो ऽभिसिध्यति ।
यावच् चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश् चित्तं ब्रह्मेत्य् उपास्ते ।
अस्ति भगवश् चित्ताद् भूय इति ।
चित्ताद् वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0