छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.2
छुप्भ्_7,1.5 स यस्तु नाम ब्रह्मेत्युपास्ते तस्य यत्फलं भवति तच्छृणु यावन्नाम्नो गतं नाम्नो गोचरं तत्र तस्मिन्नामविषये ऽस्य यथाकामचारः कामचरणं राज्ञ इव स्वविषये भवति ।
यो नाम ब्रह्मेत्युपास्त इत्युपसंहारः ।
किमस्ति भगवो नाम्नो भूयो ऽधिकतरं यद्ब्रह्मदृष्ट्यर्हमन्यदित्यभिप्रायः ।
सनत्कुमार आह नाम्नो वाव भूयो ऽस्त्येवेत्युक्त आह यद्यस्ति तन्मे भगवान्ब्रवीत्विति ॥5॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य प्रथमः खण्डः
=======================================================================
स्तर्त् छुप् 7,2.1
वाग् वाव नाम्नो भूयसी ।
वाग् वा ऋग्वेदं विज्ञापयति यजुर्वेदं सामवेदम् आथर्वणं चतुर्थम् इतिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यम् एकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश् च तेजश् च देवांश् च मनुष्यांश् च पशूंश् च वयांसि च तृणवनस्पतीञ् श्वापदान्य् आकीटपतङ्गपिपीलकं धर्मं चाधर्मं ।
च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च ।
यद् वै वाङ् नाभविष्यन् न धर्मो नाधर्मो व्यज्ञापयिष्यन् न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञः ।
वाग् एवैतद् सर्वं विज्ञापयति वाचम् उपास्स्वेति
छुप्भ्_7,2.1 वाग्वाव ।
वागितीन्द्रियं जिह्वाभूलादिष्वष्टसु स्थानेषु स्थितं वर्णानामभिव्यञ्जकम् ।
वर्णाश्च नामेति नाम्नो वाग्भूयसीत्युच्यते ।
कार्यद्धि कारणं भूयो दृष्टं लोके यथा पुत्रात्पिता तद्वत् ।
कथं च वाङ्नाम्नो भूयसीत्याहवाग्वा ऋग्वेदं विज्ञापयत्ययमृग्वेद इति ।
तथा यजुर्वेदमित्यादि समानम् ।
हृदयज्ञं हृदयप्रियम् ।
तद्विपरीतमहृदयज्ञम् ।
यद्यदि वाङ्नाभविष्यद्धर्मादि न व्यज्ञापयिष्यद्वागभावे ऽध्ययनाभावे तदर्थश्रवणाभावस्तच्छ्रवणाभावे धर्मादि न व्यज्ञापयिष्यन्न विज्ञातमभविष्यदित्यर्थः ।
तस्माद्वागेवैतच्छब्दोच्चारणेन सर्वं विज्ञापयत्यतो भूयसी वाङ्नाम्नस्तस्माद्वाचं ब्रह्मेत्युपाःस्व ॥1 ॥
स्तर्त् छुप् 7,2.2
स यो वाचं ब्रह्मेत्य् उपास्ते ।
यावद् वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्य् उपास्ते ।
अस्ति भगवो वाचो भूय इति ।
वाचो वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0