भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.26

7.26.1

छुप्भ्_7,25.2 अहङ्कारेण देहादिसंघातो ऽप्यादिश्यते ऽविवेकिभिरित्यतस्तदाशङ्का मा भूदित्यथानन्तरमात्मादेश आत्मनैव केवलेन सत्स्वरूपेण शुद्धेनाऽदिश्यते ।
आत्मैव सर्वतः सर्वमित्येवमेकमजं सर्वतो व्योमवत्पूर्णमन्यशून्यं पश्यन्स वा एष विद्वान्मननविज्ञानाभ्यामात्मरतिरात्मन्येव रती रमणं यस्य सो ऽयमात्मरतिः ।
तथाऽत्मक्रीडः ।
देहमात्रसाधना रतिर्बाह्यसाधना क्रीडा ।
लोके स्रीभिः सखिभिश्च क्रीडतीति दर्शनात् न तथा विदुषः किं तर्ह्यात्मविज्ञाननिमित्तमेवोभयं भवतीत्यर्थः ।
मिथुनं द्वंन्द्वजनितं सुखं तदपि द्वन्द्वनिरपेक्षं यस्य विदुषः ।
तथाऽत्मानन्दः शब्दादिनिमित्त आनन्दो ऽविदुषां न तथास्य विदुषः किं तर्ह्यात्मनिमित्तमेव सर्वं सर्वदा सर्वप्रकारेण च देहजीवितभोगादिनिमित्तबाह्यवस्तुनिरपेक्ष इत्यर्थः ।
स एवंलक्षणो विद्वाञ्जीवन्नेव स्वाराज्ये ऽभिषिक्तः पतिते ऽपि देहे स्वराडेव भवति ।
यत एवं भवति तत एव तस्य सर्वेषु लोकेषु कामचारो भवति ।
प्राणादिषु पूर्वभूमिषु तत्रास्येति तावन्मात्रपरिच्छिन्नकामचारत्वमुक्तमन्राजत्वं चार्थप्राप्तं सातिशयत्वाद्यथाप्राप्तस्वाराज्यकामचारत्वानुवादेन ततन्निवृत्तिरिहोच्यते स स्वराडित्यादिना ।
अथ पुनर्ये ऽन्यथात उक्तदर्शनादन्यथा वैपरीत्येन यथोक्तमेव वा सम्यङ्न विदुस्ते ऽन्यराजानो भवन्ति अन्यः परो राजा स्वामी येषां ते ऽन्यराजानस्ते ।
किञ्च क्षय्यो लोको येषां ते क्षय्य्लोकाः ।
भेददर्शनस्याल्पविषयत्वादल्पं च तन्मर्त्यमित्यवोचाम ।
तस्माद्ये द्वैतदर्शिनस्ते क्षय्यलोकाः स्वदर्शनानुरूप्येणैव भवन्त्यत एव तेषां सर्वेषु लोकेष्वकामचारो भवति ॥2॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य पञ्चविंशः खण्डः
=======================================================================
स्तर्त् छुप् 7,26.1
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस् तेज आत्मत आप आत्मत आविर्भावतिरोभावाव् आत्मतो ऽन्नम् आत्मतो बलम् आत्मतो विज्ञानम् आत्मतो ध्यानम् आत्मतश् चित्तम् आत्मतः संकल्प आत्मतो मन आत्मतो वाग् आत्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्य् आत्मत एवेदं सर्वम् इति

7.26.2

छुप्भ्_7,26.1 तस्य ह वा एतस्येत्यादि स्वाराज्यं प्राप्तस्य प्रकृतस्य विदुष इत्यर्थः ।
प्राक्सदात्मविज्ञानात्स्वात्मनो ऽन्यस्मात्सतः प्राणादेर्नामान्तस्योत्पत्तिप्रलयावभूतां सदात्माविज्ञाने तु सतीदानीं स्वात्मत एव संवृत्तौ तथा सर्वो ऽप्यन्यो व्यवहार आत्मत एव विदुषः ॥1 ॥
स्तर्त् छुप् 7,26.2
तद् एष श्लोकः ।
न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् ।
सर्वं ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः ।
इति ।
स एकधा भवति त्रिधा भवति पञ्चधा ।
सप्तधा नवधा चैव पुनश् चैकादश स्मृतः ।
शतं च दश चैकश् च सहस्राणि च विंशतिः ।
आहारशुद्धौ सत्त्वशुद्धिः ।
सत्त्वशुद्धौ ध्रुवा स्मृतिः ।
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ।
तस्मै मृदितकषायाय तमसस् पारं दर्शयति भगवान् सनत्कुमारः ।
तं स्कन्द इत्य् आचक्षते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc