छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.25
छुप्भ्_7,24.2 यदि स्वमहिम्नि प्रतिष्ठितो भूमा कथं तर्ह्यप्रतिष्ठ उच्यते ।
शृणु ।
गो ऽश्वादीह महिमेत्याचक्षते ।
गावश्चाश्वाश्च गो ऽश्वं द्वन्द्वैकवद्भावः ।
सर्वत्र गवाश्वादि महिमेति प्रसिद्धं तदाश्रितस्तत्प्रतिष्ठश्चैत्रो भवति, यथा नाहमेवं स्वतो ऽन्यं महिमानमाश्रितो भूमा चैत्रवदिति ब्रवीम्यत्र हेतुत्वेनान्यो ह्यन्यस्मिन्प्रतिष्ठित इति व्यवहितेन सम्बन्धः ।
किन्त्वेवं ब्रवीमीति होवाच-स एवेत्यादि ॥2॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य चतुर्विंशः खण्डः
=======================================================================
स्तर्त् छुप् 7,25.1
स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः ।
स एवेदं सर्वम् इति ।
अथातो ऽहंकारादेश एव ।
अहम् एवाधस्ताद् अहम् उपरिष्टाद् अहं पश्चाद् अहं पुरस्ताद् अहं दक्षिणतो ऽहम् उत्तरतो ऽहम् एवेदं सर्वम् इति
छुप्भ्_7,25.1 कस्मात्पुनः क्वचिन्न प्रतिष्ठित इत्युच्यते ।
यस्मात्स एव भूमाधस्तान्न तद्व्यतिरेकेणान्यद्विद्यते यस्मिन्प्रतिष्ठितः स्यात् ।
तथोपरिष्टादित्यादि समानम् ।
सति भूम्नो ऽन्यस्मिन्भूमा हि प्रतिष्ठितः स्यान्न तु तदस्ति ।
स एव तु सर्वम् ।
अतस्तस्मादसौ न क्वचित्प्रतिष्ठितः ।
यत्र नान्यत्पश्यतीत्यधिकरणाधिकर्तव्यतानिर्देशात्स एवाधस्तादिति च परोक्षनिर्देशाद्द्रष्टर्जीवादन्योभूमा स्यादित्याशङ्का कस्यचिन्मा भूदित्यथातो ऽनन्तरमहङ्कारादेशो ऽहङ्कारेणाऽदिश्यत इत्यहङ्कारादेशः ।
द्रष्टुरनन्यत्वदर्शनार्थं भूमैव निर्दिश्यते ऽहङ्कारेणाहमेवाधस्तादित्यादिना ॥1 ॥
स्तर्त् छुप् 7,25.2
अथात आत्मादेश एव ।
आत्मैवाधस्ताद् आत्मोपरिष्टाद् आत्मा पश्चाद् आत्मा पुरस्ताद् आत्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वम् इति ।
स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् आत्मरतिर् आत्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति ।
तस्य सर्वेषु लोकेषु कामचारो भवति ।
अथ ये ऽन्यथातो विदुर् अन्यराजानस् ते क्षय्यलोका भवन्ति ।
तेषां सर्वेषु लोकेष्व् अकामचारो भवति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0