छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.1
छुप्भ्_7,26.2 किञ्च तदेतस्मिन्नर्थ एष श्लोको मन्त्रो ऽपि भवति ।
न पश्यः पश्यतीति पश्यो यथोक्तदर्शी विद्वानित्यर्थः ।
मृत्युं मरणं रोगं ज्वरादि दुःखतां दुःखभावं चापि न पश्यति ।
सर्वं ह सर्वमेव स पश्यः पश्यत्यात्मानमेव सर्वं ततः सर्वमाप्नोति सर्वशः सर्वप्रकारैरिति ।
किञ्च स विद्वान्प्राक्सृष्टिप्रभेदादेकधैव भवत्येकधैव च संस्रिधादिभेदैरनन्तभेदप्रकारो भवति सृष्टिकाले ।
पुनः संहारकाले मूलमेव स्वं पारमार्थकमेकधाभावं प्रतिपद्यते स्वतन्त्र एवेति विद्यां फलेन प्ररोचयन्स्तौति ।
अथेदानीं यथोक्ताया विद्यायाः सम्यगवभासकारणं मुखावभासकारणस्येवाऽदर्शस्य विशुद्धिकारणं साधनमुपदिश्यते-आहारशुद्धौ ।
आह्रियत इत्याहारः शब्दादिविषयविज्ञानं भोक्तुर्भोगायाऽह्रियते विशुद्धिकारणं साधनमुपदिश्यते-आहारशुद्धौ ।
आह्रियत इत्याहरः शब्दादिविषयविज्ञानं भोक्तुर्भोगायाऽह्रियते तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुद्धिराहारशुद्धी रागद्वेषमोहदोषैरसंसृष्टं विषयविज्ञानमित्यर्थः ।
तस्यामाहाराशुद्धौ सत्यां तद्वतो ऽन्तःकरणस्य सत्त्वस्य शुद्धिर्नैर्मल्यं भवति ।
सत्त्वशुद्धौ च सत्यां यथावगते भूमात्मनि ध्रुवाविच्छिन्ना स्मृतिरविस्मरमं भवति ।
तस्यां च लब्धायां स्मृतिलम्भे सति सर्वेषामविद्याकृतानर्थपाशरूपाणामनेकजन्मान्तरानुभवभावनाकठिनीकृतानां हृदयाक्षयाणां ग्रन्थीनां विप्रमोक्षो विशेषेण प्रमोक्षणं विनाशो भवतीति ।
यत एतदुत्तरोत्तरं यथोक्तमाहारशुद्धिमूलं तस्मात्सा कार्येत्यर्थः ।
सर्वं शास्रार्थमशेषत उक्त्वाऽख्यायिकामुपसंहरति श्रुतिः-तस्मै मृदितकषायाय वार्क्षादिरिव कषायो रागद्वेषादिदोषः सत्त्वस्य रञ्जनारूपत्वात्स ज्ञानवैराग्याभ्यासरूपक्षारेण क्षालितो मृदितो विनाशितो यस्य नारदस्य तस्मै योग्याय मृदितकषायाय तमसो ऽविद्यालक्षणात्पारं परमार्थतत्त्वं दर्शयति दर्शितवानित्यर्थः ।
को ऽसौ, भगवान्-"उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥
" एवन्धर्मा सनत्कुमारः ।
तमेव सनत्कुमारं देवं स्कन्द इत्याचक्षते कथयन्ति तद्विदः ।
द्विर्वचनमध्यायपरिसमाप्त्यर्थम् ॥2 ॥ ॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य षड्विंशः खण्डः
इति च्छान्दोग्योपनिषद्ब्रह्मणे सप्तमोध्यायः समाप्तः
अथ अष्टमो ऽध्यायः
ओं
स्तर्त् छुप् 8,1.1
अथ यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकासः ।
तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वाव विजिज्ञासितव्यम् इति
छुप्भ्_8,1.1
यद्यपि दिग्देशकालादिभेदशून्यं ब्रह्म सदेकमेवाद्वितीयमात्मैवेदं सर्वमिति षष्ठसप्तमयोरधिगतं तथापीह मन्दबुद्धीनां दिग्देशादिभेदवद्वस्त्वित्येवं भाविता बुद्धिर्न शक्यते सहसा परमार्थविषया कर्तुमित्यनधिगम्य च ब्रह्म न पुरुषार्थसिद्धिरिति तदधिगमाय हृदयपुण्डरीकदेश उपदेष्टव्यः ।
यद्यपि सत्सम्यक्प्रत्ययैकविषया कर्तुमित्यानधिगम्य च ब्रह्म न पुरुषार्थसिद्धिरिति तदधिगमाय हृदयपुण्डरीकदेश उपदेष्टव्यः ।
यद्यपि सत्सम्यक्प्रत्ययैकविषयं निर्गुणं चाऽत्मतत्त्वं तथापि मन्दबुद्धीनां गुणवत्त्वस्येष्टत्वात्सत्यकामादिगुणवत्त्वं च वक्तव्यम् ।
तथा यद्यपि ब्रह्मविदां स्त्र्यादिविषयेभ्यः स्वयमेवोपरमो भवति तथाप्यनेकजन्मविषयसेवाभ्यासजनिता विषयविषया तृष्णा न सहसा निवर्तयितुं शक्यत इति ब्रह्मचर्यादिसाधनविशेषो विधातव्यः ।
तथा यद्यप्यात्मैकत्वविदां गन्तृगमनगन्तव्याभावादविद्याविशेषस्थितिनिमित्तक्षये गगन इव विद्युदुद्भूत इव वायुर्दग्धेन्धन इवाग्निः स्वात्मन्येव निवृत्तिस्तथापि गन्तृगमनादिवासितबुद्धीनां हृदयदेशगुणविशिष्टब्रह्मोपासकानां मूर्धन्यया नाड्या गतिर्वक्तव्येत्यष्टमः प्रपाठक आरभ्यते ।
दिग्देशगुणगतिफलभेदशून्यं हि परमार्थसदद्वयं ब्रह्ममन्दबुद्धीनामसदिव प्रतिभाति ।
सन्मार्गस्थास्तावद्भवन्तु ततः शनैः परमार्थसदपि ग्राहयिष्यामीति मन्यते श्रुतिः ।
अथानन्तरं यदिदं वक्ष्यमाणं दहरमल्पं पुण्डरीकं पुण्डरीकसदृशं वेश्मेव वेश्म द्वारपालादिमत्त्वात् ।
अस्मिन्ब्रह्मपुरे ब्रह्मणः परस्य पुरं राज्ञो ऽनेकप्रकृतिमद्यथापुरं तथेदमनेकेन्द्रियमनोबुद्धिभिः स्वाम्यर्थकारिभिर्युक्तमिति ब्रह्मपुरम् ।
पुरे च वेश्म राज्ञो यथा तथा तस्मिन्ब्रह्मपुरे शरीरे दहरं वेश्म ब्रह्मण उपलब्ध्यधिष्ठानमित्यर्थः ।
यथा विष्णोः शालग्रामः ।
अस्मिन्हि स्वविकारशिङ्गे देहे नामरूपव्याकरणाय प्रविष्टं सदाख्यं ब्रङ्म जीवेनाऽत्मनेत्युक्तम् ।
तस्मादस्मिन्हृदयपुण्डरीके वेश्मन्युपसंहृतकरणैर्बाह्यविषयविरक्तैर्विशेषतो ब्रह्मचर्यसत्यसाधनाभ्यां युक्तेर्वक्ष्यमाणगुणवद्ध्यायमानैर्ब्रह्मोपलभ्यत इति प्रकरणार्थः ।
दहरो ऽल्पतरो ऽस्मिन्दहरे वेश्मनि वेश्मनो ऽल्पत्वात्तदन्तर्वर्तिनो ऽल्पतरत्वं वेश्मनः ।
अन्तराकाश आकाशाख्यं ब्रह्म ।
आकाशो वै नामेति हि वक्ष्यति ।
आकाश इवाशरीरत्वात्सूक्ष्मत्वसर्वगतत्वसामान्याच्च ।
तस्मिन्नाकाशाख्ये यदन्तर्मध्ये तदन्वेष्टव्यम् ।
तद्वाव तदेव च विशेषेण जिज्ञासितव्यं गुर्वाश्रयश्रवणाद्युपायैरन्विष्य च साक्षात्करणीयमित्यर्थः ॥1 ॥
स्तर्त् छुप् 8,1.2
तं चेद् ब्रूयुर् यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकाशः किं तद् अत्र विद्यते यद् अन्वेष्टव्यं यद् वाव विजिज्ञासितव्यम् इति ।
स ब्रूयात्
छुप्भ्_8,1.2 तं चेदेवमुक्तवन्तमाचार्यं यदि ब्रूयुरन्तेवासिनश्चोदयेयुः, कथं, यदिदमस्मिन्ब्रह्मपुरे परिच्छिन्ने ऽन्तर्दहरं पुण्डरीकं वेश्म ततो ऽप्यन्तरल्पतर एवाऽकाशः ।
पुण्डरीक एव वेश्मनि तावत्किं स्यात् ।
किं ततो ऽल्पतरे खे यद्भवेदित्याहुः ।
दहरो ऽस्मिन्नन्तराकाशः किं तदत्र विद्यते न किञ्चन विद्यत इत्यभिप्रायः ।
यदि नाम बदरमात्रं किमपि विद्यते किं तस्यान्वेषणेन विजिज्ञासनेन वा फलं विजिज्ञासितुः स्यात् ।
अतो यत्त्त्रान्वेष्टव्यं विजिज्ञासितव्यं वा न तेन प्रयोजनमित्युक्तवतः स आचार्यो ब्रूयादिति श्रुतेर्वचनम् ॥2 ॥
स्तर्त् छुप् 8,1.3
यावान् वा अयम् आकाशस् तावान् एषो ऽन्तर्हृदय आकाशः ।
उभे ऽस्मिन् द्यावापृथिवी अन्तर् एव समाहिते ।
उभाव् अग्निश् च वायुश् च सूर्याचन्द्रमसाव् उभौ विद्युन् नक्षत्राणि ।
यच् चास्येहास्ति यच् च नास्ति सर्वं तद् अस्मिन् समाहितम् इति
छुप्भ्_8,1.3 शृणुत ।
तत्र यद्ब्रूथ पुण्डरीकान्तःखस्याल्पत्वात्तत्स्थमल्पतरं स्यादिति ।
तदसत् ।
न हि खं पुण्डरीकवेशमगतं पुण्डरीकादल्पतरं मत्वावोचं दहरो ऽर्स्मिन्नन्तराकाश इति ।
किं तर्हि पुण्डरीकमल्पं तदनुविधायि तत्स्थमन्तःकरणं पुण्डरीकाकाशपरिच्छिन्नं तस्मिन्विशुद्धे संहृतकरणानां योगिनां स्वच्छ इवोदके प्रतिबिम्बरूपमादर्श इव च शुद्धे स्वच्छं विज्ञानज्योतिः स्वरूपावभासं तावन्मात्रं ब्रह्मोपलभ्यत इति दहरो ऽस्मिन्नन्तराकाश इत्यवोचामान्तःकरणोपाधिनिमित्तम् ।
स्वतस्तु यावान्वै प्रसिद्धः परिमाणतो ऽयमाकाशो भौतिकस्तावानेषो ऽन्तर्हृदय आकाशो यस्मिन्नन्वेष्टव्यं विजिज्ञासितव्यं चावोचाम ।
नाप्याकाशतुल्यपरिमाणत्वमभिप्रेत्य तावानित्युच्यते ।
किं तर्हि ब्रह्मणो ऽनुरूपस्य दृष्टान्तान्तरस्याभावात् ।
कथं पुनर्नाऽकाशसममेव ब्रह्मेत्यवगम्यते ।
"येनाऽवृतं खं च दिवं महीं च" ।
"तस्माद्वा एतस्मादात्मन आकाशः संभूतः" "एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः"इत्यादिश्रुतिभ्यः ।
किञ्चोभे ऽस्मिन्द्यावापृथिवी ब्रह्माकाशे बुद्ध्युपाधिविशिष्टे ऽन्तरेव समाहिते सम्यगाहिते स्थिते यथा वा अरा नाभावित्युक्तं हि ।
तथोभावग्निश्च वायुश्चेत्यादि समानम् ।
यच्चास्याऽत्मन आत्मीयत्वेन देहवतो ऽस्ति विद्यत इह लोके ।
तता यच्चाऽत्मीयत्वेन न विद्यते ।
नष्टं भविष्यच्च नास्तीत्युच्यते ।
न त्वत्यन्तमेवासत् ।
तस्य हृद्याकाशे समाधानानुपपत्तेः ॥3 ॥
स्तर्त् छुप् 8,1.4
तं चेद् ब्रूयुर् अस्मिंश् चेदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यद् एनज् जरा वाप्नोति प्रध्वंसते वा किं ततो ऽतिशिष्यत इति
छुप्भ्_8,1.4 तं चेदेवमुक्तवन्तं ब्रूयुः पुनरन्तेवासिनः अस्मिंश्चेद्यथोक्ते चेद्यदि ब्रह्मपुरोपलक्षितान्तराकाश इत्यर्थः ।
इदं सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामाः ।
कथमाचार्येणानुक्ताः कामा अन्तेवासिभिरुच्यन्ते ।
नैष दोषः यच्चास्येहास्ति यच्च नास्तीत्युक्ता एव ह्याचार्येण कामाः ।
अपि च सर्वशब्देन चोक्ता एव कामाः ।
यदा यस्मिन्काल एतच्छरीरं ब्रह्मपुराख्यं जरावलीपलितादिलक्षणा वयोहानिर्वाऽप्नोति शस्रादिना वा वृक्णं प्रध्वंसते विस्रंसते विनश्यति किं ततो ऽन्यदतिशिष्यते ।
घटाश्रितक्षीरदधिस्नेहादिवद्घटनाशे देहनाशे ऽपि देहाश्रयमुत्तरोत्तरं पूर्वपूर्वनाशान्नश्यतीत्यभिप्रायः ।
एवं प्राप्ते नाशे किं ततो ऽन्यद्यथोक्तादतिशिष्यते ऽवतिष्ठते न किञ्चनावतिष्ठत इत्यभीप्रायः ॥4 ॥
स्तर्त् छुप् 8,1.5
स ब्रूयात् ।
नास्य जरयैतज् जीर्यति न वधेनास्य हन्यते ।
एतत् सत्यं ब्रह्मपुरम् अस्मिन् कामाः समाहिताः ।
एष आत्मापहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः ।
यथा ह्य् एवेह प्रजा अन्वाविशन्ति यथानुशासनम् ।
यं यम् अन्तम् अभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तम् एवोपजीवन्ति
छुप्भ्_8,1.5 एवमन्तेवासिभिश्चोदितः स आचार्यो ब्रूयात्तन्मतिमपनयन् ।
कथम् ।
अस्य देहस्य जरयैतद्यथोक्तमन्तराकाशाख्यं ब्रङ्म यस्मिन्सर्व समाहितं न जीर्यति देहवन्न विक्रियत इत्यर्थः ।
न चास्य वधेन शस्रादिघातेनैतद्धन्यते यथाऽकाशं किमु ततो ऽपि सूक्ष्मतरमशब्दमस्पर्शं ब्रह्म देहेन्द्रियादिदोषैर्न स्पृश्यत इत्येतस्मिन्नवसरे वक्तव्यं प्राप्तं तत्प्रकृतव्यासङ्गो मा भूदिति नोच्यते ।
इन्द्रविरोचनाख्यायिकायामुपरिष्टाद्वक्ष्यामो युक्तितः ।
एतत्सत्यमवितथं ब्रह्मपुरं ब्रह्मैव पुरं ब्रह्मपुरं शरीराख्यं तु ब्रह्मपुरं ब्रह्मोपलक्षणार्थत्वात् ।
तत्त्वनृतमेव ।
"वाचाऽरम्भणं विकारो नामधेयम्"इति श्रुतेः ।
तद्विकारे ऽनृते ऽपि देहशुङ्गे ब्रह्मोपलभ्यत इति ब्रह्मपुरमित्युक्तं व्यावहारिकम् ।
सत्यं तु ब्रह्मपुरमेतदेव ब्रह्म ।
सर्वव्यवहारास्पदत्वात् ।
अतो ऽस्मिन्पुण्डरीकोपलक्षिते ब्रह्मपुरे सर्वे कामा ये बहिर्भवद्भिः प्रार्थ्यन्ते ते ऽस्मिन्नेव स्वात्मनि समाहिताः ।
अतस्तत्प्राप्त्युपायमेवानुतिष्ठत बाह्यविषयतृष्मां त्यजतेत्यभिप्रायः ।
एष आत्मा भवतां स्वरूपम् ।
शृणुत तस्य लक्षणम् ।
अपहतपाप्मा ।
अपहतः पाप्मा धर्माधर्माख्यो यस्य सो ऽयमपहतपाप्मा ।
तथा विजरो विगतजरो विमृत्युश्च ।
तदुक्तं पूर्वमेव न वधेनास्य हन्यत इति ।
किमर्थ पुनरुच्यते ।
यद्यपि देहसंबन्धिभ्यां जरामृत्युभ्यां न संबध्यते ऽन्यथापि संबन्धस्ताभ्यां स्यादित्याशङ्कानिवृत्त्यर्थम् ।
विशोको विगतशोकः ।
शोको नामेष्टादिवियोगनिमित्तो मानसः संतापः ।
विजिघत्सो विगताशनेच्छः ।
अपिपासो ऽपानेच्छः ।
नन्वपहतपाप्मत्वेन जरादयः शोकान्ताः प्रतिषिद्धा एव भवन्ति ।
कारणप्रतिषेधात् ।
धर्माधर्मकार्या हि त इति ।
जरादिप्रतिषेधेन वा धर्माधर्मयोः कार्याभावे विद्यमानयोरप्यसत्समत्वमिति पृथक्प्रतिषेधो ऽनर्थकः स्यात् ।
सत्यमेवं तथापि धर्मकार्या नन्दव्यतिरेकेण स्वाभाविकानन्दो यथेश्वरे विज्ञानमानन्दं ब्रह्मेति श्रुतेः ।
तथाधर्मकार्यजरादिव्यतिरेकेणापि जरादिदुःखस्वरूपं स्वाभाविकं स्यादित्याशङ्क्येत ।
अतो युक्तस्तन्निवृत्तये जरादीनां धर्माधर्माभ्यां पृथक्प्रतिषेधः ।
जरादिग्रहणं सर्वदुःखोपलक्षणार्थम् ।
पापनिमित्तानां तु दुःखानामानन्त्यात्प्रत्येकं च तत्प्रतिषेधस्याशक्यत्वात्सर्वदुःखप्रतिषेधार्थं युक्तमेवापहतपाप्मत्ववचनम् ।
सत्या अवितथाः कामा यस्य सो ऽयं सत्यकामः ।
वितथा हि संसारिणां कामाः ।
ईश्वरस्य तद्विपरीताः ।
तथा कामहेतवः संकल्पा अपि सत्या यस्य स सत्यसंकल्पः ।
संकल्पाः कामाश्च शुद्धसत्त्वोपाधिनिमित्ता ईश्वरस्य चित्रगुवत् ।
न स्वतो नेति नेतीत्युक्तत्वात् ।
यथोक्तलक्षण एवाऽत्मा विज्ञेयो गुरुभ्यः शास्त्रतश्चाऽत्मसंवेद्यतया च स्वाराज्यकामैः ।
न चेद्विज्ञायते को दोषः स्यादिति ।
शृणुतात्र दोषं दृष्टान्तेन ।
यथा ह्येवेह लोके प्रजा अन्वाविशन्त्यनुवर्तन्ते ।
यथानुशासनं यथेह प्रजा अन्यं स्वामिनं मन्यमानाः स्वस्य स्वामिनो यथा यथानुशासनं तथा तथान्वाविशन्ति ।
किम् ।
यं यमन्तं प्रत्यन्तं जनपदं क्षेत्रभागं चाभिकामा अर्थिन्यो भवन्त्यात्मबुद्ध्यनुरूपं तं तमेव च प्रत्यन्तादिमुपजीवन्तीति ।
एष दृष्टान्तो ऽस्वातन्त्र्यदेषं प्रति पुण्यफलोपभोगे ॥5 ॥
स्तर्त् छुप् 8,1.6
तद् यथेह कर्मजितो लोकः क्षीयत एवम् एवामुत्र पुण्यजितो लोकः क्षीयते ।
तद् य इहात्मानम् अननुविद्य व्रजन्त्य् एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेष्व् अकामचारो भवति ।
अथ य इहात्मानम् अनिवुद्य व्रजन्त्य् एतंश् च सत्यान् कामांस् तेषां सर्वेषु लोकेषु कामचारो भवति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0