छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.24
छुप्भ्_7,23.1 यो वै भूमा महन्निरतिशयं बह्विति पर्यायास्तत्सुखम् ।
ततोर्ऽवाक्सातिशयत्वादल्पम् ।
अतस्तस्मिन्नल्पे सुखं नास्ति ।
अल्पस्याधिकतृष्णाहेतुत्वात् ।
तृष्णा च दुःखबीजं ।
न हि दुःखबीजं सुखं दृष्टं ज्वरादि लोके ।
तस्माद्युक्तं नाल्पे सुखमस्तीति ।
अतो भूमैव सुखम् ।
तृष्णादिदुःखबीजत्वासंभवाद्भूम्नः ॥1॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य त्रयोविंशः खण्डः
स्तर्त् छुप् 7,24.1
यत्र नान्यत् पश्यति नान्यच् छृणोति नान्यद् विजानाति स भूमा ।
अथ यत्रान्यत् पश्यत्य् अन्यच् छृणोत्य् अन्यद् विजानाति तद् अल्पम् ।
यो वै भूमा तद् अमृतम् ।
अथ यद् अल्पं तन् मर्त्यम् ।
स भगवः कस्मिन् प्रतिष्ठित इति ।
स्वे महिम्नि यदि वा न महिम्नीति
छुप्भ्_7,24.1 किंलक्षणो ऽसौ भूमेत्याह-यत्र यस्मिन्भूम्नि तत्त्वे नान्यद्द्रष्टव्यमन्येन करणेन द्रष्टान्यो विभक्तो दृश्यात्पश्यति ।
तथा नान्यच्छृणोति ।
नामरूपयोरेवान्तर्भावाद्विषयभेदस्य तद्ग्राहकयोरेवेह दर्शनश्रवणयोर्ग्रहणमन्येषां चोपलक्षणार्थत्वेन ।
मननं चात्रोक्तं द्रष्टव्यं नान्यन्मनुत इति ।
प्रायशो मननपूर्वकत्वाद्विज्ञानस्य ।
तथा नान्यद्विजानाति ।
एवंलक्षणो यः स भूमा ।
किमत्र प्रसिद्रान्यदर्शनाभावो भूम्न्युच्यते नान्यत्पश्यतीत्यादिना, अथान्यन्न पश्यत्यात्मानं पश्यतीत्येतत् ।
किञ्चातः ।
यद्यन्यदर्शनाद्यभावमात्रमित्युच्यते तदा द्वैतसंव्यवहारविलक्षणो भूमेत्युक्तं भवति ।
अथान्यद्रशनविशेषप्रतिषेधेनाऽत्मानं पश्यतीत्युच्यते तदैकस्मिन्नेव क्रियाकारकफलभेदो ऽभ्युपगतो भवेत् ।
यद्येवं को दोषः स्यात् ।
नन्वयमेव दोषः संसारानिवृत्तिः ।
क्रियाकारकफलभेदो हि संसार इति ।
आत्मैकत्व एव क्रियाकारकफलभेदः संसारविलक्षण इति चेत् ।
न ।
आत्मनो निर्विशेषैकत्वाभ्युपगमे दर्शनादिक्रियाकारकफलभेदाभ्युपगमस्य शब्दमात्रत्वात् ।
अन्यदर्शनाद्यभावोक्तिपक्षे ऽपि यत्रेत्यन्यन्न पश्यतीति च विशेषणे अनर्थके स्यातामिति चेत् ।
दृश्यते हि लोके यत्र शून्ये गृहे ऽन्यन्न पश्यतीत्युक्ते स्तम्भादीनात्मानं च न न पश्यतीति गम्यते ।
एवमिहापीति चेत् ।
न ।
तत्त्वमसीत्येकत्वोपदेशादधिकरणाधिकर्तव्यभेदानुपपत्तेः ।
तथा सदेकमेवाद्वितीयं सत्यमिति षष्ठे निर्धारितत्वात् ।
"अदृश्ये ऽनात्म्ये" "न संदृशे तिष्ठति रूपमस्य" "विज्ञातारमरे केन विजानीयात्"इत्यादिश्रुतिभ्यः स्वात्मनि दर्शनाद्यनुपपत्तिः ।
यत्रेति विशेषणमनर्थकं प्राप्तमिति चेत् ।
न ।
अविद्याकृतभेदापेक्षत्वात् ।
यथा सत्येकत्वाद्वितीयत्वबुद्धिं प्रकृतामपेक्ष्य सदेकमेवाद्वितीयमिति संख्याद्यनर्हमप्युच्यते ।
एवं भूम्न्येकस्मिन्नेव यत्रेति विशेषणम् ।
अविद्यावस्थायामन्यदर्शनानुवादेन च भूम्नस्तदभावत्वलक्षणस्य विवक्षितत्वान्नान्यत्पश्यतीति विशेषणम् ।
तस्मात्संसारव्यवहारो भूम्नि नास्तीति समुदायार्थः ।
अथ यत्राविद्याविषये ऽन्यो ऽन्येनान्यत्पश्यतीति तदल्पमविद्याकालभावीत्यर्थः ।
यथा स्वप्नदृश्यं वस्तु प्राक् प्रबोधात्तत्कालभावीति तद्वत् ।
तत एव तन्मर्त्यं विनाशि स्वप्नवस्तुवदेव तद्विपरोतो भूमा यस्तदमृतम् ।
तच्छब्दो ऽमृतत्वपरः ।
स तर्ह्येवंलक्षणो भूमा हे भगवन्कस्मिन्प्रतिष्ठित इत्युक्तवन्तं नारदं प्रत्याह सनत्किमारः ।
स्वे महिम्नीति स्व आत्मीये महिम्नि माहात्म्ये विभूतौ प्रतिष्ठितो भूमा ।
यदि प्रतिष्ठामिच्छसि क्वचिद्यदि वा परमार्थमेव पृच्छसि न महिम्न्यपि प्रतिष्ठित इति ब्रूमः ।
अप्रतिष्ठितो ऽनाश्रितो भूमा क्वचिदपीत्यर्थः ॥1 ॥
स्तर्त् छुप् 7,24.2
गो ऽश्वम् इह महिमेत्य् आचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्य् आयतनानीति ।
नाहम् एवं ब्रवीमि ।
ब्रवीमीति होवाच ।
अन्यो ह्य् अन्यस्मिन् प्रतिष्ठित इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0