छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.23
छुप्भ्_7,22.1 सापि कृतिर्यदा सुखं लभते सुखं निरतिशयं वक्ष्यमाणं लब्धव्यं मयेति मन्यते तदा भवतीत्यर्थः ।
यथा दृष्टफलसुखा कृतिस्तथेहापि नासुखं लब्ध्वा करोति ।
भविष्यदपि फलं लब्ध्वेत्युच्यते ।
तदुद्दिश्य प्रवृत्त्युपपत्तेः ।
अथेदानीं कृत्यादिषूत्तरोत्तरेषु सत्सु सत्यं स्वयमेव प्रतिभासत इति न तद्विज्ञानाय पृथग्यत्नः कार्य इति प्राप्तं तत इदमुच्यते ।
सुखं त्वेव विजिज्ञासितव्यमित्यादि ।
सुखं भगवो विजिज्ञास इत्यभिमुखीभूतायाऽह ॥1॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य द्वाविंशः खण्डः
स्तर्त् छुप् 7,23.1
यो वै भूमा तत् सुखम् ।
नाल्पे सुखम् अस्ति ।
भूमैव सुखम् ।
भूमा त्व् एव विजिज्ञासितव्य इति ।
भूमानं भगवो विजिज्ञास इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0