छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.1
छुप्भ्_6,16.3 स यथा सत्याभिसन्धस्तप्तपरशुग्रहणकर्मणि सत्यव्यवहितहस्ततलत्वान्नादाह्येत न दह्येतेत्येतदेवं सद्ब्रह्मसत्याभिसन्धीतरयोः शरीरपातकाले च तुल्यायां सत्सम्पत्तौ विद्वान्सत्सम्पद्य न पुनर्व्याघ्रदेवादिदेहग्रहणायाऽवर्तते ।
अविद्वांस्तु विकारानृताभिसन्धः पुनर्व्याघ्रादिभावं देवतादिभावं वा यथाकर्म यथाश्रुतं प्रतिपद्यते ।
यदात्माभिसन्ध्यनभिसन्धिकृते मोक्षबन्धने यच्च मूलं जगतो यदायतना यत्प्रतिष्ठाश्च सर्वाः प्रजा यदात्मकं च सर्वं यच्चाजममृतमभयं शिवमद्वितीयं तत्सत्यं स आत्मा तवातस्तत्त्वमसि हे श्वेतकेतो इत्युक्तार्थमसकृद्वाक्यम् ।
कः पुनरसौ श्वेतकेतुस्त्वंशब्दार्थः ।
यो ऽहं श्वेतकेतुरुद्दालकस्य पुत्र इति वेदाऽत्मानमादेशं श्रुत्वा मत्वा विज्ञाय चाश्रुतममतमविज्ञातं विज्ञातुं पितरं पप्रच्छ कथं नु भगवः स आदेशो बवतीति स एषो ऽधिकृतः श्रोता मन्ता विज्ञाता तेजोबन्नमयं कार्यकारणसङ्घातं प्रविष्टा परैव देवता नामस्वरूपव्याकरणायाऽदर्श इव पुरुषः सूर्यादुरिव जलादौ प्रतिबोधितस्तत्त्वमसीतिदृष्टान्तैर्हेतुभिश्च तत्पितुरस्य ह किलोक्तं सदेवाहमस्मीति विजज्ञौ विज्ञातवान् ।
द्विर्वचनमध्यायपरिसमाप्त्यर्थम् ।
किं पुनरत्र षष्ठे वाक्यप्रमाणेन जनितं फलम्?आत्मनि कर्तृत्वभोक्तृत्वयोरधिकृतत्वविज्ञाननिवृत्तिस्तस्य फलं यं वयमवोचाम त्वंशब्दवाच्यमर्थं श्रोतुं मन्तुं चाधिकृतमविज्ञातविज्ञानफलार्थम् ।
प्राक्चैतस्माद्विज्ञानादहमेवं करिष्याम्यग्निहोत्रादीनि कर्माण्यहमत्राधिकृतः ।
एषां च कर्मणां फलमिहामुत्र च भोक्ष्ये कृतेषु वा कर्मसु कृतकर्तव्यः स्यामित्येवं कर्तृत्वभोक्तृत्वयोरधिकृतो ऽस्मीत्यात्मनि यद्विज्ञानमभूत्तत्तस्य यत्सज्जगतो मूलमेकमेवाद्वितीयं तत्त्वमसीत्यनेन वाक्येन प्रतिबुद्धस्य निवर्तते ।
विरोधात् ।
न ह्येकस्मिन्नद्वितीय आत्मन्ययमहमस्मीति विज्ञाते ममेदमन्यदनेन कर्तव्यमिदं कृत्वास्य फलं भोक्ष्य इति वा भेदविज्ञानमुपपद्यते ।
तस्मात्सत्सत्याद्वितीयात्मविज्ञाने विकारानृतजीवात्मविज्ञानं निवर्तत इति युक्तम् ।
ननु तत्त्वमसीत्यत्र त्वंशब्दवाच्येर्ऽथे सद्बुद्धिराधित्स्यते यथाऽदित्यमन आदिषु ब्रह्मादिबुद्धिः ।
यथा च लोके प्रतिमादिषु विष्ण्वादिबुद्धिस्तद्वन्नतु सदेव त्वमिति, यदि सदेव श्वेतकेतुः स्यात्कथमात्मानं न विजानीयाद्येन तस्मै तत्त्वमसीत्युपदिश्यते ।
न ।
आदित्यादिवाक्यवैलक्षण्यात् ।
आदित्यो ब्रह्मेत्यादावितिशब्दव्यवधानान्न साक्षाद्ब्रह्मत्वं गम्यते ।
रूपादिमत्त्वाच्चाऽदित्यादीनामाकाशमनसोश्चेतिशब्दव्यवधानादेवाब्रह्मत्वमिह तु सत एवेह प्रवेशं दर्शयित्वा तत्त्वमसीति निरङ्कुशं सदात्मभावमुपदिशति ।
ननु पराक्रमादिगुणः सिंहो ऽसि त्वमितिवत्तत्त्वमसीति स्यात् ।
न ।
मृदादिवत्सदेकमेवाद्वितीयं सत्यमित्युपदेशात् ।
न चोपचारविज्ञानात्तस्य तावदेव चिरमिति सत्सम्पत्तिरूपदिश्येत ।
मृषात्वादुपचारविज्ञानस्य ।
त्वमिन्द्रो ऽसि यम इतिवत् ।
नापि स्तुतिरनुपास्यत्वाच्छ्वेतकेतोः ।
नापि सच्छ्वेतकेतुत्वोपदेशेन स्तूयेत ।
न हि राजा दासस्त्वमिति स्तुत्यः स्यात् ।
नापि सतः सर्वात्मन एकदेशनिरोधो युक्तस्तत्त्वमसीति देशाधिपतेरिव ग्रामाध्यक्षस्त्वमिति ।
न चान्या गतिरिह सदात्मत्वोपदेशादर्थान्तरभूता सम्भवति ।
ननु सदस्मीतिबुद्धिमात्रमिह कर्तव्यतया चोद्यते न त्वज्ञातं सदसीति ज्ञाप्यत इति चेत् ।
नन्वस्मिन्पक्षे ऽप्यश्रुतं श्रुतं भवतीत्याद्यनुपपन्नम् ।
न, सदस्मीतिबुद्धिविधेः स्तुत्यर्थत्वात् ।
न, आचार्यवान्पुरुषो वेद तस्य तावदेव चिरमित्युपदेशात् ।
यदि हि सदस्मीति बुद्धिमात्रं कर्तव्यतया विधीयते न तु त्वंशब्दवाच्यस्य सद्रूपत्वमेव तदा नाऽचार्यवान्वेदेति ज्ञानोपायोपदेशो वाच्यः स्यात् ।
यथाग्निहोत्रं जुहुयादित्येवमादिष्वर्थप्राप्तमेवाऽचार्यवत्त्वमिति तद्वत् ।
तस्य तावदेव चिरमिति च क्षेपकरणं न युक्तं स्यात् ।
सदात्मतत्त्वे ऽविज्ञाते ऽपि सकृद्बुद्धिमात्रकरणे मोक्षप्रसङ्गात् ।
न च तत्त्वमसीत्युक्ते नाहं सदितिप्रमाणवाक्यजनिता बुद्धीर्निवर्तयितुं शक्या नोत्पन्नेति वा शक्यं वक्तुम् ।
सर्वोपनिषद्वाक्यानां तत्परतयैवोपक्षयात् ।
यथाग्निहोत्रादिविधिजनिताग्निहोत्रादिकर्तव्यताबुद्धीनामतथार्थत्वमनुत्पन्नत्वं वा न शक्यते वक्तुं तद्वत् ।
यत्तूक्तं सदात्मा सन्नात्मानं कथं न जानीयादिति ।
नासौ दोषः ।
कार्यकरणसङ्घातव्यतिरिक्तो ऽहं जीवः कर्ता भोक्तेत्यपि स्वभावतः प्राणिनां विज्ञानादर्शनात्किसु तस्य सदात्मविज्ञानम् ।
कथमेवं व्यतिरिक्तविज्ञाने सति तेषां कर्तृत्वादिविज्ञानं सम्भवति दृश्यते च ।
तद्वत्तस्यापि देहादिष्वात्मबुद्धित्वान्न स्यात्सदात्मविज्ञानम् ।
तस्माद्विकारानृताधिकृतजीवात्मविज्ञाननिवर्तकमेवेदं वाक्यं तत्त्वमसीति सिद्धमिति ॥3 ॥ ॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य षोडशः खण्डः
इति च्छान्दोग्योपनिषद्ब्राह्मणे षष्ठोध्यायः समाप्तः
अथ सप्तमो ऽध्यायः
स्तर्त् छुप् 7,1.1
अधीहि भगव इति होपससाद सनत्कुमारं नारदः ।
तं होवाच यद् वेत्थ तेन मोपसीद ।
ततस् त ऊर्ध्वं वक्ष्यामीति ।
स होवाच
छुप्भ्_7,1.1
परमार्थन्तत्त्वोपदेशप्रधानपरः षष्ठो ऽध्यायः सदात्मैकत्वनिर्णयपरतयैवोपयुक्तः ।
न सतोर्ऽवाग्विकारलक्षणानि तत्त्वानि निर्दिष्टानीत्यतस्तानि नामादीनि प्राणान्तानि क्रमेण निर्दिश्य तद्द्वारेणापि भूमाख्यं निरतिशयं तत्त्वं निर्देक्ष्यामीति शाखाचन्द्रदर्शनवदितीनं सप्तमं प्रपाठकमारभते ।
अनिर्दिष्टेषु हि सतोर्ऽवाक्तत्त्वेषु सन्मात्रे च निर्दिष्टे ऽन्यदप्यविज्ञातं स्यादित्याशङ्का कस्यचित्स्यात्सा मा भूदिति वा तानि निर्दिदिक्षति ।
अथवा सोपानारोहणवत्स्थूलादारभ्य सूक्ष्मं सूक्षमतं च बुद्धिविषयं ज्ञापयित्वा तदतिरिक्ते स्वाराज्ये ऽभिषेक्ष्यामीति नामादीनि निर्दिदिक्षति ।
अथवा नामाद्युत्तरोत्तरविशिष्टानि तत्त्वान्यतितरां च तेषामुत्कृष्टतमं भूमाख्यं तत्त्वमिति तत्स्तुत्यर्थं नामादीनां क्रमेणोपन्यासः ।
आख्यायिका तु परविद्यास्तुत्यर्था ।
कथम् ।
नारदो देवर्षिः कृतकर्तव्यः सर्वविद्यो ऽपि सन्ननात्मज्ञत्वाच्छुशोचैव किमु वक्तव्यमन्यो ऽल्पविज्जन्तुरकृतपुण्यातिशयो ऽकृतार्थ इति ।
अथवा नान्यदात्मज्ञानान्निरतिशयश्रेयः साधनमस्तीत्येतत्प्रदर्शनार्थं सनत्कुमारनारदाख्यायिकाऽरभ्यते ।
येन सर्वविज्ञानसाधनशक्तिसम्पन्नस्यापि नारदस्य देवर्षेः श्रेयो न बभूव येनोत्तमाभिजनविद्यावृत्तसाधनशक्तिसम्पत्तिनिमित्ताभि मानं हित्वा प्राकृतपुरुषवत्सनत्कुमारमुपससाद श्रेयःसाधनप्राप्तये ऽतः प्रख्यापितं भवति निरतिशयप्राप्तिसाधनत्वमात्मविद्याया इति ।
अधीह्यधीष्व भगवा भ विन्निति किलोपससाद ।
अधीहि भगव इति मन्त्रः ।
सनत्कुमारं योगीश्वरं ब्रह्मिष्ठं नारद उपसन्नवान् ।
तं न्यायत उपसन्नं होवाच यदात्मविषये किञ्चिद्वेत्थ तेन तत्प्रख्यापनेन मामुपसीदेदमहं जान इति ततो ऽहं भवतो विज्ञानात्ते तुब्यमूर्ध्वं वक्ष्यामीत्युक्तवति स होवाच नारदः ॥1 ॥
स्तर्त् छुप् 7,1.2
ऋग्वेदं भगवो ऽध्येमि यजुर्वेदं सामवेदम् आथर्वणं चतुर्थम् इतिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यम् एकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्याम् एतद् भगवो ऽध्येमि
छुप्भ्_7,1.2 ऋग्वेदं भगवो ऽध्येमि स्मरामि यद्वेत्थेति विज्ञानस्य पृष्टत्वात् ।
तथा यजुर्वेदं सामवेदमाथर्वणं चतुर्थं वेदं वेदशब्दस्य प्रकृतत्वादितिहासपुराणं पञ्चमं वेदं वेदानां भारतपञ्चमानां वेदं व्याकरणमित्यर्थः ।
व्याकरणेन हि पदादिविभागश ऋग्वेदादयो ज्ञायन्ते ।
पित्र्यं श्राद्धकल्पम् ।
काशिं गणितम् ।
दैवमुत्पातज्ञानम् ।
निधिं महाकालादिनिधिशास्त्रम् ।
वाकोवाक्यं तर्कशास्रम् ।
एकायनं नीतिशास्रम् ।
देवविद्यां निरुक्तम् ।
ब्रह्मण ऋग्यजुःसामाख्यस्य विद्यां ब्रह्मविद्यां शिक्षाकल्पच्छन्दोविचितयः ।
भूतविद्यां भूततन्त्रम् ।
क्षत्त्रविद्यां धनुर्वेदम् ।
नक्षत्रविद्यां ज्यौतिषम् ।
सर्पदेवजनविद्यां सर्पविद्यां गारुडं देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्यिशिल्पादिविज्ञानानि ।
एतत्सर्वं हे भगवो ऽध्येमि ॥2 ॥
स्तर्त् छुप् 7,1.3
सो ऽहं भगवो मन्त्रविद् एवास्मि नात्मवित् ।
श्रुतं ह्य् एव मे भगवद्दृशेभ्यस् तरति शोकम् आत्मविद् इति ।
सो ऽहं भगवः शोचामि ।
तं मा भगवाञ् छोकस्य पारं तारयत्व् इति ।
तं होवाच यद् वै किंचैतद् अध्यगीष्ठा नामैवैतत्
छुप्भ्_7,1.3 सो ऽहं भगव एतत्सर्वं जानन्नपि मन्त्रविदेवास्मि शब्दार्थमात्रविज्ञानवानेवास्मीत्यर्थः ।
सर्वो हि शब्दो ऽभिधानमात्रमभिधानं च सर्वं मन्त्रेष्वन्तर्भवति ।
मन्त्रविदेवास्मि मन्त्रवित्कर्मविदित्यर्थः ।
ऽमन्त्रेषु कर्माणीऽति हि वक्ष्यति नाऽत्मविन्नाऽत्मानं वेद्भि ।
नन्वात्मापि मन्त्रैः प्रकाश्यत एवेति कथं मन्त्रविच्चेन्नाऽत्मवित् ।
न ।
अभिधानाभिधेयभेदस्य विकारत्वात् ।
न च विकार आत्मेष्यते ।
नन्वात्माप्यात्मशब्देनाभिधीयते ।
न"यतो वाचो निवर्तन्ते" ।
"यत्र नान्य पश्यति"इत्यादिश्रुतेः ।
कथं तर्ह्याऽत्मैवाधस्तात्ऽ ऽस आत्मेऽत्यादिशब्दा आत्मानं प्रत्याययन्ति ।
नैष दोषः ।
देहवति प्रत्यगात्मनि भेदविषये प्रयुज्यमानः शब्दो देहादीनामात्मत्वे प्रत्याख्यायमाने यत्परिशिष्टं सदवाच्यमपि प्रत्याययति ।
यथा सराजिकायां दृश्यमानायां सेनायां छत्रध्वजपताकादिव्यवहिते ऽदृश्यमाने ऽपि राजन्येष राजा दृश्यत इति भवति शब्दप्रयोगस्तत्र को ऽसौ राजेति राजविशेषनिरूपणायां दृश्यमानेतरप्रत्याख्याने ऽन्यस्मिन्नदृश्यमाने ऽपि राजनि राजप्रतीतिर्भवेत्तद्वत् ।
तस्मात्सोहं मन्त्रवित्कर्मविदेवास्मि कर्मकार्यं च सर्वं विकार इति विकारज्ञ एवास्मि नाऽत्मविन्नाऽत्मप्रकृतिस्वरूपज्ञ इत्यर्थः ।
अत एवोक्त"माचार्यवान्पुरुषो वेदे"ति ।
"यतो वाचो निवर्तन्ते"इत्यादिश्रुतिभ्यश्च ।
श्रुतमागमज्ञानमस्त्येव हि यस्मान्मे मम भगवद्दृशेभ्यो युष्मत्सदृशेभ्यस्तरत्यतिक्रामति शोकं मनस्तापमकृतार्थबुद्धितामात्मविदित्यतः ।
सो ऽहमनात्मवित्त्वाद्धे भगवः शोचाम्यकृतार्थबुद्ध्या सन्तप्ये सर्वदा तं मा मां शोकस्य शोकसागरस्य पारमन्तं भगवांस्तारयत्वात्मज्ञानोडुपेन कृतार्थबुद्धिमापादयत्वभयं गमयत्वित्यर्थः ।
तमेवमुक्तवन्तं होवाच यद्वै किञ्चैतदध्यगीष्ठा अधीतवानसि ।
अध्ययनेन तदर्थज्ञानमुपलक्ष्यते ज्ञातवानसीत्येतन्नामैवैतत् ।
"वाचाऽरम्भणं विकारो नामधेयम्"इति श्रुतेः ॥3 ॥
स्तर्त् छुप् 7,1.4
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश् चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर् दैवो निधिर् वाकोवाक्यम् एकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या ।
नामैवैतत् ।
नामोपास्स्वेति
छुप्भ्_7,1.4 नाम वा ऋग्वेदो यजुर्वेद इत्यादि नामैवैतत् ।
नामोपाःस्व ब्रह्मेति ब्रह्मबुद्ध्या ।
यथा प्रतिमां विष्णुबुद्ध्योपास्ते तद्वत् ॥4 ॥
स्तर्त् छुप् 7,1.5
स यो नाम ब्रह्मेत्य् उपास्ते ।
यावन् नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्य् उपास्ते ।
अस्ति भगवो नाम्नो भूय इति ।
नाम्नो वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0