भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.16

6.16.1

छुप्भ्_6,15.3 स य इत्यादि समानम् ।
यदि मरिष्यतो मुमुक्षतश्च तुल्या सत्सम्पत्तिस्तत्र विद्वान्सत्सम्पन्नो नाऽवर्तत आवर्तते त्वविद्वानित्यत्र कारणं दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥3॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य पञ्चदशः खण्डः
=======================================================================
स्तर्त् छुप् 6,16.1
पुरुषं सोम्योत हस्तगृहीतम् आनयन्ति ।
अपहार्षीत् स्तेयम् अकार्षीत् परशुम् अस्मै तपतेति ।
स यदि तस्य कर्ता भवति तत एवानृतम् आत्मानं कुरुते ।
सो ऽनृताभिसंधो ऽनृतेनात्मानम् अन्तर्धाय परशुं तप्तं प्रतिगृह्णाति ।
स दह्यते ।
अथ हन्यते

6.16.2

छुप्भ्_6,16.1 शृणु यथा सोम्य पुरुषं चौर्यकर्मणि सन्दिह्यमानं निग्रहाय परीक्षणाय वोतापि हस्तगृहीतं बद्धहस्तमानयन्ति राजपुरुषाः ।
किं कृतवानयमिति पृष्टाश्चाऽहुरपहार्शीद्धनमस्यायम् ।
ते चाऽहुः किमपहरणमात्रेम बन्धनमर्हति ।
अन्यथा दत्ते ऽपि धने बन्धनप्रसङ्गादित्युक्ताः पुनराहुः स्तेयमकार्षीत्तौर्येण धनमपहार्षीदिति ।
तेष्वेवं वदत्स्वितरो ऽपह्नते नाहं तत्कर्तेति ।
(ते चाऽहुः सन्दिह्यमानं स्तेयमकार्षीस्त्वमस्य धनस्येति) ।
तस्मिंश्चापह्नवाने आहुः परशुमस्मै तपतेति शोधयत्वात्मानमिति ।
स यदि तस्य स्तैन्यस्य कर्ता बवति बहिश्चापह्नते स एवंभूतस्तत एवानृतमन्यथाभूतं सन्तमन्यथाऽमानं कुरुते स तथानृताभिसन्धो ऽनृतेनाऽत्मानमन्तर्धाय व्यवहितं कृत्वा परशुं तप्तं मोहात्प्रतिगृह्राति स दह्यते ऽथ हन्यते राजपुरुषैः स्वकृतेनानृताभिसन्धिदोषेण ॥1 ॥
स्तर्त् छुप् 6,16.2
अथ यदि तस्याकर्ता भवति ।
तत एव सत्यम् आत्मानं कुरुते ।
स सत्याभिसन्धः सत्येनात्मानम् अन्तर्धाय परशुं तप्तं प्रतिगृह्णाति ।
स न दह्यते ।
अथ मुच्यते

6.16.3

छुप्भ्_6,16.2 अथ यदि तस्य कर्मणो ऽकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्येन तया स्तैन्याकर्तृतयाऽत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स सत्याभिसन्धः सन्न दह्यते सत्यव्यवधानादथ मुच्यते च मृषाभियोक्तृभ्यः ।
तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वे ऽपि स्तेयकर्त्रकर्त्रोरनृताभिसन्धो दह्यते न तु सत्याभिसन्धः ॥2 ॥
स्तर्त् छुप् 6,16.3
स यथा तत्र नादाह्येत ।
एतद् आत्म्यम् इदं सर्वम् ।
तत् सत्यम् ।
स आत्मा ।
तत् त्वम् असि श्वेतकेतो इति ।
तद् धास्य विजज्ञाव् इति विजज्ञाव् इति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc