छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.7
छुप्भ्_6,6.5 अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति युक्तमेव मयोक्तमित्यमिप्रायः ।
अतो ऽप्तेजसोरस्त्वेतत्सर्वमेवम् ।
मनस्त्वन्नमयमित्यत्र नैकान्तेन मम निश्चयो जातो ऽतो भूय एव मा भगवान्मनसो ऽन्नमयत्वं दृष्टान्तेन विज्ञापयत्विति ।
तथा सोम्येति होवाच पिता ॥5॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य षष्ठः खण्डः
=======================================================================
स्तर्त् छुप् 6,7.1
षोडशकलः सोम्य पुरुषः ।
पञ्चदशाहानि माशीः ।
कामम् अपः पिब ।
आपोमयः प्राणो न पिबतो विच्छेत्स्यत इति
छुप्भ्_6,7.1 अन्नस्य भुक्तस्य यो ऽणिष्ठो धातुः स मनसि शक्तिमधात् सान्नोपचिता मनसः शक्तिः षोडशधा प्रविभज्य पुरुषस्य कलात्वेन निर्दिदिक्षिता ।
तया मनस्यन्नोपचितया शक्त्या षोडशधा प्रविभक्तया संयुक्तस्तद्वान्कार्यकरणसङ्घातलक्षणो जीवविशिष्टः पिण्डः पुरुषः षोडशकल उच्यते यस्यां सत्यां द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञाता सर्वक्रियासमर्थः पुरुषो भवति हीयमानायां च यस्यां सामर्थ्यहानिः ।
वक्ष्यति"चाथान्नस्याऽयी द्रष्टे"त्यादि ।
सर्वस्य कार्यकरणस्य सामर्थ्यं मनःकृतमेव ।
मानसेन हि बलेन सम्पन्ना बलिनो दृश्यन्ते लोके, ध्यानाहाराश्च केचिदन्नस्य सर्वात्मकत्वात् ।
अतो ऽन्नकृतं मानसं वीर्यं षोडश कला यस्य पुरुषस्य सो ऽयं षोडशकलः पुरुषः एतच्चेत्प्रत्यक्षीकर्तुमिच्छसि पञ्चदशसंख्याकान्यहानि माशीरशनं मा कार्षीः ।
काममिच्छातो ऽपः पिब यस्मान्नपिबतो ऽपस्ते प्राणो विच्छेत्स्यते विच्छेदमापत्स्यते यस्मादापोमयो ऽब्विकारः प्राण इत्यवोचाम ।
न हि कार्यं स्वकारणोपष्टम्भमन्तरेणाविभ्रंशमानं स्थातुमुत्सहते ॥1 ॥
स्तर्त् छुप् 6,7.2
स ह पञ्चदशाहानि नाश ।
अथ हैनम् उपससाद किं ब्रवीमि भो इति ।
ऋचः सोम्य यजूंषि सामानीति ।
स होवाच न वै मा प्रतिभान्ति भो इति
छुप्भ्_6,7.2 स हैवं श्रुत्वा मनसो ऽन्नमयत्वं प्रत्यक्षीकर्तुंमिच्छन्पञ्चदशाहानि नाऽशाशनं न कृतवान् ।
अथ षोडशे ऽहनि हैनं पितरमुपससादोपगतवानुपगम्य चोवाच किं ब्रवीमि भो इति ।
इतर आह ऋचः सोम्य यजूंषि सामान्यधीष्वेति ।
एवमुक्तः पित्राऽह-न वै मा मामृगादीनि मम मनसि न दृश्यन्त इत्यर्थो हे भो भगवन्निति ॥2॥
स्तर्त् छुप् 6,7.3
तं होवाच यथा सोम्य महतो ऽभ्याहितस्यैको ऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात् ।
तेन ततो ऽपि न बहु दहेत् ।
एवं सोम्य ते षोडशानां कलानाम् एका कला अतिशिष्टा स्यात् ।
तयैतर्हि वेदान् नानुभवसि ।
अशान ।
अथ मे विज्ञास्यसीति
छुप्भ्_6,7.3 एवमुक्तवन्तं पिताऽह-शृणु तत्र कारणं येन ते तान्यृगादीनि न प्रतिभान्तीति (तं होवाच) यथा लोके हे सोम्य महतो महत्परिमाणस्याभ्याहितस्योपचितस्येन्धनैरग्नेरेको ऽङ्गारः खद्योतपरिमाणः शान्तस्य परिशिष्टो ऽवशिष्टः स्याद्भवेत्तेनोङ्गारेण ततो ऽपि तत्परिमाणादीषदपि न बहु दहेदेवमेव खलु सोम्य ते तवान्नोपचितानां षोडशानां कलानामेका कलावयवो ऽतिशिष्टावशिष्टा न बहु दहेदेवमेव खलु सोम्य ते तवान्नोपचितानां षोडशानां कलानामेका कलावयवो ऽतिशिष्टा स्यात्तया त्वं खद्योतमात्राङ्गारतुल्ययैतर्हीदानीं वेदान्नानुभवसि न प्रतिपद्यसे, श्रुत्वा च मे मम वाचमथाशेषं विज्ञास्यस्यशान भुङ्क्ष्व तावत् ॥3 ॥
स्तर्त् छुप् 6,7.4
स हाश ।
अथ हैनम् उपससाद ।
तं ह यत् किं च पप्रच्छ सर्वं ह प्रतिपेदे
छुप्भ्_6,7.4 स ह तथैवाऽश भुक्तवानथानन्तरं हैनं पितरं शुश्रूषुरुपससाद तं होपगतं पुत्रं यत्किञ्चर्गादिषु पप्रच्छ ग्रन्थरूपमर्थजातं वा पिता स श्वेतकेतुः सर्वं ह तत्प्रतिपेदे ऋगाद्यर्थतो ग्रन्थतश्च ॥4 ॥
स्तर्त् छुप् 6,7.5
तं होवाच ।
यथा सोम्य महतो ऽभ्याहितस्यैकम् अङ्गारं खद्योतमात्रं परिशिष्टं तं तृनैर् उपसमाधाय प्राज्वलयेत् तेन ततो ऽपि बहु दहेत्
छुप्भ्_6,7.5 तं होवाच पुनः पिता यथा सोम्य महतो ऽभ्याहितास्येत्यादि समानमेकमङ्गारं शान्तस्याग्नेः खद्योतमात्रं परिशिष्टं तं तृणैश्चूर्णैश्चोपसमाधाय प्राज्वलयेद्वर्धयेत् ।
तेनेद्धेनाङ्गारेण ततो ऽपि पूर्वपरिमाणाद्बहु दहेत् ॥5 ॥
स्तर्त् छुप् 6,7.6
एवं सोम्य ते षोडशानां कलानाम् एका कलातिशिष्टाभूत् ।
सान्नेनोपसमाहिता प्राज्वाली ।
तयैतर्हि वेदान् अनुभवसि ।
अन्नमयं हि सोम्य मनः ।
आपोमयः प्राणः ।
तेजोमयी वाग् इति ।
तद् धास्य विजज्ञाव् इति विजज्ञाव् इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0