छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.8
छुप्भ्_6,7.6 एवं सोम्य ते षोडशानामन्नकलानां सामर्थ्यरूपाणामेका कलातिशिष्टाभूदतिशिष्टाऽसीत्पञ्चदशाहान्यभुक्तवत एकैकेनाह्नैकैका कला चन्द्रमस इवापरपक्षे क्षीणा सातिशिष्टा कला तवान्नेन भुक्तेनोपसमाहिता वर्धितोपचिता प्राज्वालि ।
दैर्ध्यं छान्दसं प्रज्वलिता वर्धितेत्यर्थः ।
प्राज्वालीदिति कला तवान्नेन भुक्तेनोपसमाहिता वर्धितोपचिता प्राज्वालि ।
दैर्ध्यं छान्दसं प्रज्वलिता वर्धितेत्यर्थः ।
प्राज्वालीदिति पाठान्तरं तदा तेनोपसमाहिता स्वयं प्रज्वलितवतीर्यर्थः ।
तया वर्धितयैतर्हीदानीं वेदाननुभवस्युपलभसे ।
एवं व्यावृत्त्यनुवृत्तिभ्यामन्नामयत्वं मनसः सिद्धमित्युपसंहरत्यन्नमयं हि सोम्य मन इत्यादि ।
यथैतन्मनसो ऽन्नमयत्वं तव सिद्धं तथाऽपोमयः प्राणस्तेजोमयी वागित्येतदपि सिद्धमेवेत्यभिप्रायः ।
तदेतद्धास्य पितुरुक्तं मन आदीनामन्नादिमयत्वं विजज्ञौ विज्ञातवाञ्श्वेतकेतुः ।
द्विरभ्यासस्त्रिवृत्करणप्रकरणसमाप्त्यर्थः ॥6॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य सप्तमः खण्डः
=======================================================================
स्तर्त् छुप् 6,8.1
उद्दालको हारुणिः श्वेतकेतुं पुत्रम् उवाच स्वप्नान्तं मे सोम्य विजानीहीति ।
यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति ।
स्वम् अपीतो भवति ।
तस्माद् एनं स्वपितीत्य् आचक्षते ।
स्वं ह्य् अपीतो भवति
छुप्भ्_6,8.1 यस्मिन्मनसि जीवेनाऽत्मनानुप्रविष्टा परा देवताऽदर्श इव पुरुषः प्रतिबिम्बेन जलादिविष्विव च सूर्यादयः प्रतिबिम्बैः ।
तन्मनो ऽन्नमयं तेजो ऽंमयाभ्यां वाक्प्राणाभ्यां संगतमधिगतम् ।
यन्मयो यत्स्थश्च जीवो मननदर्शनश्रवणादिव्यावहाराय कल्पते तदुपरमे च स्वं देवतारूपमेव प्रतिपद्यते ।
तदुक्तं श्रुत्यन्तरे"ध्यायतीव लेलायतीव सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति""स वा आयमात्मा ब्रह्म विज्ञानमयो मनोमय"इत्यादि,"स्वप्नेन शारीरम्" इत्यादि,"प्राणन्नेव प्राणो नाम भवती"त्यादि च ।
तस्यास्य मनःस्थस्य मन आख्यां गतस्य मनौपशमद्वारेणेन्द्रियविषयेभ्यो निवृत्तस्य यस्यां परस्यां देवतायां स्वात्मभातायां यदवस्थानं तत्पुत्रायाऽचिख्यासुरुद्दालको ह किलाऽरुणिः श्वेतकेतुं पुत्रमुवाचोक्तवान् ।
स्वप्नान्तं स्वप्नमध्यं स्वप्न इति दर्शनवृत्तेः स्वप्नस्याऽख्या तस्य मध्यं स्वप्नान्तं सुषुप्तमित्येतत् ।
अथवा स्वप्नान्तं स्वप्नसतत्त्वमित्यर्थः तत्राप्यर्थात्सुषुप्तमेव भवति ।
स्वमपीतो भवतीति वचनात् ।
न ह्यन्यत्र सुषुप्तात्स्वमपीतिं जीवस्येच्छन्ति ब्रह्मविदः ।
तत्र ह्यादर्शापनयने पुरुषप्रतिबिम्बि आदर्शगतो यथा स्वमेव पुरुषमपीतो भवत्येवं मन आद्युपरमे चैतन्यप्रतिबिम्बरूपेण जीवेनाऽत्मना मनसि प्रविष्टा नामरूपव्याकरणाय परा देवता सा स्वमेवाऽत्मानं प्रतिपद्यते जीवरूपतां मन आख्यां हित्वा ।
अतः सुषुप्त एव स्वप्नान्तशब्दवाच्य इत्यवगम्यते ।
यत्र तु सुप्तः स्वप्नान्पश्यति तत्स्वाप्नं दर्शनं सुखदुःखसंयुक्तमिति पुण्यापुण्ययोर्हि सुखदुःखारम्भकत्वं प्रसिद्धम् ।
पुण्यापुण्ययोश्चाविद्याकामोपष्टम्भेनैव सुखदुःखतद्दर्शनकार्यारम्भकत्वमुपपद्यते नान्यथेत्यविद्याकामकर्मभिः संसारहेतुभिः संयुक्त एव स्वप्न इति न स्वमपीता भवति ।
"अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति" "तद्वा अस्यैतदतिच्छन्दा" "एष परम आनन्द"इत्यादिश्रुतिभ्यः ।
सुषुप्त एव स्वं देवतारूपं जीवत्वविनिर्मुक्तं दर्शयिष्यामीत्याह ।
स्वप्नान्तं मे मम निगदतो हे सोम्य विजानीहि विस्पष्टमवधारयेत्यर्थः ।
कदा स्वप्नान्तो भवतीत्युच्यते ।
यत्र यस्मिन्काल एतन्नाम भवति पुरुषस्य स्वप्स्यतः ।
प्रसिद्धं हि लोके स्वपितीति ।
गौणं चेदं नामेत्याह ।
यदा स्वपितीत्युच्यते पुरुषस्तदा तस्मिन्काले सता सच्छब्दवाच्यया प्रकृतया देवतया संपन्नो भवति संगत एकीभूतो भवति ।
मनसि प्रविष्टं मन आदिसंसर्गकृतं जीवरूपं परित्यज्य स्वं सद्रूपं यत्परमार्थसत्यमपीतो ऽपिगतो भवति ।
अतस्तस्मात्स्वपितीत्येनमाचक्षते लोकिकाः ।
स्वमात्मानं हि यस्मादपीतो भवति ।
ततश्चाऽयस्तानां करणानामनेकव्यापारनिमित्तग्लानानां स्वव्यापारेभ्य उपरमो भवति ।
श्रुतेश्च"श्राम्यत्येव वाक्श्राम्यति चक्षुर्" इत्येवमादि ।
तथा च"गृहीता वाग्गृहीतं श्रोत्रं गृहीतं मन"इत्येवमादीनि करणानि प्राणग्रस्तानि ।
प्राण एको ऽश्रान्तो देहे कुलाये यो जागर्ति तदा जीवः श्रमापनुत्तये स्वं देवतारूपमात्मानं प्रतिपद्यते ।
नान्यत्र स्वरूपावस्थानाच्छ्रमापनोदः स्यादिति युक्ता प्रसिद्धिर्लौकिकानां स्वं ह्यपीतो भवतीति ।
दृश्यते हि लोके ज्वरादिरोगग्रस्तानां तद्विनिर्नोके स्वात्मस्थानां विश्रमणं तद्वदिहापि स्यादिति युक्तम् ।
"तद्यथा श्येनो वा सुपर्णो वा विपरिपत्य श्रान्त"इत्यादिश्रुतेष्च ॥1 ॥
स्तर्त् छुप् 6,8.2
स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनम् अलब्ध्वा बन्धनम् एवोपश्रयते ।
एवम् एव खलु सोम्य तन् मनो दिशं दिशं पतित्वान्यत्रायतनम् अलब्ध्वा प्राणम् एवोपश्रयते ।
प्राणबन्धनं हि सोम्य मन इति
छुप्भ्_6,8.2 तत्रायं दृष्टान्तो यथोक्तेर्ऽथे-स यथा शकुनिः पक्षी शकुनिघातकस्य हस्तगतेन सूत्रेण प्रबद्धः पाशितो दिशं दिशं बन्धनमोक्षार्थी सन्प्रतिशिदिशं पतित्वान्यत्र बन्धनादायतनमाश्रयं विश्रमणायालब्ध्वाप्राप्य बन्धनमेवोपश्रयते ।
एवमेव यथायं दृष्टान्तः खलु हे सोभ्य तन्मनस्तत्प्रकृतं पोडशकलमन्नोपचितं मनो निर्धारितं ततेप्रविष्टस्तत्स्थस्तदुपलक्षितो जीवस्तन्मन इति निर्दिश्यते मञ्चाक्रोशनवत् ।
स मन आख्योपाधिर्जीवो ऽविद्याकामकर्मोपदिष्टां दिशं दिशं सुखदुःखादिलक्षणां जाग्रत्स्वप्नयोः पतित्वा गत्वानुभूयेत्यर्थः ।
अन्यत्र सदाख्यात्स्वात्मन आयतनं विश्रमणस्थानमलब्ध्वा प्राणमेव प्राणेन सर्वकार्यकरणाश्रयेणोपलक्षिता प्राण इत्युच्यते सदाख्या परा देवता ।
"प्राणस्य प्राणं" "प्राणशरीरो भारूप"इत्यादिश्रुतेः ।
अतस्तां देवतां प्राणं प्राणाख्यामेवोपश्रयते ।
प्राणो बन्धनं यस्य मनसस्तत्प्राणबन्धनं हि यस्मात्सोम्य मनः प्राणोपलक्षितदेवताश्रयं मन इति तदुपलक्षितो जीव इति ॥2 ॥
स्तर्त् छुप् 6,8.3
अशनापिपासे मे सोम्य विजानीहीति ।
यत्रैतत् पुरुषो ऽशिशिषति नामाप एव तद् अशितं नयन्ते ।
तद् यथा गोनायो ऽश्वनायः पुरुषनाय इत्य् एवं तद् अप आचक्षते ऽशनायेति ।
तत्रैतच् छुङ्गम् उत्पतितं सोम्य विजानीहि ।
नेदम् अमूलं भविष्यतीति
छुप्भ्_6,8.3 एवं स्वपितिनामप्रसिद्धिद्वारेण यज्जीवस्य सत्यस्वरूपं जगतो मूलं तत्पुत्रस्य दर्शयित्वाऽहान्नादिकार्यकारणपरम्परयापि जगतो मूलं सद्दिदर्शयिषुः ।
अशनापिपासे अशितुमिच्छाशना यालोपेन ।
पातुमिच्छा पिपासा ते अशनापिपासे अशनापिपासयोः सतत्वं विजानीहीत्येतत् ।
यत्र यस्मिन्काल एतन्नाम पुरुषो भवति ।
किं तत्?अशिशिषत्यशितुमिच्छतीति ।
तदा तस्य पुरुषस्य किनिमित्तं नाम भवतीत्याह ।
यत्तत्पुरुषेणाशितमन्नं कठिनं पोता आपो नयन्ते द्रवीकृत्य रसादिभावेन विपरिणमयन्ते तदा भुक्तमन्नं जीर्यति ।
अथ च भवत्यस्य नामाशिशिषतीति गौणम् ।
जीर्णे ह्यन्ने ऽशितुमिच्छति सर्वो हि जन्तुः ।
तत् तत्र अपामशितनेतृत्वादशनाया इति नाम प्रसिद्धमित्येतस्मिन्नर्थे ।
यथा गोनायो गां नयतीति गोनाय इत्युच्यते गोपालः ।
तथाश्वान्नयतीत्यश्वनायो ऽश्वपाल इत्युच्यते ।
पुरुषनायः पुरुषान्नयतीति राजा सेनापतिर्वा ।
एवं तत्तदाप आचक्षते लौकिका अशनायेति विसर्जनीयलोपेन ।
तत्रैवं सत्यद्भी रसादिभावेन नीतेनाशितेनान्नेन निष्पादितमिदं शरीरं वटकणिकायामिव शुङ्गो ऽङ्कुर उत्पतित उद्गतस्तमिमं शुङ्गं कार्यं शरीराख्यं वटादिशुङ्गवदुत्पतितं हे सोभ्य विजानीहि ।
किं तत्र विज्ञेयमित्युच्यते ।
शुण्विदं शुङ्गवत्कार्यत्वाच्छरीरं नामूलं मूलरहितं भविष्यतीत्युक्त आह श्वेतकेतुः ॥3 ॥
स्तर्त् छुप् 6,8.4
तस्य क्व मूलं स्याद् अन्यत्रान्नात् ।
एवम् एव खलु सोम्यान्नेन शुङ्गेनापो मूलम् अन्विच्छ ।
अद्भिः सोम्य शुङ्गेन तेजो मूलम् अन्विच्छ ।
तेजसा सोम्य शुङ्गेन सन्मूलम् अन्विच्छ ।
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः
छुप्भ्_6,8.4 यद्येवं समूलमिदं शरीरं वटादिशुङ्गवत्तस्यास्य क्व मूलं स्याद्भवेदित्येवं पृष्ट आह पिता ।
तस्य क्व मूलं स्यादन्यत्रान्नादन्नं मूलमित्यभिप्रायः ।
कथम् ।
अशितं ह्यन्नमद्भिर्द्रवीकृतं जाठरेणाग्निना पच्यमानं रसभावेन परिणमते ।
रसोच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसो ऽस्थीन्यस्थिभ्यो मज्जा मज्जायाः शुक्रम् ।
तथा योषिद्भुक्तं चान्नं रसादिक्रमेणैवं परिणतं लोहितं भवति ।
ताभ्यां शुक्रशोणिताभ्यामन्नकार्याभ्यां संयुक्ताभ्यामन्नेनैव प्रत्यहं भुज्यमानेनाऽपूर्यमाणाभ्यां कुड्यमिव मृत्पिण्डैः प्रत्युहमुपचीयमानो ऽन्नमूलो देहशुङ्गः परिनिष्पन्न इत्यर्थः ।
यत्तु देहशुङ्गो ऽन्नमूल एवमेव खलु सोम्यान्नेन शुह्गेन कार्यभूतेनापो मूलमन्नस्य शुङ्गस्यान्विच्छ प्रतिपद्यस्व ।
अपामपि विनाशोत्पत्तिमत्तवाच्छुङ्गत्वमेवेति अद्भिः सीम्य शुङ्गेन कार्येण कारणं तेजो मूलमन्विच्छ ।
तेजसो ऽपि विनाशोत्पत्तिमत्तवाच्छुङ्गत्वमिति तेजसा सोम्य शुङ्गेन सन्मूलमेकमेवाद्वितीयं परमार्थसत्यम् ।
यस्मिन्सर्वमिदं वाचाऽरम्भणं विकारो नामधेयमनृतं रज्ज्वामिव सर्पादिविकल्पजातमध्यस्तमविद्यया तदस्य जगतो मूलमतः सन्मूलाः सत्कारणा हे सोम्येमाः स्थावरजङ्गमलक्षणाः सर्वाः प्रजा न केवलं सन्मूला एवेदानीमपि स्थितिकाले सदायतनाः सदाश्रया एव ।
नहि मृदमनाश्रित्य घटादेः सत्त्वं स्थितिर्वास्ति ।
अतो मृद्वत्सन्मूत्वात्प्रजानां सदायतनं यासां ताः सदायतनाः प्रजाः ।
अन्ते च सत्प्रतिष्ठाः सदेव प्रतिष्टा लयः समाप्तिपवसानं परिशेषो यासां ताः सत्प्रतिष्ठाः ॥4 ॥
स्तर्त् छुप् 6,8.5
अथ यत्रैतत् पुरुषः पिपासति नाम तेज एव तत् पीतं नयते ।
तद् यथा गोनायो ऽश्वनायः पुरुषनाय इत्य् एवं तत् तेज आचष्ट उदन्येति ।
तत्रैतद् एव शुङ्गम् उत्पतितं सोम्य विजानीहि ।
नेदम् अमूलं भविष्यतीति
छुप्भ्_6,8.5 अथेदानीमप्शुङ्गद्वारेण सतो मूलस्यानुगमः कार्य इत्याह ।
यत्र यस्मिन्काल एतन्नाम पिपासति पातुमिच्छतीति पुरुषो भवति ।
अशिशिषतीतिवदिदमपि गौणमेव नाम भवति ।
द्रवीकृतस्याशितस्यान्नस्य नेत्र्य आपो ऽन्नशुङ्गं देहं क्लेदयन्त्यः शिथिली कुर्युरब्बाहुल्याद्यदि तेजसा न शोष्यन्ते ।
नितरां च तेजसा शोष्यमाणा स्वप्सु देहभावेन परिणममानासु पातुमिच्छा पुरुषस्य जायते तदा पुरुषः पिपासति नाम तदेतदाह ।
तेज एव तत्तदा पीतमबादि शोषयद्देहगतलोहितप्राणभावेन नयते परिणमयति ।
तद्यथा गोनाय इत्यादि समानमेवं तत्तेज आचष्टे लोक उदन्येत्युदकं नयतीत्युदन्यम् ।
उदन्येतीति च्छान्दसं तत्रापि पूर्ववत् ।
अपामप्येतदेव शरीराख्यं शुङ्गं नान्यदित्येवमादि समानमन्यत् ॥5 ॥
स्तर्त् छुप् 6,8.6
तस्य क्व मूलं स्याद् अन्यत्राद्भ्यः ।
अद्भिः सोम्य शुङ्गेन तेजो मूलम् अन्विच्छ ।
तेजसा सोम्य शुङ्गेन सन्मूलम् अन्विच्छ ।
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सद् आयतनाः सत्प्रतिष्ठाः ।
यथा नु खलु सोम्येमास् तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृद् एकैका भवति तद् उक्तं पुरस्ताद् एव भवति ।
अस्य सोम्य पुरुषस्य प्रयतो वाङ् मनसि संपद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायाम्
छुप्भ्_6,8.6 सामर्थ्यात्तेजसो ऽप्येतदेव शरीराख्यं शुङ्गम् ।
अतो ऽप्शुङ्गेन देहेनाऽपो मूलं गम्यते ।
अद्भिः शुङ्गेन तेजो मूलं गम्यते ।
तेजसा शुङ्गेन सन्मूलं गम्यते पूर्ववत् ।
एवं हि तेजोबन्नमयस्य देहशुङ्गस्य वाचारम्भणमात्रस्यान्नादिपरम्परया परमार्थसत्यं सन्मूलमभयसंत्रासं निरायासं सन्मूलमन्विच्छेति पुत्रं गमयित्वाशिशिषति पिपासतीति नामप्रसिद्धिद्वारेण यदन्यदिहास्मिन्प्रकरणे तेजोबन्नानां पुरुषेणोपभुज्यमानानां कार्यकरणसंघातस्य देहशुङ्गस्य स्वजात्यसांकर्येणोपचयकरत्वं वक्तव्यं प्राप्तं तदिहोक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशति ।
यथा नु खलु येन प्रकारेणेमास्तेजोबन्नाख्यास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यन्नमशितं त्रेधा विधीयत इत्यादि ।
तत्रैवोक्तमन्नादीनामसितानां ये मव्यमा धातवस्ते साप्तधातुकं शरीरमुपचिन्वन्तीत्युक्तम् ।
"मांसं भवति लोहितं भवति मज्जा भवत्यस्थि भवति ये त्वणिष्ठा धातवो मनः प्राणं वाचं देहस्यान्तःकरणसंघातमुपचिन्वन्ती"ति चोक्तं"तन्मनो भवति स प्राणो भवति सा वाग्भवती"ति ।
सो ऽयं प्राणकरणसंघातो देहे विशीर्णे देहान्तरं जीवाधिष्ठितो येन क्रमेण पूर्वदेहात्प्रच्युतो गच्छति तदाहास्य हे सोम्य पुरुषस्य प्रयतो म्रियमाणस्य वाङ्मनसि संपद्यते मनस्युपसंह्रियते ।
अथ तदाऽहुर्ज्ञातयो न वदतीति ।
मनःपूर्वको हि वाग्व्यापारः ।
"यद्वै मनसा ध्यायति तद्वाचा वदति"इति श्रुतेः ।
वाच्युपसंहृतायां मनसि मनो मननव्यापारेण केवलेन वर्तते ।
मनो ऽपि यदोपसंह्रियते तदा मनः प्राणे संपन्नं भवति सुषुप्तकाल इव तदा पार्श्वस्था ज्ञातयो न विजानातीत्याहुः ।
प्राणश्च तदोर्ध्वोच्छ्वासी स्वात्मन्युपसंहृतबाह्यकरणः संवर्गविद्यायां दर्शनाद्धस्तपादादीन्विक्षिपन्मर्मस्थानानि निकृन्तन्नन इवोत्सृजन् क्रमेणोपसंहृतस्तेजसि सम्पद्यते ।
तदाऽहुर्ज्ञातयो न चलतीति मृतो नेति वा विचिकित्सन्तो देहमालभमाना उष्णं चोपलभमाना देह उष्णो जीवतीति यदा तदप्यौष्ण्यलिङ्गं तेज उपसंह्रियते तदा तत्तेजः परस्यां देवतायां प्रशाम्यति ।
तदेवङ्क्रमेणोपसंहृते स्वमूलं प्राप्ते च मनसि तत्स्थो जीवो ऽपि सुषुप्तकालवन्निमित्तोपसंहारादुपसंह्रियमाणः सन्सत्याभिसंधिपूर्वकं चेदुपसंह्रियते सदेव संपद्यते न पुनर्देहान्तराय सुषुप्तादिवोत्तिष्ठति ।
यथा लोके सभये देशे वर्तमानः कथञ्चिदिवाभयं देशं प्राप्तस्तद्वत् ।
इतरस्त्वनात्मज्ञस्तस्मादेव मूलात्सुषुप्तादिवोत्थाय मृत्वा पुनर्देहजालमाविशति ॥6 ॥
स्तर्त् छुप् 6,8.7
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् ।
तत् सत्यम् ।
स आत्मा ।
तत् त्वम् असि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्व् इति ।
तथा सोम्येति होवाच
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0