भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.6

6.6.1

छुप्भ्_6,5.4 यत एवमन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् ।
ननु केवलान्नभक्षिण आखुप्रभृतयो वाग्मिनः प्राणवन्तश्च तथांमात्रभक्ष्याः सामुद्रा मीनमकरप्रभृतयो मनस्विनो वाग्ग्मिनश्च तथा स्नेहपानामपि प्राणवत्त्वं चानुमेयं यदि सन्ति तत्र कथमन्नमयं हि सोम्य मन इत्याद्युच्यते ।
नैष दोषः ।
सर्वस्य त्रिवृत्कृतत्वात्सर्वत्र सर्वोपपत्तेः ।
न ह्यत्रिवृत्कृतमन्नमश्नाति कश्चिदापो वात्रिवृत्कृताः पीयन्ते तेजो वात्रिवृत्कृतमश्नाति कश्चिदित्यन्नादानामाखुप्रभृतीनां वाग्ग्मित्वं प्राणवत्त्वं चेत्याद्यविरुद्धम् ।
इत्येवं प्रत्यायितः श्वेकेतुराह-भूय एव पुनरेव मा मां भगवानन्नमयं हि सोम्य मन इत्यादि विज्ञापयतु दृष्टान्तेनावगमयु नाद्यापि ममास्मिन्नर्थे सम्यङ्निश्चयो जातः ।
यस्मात्तेजोवन्नमयत्वेनाविशिष्टे देह एकस्मिन्नुपयुज्यमानान्यन्नाप्स्नेहजातान्यणिष्ठधातुरूपेण मनःप्राणवाच उपचिन्वन्ति स्वजात्यनतिक्रमेणेति दुर्विज्ञेयमित्यभिप्रायो ऽतो भूय एवेत्याद्याह ।
तमेवमुक्तवन्तं तथास्तु सोम्येति होवाच पिता शृण्वत्र दृष्टान्तं यथैतदुपपद्यते यत्पृच्छसि ॥4॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य पञ्चमः खण्डः
=======================================================================
स्तर्त् छुप् 6,6.1
दध्नः सोम्य मथ्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति ।
तत् सर्पिर् भवति

6.6.2

छुप्भ्_6,6.1 दध्नः सोम्य मथ्यमानस्य यो ऽणिमाणुभावः स ऊर्ध्वः समुदीषति सम्भूयोर्ध्वं नवनूतभावेन गच्छति तत्सर्पिर्भवति ॥1 ॥
स्तर्त् छुप् 6,6.2
एवम् एव खलु सोम्यान्नस्याश्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति ।
तन् मनो भवति

6.6.3

छुप्भ्_6,6.2 यथायं दृष्टान्त एवमेव खलु सोम्यान्नस्यौदनादेरश्यमानस्य भुज्यमानस्योदर्येमाग्निना वायुसहितेत खजेनेव मथ्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति मनो ऽवयवैः सह सम्भूय मन उपचिनोतीत्येतत् ॥2 ॥
स्तर्त् छुप् 6,6.3
अपां सोम्य पीयमानानां यो ऽणिमा स ऊर्ध्वः समुदीषति ।
सा प्रानो भवति

6.6.4

छुप्भ्_6,6.3 तथापां सोम्य पीयमानानां यो ऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवतीति ॥3 ॥
स्तर्त् छुप् 6,6.4
तेजसः सोम्याश्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति ।
सा वाग् भवति

6.6.5

छुप्भ्_6,6.4 एवमेव खलु सोम्य तेजसो ऽश्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति सा वाग्भवति ॥4 ॥
स्तर्त् छुप् 6,6.5
अन्नमयं हि सोम्य मनः ।
आपोमयः प्राणः ।
तेजोमयी वाग् इति ।
भूय एव मा भगवान् विज्ञापयत्व् इति ।
तथा सोम्येति होवाच

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc