भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.5

6.5.1

छुप्भ्_6,4.6,7 कथम् ।
यदन्यद्रूपेण सन्दिह्यमाने कपोतादिरूपे रोहितमिव यद्गृह्यमाणमभूत्तेषां पूर्वेषां ब्रह्मविदां तत्तेजसो रूपमिति विदाञ्चक्रुः तथा यच्छुक्लमिवाभूद्गृह्यमाणं तदापां रूपं यत्कृष्णमिव गृह्यमाणं तदन्नस्येति विदाञ्चक्रुरेवमेवात्यन्तदुर्लक्ष्यं यदु अप्यविज्ञातमिव विशेषतो ऽगृह्यमाणमभूत्तदप्येतासामेव तिसृणां देवतानां समासः समुदाय इति विदाञ्चक्रुः ।
एवं तावद्बाह्यं वस्त्वग्न्यादिवविज्ञातं तथेदानीं यथा नु खलु हे सोम्येमा यथोक्तास्तिस्रो देवताः पुरषं शिरःपाम्यादिलक्षणं कार्यकारणसङ्घातं प्राप्य पुरुषेणोपयुज्यमानास्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहि निगदत इत्युक्त्वाऽह ॥6-7 ॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य चतुर्थः खण्डः
=======================================================================
स्तर्त् छुप् 6,5.1
अन्नम् अशितं त्रेधा विधीयते ।
तस्य यः स्थविष्ठो धातुस् तत् पुरीषं भवति ।
यो मध्यमस् तन् मांसम् ।
यो ऽणिष्ठस् तन् मनः

6.5.2

छुप्भ्_6,5.1 अन्नमशितं भुक्तं त्रेधा विधीयते जाठरेमाग्निना पच्यमानं त्रिधा विभज्यते ।
कथं, तस्यान्नस्य त्रिधा विधीयमानस्य यः स्थविष्ठः स्थूलतमो धातुः स्थूलतमं वस्तु विभक्तस्य स्थूलोंऽशस्तत्पुरीषं भवति ।
यो मध्यमोंऽशो धातुरन्नस्य तद्रसादिक्रमेण परिणम्य मांसं भवति यो ऽणिष्ठो ऽणुतमो धातुः स ऊर्ध्वं हृदयं प्राप्य सूक्ष्मासु हिताख्यासु नाडीप्वनुप्रविस्य वागादिकरणसङ्घातस्य स्थितिमुत्पादयन्मनो भवति मनोरूपेण विपरिणमन्मनस उपचयं करोति ।
ततश्चान्नोपचितत्वान्मनसो भौतिकत्वमेव न वैशेषिकतन्त्रोक्तलक्षणं नित्यं निरवयं चेति गृह्यते ।
यदपि मनो ऽस्य दैवं चक्षुरिति वक्ष्यति तदपि न नित्यत्वापेक्षया किं तर्हि सूक्ष्मव्यवहितविप्रकृष्टादिसर्वेन्द्रियविषयव्यापकत्वापेक्षया ।
यच्चान्येन्द्रियविषयापेक्षया नित्यत्वं तदप्यापेक्षिकमेवेति वक्ष्यामः ।
सदेकमेवाद्वितीयमिति श्रुतेः ॥1 ॥
स्तर्त् छुप् 6,5.2
आपः पीतास् त्रेधा विधीयन्ते ।
तासां यः स्थविष्ठो धातुस् तन् मूत्रं भवति ।
यो मध्यमस् तल् लोहितम् ।
यो ऽणिष्ठः स प्राणः

6.5.3

छुप्भ्_6,5.2 तथाऽपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति ।
यो मध्यमस्तल्लोहितं भवति ।
यो ऽणिष्ठः स प्राणो भवति ।
वक्ष्यति ह्यापोमयः प्राणो न पिबतो विच्छेत्स्यत इति ॥2॥
स्तर्त् छुप् 6,5.3
तेजो ऽशितं त्रेधा विधीयते ।
तस्य यः स्थविष्ठो धातुस् तद् अस्थि भवति ।
यो मध्यमः स मज्जा ।
यो ऽणिष्ठः सा वाक्

6.5.4

छुप्भ्_6,5.3 तथा तेजो ऽशितं तैलघृतादि भक्षितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति ।
यो मध्यमःस मज्जास्थ्यन्तर्गतः स्नेहः ।
यो ऽणिष्ठः सा वाक् ।
तैलघृतादिभक्षणाद्धि वाग्विशदा भाषणे समर्था भवतीति प्रसिद्धं लोके ॥3 ॥
स्तर्त् छुप् 6,5.4
अन्नमयं हि सोम्य मनः ।
आपोमयः प्राणः ।
तेजोमयी वाग् इति ।
भूय एव मा भगवान् विज्ञापयत्व् इति ।
तथा सोम्येति होवाच

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc