छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.3
छुप्भ्_6,2.3 तत्सदैक्षतेक्षां दर्शनं कृतवत् ।
अतश्च न प्रधानं सांख्यपरिकल्पितं जगत्कारणम् ।
प्रधानस्याचेतनत्वाभ्युपदमात् ।
इदं तु सच्चेतनमीक्षितृत्वात् ।
तत्कथमैक्षतेत्याह-बहु प्रभूतं स्यां भवेयं प्रजायेत प्रकर्षेणोत्पद्येय ।
यथा मृद्घटाद्याकरेण यथा वा रज्जवादि सर्पाद्याकारेण बुद्धिपरिकल्पितेन ।
असदेव तर्हि सर्वं यद्गृह्यते रज्जुरिव सर्पाद्याकारेण बुद्धिपरिकल्पितेन ।
असदेव तर्हि सर्वं यद्गृह्यते रज्जुरिव सर्पाद्याकरेण ।
न ।
सत एव द्वैतभेदेनान्यथागृह्यमाणत्वान्नासत्त्वं कस्यचित्क्वचिदिति ब्रूमः ।
यथा सतो ऽन्यद्वस्त्वन्तरं परिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्वंसाच्चोर्ध्वमसत्त्वं ब्रुवते तार्किका न तथास्माभिः कदाचित्क्वचिदिपि सतो ऽन्यदभिधानमभिधेयं वा वस्तु परिकल्प्यते ।
सदेव तु सर्वमभिधानमभिधीयते च यदन्यबुद्ध्या ।
तथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते यथा वा पिण्डघटादि मृदो ऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके ।
रज्जुविवेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्तेते यथा च मृद्विवेकदर्शिनां घटादिशब्दबुद्धी तद्वत्सद्विवेकदर्शिनामन्यविकारशब्दबुद्धी निवर्तेते ।
"यतो वाचो निवर्तन्ते ।
अप्राप्य मनसा सहे"ति"अनिरुक्ते ऽनिलयन"इत्यादिश्रुतिभ्यः ।
एवमीक्षित्वा तत्तेजो ऽसृजत तेजः सृष्टवत् ।
ननु तस्माद्वा एतस्मादात्मन आकाशः संभूत इति श्रुत्यन्तर आकाशाद्वायुस्ततस्तृतीयं तेजः श्रुतमिह तु कथ प्राथम्येन तस्मादेव तेजः सृज्यते तत एव चाऽकाशमिति विरुद्धम् ।
नैष दोषः ।
आकाशवायुसर्गानन्तरं तत्सत्तेजो ऽसृजतेतिकल्पनोपपत्तेः ।
अथ वाविवक्षित इह सृष्टिक्रमः सत्कार्यमिदं सर्वमतः सदेकमेवाद्वितीयमित्येतद्विवक्षितम् ।
मृदादिदृष्टान्तात् ।
अथवा त्रिवृत्करणस्य विवक्षितत्वात्तेजोबन्नानामेव सृष्टिमाचष्टे ।
तेज इति प्रसिद्धं लोके दग्धृ पक्तृ प्रकाशकं रोहितं चेति ।
तत्सत्सृष्टं तेज ऐक्षत तेजोरूपसंस्थितं सदैक्षतेत्यर्थः ।
बहु स्यां प्रजायेयेति पूर्ववत् ।
तदपो ऽसृजत ।
आपो द्रवाः स्निग्धाः स्यन्दिन्यः शुक्लाश्चेति प्रसिद्धा लोके ।
यस्मात्तेजसः कार्यभूता आपस्तस्माद्यत्र क्वच देशे काले वा शोचति सन्तप्यते स्वेदते प्रस्विद्यते वा पुरुषस्तेजस एव तत्तदाऽपो ऽधिजायन्ते ॥3॥
6.2.4 ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥4॥
छुप्भ्_6,2.4 ता आप ऐक्षन्त पूर्ववदेवाबाकारसंस्थितं सदैक्षतेत्यर्थः ।
बह्वयः प्रभूताः स्याम भवेम प्रजायेमहि उत्पद्येमहोति ।
ता अन्नमसृजन्त पृथिवीलक्षणम् ।
पार्थिवं ह्यन्नं यस्मादप्कार्यमन्नं तस्माद्यत्र क्व च वर्षति देशे तत्तत्रैव भूयिष्ठं प्रबूतमन्नं भवति ।
अतो ऽद्भ्य एव तदन्नाद्यमधिजायते ।
ता अन्नमसृजन्तेति पृथिव्युक्ता पूर्वमिह तु दृष्टान्ते ऽन्नं च तदाद्यं चेति विशेषणाद्व्रीहियवाद्या उच्यन्ते ।
अन्नं च गुरु स्थिरं धारणं कृष्णं च रूपतः प्रसिद्धम् ।
ननु तेजः प्रभृतिष्वीक्षणं न गम्यते हिंसादिप्रतिषेधाभावात्त्रासादिकार्यानुपलम्भाच्च तत्र कथं तत्तेज ऐक्षतेत्यादि ।
नेष दोषः ।
ईक्षितृकारणपरिणामत्वात्तेजः प्रभृतीनां सत इवेक्षितुर्नियतक्रमविशिष्टकार्योत्पादकत्वात् तेजः प्रभृतीक्षत इवेक्षत इत्युच्यते भूतम् ।
ननु सतो ऽप्युपचरितमेवेक्षितृत्वम् ।
न ।
सदीक्षणस्य केवलशब्दगम्यत्वान्न शक्यमुपचरितं कल्पयितुम् ।
तेजः प्रभृतीनां त्वनुमीयते मुख्येक्षणाभाव इति युक्तमुपचरितं कल्पयितुम् ।
ननु सतो ऽपि मृद्वत्कारणत्वादचेतनत्वं शक्यमनुमातुम् ।
अतः प्रधानस्यैवाचेतनस्य सतश्चेतनार्थत्वान्नियतकालक्रमविशिष्टकार्योत्पादकत्वाच्चैक्षतेवैक्षतेति शक्यमनुमातुमुपचरितमेवेक्षणम् ।
दृष्टश्च लोके ऽचेतने चेतनवदुपचारः ।
यथा कूलं पिपतिषतीति तद्वत्सतो ऽपि स्यात् ।
न ।
तत्सत्यं स आत्मेति तस्मिन्नात्मोपदेशात् ।
आत्मोपदेशो ऽप्युपचरित इति चेद्यथा ममाऽत्मा भद्रसेन इति आत्मनः सर्वार्थकारिण्यनात्मन्यात्मोपचारस्तद्वत् ।
न ।
सदस्मीति सत्सत्याभिसन्धस्य"तस्य तावदेव चिरम्" इति मोक्षोपदेशात् ।
सो ऽप्युपचार इति चेत् ।
प्रधानात्माभिसन्धस्य मोक्षसामीप्यं वर्तत इति मोक्षोपदेशो ऽप्युपचरित एव ।
यथा लोके ग्रामं गन्तुं प्रस्थितः प्राप्तवानहं ग्राममिति ब्रूयात् त्वरापेक्षया तद्वत् ।
न ।
येन विज्ञातेनाविज्ञातं विज्ञातं भवतीत्युपक्रमात् ।
सत्येतस्मिन्विज्ञाते सर्वं विज्ञातं भवति तदनन्यत्वात्सर्वस्याद्वितीयवचनाच्च ।
न चान्यद्विज्ञातव्यमवशिष्टं श्रावितं श्रुत्यानुमेयं वा लिङ्गतो ऽस्ति येन मोक्षोपदेश उपचरितः स्यात् ।
सर्वस्य च प्रपाठकार्थस्योपचरितत्वपरिकल्पनायां वृथा श्रमः परिकल्पयितुः स्यात्पुरुषार्थसाधनविज्ञानस्य तर्केणैवाधिगतत्वात्तस्य ।
तस्माद्वेदप्रामाण्यान्न श्रुतार्थपरित्यागः ।
अतश्चेतनावत्कारणं जगत इति सिद्धम् ॥4॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य द्वितीयः खण्डः
=======================================================================
स्तर्त् छुप् 6,3.1
तेषां खल्व् एषां भूतानां त्रीण्य् एव बीजानि भवन्त्य् आण्डजं जीवजम् उद्भिज्जम् इति
छुप्भ्_6,3.1 तेषां जीवाविष्टानां खल्वेषां पक्ष्यादीनां भूतानामेषामिति प्रत्यक्षनिर्देशान्न तु तेजःप्रभृतीनां तेषां त्रिवृत्करणस्य वक्ष्यमाणत्वादसति त्रिवृत्करमे प्रत्यक्षनिर्देशानुपपत्तिः ।
देवताशब्दप्रयोगाच्च तेजः प्रभृतिष्विमास्तिस्रो देवता इति ।
तस्मात्तेषां भूतानां पक्षिपशुस्थावरादीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भवन्ति ।
कानि तानीत्युच्यन्ते ।
आण्डजमण्डाज्जातमण्डजमण्डजमेवाऽण्डजं पक्ष्यादि ।
पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते ।
तेन पक्षी पक्षिणां बीजं सर्पः सर्पाणां तथान्यदप्यण्डाज्जातं तज्जातीयानां बीजमित्यर्थः ।
नन्वण्डाज्जातमण्डजमुच्यते ऽतो ऽण्डमेव बीजमिति युक्तं कथमण्डजं बीजमुच्यते ।
सत्यमेवं स्याद्यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्स्तवतन्त्रा तु श्रुतिर्यत आहाऽण्डजाद्येव बीजं नाण्डादीति ।
दृश्यते चाण्डजाद्यभावे तज्जातीयसन्तत्यभावो नाण्डाद्यभावे ।
अतो ऽण्डजादीन्येव बीजान्यण्डजादीनाम् ।
तथा जीवाज्जातं जीवजं जरायुजमित्येतत्पुरुषपश्वादि ।
उद्भिज्जमुद्भिनत्तीत्युद्भित्स्थावरं ततो जातमुद्भिज्जं धाना वोद्भित्ततो जायत इत्युद्भिज्जं स्थावरबीजं स्थावराणां बीजमित्यर्थः ।
स्वेदजसंशोकजयोरण्डजोद्भिज्जयोरेव यथासम्भवमन्तर्भावः ।
एवं ह्यवधारणं त्रीण्येव बीजानीत्युपपन्नं भवति ॥1 ॥
स्तर्त् छुप् 6,3.2
सेयं देवतैक्षत ।
हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति
छुप्भ्_6,3.2 सेयं प्रकृता सदाख्या तेजोबन्नयोनिर्देवतोक्तैक्षतेक्षितवती यथापूर्वं बहु स्यामिति ।
तदेव बहुभवनं प्रयोजनं नाद्यापि निर्वृत्तमित्यत ईक्षां पुनः कृतवती बहुभवनमेव प्रयोजनमुररीकृत्य ।
कथम् ।
हन्तेदानीमहमिमा यथोक्तास्तेज आद्यास्तिस्रो देवता, अनेन जीवेनेति, स्वबुद्धिस्थं पूर्वसृष्ट्यनुभूतप्राणधाराणमात्मानमेव स्मरन्त्याहानेन जीवेनाऽत्मनेति ।
प्राणधारणकर्त्राऽत्मनेति वचनात्स्वात्मनो ऽव्यतिरिक्तेन चैतन्यस्वरूपतयाविशिष्टेनेत्येतद्दर्शयति ।
अनुप्रविश्य, तेजोबन्नभूतमात्रासंसर्गेण लब्धविशेषविज्ञाना सती, नाम च रूपं च नामरूपे व्याकरवाणि विस्पष्टमाकरवा"ण्यसौनामायमिदंरूप"इति व्याकुर्यामित्यर्थः ।
ननु न युक्तमिदमसंसारिण्याः सर्वज्ञाया देवताया बुद्धिपूर्वकमनेकशतसहस्रानर्थाश्रयं देहमनुप्रविश्य दुःखमनुभविष्यामीति सङ्कल्पनमनुप्रवेशश्च स्वातन्त्र्ये सति ।
सत्यमेवं न युक्तं स्याद्यदि स्वेनैवाविकृतेन रूपेणानुप्रविशेयं दुःखमनुभवेयमिति च सङ्कल्पितवती न त्वेवम् ।
कथं तर्हि ।
अनेन जीवेनाऽत्मनानुप्रविश्येति वचनात् ।
जीवो हि नाम देवताया आभासमात्रम् ।
बुद्ध्यादिभूतमात्रासंसर्गजनित आदर्श इव प्रविष्टः पुरुषप्रतिबिम्बो जलादिष्विव च सूर्यादीनाम् ।
अचिन्त्यानन्तशक्तिमत्या देवताया बुद्ध्यादिसम्बन्धश्चैतन्याभासो देवतास्वरूपविवेकाग्रहणनिमित्तः सुखी दुःखी मूढ इत्याद्यनेकविकल्पप्रत्ययहेतुः ।
छायामात्रेण जीवरूपेणानुप्रविष्टत्वाद्देवता न दैहिकैः स्वतः सुख दुःखादिभिः सम्बध्यते ।
यथा पुरुषादित्यादय आदर्शोदकादिषु च्छायामात्रेणानुप्रविष्टा आदर्शोदकदिदोषैनं सम्बध्यन्ते तद्वद्देवतापि ।
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥
"आकाशवत्सर्वगतश्च नित्यः"इति च वाजसनेयके ।
ननु च्छायामात्रश्चेज्जीवो मृषैव प्राप्तस्तया परलोकेहलोकादि च तस्य ।
नैष दोषः ।
सदात्मना सत्यत्वाभ्युपगमात् ।
सर्वं च नामरूपादि सदात्मनैव सत्यं विकारजातं स्वस्त्वनृतमेव ।
वाचाऽरम्भण विकारो नामधेयमित्युक्कत्वात् ।
तथा जीवो ऽपीति ।
यक्षानुरूपो हि बलिरिति न्यायप्रसिद्धिः ।
अतः सदात्मना सर्वव्यवहाराणां सर्वविकारामां च सत्यत्वं सतो ऽन्यत्वेनानृतत्वमिति न कश्चिद्दोषस्तार्किकैरिहानुवक्तुं शक्यः ।
यथेतरेतरविरुद्धद्वैतवादाः स्वबुद्धिविकल्पमात्रा अतत्त्वनिष्ठा इति शक्यं वक्तुम् ॥2 ॥
स्तर्त् छुप् 6,3.3
तासां त्रिवृतं त्रिवृतम् एकैकां करवाणीति ।
सेयं देवतेमास् तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत्
छुप्भ्_6,3.3 सैवं तिस्रो देवता अनुप्रविश्य स्वात्मावस्थे बीजभूते अव्याकृते नामरूपे व्याकरवाणीतीक्षित्वा तासां च तिसृणां देवतानामेकैकां त्रिवृतं त्रिवृतं करवाणि ।
एकैकस्यास्रिवृत्करण एकैकस्याः प्राधान्यं द्वयोर्द्वयोर्गुणभावो ऽन्थथा हि रज्जवा इवैकमेव त्रिवृत्करणं स्यात् न तु तिसृणां पृथक्पृथक्त्रिवृत्करणमिति ।
एवं हि तेजोबन्नानां पृथङ्नामप्रत्ययलाभः स्यात्तेज इदमिमा आपो ऽन्नमिदमिति च ।
सति च पृथङ्नामप्रत्ययलाभे देवतानां सम्यग्व्यवहारस्य प्रसिद्धिः प्रयोजनं स्यात् ।
एवमीक्षित्वा सेयं देवतेमास्तिस्रो देवता अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवादीनां च पिण्डाननुप्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोदसौनामायमिदंरूप इति ॥3 ॥
स्तर्त् छुप् 6,3.4
तासां त्रिवृतं त्रिवृतम् एकैकाम् अकरोत् ।
यथा तु खलु सोम्येमास् तिस्रो देवतास् त्रिवृत् त्रिवृद् एकैका भवति तन् मे विजानीहीति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0