छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.4
छुप्भ्_6,3.4 तासां च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतमेकैकामकरोत्कृतवती देवता ।
तिष्ठतु तावद्देवतादिपिण्डानां नामरूपाभ्यां व्याकृतानां तेजोबन्नमयत्वेन त्रिधात्वं, यथा तु खलु बहुरिमाः पिण्डेभ्यस्तिस्रो देवतास्रिवृत्त्रिवृदेकैका भवति तन्मे मम निगदतो विजानीहि विष्टस्पमवधारयोदाहरणतः ॥4॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य तृतीयः खण्डः
=======================================================================
स्तर्त् छुप् 6,4.1
यद् अग्ने रोहितं रूपं तेजसस् तद् रूपम् ।
यच् छुक्लं तद् अपाम् ।
यत् कृष्णं तद् अन्नस्य ।
अपागाद् अग्नेर् अग्नित्वम् ।
वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम्
छुप्भ्_6,4.1 यत्तद्देवतानां त्रिवृत्करणमुक्तं तस्यैवोदाहरणमुच्यते ।
उदाहरणं नामैकदेशप्रसिद्ध्यर्थमुदाह्रियत इति ।
तदेतदाह - यदग्नेस्रिवृत्कृतानां, यत्कृष्णं तस्यैवाग्ने रूपं तदन्नस्य पृथिव्या अत्रिवृत्कृताया इति विद्धि ।
तत्रैवं सत रूपत्रयव्यतिरेकेणाग्निरिति यन्मन्यसे त्वं तस्याग्नेरग्नित्वमिदानीमपागादपगतम् ।
प्राग्रूपत्रयविवेकविज्ञानाद्याग्निबुद्धिरासीत्ते साग्निबुद्धिरपगताग्निशब्दश्चेत्यर्थः ।
यथादृष्यमानरक्तोपधानसंयुक्तः स्फटिको गृह्यमाणः पद्मरागो ऽयमितिशब्दबुद्ध्योः प्रयोजको भवति प्रागुपधानस्फटिकयोर्विवेकविज्ञाने तु पद्मरागशब्दबुद्धी निवर्तेते तद्विवेकविज्ञातुस्तद्वत् ।
ननु किमत्र बुद्धिशब्दकल्पनया क्रियते प्राग्रूपत्रयविवेककरणादग्निरेवाऽसीत्तदग्नेरग्नित्वं रोहितादिरूपविवेककरणादपागादिति युक्तं यथा तन्त्वपकर्षणे पटाभावः ।
नैवं, बुद्धिशब्दमात्रमेव ह्यग्निर्यत आह वाचाऽरम्भणमग्निर्नाम विकारो नामधेय नाममात्रमित्यर्थः ।
अतो ऽग्निबुद्धरपि मृषैव ।
किं तर्हि तत्र सत्यं त्रीणि रूपाणीत्येव सत्यं नाणुमात्रमपि रूपत्रयव्यतिरेकेण सत्यमस्तीत्यवधारणार्थः ॥1 ॥
स्तर्त् छुप् 6,4.2
यद् आदित्यस्य रोहितं रूपं तेजसस् तद् रूपम् ।
यच् छुक्लं तद् अपाम् ।
यत् कृष्णं तद् अन्नस्य ।
अपागाद् आदित्याद् आदित्यत्वम् ।
वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम्
यच् चन्द्रमसो रोहितं रूपं तेजसस् तद् रूपम् ।
यच् छुक्लं तद् अपाम् ।
यत् कृष्णं तद् अन्नस्य ।
अपागाच् चन्द्राच् चन्द्रत्वम् ।
वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम्
यद् विद्युतो रोहितं रूपं तेजसस् तद् रूपम् ।
यच् छुक्लं तद् अपाम् ।
यत् कृष्णं तद् अन्नस्य ।
अपागाद् विद्युतो विद्युत्त्वम् ।
वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम्
छुप्भ्_6,4.2,3,4 तथा यदादित्यस्य यच्चन्द्रमसो यद्विद्युत इत्यादि समानम् ।
ननु यथा नु खलु सोम्येमास्तिस्रो देवतास्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहित्युक्त्वा तेजस एव चतुर्भिरप्युदाहरणैरग्न्यादिभिस्रिवृत्करणं दर्शितं नाबन्नयोरुदाहरणं दर्शितं त्रिवृत्करणे ।
नैष दोषः ।
अबन्नविषयाण्यप्युदाहरणान्येवमेव च द्रष्टव्यानीति मन्यते श्रुतिः ।
तेजस उदाहरणमुपलक्षणार्थम् ।
रूपवत्त्वात्स्पष्टार्थत्वोपपत्तेश्च ।
गन्धरसयोरनुदाहरणं त्रयाणामसम्भवात् ।
न हि गन्धरसौ तेजसि स्तः ।
स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात् ।
यदि सर्वं जगत्त्रिवृत्कृतमित्यग्न्यादिवत्त्रीणि रूपाणीत्येव सत्यमग्नेरग्नित्ववदपागाज्जगतो जगत्त्वम् ।
तथान्नस्याप्यप्शुङ्गत्वादाप इत्येव सत्यं वाचारम्भणमात्रमन्नम् ।
तथापामपि तेजःशुङ्गत्वाद्वाचारम्भणत्वं तेज इत्येव सत्यम् ।
तेजसो ऽपि सच्छुङ्गत्वाद्वाचारम्भणत्वं सदित्येव सत्यमित्येषोर्ऽथो विवक्षितः ।
ननु वाय्वन्तरिक्षे त्वत्रिवृत्कृते तेजः प्रभृतिष्वनन्तर्भूतत्वादवशिष्येते ।
एवं गन्धरसशब्दस्पर्शाश्चावशिष्टा इति कथं सता विज्ञातेन सर्वमन्यद्विज्ञातं भवेत्तद्विज्ञाने वा प्रकारान्तरं वाच्यम् ।
नैष दोषः ।
रूपवद्द्रव्ये सर्वस्य दर्शनात् ।
तेजसि तावद्रूपवति शब्दस्पर्शयोरप्युलभ्भाद्वाय्वन्तरिक्षयोस्तत्र स्पर्शशब्दगुणवतोः सद्भावो ऽनुमीयते ।
तथाबन्नयो रूपवतो रसगन्धान्तभाव इति ।
रूपवतां त्रयाणां तेजोबन्नानां त्रिवृत्करणप्रदर्शनेन सर्वं तदन्तर्भूतं सद्विकारत्वात् रूपत्रयवत् विज्ञातं मन्यते श्रुतिः ।
न हि मूर्तं रूपवद्द्रव्यं प्रत्याख्याय वाय्वाकाशयोस्तद्गुणयोर्गन्धरसयोर्वा ग्रहणमस्ति ।
अथवा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः ।
यथा तु त्रिवृत्कृते त्रीणि रूपाणीत्येव सत्यं तथा पञ्चीकरणे ऽपि समानो न्याय इत्यतः सर्वस्य सद्विकारत्वात्सता विज्ञातेन सर्वमिदं विज्ञातं स्यात्सदेकमेवाद्वितीयं सत्यमिति सिद्धमेव भवति ।
तदेकस्मिन्सति विज्ञाते सर्वमिदं विज्ञातं भवतीति सूक्तम् ॥2-4 ॥
स्तर्त् छुप् 6,4.5
एतद् ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रियाः ।
न नो ऽद्य कश्चनाश्रुतम् अमतम् अविज्ञातम् उदाहरिष्यति ।
इति ह्य् एभ्यो विदां चक्रुः
छुप्भ्_6,4.5 एतद्विद्वांसो विदितवन्तः पूर्वे ऽतिक्रान्ता महाशाला महाश्रोणिया आहुर्ह स्म वै किल ।
किमुक्तवन्त इत्याहन नो ऽस्माकं कुले ऽद्येदानीं यथोक्तविज्ञानवतां कश्न कश्चिदप्यश्रुतममतमविज्ञातमुदाहरिष्यति नोदाहरिष्यति सर्वं विज्ञातमेवास्मत्कुलीनानां सद्विज्ञानवत्त्वादित्याभिप्रायः ।
ते पुनः कथं सर्वं विज्ञातवन्त इत्याह-एभ्यस्रिभ्यो रोहितादिरूपेभ्यस्रिवृत्कृतेभ्यो विज्ञातेभ्यः सर्वमप्यन्यच्छिष्टमेवमेवेति विदाञ्चक्रुर्विज्ञातवन्तो यस्मात्तस्मात्सर्वज्ञा एव सद्विज्ञानात्त आसुरित्यर्थः ।
अथवैभ्यो विदाञ्चक्रुरित्यग्न्यादिभ्यो दृष्टान्तेभ्यो विज्ञातेभ्यः सर्वमन्यद्विदाञ्चक्रुरित्येतत् ॥5 ॥
स्तर्त् छुप् 6,4.6
यद् उ रोहितम् इवाभूद् इति तेजसस् तद् रूपम् इति तद् विदां चक्रुः ।
यद् उ शुक्लम् इवाभूद् इत्य् अपां रूपम् इति तद् विदां चक्रुः ।
यद् उ कृष्णम् इवाभूद् इत्य् अन्नस्य रूपम् इति तद् विदां चक्रुः
यद् व् अविज्ञातम् इवाभूद् इत्य् एतासाम् एव देवतानां समास इति तद् विदां चक्रुः ।
यथा नु खलु सोम्येमास् तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृद् एकैका भवति तन् मे विजानीहीति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0