भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.2

6.2.1

छुप्भ्_6,1.6,7 यथा सौम्यैकेन नखनिकृन्तनेनोपलक्षितेन कृष्णायसपिण्डेनेत्यर्थः ।
सर्वं कार्ष्णायसं कृष्णायसविकारजातं विज्ञातं स्यात् ।
समानमन्यत् ।
अनेकदृष्टान्तोपादानं दार्ष्टान्तिकारेकभेदानुगमार्थं दृढप्रतीत्यर्थं च ।
एवं सोम्य स आदेशो यो मयोक्तो भवतीत्युक्तवति पितर्याहेतरो न वै नूनं भगवन्तः पूजावन्तो गुरवो मम ये त एतद्यद्भवदुक्तं वस्तु नावेदिषुर्न विज्ञातवन्तो नूनम् ।
यद्यदि ह्यवेदिष्यन् विदितवन्त एतद्वस्तु कथं मे गुणवते भक्तायानुगताय नावक्ष्यन्नोक्तवन्तस्तेनाहं मन्ये न विदितवन्त इति ।
अवाच्यमपि गुरोर्न्यग्भावमवादीत्पुनर्गुरुकुलं प्रति प्रेषणभयात् ।
अतो भगवांस्त्वेव मे मह्यं तद्वस्तु येन सर्वज्ञत्वं ज्ञातेन मे स्यात्तद्ब्रवीतु कथयत्वित्युक्तः पितोवाच तथास्तु सौम्येति ॥6-7 ॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य प्रथमः खण्डः
=======================================================================
स्तर्त् छुप् 6,2.1
सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् ।
तद् धैक आहुर् असद् एवेदम् अग्र आसीद् एकम् एवाद्वितीयम् ।
तस्माद् असतः सज् जायत

6.2.2

छुप्भ्_6,2.1 सदेव सदित्यस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्वगतमेकं निरञ्जनं निरवयवं विज्ञानं यदवगम्यते सर्ववेदान्तेभ्यः ।
एवशब्दो ऽवधारणार्थः ।
किं तदवध्रियत इत्याह ।
इदं जगन्नामरूपक्रियावद्विकृतमुपलभ्यते यत्तत्सदेवाऽसीदित्यासीच्छब्देन सम्बध्यते ।
कदा सदेवेदमासीदित्युच्ते ।
अग्रे जगतः प्रागुत्पत्तेः ।
किं नेदानीमिदं यद्येनाग्र आसीदिति विशेष्यते ।
न, कथं तर्हि विशेषणम् ।
इदानीमपीदं सदेव किन्तु नामरूपविशेषणवदिदंशब्दबुद्धिविषयं चेतीदं च भवति ।
प्रागुत्पत्तेस्त्वग्रे केवलसच्छब्दबुद्धिमात्रगम्यमेवेति सदेवेदमग्र आसीदित्यवधार्यते ।
न हि प्रागुत्पत्तेर्नामवद्रूपवद्वेदमिति ग्रहीतुं शक्यं वस्तु सुषुप्तकाल इव ।
यथा सुषुप्तादुत्थितः सत्त्वमात्रमवगच्छति सुषुप्ते सन्मात्रमेव केवलं वस्त्विति तथा प्रागुत्पत्तेरित्यभिप्रायः ।
यथेदमुच्यते लोके पूर्वाह्ने घटादि सिसृक्षुणा कुलालेन मृत्पिण्डं प्रसारितमुपलभ्य ग्रामान्तरं गत्वा प्रत्यागतो ऽपराह्ने तत्रैव घटशरावाद्यनेकभेदभिन्नं कार्यमुपलभ्य मृदेवेदं घटशरावादि केवलं पूर्वाह्ने आसीदिति तथेहाप्युच्यते सदेवेदमग्र आसीदिति ।
एकमेवेति ।
स्वकार्यपतितमन्यन्नास्तीत्येकमेवेत्युच्यते ।
अद्वितीयमिति ।
मृद्व्यतिरेकेण मृदो यथान्यद्घटाद्याकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यते ऽद्वितीयमिति ।
नास्य द्वितीयं वस्त्वन्तरं विद्यत इत्यद्वितीयम् ।
ननु वेशेषिकपक्षे ऽपि सत्सामानाधिकरम्यं सर्वस्योपपद्यते ।
द्रव्यगुणादिषु सच्छब्दबुद्ध्यनुवृत्तेः ।
सद्द्रव्यं सन्गुणः सत्कर्मेत्यादिदर्शनात् ।
सत्यमेवं स्यादिदानीं प्रागुत्पत्तेस्तु नैवेदं कार्यं सदेवाऽसीदित्यभ्युपगम्यते वैशेषिकैः प्रागुत्पत्तेः कार्यस्यासत्त्वाभ्युपगमात् ।
न चैकमेव सदद्वितीयं प्रगुत्पत्तेरिच्छन्ति ।
तस्माद्वैशेषिकपरिकल्पितात्सतो ऽन्यत्कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः ।
तत्तत्र हैतस्मिन्प्रागुत्पत्तेर्वस्तुनिरूपण एके वैनाशिका आहुर्वस्तु निरूपयन्तो ऽसत्सदभावमात्रं प्रागुत्पत्तेरिदं जगदेकमेवाग्रे ऽद्वितीयमासीदिति ।
सदभावमात्रं हि प्रागुत्पत्तेस्तत्त्वं कल्पयन्ति बौद्धाः ।
न तु सत्प्रतिद्वन्द्वि वस्त्वन्तरमिच्छन्ति ।
यथा सच्चासदिति गृह्यमामं यथाभूतं तद्विपरीतं तत्त्वं भवतीति नैयायिकाः ।
ननु सदभावमात्रं प्रागुत्पत्तेश्चेदभिप्रेतं वैनाशिकैः कथं प्रागुत्पत्तेरिदमासीदसदेकमेवाद्वितीयं चेति कालसम्बन्धः संख्यासम्बन्धो ऽद्वितीयत्वं चोच्यते तैः ।
बाढं न युक्तं तेषां भावाभावमात्रमभ्युपगच्छताम् ।
असत्तवमात्राभ्युपगमो ऽप्ययुक्त एवाभ्युपगन्तुरनभ्युपगमानुपपत्तेः ।
इदानीमभ्युपगन्ताभ्युपगम्यते न प्रागुत्पत्तेरिति चेत् ।
न ।
प्रागुत्पत्तेः सदभावस्य प्रमाणाभावात् प्रागुत्पत्तेरसदेवेतिकल्पनानुपपत्तिः ।
ननु कथं वस्त्वाकृतेः शब्दार्थत्वे ऽसदेकमेवाद्वितीयमितिपदार्थवाक्यार्थोपपत्त् इः?तदनुपपत्तौ चेदं वाक्यमप्रमाणं प्रसज्येतेति चेति ।
नैष दोषः ।
सद्ग्रहणनिवृत्तिपरत्वाद्वाक्यस्य ।
सदित्ययं तावच्छब्दः सदाकृतिवाचकः ।
एकमेवाद्वितीयमित्येतौ च सच्छब्देन समानाधिकरणौ ।
तथेदमासीदिति च ।
तत्र नञ् सद्वाक्ये प्रयुक्तः सद्वाक्यमेवावलम्ब्य सद्वाक्यार्थविषयां बुद्धिं सदेकमेवाद्वितीयमिदमासीदित्येवंलक्षणां ततः सद्वाक्यार्थान्निवर्तयत्यश्वारूढ इवाश्वालम्बनो ऽश्वं तदभिमुखविषयान्निवर्तयति तद्वत् ।
न तु पुनः सदभावमेवाभिधत्तेः ।
अतः पुरुषस्य विपरीतग्रहणनिवृत्त्यर्थपरमिदमसदेवेत्यादि वाक्यं प्रयुज्यते ।
दर्शयित्वा हि विपरीतग्रहणं ततो निवर्तयितुं शक्यत इत्यर्थवत्त्वादसदादिवाक्यस्य श्रौतत्वं प्रामाण्यं च सिद्धमित्यदोषः ।
तस्मादसतः सर्वाभावरूपात्सद्विद्यमानमजायत समुत्पन्नम् ।
अडभावश्छान्दसः ॥1 ॥
स्तर्त् छुप् 6,2.2
कुतस् तु खलु सोम्यैवं स्याद् इति होवाच ।
कथम् असतः सज् जायेत ।
सत् त्व् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्

6.2.3

छुप्भ्_6,2.2 तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति-कुतस्तु प्रमाणात्खलु हे सोम्यैवं स्यादसतः सज्जायतेत्येवं कुतो भवेन्न कुतश्चित्प्रमाणादेवं सम्भवतीत्यर्थः ।
यदपि बीजोपमर्दे ऽङ्कुरो जायमानो दृष्टो ऽभावदेवेति तदप्यभ्युपगमविरुद्धं तेषाम् ।
कथम् ।
ये तावद्बीजावयवा बीजसंस्थानविशिष्टास्ते ऽङ्कुरे ऽप्यनुवर्तन्त एव न तेषामुपमर्दे ऽङ्कुरजन्मनि ।
यत्पुनर्बीजाकारसंस्थानं तद्बीजावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते यदङ्कुरजन्मन्युपमृद्येत ।
अथ तदस्त्यवयवव्यतिरिक्तं वस्तुभूतं तथा च सत्यभ्युपगमविरोधः ।
अथ संवृत्याभ्युपगतं बीजसंस्थानरूपमुपमृद्यत इति चेत् ।
केयं संवृतिर्नाम किमसावभाव उत भाव?इति ।
यद्यभावो दृष्टान्ताभावः ।
अथ भावस्तथापि नाभावादङ्कुरोत्पत्तिर्बीजावयवेभ्यो ह्यङ्कुरोत्पत्तिः ।
अवयवा अप्युपमृद्यन्त इति चेत् ।
न ।
तदवयवेषु तुल्यत्वात् ।
यथा वैनाशिकानां बीजसंस्थानरूपो ऽवयवी नास्ति तथावयवा अपीति तेषामप्युपमर्दानुपपत्तिः ।
बीजावयवानामपि सूक्ष्मावयवास्तदवयवानामप्यन्ये सूक्ष्मतरावयवा इत्येवं प्रसङ्गस्यानिवृत्तेः सर्वत्रोपमर्दानुपपत्तिः ।
सद्बुद्ध्यनुवृत्तेः सत्त्वानिवृत्तिश्चेति सद्वादिनां सत एव सदुत्पत्तिः सेत्स्यति ।
न त्वसद्वादिनां दृष्टान्तो ऽस्त्यसतः सदुत्पत्तेः ।
मृत्पिण्डाद्घटोत्पत्तिर्दृश्यते सद्वादिनां तद्भावे भावात्तदभावे चाभावात् ।
यद्यभावादेव घट उत्पद्येत घटार्थिना मृत्पिण्डो नोपादीयेत ।
अभावशब्दबुद्ध्यनुवृत्तिश्च घटादौ प्रसज्येत ।
न त्वेतदस्त्यतो नासतः सदुत्पत्तिः ।
यदप्याहुर्मृद्बुद्धिर्घटबुद्धेर्निमित्तमिति मृद्बुद्धिर्घटबुद्धेः कारणमुच्यते न तु परमार्थत एव मृद्घटो वास्तीति तदपि मृद्बुद्धिर्विद्यमाना विद्यमानाया एव घटबुद्धेः कारणमिति नासतः सदुत्पत्तिः ।
मृद्घटबुद्ध्योर्निमित्तनैमित्तिकतयाऽनन्तर्यमात्रं न तु कार्यकारणत्वमिति चेत् ।
न ।
बुद्धीनां नैरन्तर्ये गम्यमाने वैनाशिकानां बहिर्दृष्टान्ताभावात् ।
अतः कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथं केन प्रकारेणासतः सज्जायेतेति ।
असतः सदुत्पत्तौ न कश्चिदपि दृष्टान्तप्रकारो ऽस्तीत्यभिप्रायः ।
एवमसद्वादिपक्षमुन्मध्योपसंहरति सत्त्वेव सोम्येदमग्र आसीदिति स्वपक्षसिद्धिम् ।
ननु सद्वादिनो ऽपि सतः सदुत्पद्यत इति नैव दृष्टान्तो ऽस्ति ।
घटाद्घटान्तरोत्पत्त्यदर्शनात् ।
सत्यमेवं न सतः सदन्तरमुत्पद्यते किं तर्हि सदेव संस्थानान्तरेणावतिष्ठते ।
यथा सर्पः कुण्डली भवति ।
यथा च मृच्चूर्णपिण्डघटकपालादिप्रभेदैः ।
यद्येवं सदेव सर्वप्रकारवस्थं कतं प्रागुत्पत्तेरिदमासीदिति ।
उच्यते ।
ननु न श्रुतं त्वया सदेवेत्यव धारणमिदंशब्दवाच्यस्य कार्यस्य ।
प्राप्तं तर्हि प्रागुत्पत्तेरसदेवाऽसीन्नेदंशब्दवाच्यमिदानीमिदं जातमिति ।
न ।
सत एवेदंशब्दबुद्धिविषयतयावस्थानाद्यथा मृदेव पिण्डघटादिशब्दबुद्धिविषयत्वेनावतिष्ठते तद्वत् ।
ननु यथा मृद्वस्त्वेवं पिण्डघटाद्यपि तद्वत्सद्बुद्धेरन्यबुद्धिविषयत्वात्कार्यस्य सतो ऽन्यद्वस्त्वन्तरं स्यात्कार्यजातं यथाश्वाद्गौः ।
न ।
पिण्डघटादीनामितरेतरव्यभिचारे ऽपि मृत्त्वाव्यभिचारात् ।
यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटं तथापि मृत्तवं न व्यभिचरतस्तस्मान्मृन्मात्रं पिण्डघटौ ।
(व्यभिचरति त्वश्वं गौरश्वो वा गाम्) ।
तस्मान्मृदादिसंस्थानमात्रं घटादयः ।
एवं सत्संस्थानमात्रमिदं सर्वमिति युक्तं प्रागुत्पत्तेः ।
सदेवेति ।
वाचारम्भणमात्रत्वाद्विकारसंस्थानमात्रस्य ।
ननु निरवयवं सत्"निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं" "दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यज"इत्यादिश्रुतिभ्यो निरवयवस्य सतः कथं विकारसंस्थानमुपपद्यते ।
नैष दोषः ।
रज्ज्वाद्यवयवेभ्यः सर्पादिसंस्थानवद्बुद्धिपारिकल्पितेभ्यः सदवयवेब्यो विकारसंस्थानोपपत्तेः ।
वाचाऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमेवं सदेव सत्यमिति श्रुतेः ।
एकमेवाद्वितीयं परमार्थत इदंबुद्धिकाले ऽपि ॥2 ॥
स्तर्त् छुप् 6,2.3
तद् ऐक्षत ।
बहु स्यां प्रजायेयेति ।
तत् तेजो ऽसृजत ।
तत् तेज ऐक्षत ।
बहु स्यां प्रजायेयेति ।
तद् अपो ऽसृजत ।
तस्माद् यत्र क्व च शोचति स्वेदते वा पुरुषस् तेजस एव तद् अध्य् आपो जायन्ते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc