भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.1

6.1.1

छुप्भ्_5,24.5 यथेह लोके क्षुधिता बुभुक्षिता बाला मातरं पर्युपासते कदा नो मातान्नं प्रयच्छतीत्येवं सर्वाणि भूतान्यन्नादान्येवंविदो ऽग्निहोत्रं भोजनमुपासते कदा त्वसौ भोक्ष्यत इति, जगत्सर्वं विद्वद्भोजनेन तृप्तं भवतीत्यर्थः ।
द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥5 ॥ ॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य चतुर्विंशः खण्डः
इति च्छान्दोग्योपनिषद्ब्राह्मणे पञ्चमोध्यायः समाप्तः
अथ षष्ठोध्यायः
स्तर्त् छुप् 6,1.1
श्वेतकेतुर् हारुणेय आस ।
तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यम् ।
न वै सोम्यास्मत् कुलीनो ऽननूच्य ब्रह्मबन्धुर् इव भवतीति

6.1.2

छुप्भ्_6,1.1
श्वेतकेतुर्हाऽरुणेय आसेत्याद्यध्यायसम्बन्धः ।
सर्वं खल्विदं ब्रह्म तज्जलानित्युक्तं कथं तस्माज्जगदिदं जायते तस्मिन्नेव च लीयते ऽनिति च तेनैवेत्येतद्वक्तव्यम् ।
अनन्तरं चैकस्मिन्भुक्ते विदुषि सर्वं जगत्तृप्तं भवतीत्युक्तं तदेकत्वे सत्यात्मनः सर्वभूतस्थस्योपपद्यते नाऽत्मभेदे ।
कथं च तदेकत्वमिति तदर्थो ऽयं षष्ठो ऽध्याय आरभ्यते ।
पितापुत्राख्यायिका विद्यायाः सारिष्ठत्वप्रदर्शनार्था ।
श्वेतकेतुरिति नामतो हेत्यैतिह्यार्थः आरुणेयो ऽरुणस्य पौत्र आस बभूव ।
तं पुत्रं हाऽरुणिः पिता योग्यं विद्याभाजनं मन्वानस्तस्योपनयनकालात्ययं च पश्यन्नुवाच हे श्वेतकेतो ऽनुरूपं गुरुं कुलस्य नो गत्वा वस ब्रह्मचर्यम् ।
न चैतद्युक्तं यदस्मत्कुलीनो हे सोम्याननूच्यानधीत्य ब्रह्मबन्धुरिव भवतीति ब्राह्मणान्बन्धून्व्यपदिशति न स्वयं ब्राह्मणवृत्त इति ॥1 ॥
स्तर्त् छुप् 6,1.2
स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदान् अधीत्य महामना अनूचानमानी स्तब्ध एयाय ।
तं ह पितोवाच

6.1.3

छुप्भ्_6,1.2 तस्यातः प्रवासो ऽनुमीयते पितुः ।
येन स्वयं गुणवान्सन्पुत्रं नोपनेष्यति ।
स पित्रोक्तः श्वेतकेतुर्ह द्वादशवर्षः सन्नुपेत्याऽचार्यं यावच्चतुविंशतिवर्षो बभूव तावत्सर्वान्वेदांश्चतुरो ऽप्यधीत्य तदर्थं च बुद्ध्वा महामना महद्गम्भीरं मनो यस्यासममात्मानमन्यैर्मन्यमानं मनो यस्य सो ऽयं महामनाः अनूचानमान्यनूचानमात्मानं मन्यत इत्येवंशीलो यः सो ऽनूचानमानी स्तब्धो ऽप्रणतस्वभाव एयाय गृहम् ।
तमेवंभूतं हाऽत्मनो ऽननुरूपशीलं स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाच सद्धर्मावतारचिकीर्षया ।
श्वेतकेतो यन्निवदं महामना अनूचानमानी स्तब्धश्चासि कस्ते ऽतिशयः प्राप्त उपाध्यायात्?उतापि तमादेशमादिश्यत इत्यादेशः केवलशास्राचार्योपदेशगम्यमित्येतद्येन वा परं ब्रह्माऽदिश्यते स आदेशस्तमप्राक्ष्यः पृष्टवानस्याचार्यम् ॥2 ॥
स्तर्त् छुप् 6,1.3
श्वेतकेतो यन् नु सोम्येदं महामना अनूचानमानी स्तब्धो ऽसि ।
उत तम् आदेशम् अप्राक्ष्यः येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातम् इति ।
कथं नु भगवः स आदेशो भवतीति

6.1.4

छुप्भ्_6,1.3 तमादेशं विशिनष्टि-येनाऽदेशेन श्रुतेनाश्रुतमप्यन्यच्छतं भवत्यमतं मतमतर्कितं तर्कितं भवत्यविज्ञानं विज्ञातमनिश्चितं निश्चितं भवतीति ।
सर्वानपि वेदानधात्य सर्वं चान्यद्वेद्यमधिगम्याप्यकृतार्थ एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातो ऽवगम्यते ।
तदेतदद्भुतं श्रुत्वाऽह-कथं न्वेतदप्रसिद्धमन्यविज्ञानेनान्यद्विज्ञातं भवतीत्येवं मन्वानः पृच्छति कथं नु केन प्रकारेण हे भगवः स आदेशो भवतीति ॥3 ॥
स्तर्त् छुप् 6,1.4
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् ।
वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम्

6.1.5

छुप्भ्_6,1.4 यथा स आदेशो भवति तच्छृणु हे सोम्य ।
यथा लोक एकेन मृत्पिण्डेन घटशरावादिकारणभूतेन विज्ञातेन सर्वमन्यद्विकारजातं मृन्मयं मृद्विकारजातं विज्ञातं स्यात् ।
कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात् ।
नैष दोषः ।
कारणेनानन्यत्वात्कार्यस्य ।
यन्मन्यसे ऽन्यस्मिन्विज्ञाते ऽन्यन्न ज्ञायत इति ।
सत्यमेवं स्यात् ।
यद्यन्यत्कारणात्कार्यं स्यान्न त्वेवमन्यत्कारणात्कार्यम् ।
कथं तर्हिदं लोक इदं कारणमयस्य विकार इति ।
शृणु ।
वाचाऽरम्भणं वागारम्भणं वागालम्बनमित्येतत् ।
को ऽसौ विकारो नामधेयं नामैव नामधेयं स्वार्थे धेयप्रत्ययः ।
वागालम्बनमात्रं नामैव केवलं न विकारो नाम वस्त्वस्ति परमार्थतो मृत्तिकेत्येव तु मृत्तिकेत्येव तु मृत्तिकैव सत्यं वस्त्वस्ति ॥4 ॥
स्तर्त् छुप् 6,1.5
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् ।
वाचारम्भणं विकारो नामधेयं लोहम् इत्य् एव सत्यम्

6.1.6

छुप्भ्_6,1.5 यथा सौम्यैकेन लोहमणिना सुवर्णपिण्डेन सर्वमन्यद्विकारजातं कटकमुकुटकेयूरादि विज्ञातं स्यात् ।
वाचाऽरम्भणमित्यादि समानम् ॥5 ॥
स्तर्त् छुप् 6,1.6-7
यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् ।
वाचारम्भणं विकारो नामधेयं कृष्णायसम् इत्य् एव सत्यम् ।
एवं सोम्य स आदेशो भवतीति

6.1.7

न वै नूनं भगवन्तस् त एतद् अवेदिषुः ।
यद् ध्य् एतद् अवेदिष्यन् कथं मे नावक्ष्यन् ।
इति भगवांस् त्व् एव मे ब्रवीत्व् इति ।
तथा सोम्येति होवाच

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc