छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.13
छुप्भ्_6,12.3 स य इत्याद्युक्तार्थम् ।
यदि तत्सज्जगतो मूलं कस्मान्नोपलभ्यत इत्येतद्दृष्टान्तेन मा भगवान्भूय एव विज्ञापयत्विति ।
तथा सोम्येति होवाच पिता ॥3॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य द्वादशः खण्डः
=======================================================================
स्तर्त् छुप् 6,13.1
लवणम् एतद् उदके ऽवधायाथ मा प्रातर् उपसीदथा इति ।
स ह तथा चकार ।
तं होवाच ।
यद् दोषा लवणम् उदके ऽवाधा अङ्ग तद् आहरेति ।
तद् धावमृश्य न विवेद
छुप्भ्_6,13.1 विद्यमानमपि वस्तु नोपलभ्यते प्रकारान्तरेण तूपलभ्यत इति शृण्वत्र दृष्टान्तम् यदि चेममर्थं प्रत्यक्षो स ह पित्रोक्तमर्थं प्रत्यक्षीकर्तुमिच्छंस्तथा चकार ।
तं होवाच परेद्युः प्रातरूपसीदथा उपगच्छेथा इति ।
स ह पित्रोक्तमर्थं प्रत्यक्षीकर्तुमिच्छंस्तथा चकार ।
तं होवाच परेद्युः प्रातर्यल्लवं दोषा रात्रावुदके ऽवाधा निक्षिप्तवानस्यङ्ग हे वत्स तदाहरेत्युक्तस्तल्लवणमाजिहीर्षुर्ह किलावमृश्योदके न विवेद न विज्ञातवान्यथा तल्लवणं, विद्यमानमेव सदप्सु लीनं संश्लिष्टमभूतं ॥1 ॥
स्तर्त् छुप् 6,13.2
यथा विलीनम् एव ।
अन्;गास्यान्ताद् आचामेति ।
कथम् इति ।
लवणम् इति ।
मध्याद् आचामेति ।
कथम् इति ।
लवणम् इति ।
अन्ताद् आचामेति ।
कथम् इति ।
लवणम् इति ।
अभिप्रास्यैतद् अथ मोपसीदथा इति ।
तद् ध तथा चकार ।
तच् छश्वत् संवर्तते ।
तं होवाचात्र वाव किल तत् सोम्य न निभालयसे ऽत्रैव किलेति
छुप्भ्_6,13.2 यथा विलीनं लवणं न वेत्थ तथापि तच्चक्षुषा स्पर्शनेन च पिण्डरूपं लवणमगृह्यमाणं विद्यत एवाप्सूपलभ्यते चोपायान्तरेणेत्येतत्पुत्रं प्रत्याययितुमिच्छन्नाह-अङ्गास्योदकस्यान्तादुपरि गृहीत्वाऽचामेत्युक्त्वा पुत्रं तथाकृतवन्तमुवाच कथमितीतर आह लवणं स्वादुतः इति ।
तथा मध्यादुदकस्य गृहीत्वाऽचामेति कथमिति लवणमिति ।
तथान्तादधोदेशाद्गृहीत्वाऽचामेति कथमिति लवणमिति ।
यद्येवमभिप्रास्य परित्यज्यैतदुदकमाचम्याथ मोपसीदथा इति तद्ध तथा चकार लवणं परित्यज्य पितृसमीपमाजगामेत्यर्थः ।
इदं वचनं ब्रवंस्तल्लवमं तस्मिन्नेवोदके यन्मया रात्रौ क्षिप्तं शाश्वन्नित्यं संवर्तते विद्यमानमेव सत्सम्यग्वर्तते ।
इत्येवमुक्तवन्तं तं होवाच पिता ।
यथेदं लवणं दर्शनस्पर्शनाभ्यां पूर्वं गृहीतं पुनरुदके विलीनं ताभ्यामगृह्यमाणमपि विद्यत एवोपायान्तरेण जिह्वयोपलभ्यमानत्वात् ।
एवमेवात्रैवास्मिन्नेव तेजोबन्नादिकार्ये शुङ्गेदेहे ।
वाव किलेत्याचार्योपदेशस्मरणप्रदर्शनार्थौ ।
सत्तेजोबन्नादिशुङ्गकारमं वटबीजाणिमवद्विद्यमानमेवेन्द्रियैर्नोपलभसे न निभालयसे ।
यथात्रैवोदके दर्शनस्पर्शनाभ्यामनुपलभ्यमानं लवणं विद्यमानमेव जिह्वयोपलब्धवानसि ।
एवमेवात्रैव किल विद्यमानं सज्जगन्मूलमुपायान्तरेण लवणाणिमवदुपलप्स्यस इति वाक्यशेषः ॥2 ॥
स्तर्त् छुप् 6,13.3
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् ।
तत् सत्यम् ।
स आत्मा ।
तत् त्वम् असि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्व् इति ।
तथा सोम्येति होवाच
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0