भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.12

6.12.1

छुप्भ्_6,11.3 यथास्मिन्वृक्षदृष्टान्ते दर्शितं जीवेन युक्तो वृक्षो ऽशुष्को रसपानादियुक्तो जावतीत्युच्यते तदपेतश्च म्रियत इत्युच्यते ।
एवमेव खलु सोम्य विद्धीति होवाच-जीवापेतं जीववियुक्तं वाव किलेदं शरीरं म्रियते न जीवो म्रियत इति कार्यशेषे च सुप्तोत्थितस्य ममेदं कार्यशेषमपरिसमाप्तमिति स्मृत्वा समापनदर्शनात् ।
जातमात्राणां च जन्तूनां स्तन्याभिलाषयादिदर्शनाच्चातीतजन्मान्तरानुभूतस्तन (न्य) पानदुःखानुभवस्मृतिर्गम्यते ।
अग्निहोत्रादीनां च वैदिकानां कर्मणामर्थवत्त्वान्न जीवो म्रियत इति ।
स य एषो ऽणिमेत्यादि समानम् ।
कथं पुनरिदमत्यन्तस्थीलं पृथिव्यादि नामरूपवज्जगदत्यन्तसूक्ष्मात्सद्रूपान्नामरूपरह् इतात्सतो जायत इत्येतद्दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति ।
तथा सोम्येति होवाच पिता ॥3॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्यैकादशः खण्डः
=======================================================================
स्तर्त् छुप् 6,12.1
न्यग्रोधफलम् अत आहरेति ।
इदं भगव इति ।
भिन्द्धीति ।
भिन्नं भगव इति ।
किम् अत्र पश्यसीति ।
अण्व्य इवेमा धाना भगव इति ।
आसाम् अङ्गैकां भिन्द्धीति ।
भिन्ना भगव इति ।
किम् अत्र पश्यसीति ।
न किंचन भगव इति

6.12.2

छुप्भ्_6,12.1 यद्येतत्प्रत्यक्षीकर्तुमिच्छसि, अतो ऽस्मान्महतो न्यग्रोधात्फलमेकमाहरेत्युक्तस्तथा चकार, स इदं भगव उपहृतं फलमिति दर्शितवन्तं प्रत्याह फलं भिन्धीति ।
भिन्नमित्याहेतरः ।
तमाह पिता किमत्र पश्यसीत्युक्त आहाण्व्यो ऽणुतरा इवेमा धाना बीजानि पश्यामि भगव इति ।
आसां धानानामेकां धानामङ्ग हे वत्स भिन्धीत्युक्त आह भिन्ना भगव इति ।
यदि भिन्ना धाना तस्यां भिन्नायां किं पश्यसीत्युक्त आह न किञ्चन पश्यामि भगव इति ॥1 ॥
स्तर्त् छुप् 6,12.2
तं होवाच यं वै सोम्यैतम् अणिमानं न निभालयस एतस्य वै सोम्यैषो ऽणिम्न एवं महान्यग्रोधस् तिष्ठति ।
श्रद्धत्स्व सोम्येति

6.12.3

छुप्भ्_6,12.2 तं पुत्रं होवाच वटधानायां भिन्नायां यं वटबीजाणिमानं हे सौम्यैतं न निभालयसे न पश्यसि ।
तथाप्येतस्य वै किल सोम्यैष महान्न्यग्रोधो बीजस्याणिम्नः सूक्ष्मस्यादृश्यमानस्य कार्यभूतः स्थूलशाखास्कन्धफलपलाशवांस्तिष्ठत्युत्पन्नः सन्नुत्तिष्ठतीति वोच्छब्दो ऽध्याहार्यो ऽतः श्रद्धत्स्व सोम्य सत एवाणिम्नः स्थूलं नामरूपादिमत्कार्यं जगदुत्पन्नमिति ।
यद्यपि न्यायागमाभ्यां निर्धारितोर्ऽथस्तथैवेत्यवगम्यते तथाप्यत्यन्तसूक्ष्मेष्वर्थेषु बाह्यविषयासक्तमनसः स्वभावप्रवृत्तस्यासत्यां गुरुतरायां श्रद्धायां दुरवगमत्वं स्यादित्याह श्रद्धत्स्वेति ।
श्रद्धायां तु सत्यां मनसः समाधानं बुभुत्सितेर्ऽथे भवेत्ततश्च तदर्थावगतिः ।
"अन्यत्रमना अभूवम्" इत्यादिश्रुतेः ॥2 ॥
स्तर्त् छुप् 6,12.3
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् ।
तत् सत्यम् ।
स आत्मा ।
तत् त्वम् असि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्व् इति ।
तथा सोम्येति होवाच

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc