भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.14

6.14.1

छुप्भ्_6,13.3 स य इत्यादि समानम् ।
यद्येवं लवणाणिमवदिन्द्रियैरनुपलभ्यमानमपि जगन्मूलं सदुपायान्तरेणोपलब्धुं शक्यते यदुपलम्भात्कृतार्थः स्यामनुपलम्भाच्चाकृतार्थः स्यामहं तस्यैवोपलब्धौ क उपाय इत्येतद्भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन तथा सोम्येति होवाच ॥3॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य त्रयोदशः खण्डः
=======================================================================
स्तर्त् छुप् 6,14.1
यथा सोम्य पुरुषं गन्धारेभ्यो ऽभिनद्धाक्षम् आनीय तं ततो ऽतिजने विसृजेत् ।
स यथा तत्र प्राङ् वोदङ् वा अधराङ् वा प्रत्यङ् वा प्रध्मायीताभिनद्धाक्ष आनीतो ऽभिनद्धाक्षो विसृष्टः

6.14.2

छुप्भ्_6,14.1 यथा लोके हे सोम्य पुरुषं यं कञ्चिद्गन्धारेभ्यो जनपदेभ्यो ऽभिनद्धाक्षं बद्धचक्षुषमानीय द्रव्यहर्ता तस्करस्तमभिनद्धाक्षमेव बद्धहस्तमरण्ये ततो ऽप्यतिजने ऽतिगतजने ऽत्यन्तविगतजने देशे विसृजेत्स तत्र दिग्भ्रमोपेतो यथा प्राङ्वा प्रागञ्चनः प्राङ्मुखो, वेत्यर्थः ।
तथोदङ्वाधराङ्वा प्रत्यङ्वा प्रध्मायीत शब्दं कुर्याद्विक्रोशेत् ।
अभिनद्धाक्षो ऽहं गन्धारेभ्यस्तस्करेणाऽनीतो ऽभिनद्धाक्ष एव विसृष्ट इति ॥1 ॥
स्तर्त् छुप् 6,14.2
तस्य यथाभिनहनं प्रमुच्य प्रब्रूयाद् एतां दिशं गन्धारा एतां दिशं व्रजेति ।
स ग्रामाद् ग्रामं पृच्छन् पण्डितो मेधावी गन्धारान् एवोपसंपद्येत ।
एवम् एवेहाचार्यवान् पुरुषो वेद ।
तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ संपत्स्य इति

6.14.3

छुप्भ्_6,14.2 एवं विक्रोशतस्तस्य यथाभिनहनं यथाबन्धनं प्रमुच्य मुक्त्वा कारुणिकः कश्चिदेतां दिशमुत्तरतो गन्धारा एतां दिशं व्रजेति प्रब्रूयात्स एवं कारुणिकेन बन्धनान्मोक्षितो ग्रामाद्ग्रामान्तरं पृच्छन्पण्डित उपदेशवान्मेधावो परोपदिष्टग्रामप्रवेशमार्गावधारणसमर्थः सन्गन्धारानेवोपसम्पद्येत नेतरो मूढमतिर्देशान्तरदर्शनतृड्वा ।
यथायं दृष्टान्तो वर्णितः स्वविषयेभ्यो गन्धारेभ्यः पुरुषस्तस्करैरभिनद्धाक्षो ऽविवेको दिङ्मूढो ऽशनायापिपासादिमान्व्याघ्रतस्कराद्यनेकभयानथर्व्रातयुतमरण्यं प्रवेशितो दुःखार्तो विक्रोशन्बन्धनेभ्यो मुमुक्षुस्तिष्ठति स कथञ्चिदेव कारुणिकेन केनचिन्मोक्षितः स्वदेशान्गन्धारानेवाऽपन्नो निर्वृतः सुख्यभूत् ।
एवमेव सतो जगदात्मनः स्वरूपात्तेजोवन्नादिमयं देहारण्यं वातपित्तकफरुधिरमेदोमांसास्थिमज्जाशुक्रकृमिमूत्रपुरीषवच्छीतोष्णाद्यनेकद्वन्द्वसुखदुःखवच्चेदं मोहपटाभिनद्धाक्षो भार्यापुत्रमित्रपशुबन्ध्वादिदृष्टादृष्टानेकविषयतृष्णापाशितः पुण्यापुण्यादितस्करैः प्रवेशितो"ऽहममुष्य पुत्रो ममैते बान्धवाः सुख्यहं दुःखी मूढः पण्डितो धार्मिको बन्धुमाञ्जातो मृतो जीर्णः पापी पुत्रो मे मृतो धनं मे नष्टं हा हतो ऽस्मि कथं जाविष्यामि का मे गतिः किं मे त्राणम्" इत्येवमनेकशतसहस्रानर्थजालवान्विक्रोशन्कथञ्चिदेव पुण्यातिशयात्परमकारुणिकं कञ्चित्सद्ब्रह्मात्मविदं विमुक्तबन्धनं ब्रह्मिष्ठं यदाऽसादयति तेन च ब्रह्मविदा कारुण्याद्दर्शितसंसारविषयदोषदर्शनमार्गो विरक्तः संसारविषयेभ्यो नासि त्वं संसार्यमुष्य पुत्रत्वादिधर्मवान्किं तर्हि सद्यत्तत्त्वमसीत्यविद्यामोहपटाभिनहनान्मोक्षितो गन्धारपुरुषवच्च स्वं सदात्मानमुपसम्पद्य सुखी निर्वृतः स्यादित्येतमेवार्थमाहाऽचार्यवान्पुरुषो वेदेति तस्यास्यैवमाचार्यवतो मुक्ताविद्याभिनहनस्य तावदेव तावानेव कालश्चिरं क्षेपः सदात्मस्वरूपसम्पत्तेरिति वाक्यशेषः ।
कियान्कालश्चिरमित्युच्यते यावन्न विमोक्ष्ये न विमोक्ष्यत इत्येतत्पुरुषव्यत्यनेन ।
सामर्थ्यात् ।
येन कर्मणा शरीरमारब्धं तस्योपभोगेन येनाथशब्द आनन्तर्यार्थः स्यात् ।
ननु यथा सद्विज्ञानान्तरमेव देहपातः सत्सम्पत्तिश्च न भवति कर्मशेषवशात्तथाप्रवृत्तफलानि प्राग्ज्ञानोत्पत्तेर्जन्मान्तरसञ्चितान्यपि कर्माणि सन्तीति तत्फलोपभोगार्थं पतिते ऽस्मिञ्शरीरान्तरमारब्धव्यम् ।
उत्पन्ने च ज्ञाने यावज्जीवं विहितानि प्रतिषिद्धानि वा कर्माणि करोत्येवेति तत्फलोपभोगार्थं चावश्यं शरीरान्तरमारब्धव्यं ततश्च कर्माणि ततः शरीरान्तरमिति ज्ञानार्थक्यं कर्मणां फलवत्त्वात् ।
अथ ज्ञानवतः क्षीयन्ते कर्माणि तदा ज्ञानप्राप्तिसमकालमेव ज्ञानस्य सत्सम्पत्तिहेतुत्वान्मोक्षः स्यादिति शरीरपातः स्यात् ।
तथाचाऽचार्याभाव "इत्याचार्यवान्पुरुषो वेदे"त्याचार्यवत्त्वानुपपत्तिर्ज्ञानान्मोक्षाभावप्रसङ्गश्च ।
देशान्तरप्राप्त्युपायज्ञानवदनैकान्तिकफलत्वं वा ज्ञानस्य ।
न ।
कर्मणां प्रवृत्ताप्रवृत्तफलवत्त्वविशेषोपपत्तेः ।
यदुक्तमप्रवृत्तफलानां कर्ममां ध्रुवफलवत्त्वाद्ब्रह्मविदः शरीरे पतिते शरीरान्तरमारब्धव्यमप्रवृत्तकर्मफलोपभोगाथर्मित्येतदसत् ।
विदुष"स्तस्य तावदेव चिरम्" इति श्रुतेः प्रामाण्यात् ।
ननु"पुण्यो वै पुम्येन कर्मणाभवति"इत्यादिश्रुतेरपि प्रामाण्यमेव ।
तस्यमेवम् ।
तथापि प्रवृत्तफलानामप्रवृत्तफलानां च कर्मणां विशेषो ऽस्ति ।
कथम् ।
यानि प्रवृत्तफलानि कर्माणि यैर्विद्वच्छरीरमारब्धं तेषामुपभोगेनैव क्षयः ।
यथाऽरह्धवेगस्य लक्ष्यमुक्तेष्वादेर्वेगक्षयादेव स्थितिर्न तु लक्ष्यवेधसमकालमेव प्रयोजनं नास्तीति तद्वत् ।
अन्यानि त्वप्रवृत्तफलानीह प्राग्ज्ञानोत्पत्तेरूर्ध्वं च कृतानि वा क्रियमाणानि वातीतजन्मान्तरकृतानि वाप्रवृत्तफलानि ज्ञानेन दह्यन्ते प्रायश्चित्तेनेव ।
"क्षीयन्ते चास्य कर्माणि"इति चाऽथर्वणे ।
अतो ब्रह्मविदो जीवनादिप्रयोजनाभावे ऽपि प्रवृत्तफलानां कर्मणामवश्यमेव फलोपभोगः स्यादिति मुक्तेषुवत्तस्य तावदेव चिरमिति युक्तमेवोक्तमिति यथोक्तदोषचोदनानुपपत्तिः ज्ञानोत्पत्तेरूर्ध्वं च ब्रह्मविदः कर्माभावमवोचाम"ब्रह्मसंस्थो ऽमृतत्वमेती"त्यत्र ।
तच्च स्मर्तुमर्हसि ॥2 ॥
स्तर्त् छुप् 6,14.3
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् ।
तत् सत्यम् ।
स आत्मा ।
तत् त्वम् असि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्व् इति ।
तथा सोम्येति होवाच

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc