छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.24
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य त्रयोविंशः खण्डः
स्तर्त् छुप् 5,24.1
स य इदम् अविद्वान् अग्निहोत्रं जुहोति यथाङ्गारान् अपोह्य भस्मनि जुहुयात् तादृक् तत् स्यात्
छुप्भ्_5,24.1 स यः कश्चिदिदं वैश्वानरदर्शनं यथोक्तमविद्वान्सन्नग्निहोत्रं प्रसिद्धं जुहोति यथाङ्गारानाहुतियोग्यानपोह्यानाहुतिस्थाने भस्मनि जुहुयात्तादृक्तत्तुल्यं तस्य तदग्निहोत्रहवनं स्याद्वैश्वानरविदो ऽग्निहोत्रमपेक्ष्येति प्रसिद्धाग्निहोत्रनिन्दया वैश्वानरविदो ऽग्निहोत्रं स्तूयते ॥1 ॥
स्तर्त् छुप् 5,24.2
अथ य एतद् एवं विद्वान् अग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मसु हुतं भवति
छुप्भ्_5,24.2 अतश्चैतद्विशिष्टमग्निहोत्रम् ।
कथम् ।
अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य यथोक्तवैश्वानरविज्ञानवतः सर्वेषु लोकेष्वित्याद्युक्तार्थम् ।
हुतमन्नमत्तीत्यनयोरेकार्थत्वात् ॥2 ॥
स्तर्त् छुप् 5,24.3
तद् यथेषीकातूलम् अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते य एतद् एवं विद्वान् अग्निहोत्रं जुहोति
छुप्भ्_5,24.3 किञ्च तद्यथेषीकायास्तूलमग्रमग्नौ प्रोतं प्रक्षिप्तं प्रदूयेत प्रदह्येत क्षिप्रमेवं हास्य विदुषः सर्वात्मभूतस्य सर्वान्नानामत्तुः सर्वे निरवशिष्टाः पाप्मानो धर्माधर्माख्या अनेकजन्मसञ्चिता इह च प्राग्ज्ञानोत्पत्तेर्ज्ञानसहभाविनश्च प्रदूयन्ते प्रदह्येरन्वर्तमानशरीरारम्भकपाप्मवर्जं, लक्ष्यं प्रति मुक्तेषुवत्प्रवृत्तफलत्वात्तस्य न दाहः ।
य एतदेवं विद्वानग्निहोत्रं जुहोति भुङ्क्ते ॥3 ॥
स्तर्त् छुप् 5,24.4
तस्माद् उ हैवंविद् यद्य् अपि चण्डालाय उच्छिष्टं प्रयच्छेत् ।
आत्मनि हैवास्य तद् वैश्वानरे हुतं स्याद् इति ।
तद् एष श्लोकः
छुप्भ्_5,24.4 स यद्यपि चण्डालायोच्छिष्टानर्हायोच्छिष्टं प्रयच्छेदुच्छिष्टं दद्यात्प्रतिषिद्धमुच्छिष्टदानं यद्यपि कुर्यादात्मनि हैवास्य चण्डालहेहस्थे वैश्वानरे तद्धुतं स्यान्नाधर्मनिमित्तमिति विद्यामेव स्तौति ।
तदेतस्मिन्स्तुत्यर्थे श्लोको मन्त्रो ऽप्येष भवति ॥4 ॥
स्तर्त् छुप् 5,24.5
यथेह क्षुधिता बाला मातरं पर्युपासते ।
एवं सर्वाणि भूतान्य् अग्निहोत्रम् उपासत
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0