छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.9
छुप्भ्_5,8.2 तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति ।
तस्या आहुतेर्गर्भः सम्भवतीति ।
एवं श्रद्धासोमवर्षान्नरेतोहवनपर्यायक्रमेणाऽप एव गर्भीभूतास्ताः ।
तत्रापामाहुतिसमवायित्वात्प्राधान्यविवक्षाऽपः पञ्चम्यामाहुतौ पुरुषवचसो भवन्तीति ।
न त्वाप एव केवलाः सोमादिकार्यमारभन्ते ।
न चाऽपो ऽत्रिवृत्कृताः सन्तीति ।
त्रिवृत्कृतत्वे ऽपि विशेषसंज्ञालाभो दृष्टः पृथिवीयमिमा आपो ऽयमग्निरित्यन्यतमबाहुल्यनिमित्तः ।
तस्मात्समुदितान्येव भूतान्यब्बाहुल्यात्कर्मसमवायीनि सोमादिकार्यारम्भकाण्याप इत्युच्यन्ते ।
दृश्यते च द्रवबाहुल्यं सोमवृष्ट्यन्नरेतोदेहेषु ।
बहुद्रवं च शरीरं यद्यपि पार्थिवम् ।
तत्र पञ्चम्यामाहुतौ हुतायां रेतोरूपा आपो गर्भीभूताः ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्याष्टमः खण्डः
=======================================================================
स्तर्त् छुप् 5,9.1
इति तु पञ्चम्याम् आहुताव् आपः पुरुषवचसो भवन्तीति ।
स उल्बावृतो गर्भो दश वा नव वा मासान् अन्तः शयित्वा यावद् वाथ जायते
छुप्भ्_5,9.1 इति त्वेवं तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति व्याख्यात एकः प्रश्नः ।
यत्तु द्युलोकादिमां प्रत्यावृत्तयोराहुत्यो पृथिवीं पुरुषं स्रियं क्रमेणाऽविश्य लोकं प्रत्युत्थायी भवतीति वाजसनेयक उक्तं तत्प्रासङ्गिकमिहोच्यते ।
इह च प्रथमे प्रश्न उक्तं वेत्थ यदितो ऽधि प्रजाः प्रयन्तीति ।
तस्य चायमुपक्रमः ।
स गर्भो ऽपां पञ्चमः परिणामविशेष आहुतिकर्मसमवायिनीनां श्रद्धाशब्दवाच्यानामुल्बावृत उल्बेन जरायुणाऽवृतो वेष्टितो दश वा नव वा मासानन्तर्मातुः कुक्षौ शयित्वा यावद्वा यावता कालेन न्यूनेनातिरिक्तेन वाथानन्तरं जायते ।
उल्बावृत इत्यादि वैराग्यहेतोरिदमुच्यते ।
कष्टं हि मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्बाशुचिपटावृतस्य लोहितरेतो ऽशुचिबीजस्य मातुरशितपीतरसानुप्रवेशेन विवर्धमानस्य निरुद्धशक्तिबलवीर्यतेजःप्रज्ञाचेष्टस्य शयनम् ।
ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति ।
मुहूर्तमप्यसह्यं दश वा नव वा मासानतिदीर्घकालमन्तः शयित्वेति च ॥1 ॥
स्तर्त् छुप् 5,9.2
स जातो यावदायुषं जीवति ।
तं प्रेतं दिष्टम् इतो ऽग्नय एव हरन्ति यत एवेतो यतः संभूतो भवति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0