छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.10
छुप्भ्_5,9.2 स एवं जातो यावदायुषं पुनः पुनर्घटीयन्त्रवद्गमनागमनाय कर्म कुर्वन्कुलालचक्रवद्वा तिर्यग्भ्रमणाय यावत्कर्मणोपात्तमायुस्तावज्जीवति ।
तमेनं क्षीणायुषं प्रेतं मृतं दिष्टं कर्मणा निर्दिष्टं परलोकं प्रति यदि चेज्जीवन्वैदिके कर्मणि ज्ञाने वाधिकृतस्तमेनं मृतमितो ऽस्माद्ग्रामादग्नये ऽग्न्यर्थमृत्विजो हरन्ति पुत्रा वान्त्यकर्मणे ।
यत एवेत आगतो ऽग्नेः सकाशाच्छ्रद्धाद्याहुतिक्रमेण, यतश्च पञ्चभ्यो ऽग्निभ्यः संभूत उत्पन्नो भवति तस्मा एवाग्नये हरन्ति स्वामेव योनिमग्निमापादयन्तीत्यर्थः ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य नवमः खण्डः
=======================================================================
स्तर्त् छुप् 5,10.1-2
तद् य इत्थं विदुः ।
ये चेमे ऽरण्ये श्रद्धा तप इत्य् उपासते ।
ते ऽर्चिषम् अभिसंभवन्ति ।
अर्चिषो ऽहः ।
अह्न आपूर्यमाणपक्षम् ।
आपूर्यमाणपक्षाद् यान् षड् उदङ्ङ् एति मासांस् तान्
मासेभ्यः संवत्सरम् ।
संवत्सराद् आदित्यम् ।
आदित्याच् चन्द्रमसम् ।
चन्द्रमसो विद्युतम् ।
तत् पुरुषो ऽमानवः ।
स एनान् ब्रह्म गमयति ।
एष देवयानः पन्था इति
छुप्भ्_5,10.1,2 वेत्थ यदितो ऽधि प्रजाः प्रयन्तीत्ययं प्रश्नः प्रत्युपस्थितो ऽपाकर्तव्यतया ।
तत्तत्र लोकं प्रत्युत्थितानामधिकृतानां गृहमेधिनां य इत्थमेवं यथोक्तं पञ्चाग्निदर्शनं द्युलोकाद्यग्निभ्यो वयं क्रमेण जाता अग्निस्वरूपाः पञ्चाग्न्यात्मान इत्येवं विदुर्जानीयुः ।
कथमवगम्यत इत्थं विदुरिति गृहस्था एवोच्यन्ते नान्य इति? गृहस्थानां ये त्वनित्थंविदः केवलेष्टापूर्तदत्तपरास्ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति ।
ये चारण्योपलक्षिता वैखानसाः परिव्राजकाश्च श्रद्धातप इत्युपासते तेषां चेत्थंविद्भिः सहार्चिरादिना गमनं वक्ष्यति पारिशेष्यादग्निहोत्राहुतिसम्बन्धाच्च गृहस्था एव गृह्यन्त इत्थं विदुरिति ।
ननु ब्रह्मचारिणो ऽप्यगृहीता ग्रामश्रुत्यारण्यश्रुत्या विद्यन्ते कथं पारिशेष्यसिद्धिः?नैष दोषः ।
पुराणस्मृतिप्रामाण्यादूर्ध्वरेतसां नैष्ठिकब्रह्मचारिणामुत्तरेणार्था इति न विशेषनिर्देशार्हाः ।
ननूर्ध्वरेतस्त्वं चेदुत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यादिष्यत इत्थंवित्त्वमनर्थकं प्राप्तम् ।
न ।
गृहस्थान्प्रत्यर्थवत्त्वात् ।
ये गृहस्था अनित्थंविदस्तेषां स्वभावतो दक्षिणो धूमादिः पन्थाः प्रसिद्धस्तेषां यं इत्थं विदुः सगुणं वान्यद्ब्रह्म विदुः ।
"अथ यदु चैवास्मिञ्शव्यं कुर्वन्ति यदि नार्चिषमेव"इति लिङ्गादुत्तरेण ते गच्छन्ति ।
ननूर्ध्वरेतसां गृहस्थानां च समान आश्रमित्व ऊर्ध्वरेतसामेवोत्तरेण पथा गमनं न गृहस्थानामिति न युक्तमग्निहोत्रादिवैदिककर्मबाहुल्ये च सति ।
नैष दोषः ।
अपूता हि ते ।
शत्रुमित्रसंयोगनिमित्तं हि तेषां रागद्वेषौ ।
तथा धर्माधर्मौ हिंसानुग्रहनिमित्तौ ।
हिंसानृतमायाब्रह्मचर्यादि च बह्वशुद्धिकारणमपरिहार्यं तेषाम् ।
अतो ऽपूताः ।
अपूतत्वान्नोत्तरेण पथा गमनम् ।
हिंसानृतमायाब्रह्मचर्यादिपरिहाराच्च शुद्धात्मानो हीतरे शत्रुमित्ररागद्वेषादिपरिहाराच्च विरजसस्तेषां युक्त उत्तरः पन्थाः ।
तथाच पौराणिकाः - "ये प्रजामीषिरे ऽधीरास्ते श्मशानानि भेजिरे ।
ये प्रजां नेषिरे धीरास्ते ऽमृतत्वं हि भेजिरे" ।
इत्याहुः ।
इत्थंविदां गृहस्थानामरण्यवासिनां च समानमार्गत्वे ऽमृतत्वफले च सत्यरण्यवासिनां विद्यानर्थक्यं प्राप्तम् ।
तथाच श्रुतिविरोधः ।
"न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः"इति ।
"स एनमविदितो न भुनक्ति"इति च विरुद्धम् ।
न ।
आभूतसंप्लवस्थानस्यामृतत्वेन विवक्षितत्वात् ।
तत्रैवोक्तं पौराणिकैः-आभूतसंप्तवं स्थानममृतत्वं हि भाष्यते इति ।
यच्चाऽत्यन्तिकममृतत्वं तदपेक्षया"न तत्र दक्षिणा यन्ति" "स एनमविदितो न भुनक्ती"-त्याद्याः श्रुतय इत्यतो न विरोधः ।
"न च पुनरावर्तन्त"इति"मं मानवमावर्तं नाऽवर्तन्त"इत्यादिश्रुतिविरोध इति चेत् ।
न ।
इमं मानवमिति विशेषणात्तेषामिह न पुनरावृत्तिरस्तीति च ।
यदि ह्येकान्तेनैव नाऽवर्तेरन्निमं मानवमिहेति च विशेषणमनर्थकं स्यात् ।
इममिहेत्याकृतिमात्रमुच्यत इति चेत् ।
न ।
अनावृत्तिशब्देनैव नित्यानावृत्त्यर्थस्य प्रतीतत्वादाकृतिकल्पनानर्थिका ।
अत इममिहेति च विशेषणार्थवत्त्वायान्यत्राऽवृत्तिः कल्पनीया ।
न च सदेकमेवाद्वितीयमित्येवंप्रत्ययवतां मूर्धन्यया नाड्यार्चिरादिमार्गेण गमनम् ।
"ब्रह्मैव सन्ब्रह्माप्यति" ।
"तस्मात्तत्सर्वमभवत्" ।
"न तस्य प्राणा उत्क्रामन्ति ।
अत्रैव समवनीयन्ते"इत्यादिश्रुतिशतेभ्यः ।
ननु तस्माज्जीवादुच्चिक्रमिषोः प्राणा नोत्क्रामन्ति सहैव गच्छन्तीत्ययमर्थः कल्प्यत इति चेत् ।
न ।
अत्रैव समवनीयन्त इति विशेषणानर्थक्यात् ।
सर्वे प्राणा अनूत्क्रामन्तीति च प्राणैर्गमनस्य प्राप्तत्वात् ।
तस्मादुत्क्रामन्तीत्यनाशङ्कैवैषा ।
यदापि मोक्षस्य संसारगतिवैलक्षण्यात्प्राणानां जीवेन सहागमाश्ङ्क्य तस्मान्नोत्क्रामन्तीत्युच्यते तदाप्यत्रैव समवनीयन्त इति विशेषणमनर्थकं स्यात् ।
न च प्राणैर्वियुक्तस्य गतिरुपपद्यते जीवत्वं वा ।
सर्वगतत्वात्सदात्मनो निरवयवत्वात्प्राणसम्बन्धमात्रमेव ह्यग्निविस्फुलिङ्गवज्जीवत्वभेदकारणमित्यतस्तद्वियोगे जीवत्वं गतिर्वा न शक्या परिकल्पयितुं श्रुतयश्चेत्प्रमाणम् ।
न सतो ऽणुरवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन्गच्छतीति शक्यं कल्पयितुम् ।
तस्मात्"तयोर्ध्वमायन्नमृतत्वमेति"इति सगुणब्रह्मोपाकस्य प्राणैः सह नाड्या गमनं सापेक्षमेव चामृतत्वं न साक्षान्मोक्ष इति गम्यते ।
"तदपराजिता पूस्तदैरं मदीयं सरः"इत्याद्युक्त्वा"तेषामेवैष ब्रह्मलोकः"इति विशेषमात् ।
अतः पञ्चाग्निविदो गृहस्था ये चेमे ऽरण्ये वानप्रस्थाः परिव्राजकाश्च सह नैष्ठिकब्रह्मचारिभिः श्रद्धा तप इत्येवमाद्युपासते श्रद्दधानास्तपस्विनश्चेत्यर्थः ।
उपासनशब्दस्तात्पर्यार्थः ।
इष्टापूर्ते दत्तमित्युपासत इति यद्वत् ।
श्रुत्यन्तराद्ये च सत्यं ब्रह्म हिरण्यगर्भाख्यमुपासते ते सर्वे ऽर्चिषमर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्ते ।
समानमन्यच्चतुर्थगतिव्याख्यानेन ।
एष देवयानः पन्था व्याख्यातः सत्यलोकावसानो नाण्डाद्बहिः ।
"यदन्तरा पितरं मातरं च"इति मन्त्रवर्णात् ॥1-2 ॥
स्तर्त् छुप् 5,10.3
अथ य इमे ग्राम इष्टापूर्ते दत्तम् इत्य् उपासते ।
ते धूमम् अभिसंभवन्ति ।
धूमाद् रात्रिम् ।
रात्रेर् अपरपक्षम् ।
अपरपक्षाद् यान् षड् दक्षिणैति मासांस् तान् ।
नैते संवत्सरम् अभिप्राप्नुवन्ति
छुप्भ्_5,10.3 अथेत्यर्थान्तरप्रस्तावनार्थो य इमे गृहस्था ग्रामे ।
ग्राम इति गृहस्थानामसाधारणं विशेषणमरण्यवासिभ्यो व्यावृत्त्यर्थम् ।
यथा वानप्रस्थपरिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थं तद्वत् ।
इष्टापूर्ते इष्टमग्निहोत्रादि वैदिकं कर्म पूर्तं वापीकूपतडागारामादिकरणम् ।
दत्तं बहिर्वेदि यथाशक्त्यर्हेभ्यो द्रव्यसंविभागो दत्तम् ।
इत्येवंविधं परिचरणपरित्राणाद्युपासते ।
इतिशब्दस्य प्रकारदर्शनार्थत्वात् ।
ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्ते ।
तयातिवाहिता धूमाद्रात्रिं रात्रिदेवतां रात्रेदेवतां रात्रेरपरपक्षदेवतामेव कृष्णपक्षाभिमानिनीमपरपक्षाद्यान्षण्मासान्दक्षिणा दक्षिणां दशमेति सविता ।
तान्मासान्दक्षिणायनषण्मासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः ।
सङ्घचारिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगस्तासु नैते कर्मिणः प्रकृताः संवत्सरं संवत्सरस्य ह्येकस्यावयवभूते दक्षिणोत्तरायणे तत्रार्चिरादिमार्गप्रवृत्तानामुदगयनमासेभ्यो ऽवयविनः संवत्सरस्य प्राप्तिरुक्ता ।
अत इहापि तदवयवभूतानां दक्षिणायनमासानां प्रप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्रप्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यते नैते संवत्सरमभिप्राप्नुवन्तीति ॥3 ॥
स्तर्त् छुप् 5,10.4
मासेभ्यः पितृलोकम् ।
पितृलोकाद् आकाशम् ।
आकासाच् चन्द्रमसम् ।
एष सोमो राजा ।
तद् देवानाम् अन्नम् ।
तं देवा भक्षयन्ति
छुप्भ्_5,10.4 मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसम् ।
को ऽसौ यस्तैः प्राप्यते चन्द्रमा य एष दृश्यते ऽन्तरिक्षे सोमो राजा ब्राह्मणानां, तदन्नं देवानां तं चन्द्रमसमन्नं देवा इन्द्रादयो भक्षयन्ति ।
अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवैर्भक्ष्यन्ते ।
नन्वनर्थायेष्टादिकरणं यद्यन्नभूता देवैर्भक्ष्येरन् ।
नैष दोषः ।
अन्नमित्युपकरणमात्रस्य विवक्षितत्वात् ।
न हि ते कवलोत्क्षेपेण देवैर्भक्ष्यन्ते ।
किं तर्ह्युपकरणमात्रं देवानां भवन्ति ते स्त्रीपशुभृत्यादिवत् ।
दृष्टश्चान्नशब्द उपकरणेषु"स्त्रियो ऽन्नं पशवो ऽन्नं विशां विशो ऽन्नं राज्ञाम्" इत्यादि ।
न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वे ऽप्युपभोगो नास्ति ।
तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति ।
शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रमण्डल आप्यमारभ्यते ।
तदुक्तं पुरस्ताच्छ्रद्धाशब्दा आपो द्युलोकाग्नौ हुताः सोमो राजा सम्भवतीति ।
ता आपः कर्मसमवायिन्य इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति ।
अन्त्यायां च शरीराहुतावग्नौ हुतायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सहोर्ध्वं यजमानमावेष्ट्य चन्द्रमण्डलं प्राप्य कुशमृत्तिकास्थानीया बाह्यशरीरारम्भिका भवन्ति ।
तदारब्धेन च शरीरेणेष्टादिफलमुपभुञ्जाना आसते ॥4 ॥
स्तर्त् छुप् 5,10.5
तस्मिन् यवात्संपातम् उषित्वाथैतम् एवाध्वानं पुनर् निवर्तन्ते ।
आकाशम् ।
आकाशाद् वायुम् ।
वायुर् भूत्वा धूमो भवति ।
धूमो भूत्वाभ्रं भवति
छुप्भ्_5,10.5 यावत्तदुपभोगनिमित्तस्य कर्मणः क्षयः सम्पतन्ति येनेति सम्पातः कर्मणः क्षयो यावत्सम्पातं यावत्कर्मणः क्षय इत्यर्थः ।
तावत्तस्मिंश्चन्द्रमण्डल उषित्वाथानन्तरमेतमेव वक्ष्यमाणमध्वानं मार्गं पुनर्निवर्त्नते ।
पुनर्निवर्तन्त इति प्रयोगात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृत्ताश्चाऽसन्निति गम्यते ।
तस्मादिह लोक इष्टादिकर्मोपचित्य चन्द्रं गच्छन्ति ।
तत्क्षये चाऽवर्तन्ते ।
क्षणमात्रमपि तत्र स्थातुं न लभ्यते ।
स्थितिनिमित्तकर्मक्षयात् ।
स्नेहक्षयादिव प्रदीपस्य ।
तत्र किं येन कर्मणा चन्द्रमण्डलमारूढस्तस्य सर्वस्य क्षये तस्मादवरोहणं किं वा सावशेष इति ।
किं ततः ।
यदि सर्वस्यैव क्षयः कर्मणश्चन्द्रमण्डलस्थस्यैव मोक्षः प्राप्नोति ।
तिष्ठतु तावत्तत्रैव मोक्षः स्यान्न वेति ।
तत आगतस्येह शरीरोपभोगादि न सम्भवति ।
"ततः शेषेणे"त्यादिस्मृतिविरोधश्च स्यात् ।
नन्विष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्माण्यनेकानि सम्भवन्ति ।
न च तेषां चन्द्रमण्डल उपभोगः ।
अतो ऽक्षीणानि तानि ।
यन्निमितं चन्द्रमण्डलमारूढस्तान्येव क्षीणानीत्यविरोधः ।
शेषशब्दश्च सर्वेषां कर्मत्वसामान्यादविरुद्धः ।
अत एव च तत्रैव मोक्षः स्यादिति दोषाभावः ।
विरुद्धानेकयोन्युपभोगफलानां च कर्मणामेकैकस्य जन्तोरारम्भकत्वसम्भवात् ।
न चैकस्मिञ्जन्मनि सर्वकर्मणां क्षय उपपद्यते ।
ब्रह्महत्यादेश्चैकैकस्य कर्मणो ऽनेकजन्मारम्भकत्वस्मरणात् ।
स्थावरादिप्राप्तानां चात्यन्तमूढानामुत्कर्मषहेतोः कर्मण आरम्भकत्वासम्भवात् ।
गर्भभूतानां च स्रंसमानानां कर्मासम्भवे संसारानुपपत्तिः ।
तस्मान्नैकस्मिञ्जन्मनि सर्वेषां कर्मणामुपभोगः ।
यत्तु कैश्चिदुच्यते सर्वकर्मश्रियोपमर्देन प्रायणे कर्मणां जन्मारम्भकत्वम् ।
तत्र कानिचित्कर्माण्यनारम्भकत्वेनैव तिष्ठन्ति कानिचिज्जन्माऽरभन्त इति नोपपद्यते ।
मरणस्य सर्वकर्माभिव्यञ्जकत्वात्स्वगोचराभिव्यञ्जकप्रदीपवदिति ।
तदसत् ।
सर्वस्य सर्वात्मकत्वाभ्युपगमात् ।
न हि सर्वस्य सर्वात्मकत्वे देशकालनिमित्तावरुद्धत्वात्सर्वात्मनोपमर्दः कस्यचित्क्वचिदभिव्यक्तिर्वा सर्वात्मनोपपद्यते ।
तथा कर्मणामपि साश्रयाणां भवेत् ।
यथा च पूर्वानुभूतमनुष्यमयूरमर्कटादिजन्माभिसंस्कृता विरुद्धानेकवासना मर्कटत्वप्रापकेन कर्मणा मर्कटजन्माऽरभमाणेन नोपमृद्यन्ते तथा कर्माण्यप्यन्यजन्मप्राप्तिनिमित्तानि नोपमृद्यन्त इति युक्तम् ।
यदि हि सर्वाः पूर्वजन्मानुभववासना उपमृद्येरन्मर्कटजन्मनिमित्तेन कर्मणा मर्कटजन्मन्यारब्धे मर्कटस्य जातमात्रस्य मातुः शाखायाः शाखान्तरगमने मातुरुदरसंलग्नत्वादिकौशलं न प्राप्नोति ।
इह जन्मन्यनभ्यस्तत्वात् ।
न चातीतानन्तरजन्मनि मर्कटत्वमेवाऽसीत्तस्येति शक्यं वक्तुम् ।
"तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च"इति श्रुतेः ।
तस्माद्वासनावन्नाशेषकर्मोपमर्द इति शेषकर्मसम्भवः ।
यत एवं तस्माच्छेषेणोपभुक्तात्कर्मणः संसार उपपद्यत इति न कश्चिद्विरोधः ।
को ऽसावध्वा यं प्रति निवर्तन्त इत्युच्यते ।
यथेतं यथागतं निवर्तन्ते ।
ननु मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमिति गमनक्रम उक्तो न तथा निवृत्तिः ।
किं तर्ह्यकाशाद्वायुमित्यादि, कथं यथेतमित्युच्यते ।
नैष दोषः ।
आकाशप्राप्तेस्तुल्यत्वात्पृथिवीप्राप्तेश्च न चात्र यथेतमेवेति नियमो ऽनेवंविधमपि निवर्तन्ते पुनर्निवर्तन्ते इति तु नियमः ।
अत उपलक्षणार्थमेतद्यथेतमिति ।
अतो भौतिकमाकाशं तावत्प्रतिपद्यन्ते ।
यास्तेषां चन्द्रमण्डले शरीरारम्भिका आप आसंस्तास्तेषां तत्रोपभोगनिमित्तानां कर्मणां क्षये विलीयन्ते ।
घृतसंस्थानमिवाग्निसंयोगे ।
ता विलीना अन्तरिक्षस्था आकाशभूता इव सूक्ष्मा भवन्ति ता अन्तरिक्षाद्वायुर्भवन्ति ।
वायुप्रतिष्ठा वायुभूता इतश्चामुतश्चोह्यमानास्ताभिः सह क्षीणकर्मा वायुभूतो भवति ।
वायुर्भूत्वा ताभिः सहैव धूमो भवति ।
धूमो भूत्वाभ्रमब्भरणमात्ररूपो भवति ॥5 ॥
स्तर्त् छुप् 5,10.6
अभ्रं भूत्वा मेघो भवति ।
मेघो भूत्वा प्रवर्षति ।
त इह व्रीहियवा ओषधिवनस्पतयस् तिलमासा इति जायन्ते ऽतो वै खलु दुर्निष्प्रपतरम् ।
यो यो ह्य् अन्नम् अत्ति यो रेतः सिञ्चति तद् भूय एव भवति
छुप्भ्_5,10.6 अभ्रं भूत्वा ततः सेचनसमर्थो मेघो भवति मेघो भूत्वोन्नतेषु प्रदेशेष्वथ प्रवर्षति ।
वर्षधारारूपेण शेषकर्मा पततीत्यर्थः ।
त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इत्येवंप्रकारा जायन्ते ।
क्षीणकर्मणामनेकत्वाद्बहुवचननिर्देशः ।
मेघादिषु पूर्वेष्वेकरूपत्वादेकवचननिर्देशः ।
यस्माद्गिरितटदुर्गनदीसमुद्रारण्यमरुदेशादिसन्निवेशसहस्राणि वर्षधाराभिः पतितानाम् ।
अतस्तस्माद्धेतोर्वै खलु दुर्निष्प्रपतरं दुर्निष्क्रमणं दुर्निःसरणम् ।
यतो गिरितटादुदकस्रोतसोह्यमाना नदीः प्राप्नुवन्ति ततः समुद्रं ततो मकारादिभिर्भक्ष्यन्ते ।
ते ऽप्यन्येन ।
तत्रैव च सह मकरेण समुद्रे विलीनाः समुद्राम्भोभिर्जलधरैराकृष्टाः पुनर्वर्षधाराभिर्मरुदेशे शिलातटे वागम्ये पतितास्तिष्ठन्ति कदाचिद्व्यालम-गादिपीता भक्षिताश्चान्यैः ।
ते ऽप्यन्यैरित्येवंप्रकाराः परिवर्तेरन् ।
कदाचिदभक्ष्येषु स्थावरेषु जातास्तत्रैव शुष्येरन् ।
भक्ष्येष्वपि स्थावरेषु जातानां रेतःसिग्देहसम्बन्धो दुर्लभ एव बहुत्वात्स्थावराणामित्यतो दुर्निष्क्रमणत्वम् ।
अथवातो ऽस्माद्व्रीहियवादिभावाद्दुर्निष्प्रपतरं दुर्निर्गमतरम् ।
दुर्निष्प्रपतरमिति तकार एको लुप्तो द्रष्टव्यः ।
व्रीहियवादिभावो दुर्निष्प्रपतस्तस्मादपि दुर्निष्प्रपताद्रेतःसिग्देहसम्बन्धो दुर्निष्प्रपततर इत्यर्थः ।
यस्मादूर्ध्वरेतोभिर्बालैः पुंस्त्वरहितैः स्थविरैर्वा भक्षिता अन्तराले शीर्यन्ते ।
अनेकत्वादन्नादानाम् ।
कदाचित्काकतालीयवृत्त्या रेतःसिग्भिर्भक्ष्यन्ते यदा तदा रेतः सिग्भावं गतानां कर्मणो वृत्तिलाभः ।
कथम् ।
यो यो ह्यन्नमत्त्यनुशयिभिः संश्लिष्टं रेतः सिञ्चत्यृतुकाले योषिति तद्भूय एव तदाकृतिरेव भवति ।
तदवयवाकृतिभूयस्त्वं भूय इत्युच्यते रेतोरूपेण योषितो गर्भशये ऽन्तः प्रविष्टो ऽनुशयी ।
रेतसो रेतःसिगाकृतिभावितत्वात् ।
"सर्वेभ्यो ऽङ्गेभ्यस्तेजः संभूतम्"इति हि श्रुत्यन्तरात् ।
अतो रेतःसिगाकृतिरेव भवतीत्यर्थः ।
तथा हि ।
पुरुषात्पुरुषो जायते गोर्गवाकृतिरेव न जात्यन्तराकृतिस्तस्माद्युक्तं तद्भूय एव भवतीति ।
ये त्वन्ये ऽनुशयिभ्यश्चन्द्रमण्डलमनारुह्येहैव पापकर्मभिर्घोरैव्रीहियवादिभावं प्रतिपद्यन्ते पुनर्मनुष्यादिभावं तेषां नानुशयिनामिव दुर्निष्प्रतरम् ।
कस्मात् ।
कर्मणा हि तैर्व्रीहियवादिदेह उपात्त इति तदुपभोगनिमित्तक्षये व्रीह्यादिस्तम्बदेहविनाशे यथाकर्मार्जितं देहान्तरं नवं नवं जलूकावत्संक्रमन्ते सविज्ञाना एव"सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति"इति श्रुत्यन्तरात् ।
यद्यप्युसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति तथापि स्वप्नवद्देहान्तरप्राप्तिनिमित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञाना एव देहान्तरं गच्छन्ति ।
श्रुतिप्रामाण्यात् ।
तथार्चिरादिना धूमादिना च गमनं स्वप्त इवोद्भूतविज्ञानेन ।
लब्धवृत्तिकर्मनिमित्तत्वाद्गमनस्य ।
न तथानुशयिनां व्रीह्यादिभावेन जातानां सविज्ञानमेव रेतः-सिग्योषिद्देहसम्बन्ध उपपद्यते ।
न हि व्रीह्यादिलवनकण्डनपेषणादौ च सविज्ञानानां स्थितिरस्ति ।
ननु चन्द्रमण्डलादप्यवरोहतां देहान्तरगमनस्य तुल्यत्वाज्जलूकावत्सविज्ञानतैव युक्ता ।
तथा सति घोरो नरकानुभव इष्टापूर्तादिकारिणां चन्द्रमण्डलादारभ्य प्राप्तो यावद्ब्राह्मणादिजन्म ।
तथा च सत्यनर्थायैवेष्टापूर्ताद्युपासनं विहितं स्यात् ।
श्रुतेश्चाप्रामाण्यं प्राप्तं वैदिकानां कर्मणामनर्थानुबन्धित्वात् ।
न, वृक्षारोहणपतनवद्विशेषसम्भवात् ।
देहाद्देहान्तरं प्रतिपित्सोः कर्मणो लब्धवृत्तित्वाकर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं युक्तम् ।
वृक्षाग्रमारोहत इव फलं जिघृक्षोः ।
तथार्चिरादिना गच्छतां सविज्ञानत्वं भवेत् ।
धूमादिना च चन्द्रमण्डलमारुरुक्षताम् ।
न तथा चन्द्रमण्डलादवरुरुक्षतां वृक्षाग्रादिव पततां सचेतनत्वम् ।
यथा च मुद्गराद्यभिहतानां तदभिघातवेदनानिमित्तसंमूर्छितप्रतिबद्धकरणानां स्वदेहेनैव देशाद्देशान्तरं नीयमानानां विज्ञानशून्यता दृष्टा तथा चन्द्रमण्डलान्मानुषादिदेहान्तरं प्रत्यवरुरुक्षतां स्वर्गभोगनिमित्तकर्मक्षयान्मृदिताब्देहानां प्रतिबद्धकरणानाम् ।
अतस्ते ऽपरित्यक्तदेहबीजभूताभिरद्भिर्मूर्छिता इवाऽकाशादिक्रमेणेमामवरुह्य कर्मनिमित्तजातिस्थावरदेहैः संश्लिष्यन्ते प्रतिबद्धकरणतयानुद्भूतविज्ञाना एव ।
तथा लवनकण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककालेषु मूर्छितवदेव ।
देहान्तरारम्भकस्य कर्मणो ऽलब्धवृत्तित्वात् ।
देहबीजभूताप्सम्बन्धापरित्यागेनैव सर्वास्ववस्थासु वर्तन्त इति जलूकावच्चेतनावत्त्वं न विरुध्यते ।
अन्तराले त्वविज्ञानं मूर्छितवदेवेत्यदोषः ।
न च वैदिकानां कर्मणां हिंसायुक्तत्वेनोभयहेतुत्वं शक्यमनुमातुम् ।
हिंसायाः शास्त्रचोदितत्वात् ।
"अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः"इति श्रुतेः शास्त्रचोदिताया हिंसाया नाधर्महेतुत्वमभ्युपगम्यते ।
अभ्युपगते ऽप्यधर्महेतुत्वे मन्त्रैर्विषादिवत्तदपनयोपपत्तेर्न दुःखकार्यारम्भकत्वोपपत्तिर्वैदिकानां कर्मणां मन्त्रेणेव विषभक्षणस्येति ॥6 ॥
स्तर्त् छुप् 5,10.7
तद् य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिम् आपद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा ।
अथ य इह कपूयचरणा अभ्याशो ह यत् ते कपूयां योनिम् आपद्येरञ् श्वयोनिम् वा सूकरयोनिं वा चण्डालयोनिं वा
छुप्भ्_5,10.7 तत्तत्र तेष्वनुशयिनां य इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीयचरणाः रमणीयचरणेनोपलक्षितः शोभनो ऽनुशयः पुण्यं कर्म येषां ते रमणीयचरणा उच्यन्ते ।
क्रौर्यानृतमायावर्जितानां हि शक्य उपलक्षयितुं शुभानुशयसद्भावः ।
तेनानुशयेन पुण्येन कर्मणा चन्द्रमण्डले भुक्तशेषेणाभ्याशो ह क्षिप्रमेव ।
यदिति क्रियाविशेषणं ते रमणीयां क्रौर्यादिवर्जितां योनिमापद्येरन्प्राप्नुयुर्ब्राह्मणयोनिं वा क्षत्त्रिययोनिं वा वैश्ययोनिं वा स्वकर्मानुरूपेण ।
अथ पुनर्ये तद्विपरीताः कपूयचरणोपलक्षितकर्माणो ऽशुभानुशया अभ्याशो ह यत्ते कपूयां यथाकर्म योनिमापद्येरन्कपूयामेव धर्मसम्बन्धवर्जितां जुगुप्सितां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा स्वकर्मानुरूपेणैव ।
ये तु रमणीयचरणा द्विजातयस्ते स्वकर्मस्थाश्चेदिष्टादिकारिणस्ते धूमादिगत्या गच्छन्त्यागच्छन्ति च पुनः पुनर्घटीयन्त्रवत् ।
विद्यां चेत्प्राप्नुयुस्तदार्चिरादिना गच्छन्ति ॥7 ॥
स्तर्त् छुप् 5,10.8
अथैतयोः पथोर् न कतरेणचन तानीमानि क्षुद्राण्य् असकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेति ।
एतत् तृतीयं स्थानम् ।
तेनासौ लोको न संपूर्यते ।
तस्माज् जुगुप्सेत ।
तद् एष श्लोकः
छुप्भ्_5,10.8 यदा तु न विद्यासेविनो नापीष्टादिकर्म सेवन्ते तदाथैतयोः पथोर्यथोक्तयोरर्चिर्धूमादिलक्षणयोर्न कतरेणान्यतरेणचनापि यन्ति तानीमानि भूतानि क्षूद्राणि दंशमसककीटादीन्यसकृदावर्तीनि भवन्ति ।
अत उभयमार्गपरिभ्रष्टा ह्यसकृज्जायन्ते म्रियन्ते चेत्यर्थः ।
तेषां जननमरणसन्ततेरनुकरणमिदमुच्यते ।
जायस्व म्रियस्वेतीश्वरनिमित्तचेष्टोच्यते ।
जननमरणलक्षणेनैव कालयापना भवति ।
न तु क्रियासु भोगेषु वा कालो ऽस्तीत्यर्थः ।
एतत्क्षुद्रजन्तुलक्षणं तृतीयं पूर्वोक्तौ पन्थानावपेक्ष्य स्थानं संसरताम् ।
येनैवं दक्षिणमार्गगा अपि पुनरागच्छन्त्यनधिकृतानां ज्ञानकर्मणोरगमनमेव दक्षिणेन पथेति ।
तेनासौ लोको न संपूर्यते ।
पञ्चमस्तु प्रश्नः पञ्चाग्निविद्यया व्याख्यातः ।
प्रथमो दक्षिणोत्तरमार्गाभ्यामपाकृतो दक्षिणोत्तरयोः पथोर्व्यावर्तनापि मृतानामग्नौ प्रक्षेपः समानस्ततो व्यावर्तनान्ये ऽर्चिरादिना यन्त्यन्ये धूमादिना ।
पुनरुत्तरदक्षिणायने षण्मासान्प्रप्नुवन्तः संयुज्य पुनर्व्यावर्तन्ते ।
अन्ये संवत्सरमन्ये मासेभ्यः पितृलोकमिति व्याख्याता ।
पुनरावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डलादाकाशादिक्रमेणोक्ता ।
अमुष्य लोकस्यापूरणं स्वशब्देनैवोक्तम्-तेनासौ लोको न संपूर्यत इति ।
यस्मादेवं कष्टा संसारगतिस्तस्माज्जुगुप्सेत ।
यस्माच्च जन्ममरणजनितवेदनानुभवकृतक्षणाः क्षुद्रजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशिताः सागर इवागाधे ऽप्लवे निराशाश्चोत्तरणं प्रति तस्माच्चैवंविधां संसारगतिं जुगुप्सेत बीभत्सेत घृणी भवेन्मा भूदेवंविधे संसारमहोदधौ घोरे पात इति ।
तदेतस्मिन्नर्थ एष श्लोकः पञ्चाग्निविद्यास्तुततये ॥8 ॥
स्तर्त् छुप् 5,10.9
स्तेनो हिरण्यस्य सुरां पिबंश् च ।
गुरोस् तल्पम् आवसन् ब्रह्महा च ।
एते पतन्ति चत्वारः पञ्चमश् चाचरंस् तैर् इति
छुप्भ्_5,10.9 स्तेनो हिरण्यस्य ब्राह्मणसुवर्णस्य हर्ता ।
सुरां पिबन्ब्राह्मणः सन् ।
गुरोश्च तल्पं दारानावसन् ।
ब्रह्महा ब्राह्मणस्य हन्ता चेत्येते पतन्ति चत्वारः ।
पञ्चमश्च तैः सहाऽचरन्निति ॥9 ॥
स्तर्त् छुप् 5,10.10
अथ ह य एतान् एवं पञ्चाग्नीन् वेद न सह तैर् अप्य् आचरन् पाप्मना लिप्यते ।
शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0