भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.8

5.8.1

छुप्भ्_5,7.2 समानमन्यत् ।
अन्नं जुह्वति व्रीह्यादिसंस्कृतम् ।
तस्या आहुते रेतः सम्भवति ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य सप्तमः खण्डः
=======================================================================
स्तर्त् छुप् 5,8.1
योषा वाव गौतमाग्निः ।
तस्या उपस्थ एव समित् ।
यद् उपमन्त्रयते स धूमः ।
योनिर् अर्चिः ।
यद् अन्तः करोति ते ऽङ्गाराः ।
अभिनन्दा विस्फुलिङ्गाः

5.8.2

छुप्भ्_5,8.1 योषा वाव गौतमाग्निः ।
तस्या उपस्थ एव समित् ।
तेन हि सा पुत्राद्युत्पादनाय समिध्यते ।
यदुपमन्त्रयते स धूमः ।
स्रीसम्भवादुपमन्त्रणस्य ।
योनिरर्चिर्लोहितत्वात् ।
यदन्तः करोति ते ऽङ्गारा अग्निसम्बन्धात् ।
अभिनन्दाः सुखलवा विस्फुलिङ्गाः क्षुद्रत्वात् ॥1 ॥
स्तर्त् छुप् 5,8.2
तस्मिन्न् एतस्मिन्न् अग्नौ देवा रेतो जुह्वति ।
तस्या आहुतेर् गर्भः संभवति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc