छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.5
छुप्भ्_5,4.2 तस्मिन्नेतस्मिन्यथोक्तलक्षणे ऽग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदैवतम् ।
श्रद्धामग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा आपः श्रद्धाभाविताः श्रद्धा उच्यन्ते ।
"पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति"इत्यपां होम्यतया प्रश्ने श्रुतत्वात् ।
"श्रद्धा वा आपः श्रद्धामेवाऽरभ्य प्रणीय प्रचरति"इति च विज्ञायते ।
तां श्रद्धामब्रूपां जुह्वाति ।
तस्या आहुतेः सोमो राजापां श्रद्धाशब्दवाच्यानां द्युलोकाग्नौ हुतानां परिणामः सोमो राजा सम्भवति ।
यथर्ग्वेदादिपुष्परसा ऋगादिमधुकरोपनीतास्त आदित्ये यश आदिकार्यं रोहितादिरूपलक्षणमारभन्त इत्युक्तं तथेमा अग्निहोत्राहुतिसमवायिन्यः सूक्ष्माः श्रद्धाशब्दवाच्या आपो द्युलोकमनुप्रविश्य चान्द्रं कार्यमारभन्ते फलरूपमग्निहोत्राहुत्योः ।
यजमानाश्च तत्कर्तार आहुतिमया आहुतिभावनाभाविता आहुतिरूपेण कर्मणाऽकृष्टाः श्रद्धाप्समवायुनो द्युलोकमनुप्रविश्य भवन्ति ।
तदर्थं हि तैरग्निहोत्रं हुतम् ।
अत्र त्वाहुतिपरिणाम एव पञ्चाग्निसम्बन्धक्रमेण प्राधान्येन विवक्षित उपासनार्थं न यजमानानां गतिः ।
तां त्वविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति विदुषां चोत्तरां विद्याकृताम् ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य चतुर्थः खण्डः
=======================================================================
स्तर्त् छुप् 5,5.1
पर्जन्यो वाव गौतमाग्निः ।
तस्य वायुर् एव समित् ।
अभ्रं धूमः ।
विद्युद् अर्चिः ।
अशनिर् अङ्गाराः ।
ह्रादुनयो विस्फुलिङ्गाः
छुप्भ्_5,5.1 द्वितीयहोमपर्यायार्थमाह-पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः ।
तस्य वायुरेव समित् ।
वायुना हि पर्जन्यो ऽग्निः समिध्यते ।
पुरोवातादिप्राबल्ये वृष्टिदर्शनात् ।
अभ्रं धूमो धूमकार्यत्वाद्धूमवच्च लक्ष्यमाणत्वात् ।
विद्युदर्चिः ।
प्रकाशसामान्यात् ।
अशनिरङ्गाराः ।
काठिन्याद्विद्युत्सम्बन्धाद्वा ।
ह्रादुनयो विस्फुलिङ्गाः ।
ह्रादुनयो गर्जितशब्दाः ।
मेघानां विप्रकीर्णत्वसमान्यात् ॥1 ॥
स्तर्त् छुप् 5,5.2
तस्मिन्न् एतस्मिन्न् अग्नौ देवाः सोमं राजानं जुह्वति ।
तस्या आहुतेर् वर्षं संभवति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0