छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.6
छुप्भ्_5,5.2 तस्मिन्नेतस्मिन्नग्नौ देवाः पूर्ववत्सोमं राजानं जुह्वति ।
तस्या आहुतेर्वर्षं सम्भवति ।
श्रद्धाख्या आपः सोमाकारणपरिणता द्वितीये पर्याये पर्जन्याग्निं प्राप्य वृष्टित्वेन परिणमन्ते ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य पञ्चमः खण्डः
=======================================================================
स्तर्त् छुप् 5,6.1
पृथिवी वाव गौतमाग्निः ।
तस्याः सम्वत्सर एव समित् ।
आकाशो धूमः ।
रात्रिर् अर्चिः ।
दिशो ऽङ्गाराः ।
अवान्तरदिशो विस्फुलिङ्गाः
छुप्भ्_5,6.1 पृथिवी वाव गौतमाग्निरित्यादि पूर्ववत् ।
तस्याः पृथिव्याख्यस्याग्नेः संवत्सर एव समित् ।
संवत्सरेण हि कालेन समिद्धा पृथिवी व्रीह्यादिनिष्पत्तये भवति ।
आकाशो धूमः, पृथिव्या इवोत्थित आकाशो दृश्यते ।
यथाग्नेर्धूमः ।
रात्रिरर्चिः पृथिव्या ह्यप्रकाशात्मिकाया अनुरूपा रात्रिः ।
तमोरूपत्वात् ।
अग्नेरिवानुरूपमर्चिः ।
दिशो ऽङ्गारा उपशान्तत्वसामान्यात् ।
एवान्तरदिशो विस्फुलिङ्गाः क्षुद्रत्वसामान्यात् ॥1 ॥
स्तर्त् छुप् 5,6.2
तस्मिन्न् एतस्मिन्न् अग्नौ देवा वर्षं जुह्वति ।
तस्या आहुतेर् अन्नं संभवति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0